शतानन्दगुरुसंवादे शिवधर्मानुवर्णनम्
शतानन्दः -
धर्माणां परमो धर्मः को वा धर्मस्त्वया मतः ।
धर्मोत्तमोत्तमत्वेन ज्ञातं धर्म वदाऽधुना ॥
देवोत्तमोतमेन को वा देवस्त्वया मतः ।
श्रुतिभिः कस्य वा धर्मः कीर्तितः कः परः प्रभुः ॥
गुरुः -
धर्मोत्तमोत्तमत्वेन शिवधर्मः प्रकीर्तितः ।
शिवधर्मात् परो धर्मो नास्ति न श्रूयते ध्रुवम् ॥ १॥
तेनैव शिवधर्मेण सर्वान् कामानवाप्नुयात् ।
यं यं कामयते कामं तं तं कामारिधर्मतः ॥ २॥
शिवपूजा परो धर्मः तथैव शिवपूजया ।
शिवपादाब्जभृङ्गत्वं प्राप्तोत्येव न संशयः ॥ ३॥
तत्फलं नोग्रतपसा न यागार्बुदकोटिभिः ।
परं तु श्रीमहादेवकृपया परया खलु ॥ ४॥
सम्प्राप्य भूरिपुण्येन भक्तिमव्यभिचारिणीम् ।
क्षणेन शङ्करं स्मृत्वा मुक्तो भवति पातकैः ॥ ५॥
यत्पूजया महादेवपादाम्बुजरजो भवेत् ।
सा पूजा लिङ्गपूजेति विज्ञेया श्रुतिशेखरैः ॥ ६॥
महापातकतूलाद्रिः शिवनामाग्निलेशतः ।
दग्धः क्षणेन भवतीत्यवधारय सादरम् ॥ ७॥
यस्य शङ्करपूजायां विश्वासोऽतिदृढः सदा ।
तेन तीर्णः स संसारो नानापातकसागरः ॥ ८॥
शिवपूजाप्रभावस्तु श्रुतिषु प्रथितः स तु ।
एकया जिह्वया वक्तुं शक्य एव न वस्तुतः ॥ ९॥
सहस्रजिह्वः शेषोऽयमनेनापि न सर्वथा ।
शिवधर्मप्रभावो यः स तु वक्तुं न शक्यते ॥ १०॥
॥ इति शिवरहस्यान्तर्गते शतानन्दगुरुसंवादे शिवधर्मानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४६। ८९-१०० ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 46. 89-100 ..
Proofread by Ruma Dewan