श्रीशिवगुरुस्तोत्रम्
(अनुष्टुप्छन्दः)
अहमस्मि सदा भामि कदाचिन्नाहमप्रियः ।
यदेवं प्रस्फुटं स्वेन तं शिवं प्रणतोऽस्म्यहम् ॥ १॥
अमदर्थं न हि प्रेयो मदर्थं सम देव हि ।
परप्रेमास्पदं यद्धि तं शिवं प्रणतोऽस्म्यहम् ॥ २॥
परप्रेमास्पदत्वाद्वा योऽविनाशः स्वभावतः ।
आनन्दं ब्रह्म चात्मेति तं शिवं प्रणतोऽस्म्यहम् ॥ ३॥
जाग्रत्स्वप्नसुषुप्तीनां साक्ष्यतो यदतद्दशम् ।
अवस्थात्रयनिर्मुक्तं तं शिवं प्रणतोऽस्म्यहम् ॥ ४॥
यस्मात्परतरं नास्ति नेति नेति श्रुतिर्जगौ ।
भासा यस्य जगद्भाति तं शिवं प्रणतोऽस्म्यहम् ॥ ५॥
आभारूपस्य विश्वस्य भानं भासां निधेर्विना ।
नैव कल्पेत भारूपं तं शिवं प्रणतोऽस्म्यहम् ॥ ६॥
चिद्विवर्तं श्रुतिर्ब्रूते कारणं जगतोऽस्य यत् ।
चिद्रूपं ब्रह्म चात्रेति तं शिवं प्रणतोऽस्म्यहम् ॥ ७॥
यस्मिन्नाभाति सर्वं यज्जगद्गन्धर्वपत्तनम् ।
चिदाकाशं तमात्मानं श्रीशिवं प्रणतोऽस्म्यहम् ॥ ८॥
यतश्चेमानि भूतानि जायन्ते परमात्मनः ।
स्थित्वा यस्मिन् लयं यान्ति तं शिवं प्रणतोऽस्म्यहम् ॥ ९॥
जगतः स्थितिनाशाभ्यां यच्च किञ्चिन्न हीयते ।
सद्रूपं ब्रह्म चात्मेति तं शिवं प्रणतोऽस्म्यहम् ॥ १०॥
मायामेघो जगन्नीरं वर्षत्वेष यथा तथा ।
सच्चिदंशस्वरूपं तं श्रीशिवं प्रणतोऽस्म्यहम् ॥ ११॥
यत्कृपालेशतः सर्वा दैवी सम्पत्प्रजायते ।
ब्रह्मभूमादिनामानं तं शिवं प्रणतोऽस्म्यहम् ॥ १२॥
नमस्त्वैक्यं श्रुतिर्वक्ति यतः स्वात्मप्रसिद्धये ।
सोऽहं बुद्ध्या तमात्मानं श्रीशिवं प्रणतोऽस्म्यहम् ॥ १३॥
मनसा वचसा ग्राह्यं चापरोक्षात्स्वमात्रकम् ।
अहंस्फूर्तेः परं भान्तं तं शिवं प्रणतोऽस्म्यहम् ॥ १४॥
यत्र नासन्नसद्रूपे नाहङ्कारो न संसृतिः ।
केवलं चित्सुखं यच्च तं शिवं प्रणतोऽस्म्यहम् ॥ १५॥
सालम्बं हि परित्यज्य निरालम्बं समाश्रयेत् ।
आदृत्येमं श्रुतेः पक्षं तं शिवं प्रणतोऽस्म्यहम् ॥ १६॥
परोक्षतापरिच्छेदशाबल्याऽपोह्यनिर्मलम् ।
तदसीति गिरा लक्ष्यं तं शिवं प्रणतोऽस्म्यहम् ॥ १७॥
(वसन्ततिलकवृत्तम्)
चिद्वल्कलाम्बरधरं परमेकमाद्यं
आनन्दसान्द्रममलं निजबोधमात्रम् ।
ब्रह्मैव शाश्वतमिहास्ति विबोधयन्तं
श्री सद्गुरुं परशिवं सततं नमामि ॥ १८॥
(शार्दूलविक्रीडितवृत्तम्)
रज्जौ सर्प इवास्ति यस्य निलये जीवेशभानं च यत्
सम्पूर्णं चिदिहास्ति नैवमितरद्धानं च नाहं यतः ।
आनन्दे परमे मठे सुविमले स्वस्थं परं यन्महः
तस्मै श्री गुरुमूर्तये नम इति स्वैक्यं सदैवास्तु मे ॥ १९॥
(वसन्ततिलकवृत्तम्)
अब्धेर्यथा न खलु भाति विभिन्नमेतत्
डिण्डीरबुद्बुदतरङ्गजलं तथैव ।
जीवेश्वरौ जगदिदं न विभिन्नमस्मात्
तेनैव पूर्णममलें निजबोधमात्रम् ॥ २०॥
निर्भिन्नभिन्नमपि यत्र न वस्तु किञ्चित्
यस्मिन्न विश्वमखिलं न मनो वचांसि ।
मौनं परं भवति यच्च सुखैकमाद्यं
तं श्रीशिवं गुरुवरं सततं नमामि ॥ २१॥
स्तोत्रं त्विदं पठति नित्यमनन्यभक्त्या
सेवां सदा परिचरन्गुरुसन्निधौ यः ।
तस्मै ददाति विमलं परमात्मरूपं
स्वीयं सदा सुखघनं शिवसद्गुरुर्नः ॥ २२॥
भक्ताः पठन्तु निखिला विमलं यशश्च
श्रुत्योदितं विगतमोहभवोहि यस्मात् ।
ब्रह्मैव शाश्वतमहं न च वस्तुजातं
मत्वा न शोचति गुरुं शरणं प्रपन्नः ॥ २३॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीशिवगुरुस्तोत्रं सम्पूर्णम् ।
संस्कृत वाङ्मये प्राथमिकोऽयं स्तवः ।
रचना स्थलं - श्रीक्षेत्र सज्जनगिरि चैत्र १९३६
In some prints the following are added
मृत्योः स मृत्युमाप्नोनि यस्तु नानेव पश्यति ।
श्रुतिब्रूते यतस्तस्मात् तं शिवं प्रणतोऽस्म्यहम् ॥ १३॥
नमस्त्वेक्यं श्रुतिवङ्क्ति यतःस्वात्मप्रसिद्धये ।
सोहं बुध्चा तमात्मानं तं शिवं प्रणतोऽस्म्यहम् ॥ १४॥
Proofread by Manish Gavkar