नन्दिकेशप्रोक्तं शिवार्चनरहस्यकथनम्
ये ये नराः परमशाम्भवपादपद्मसेवारताः कलियुगेऽपि विशुद्धचित्ताः ।
ते तावदादरवरादिभिरन्वहं वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १॥
श्रीनीलकण्ठ मदनान्तक चन्द्रमौले श्रीभाललोचन यमान्तक विश्वमूर्ते ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २॥
उत्पत्तिपालनविनाशनहेतुभूत भूतेश भूतनिवहार्चितपादपद्म ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ३॥
कल्याण पुण्यगुणसागर मेरुधीर रत्नस्फुरद्वरशरासनकोटिहस्त ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ४॥
गौरीकुचोरुगिरिशेखरचारुहार काश्मीरसाररसरञ्जितपादपद्म ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ५॥
आपादुकप्रणतदेवकिरीटकोटिरत्नप्रभापरिवृताङ्घ्रिसरोजराज ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ६॥
संसारसागर निवारक कालकाल लीलाविशेषपरिकल्पितकल्पजात ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ७॥
मन्नाथ सुन्दरतरातिमनोहराद्रिकन्यासनाथ विधृतोडुगणाधिनाथ ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ८॥
रत्नाङ्गदाङ्गमणिकङ्कणकिङ्किणीक गौरीमनोहर सुनूपुरभासुराङ्घ्रे ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ९॥
मन्दारकुन्दमकरन्दरसाभिषिक्तपादारविन्द परमादरहारवीर ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १०॥
कर्पूरगौर हर सुन्दरतारतार तारामनोहरविहार विहारहार । (शूरमनोहरविहार)
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ११॥
मामीश मामकधिया परिपालयाशु क्लेशापहारचतुर प्रवरप्रवीर ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १२॥
सर्वामरेश्वरमखर्वसुरारिगर्वनिर्वापणप्रवण कारुणिकप्रवीण । (सर्वामरेश्वरवरातिसुरारिगर्व)
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १३॥
श्रीमन्महेश करुणातरुणाम्बुराशे गौरीमुखाम्बुजसहस्रकराऽऽदरेण ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १४॥
मृत्युञ्जयाव्यय पिनाककरामरारिवीरान्धकासुरनिवारणकारणाशु ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १५॥
श्रीकालकूटविषदोषविदूषकाशापाशप्रणाशनविधानविनोदमोद ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १६॥
सौवर्णवर्ण सहिरण्य हिरण्यबाहो शम्भो हिरण्यद हिरण्यपते स्मरारे ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १७॥
अन्यस्तवास्ति शिव शङ्कर पालनीयो मत्तोऽधिकः कलुषनाशकरातिधीर ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १८॥
घोरापराघनिधिशोषक कामशत्रो चित्रत्रिनेत्र करुणारसपात्रभूत ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १९॥
भस्मावगुण्ठनविनष्टमहाघकोटि रुद्राक्षकर्णपरवर्णमवर्ण्यवर्ण ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २०॥
श्रीबिल्वमूलशिवलिङ्गसमर्चनेन निर्धूतपातककुलाचलमीशशीलम् ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २१॥
दाराविहारपरिहाररसादरं मां धीरं दुरोदरविचारविवर्जितं च ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २२॥
शम्भो त्वदङ्घ्रिकमलं कलयामि काले कालेऽनुवेलमतिवेलमतोऽनुवेलम् ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २३॥
नित्यं महेशचरणस्मरणप्रवीणं प्रक्षीणपापकरणं करुणार्णवेश ।
पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २४॥
यः कश्चिदन्तकरिपुस्मरणप्रवीणः प्राणप्रयाणसमयेऽपि स एव वन्द्यः ।
पूज्यः स एव सकलाघविनाशहेतुः तत्पादपद्मभजनं निधिरेव कोऽपि ॥ २५॥
श्रीकालकाल करुणाकर दीनबन्धो भक्तप्रभूतकरुणारससारसिन्धो ।
मां दीनमप्यनुदिनं परिपालयेति ये संवदन्ति सकृदेव हि ते नमस्याः ॥ २६॥
प्रक्षीणपातककुलं भसितत्रिपुण्ड्र रुद्राक्षभूषणमदूषणमन्धकारे ।
पाहीति ये प्रतिदिनं प्रवदन्त्यमन्दं तं वन्दनीयमसकृत् प्रवदामि देवाः ॥ २७॥
स्वामिन्नशाम्भवकथार्णवबाडबं मां शैवापकारतरुसारकुठारभूतम् ।
लिङ्गार्चनव्रतविदूषकशैलवज्रं पाहीति यो वदति तं प्रणमन्ति देवाः ॥ २८॥
पापाम्बुराशिपरिहारकरप्रवीरं हारं हरार्चनपरं गतदुर्विकारम् ।
धीराः परं सततमादरतो नमन्ति सन्तः कृतान्तपरितापनिवारणाय ॥ २९॥
ये शूलपाणिचरणस्मरणप्रवीणाः ते तावदन्तकभयप्रलयप्रवृत्ताः ।
पुण्यार्णवाः परमकारुणिकोत्तमाश्च तत्पादपद्मभजने क्व भयं भवाब्धेः ॥ ३०॥
ये काशिकापुरपते त्रिपुरान्तकारे विश्वेश्वर त्रिदशवन्द्यपदारविन्द ।
मां रक्ष रक्ष विषमेक्षण वीक्षणेन प्रक्षीणपापमिति वेदविदो वदन्ति ॥ ३१॥
सानन्दमिन्दुशकलाभरण प्रणामश्रेणीं गृहाण करुणोरुतरङ्गिणी ते ।
मय्यन्वहं प्रसरतु प्रणतार्तिनाशं सम्पादयत्विति वदन्ति त एव मान्याः ॥ ३२॥
आनन्दकन्द मदनद्रुमवीतिहोत्र पाहि त्रिनेत्र सुचरित्र पवित्रगात्र ।
श्रीविश्वनाथ करुणारसपात्रमात्रमित्युत्तमोत्तमतमाः प्रवदन्ति शैवाः ॥ ३३॥
दुष्टाघकोटिघटितानपि कालकूटकूटोपमानपि महेश्वर पाहि दीनान् ।
दीनार्तिभञ्जनमहाव्रतदीक्षितास्मान् पाहीति वेदवचनानि वदन्ति मान्याः ॥ ३४॥
लिङ्गार्चनव्रतपरात् न परोऽस्ति कोऽपि लोके प्रभूतपरमाद्भुतपुण्यराशिः ।
लिङ्गार्चनव्रतपरो भवतीति वेदाः तावद्वदन्ति बहवो बहुधा बुधानाम् ॥ ३५॥
॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवार्चनरहस्यकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४२। २१-५५॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 42. 21-55..
Proofread by Ruma Dewan