नन्दिकेशप्रोक्ता शङ्करानुग्रहमहिमा
सर्वाराध्यतमः शर्वः सर्वदेति प्रमा परम् ।
भक्तिरेषा प्रवृद्धाऽस्ति शङ्करानुग्रहात् खलु ॥ १॥
शङ्करानुग्रहान्नास्ति लोके किमपि दुर्लभम् ।
अतः सा दुर्लभा भक्तिरस्माकमभिवर्धते ॥ २॥
शिवभक्तिसुधाधारा भुक्तिधारापरम्परा ।
सा तावद्भूरिपुण्यानां हाराणामेव जायते ॥ ३॥
हारोपहारपुष्टाङ्गाः शाङ्गाः शङ्गानुषङ्गिणः ।
शङ्गलिङ्गार्चनरताः शङ्गभक्तिपरायणाः ॥ ४॥
शिवभक्तिसुधापानपीनानां चरणाम्बुजम् ।
स्मृत्वापि मुक्तः पापेभ्यो भविष्यत्येव मानवः ॥ ५॥
सहसा न भवत्येव शिवभक्तिः सुधामयी ।
सुधा मर्त्यैः कथं प्राप्या विना यत्नेन केन वा ॥ ६॥
न यत्नैर्वापि तपसा शिवभक्तिः परन्तु सा ।
शिवानुग्रहमात्रेण भविष्यति न संशयः ॥ ७॥
॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्ता शङ्करानुग्रहमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४३। ४६-५२ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 43. 46-52 ..
Proofread by Ruma Dewan