सदाशिवस्तोत्रम्
ब्राह्मणी उवाच -
ततः किं तैः कृतं देवैर्ब्रह्मविष्णुशिवादिभिः ।
तन्मे कथय तत्त्वज्ञः श्रौतुं कौतूहलं मम ॥ १॥
ब्राह्मण उवाच -
शृणु तुभ्यं महाभागे कथयिष्यामि तत्त्वतः ।
महाविष्णुवचः श्रुत्वा यच्चक्रुर्जगदीश्वराः ॥ २॥
ब्रह्माद्या ऊचुः -
भगवन् सर्वभूतात्मन् कोटिब्रह्माण्डविग्रह ।
त्वयोद्दिष्टो ह्ययं पन्था दुर्दर्शो दुर्गमो हि नः ॥ ३॥
पथिप्रज्ञो यदा कश्चिदग्रगामी भवेद्विभो ।
तदा वा शक्यते गन्तुं श्रीमद्वृन्दावनं वनम् ॥ ४॥
चक्षर्नस्तादृशं भूयाद्यथा द्रक्ष्याम तां पुरीम् ।
इत्थं श्रुत्वा वचस्तेषां जहास पुरुषोत्तमः ॥ ५॥
हसतस्तस्य वदनोदको नीलघनच्छविः ।
अष्टबाहुः पीतवासा नीलेन्दीवरलोचनः ॥ ६॥
वनमालाधरः कण्ठे कोटिकन्दर्पमोहनः ।
विनिर्गत्य स तानाह ब्रह्मविष्णुमहेश्वरान् ॥ ७॥
गच्छध्वं भो मया सार्द्धं दर्शयिष्यामि तां पुरीम् ।
महाविष्णोः प्रसादेन यूयं वै दिव्यचक्षुषः ॥ ८॥
भूत्वा द्रक्ष्यथ तद्राज्यं वृन्दावनवनं महत् ।
अहं पुरःसरो भूत्वा यास्यामि तु सहायताम् ॥ ९॥
ततः सर्वे तेन साकं गच्छन्तस्त्रिदशेश्वराः ।
दुर्गालोकं च ददृशुः सर्वभूतमनोहरम् ॥ १०॥
तद्गत्वा भुवनं देव्याः कल्पवृक्षोपशोभितम् ।
पारिजातवनामोदमधुमत्तमधुव्रतम् ॥ ११॥
नानामृगगणाकीर्णं सिंहशार्दूलगर्जितम् ।
ब्रह्मविष्णुमहेशाद्यैरपरैः परिसेवितम् ॥ १२॥
तन्मध्ये रत्नरचितं दिव्यं सिंहासनोत्तमम् ।
तस्य मध्ये महाचक्रं कोटिसूर्यसमप्रभम् ॥ १३॥
साष्टवक्त्रं सत्रिवृत्तं षोडशाष्टदलान्वितम् ।
शक्रकोणयुतं श्रीमद् द्विर्दशारसमन्वितम् ॥ १४॥
साष्टकोणं सत्रिकोणं बिन्दुयुक्तं मनोहरम् ।
स(श)र्वप्रभृतिसंयुक्तं भैरवीभैरवावृतम् ॥ १५॥
तन्मध्ये च महादेवीं कोटिसूर्य समप्रभाम् ।
चतुर्भुजां त्रिनेत्रां च पञ्चबाणधनुर्धराम् ॥ १६॥
पाशाङ्कुशधरां देवीं रक्ताभरणभूषिताम् ।
रक्तवस्त्रपरीधानां पीनोन्नतपयोधराम् ॥ १७॥
नवयौवनसम्पन्नां परमानन्दरूपिणीम् ।
प्रणेमु दण्डवत् तां च श्रीमत्त्रिपुरसुन्दरीम् ॥ १८॥
ततस्तान् प्रणतान् प्राह देवी त्रिभुवनेश्वरी ।
तत्सिध्यतु देवेन्द्रा यदर्थं गन्तुमिच्छथ ॥ १९॥
एवं देव्याशिषं देवा गृहीत्वा गन्तुमुद्यताः ।
ततस्तां त्रिजगद्धात्रीं नमस्कृत्य पुरःसरः ॥ २०॥
प्रतिमूर्तिर्महाविष्णोराह तान् मेघनिस्वनः ।
आगच्छध्वं महाभागा नात्र कार्या विचारणा ॥ २१॥
ततस्तद्वचनं श्रुत्वा ब्रह्माद्यास्त्रिदशेश्वराः ।
निर्गत्य देव्या पुरतः शिवलोकपथं गताः ॥ २२॥
तत्र ज्योतिर्मयं लिङ्गं ददर्श परमाद्भुतम् ।
सर्वव्यापि जगद्रूपं सच्चिदानन्दविग्रहम् ॥ २३॥
महायोनियोगपीठमारूढं परमं पदम् ।
नानाकार निर्विकारं निराकारं निरञ्जनम् ॥ २४॥
निश्चलं निर्मलं शान्तं नितान्तं तद् गुणागुणम् ।
ओङ्कारात्मकमाकारमशेषगुणरूपकम् ॥ २५॥
दृष्ट्वा तदद्भुतं ते च महाविष्णुतनुश्च सः ।
प्रणिपत्य महादेवं तुष्टुवुस्वं सदाशिवम् ॥ २६॥
ब्रह्माद्या ऊचुः -
ॐ जय देव निरञ्जन निर्विकार जय तेजोमयतनु दुर्निवार ।
जय लिङ्गरूप जय योनिरूप जय जय तिरस्कृतसर्वरूप ॥ २७॥
जय शङ्कर सर्वदशाग्रमते जय किङ्करवत्सल सिद्धिगते ।
जय कान्तिविडम्बितचन्द्ररुचे रुचिरां वरप्रद सर्वशुभे ॥ २८॥
जय वेदागोचरचारुचरित्र भवसागरतारणवाहित्र ।
ज्ञानानन्दपरमपदकारण नित्यानन्ददुःखनिवारज ॥ २९॥
जय शुद्धसत्त्वमयनिर्मलनिश्चल निर्गुणनित्यनिरामयनिष्कल ।
जय ब्रह्मविष्णुशिवजुष्टपाद जय नामनिराकृतदेववाद ॥ ३०॥
जय जय मङ्गलदायकनायक निजभक्तोत्कटतापविनाशक ।
जय निर्जय जयद जगन्मय सदयहृदय दक्ष मखक्षय ॥ ३१॥
लोकातीतसकलरससागर गङ्गाधर जय रजनीनागर ।
सर्वभूतहितकारणतारण जय परमेश निखिलजनपावन ॥ ३२॥
जय बहुरूप निरूप निरञ्जन शूलहस्त पशुपाशविनाशन ।
जय जय परम परापरवन्दित वामदेव सकलजनरञ्जित ॥ ३३॥
उत्पत्तिस्थितिविनाशहेतो परमेशान परमवृषकेतो ।
जय निष्काङ्क्ष निरामय निर्भय जय दुर्जय जय विजय जगत्त्रय ॥ ३४॥
जय चन्द्रचूड विमद विमत्सर गौरीवदनसरोरुहमधुकर ।
सर्वदेवहृदयान्तनिवास भूतिविभूषणकृत्तिवास ।
जय राधेश्वर सकलाराधित जय विश्वेश्वर विश्वविबोधित ॥ ३५॥
हे विश्वनाथ सकलेश्वर लिङ्गरूप
सर्वान्तरस्थ परमेश परावरेश ।
भूताधिनाथ भुवनानि बिभर्षि पासि
त्वं कृपामयजनान् परिपाह्यनाथान् ॥ ३६॥
हे चन्द्रचूड पुरुषेश्वर शङ्कराद्य
गौरीपते सकलनिष्कलशूलपाणे ।
वेदाद्यगोचरसुगोचरभक्तिभाजां
शन्नः कुरु श्रवणमङ्गलमङ्गलेश ॥ ३७॥
सर्वज्ञ सर्वभूतेश सर्वभूतेश्वरेश्वरः ।
सर्वभूतात्मन् सर्वसिद्धीश विश्वेश्वर नमोऽस्तु ते ॥ ३८॥
त्वं ब्रह्म परमं सूक्ष्म कृष्णस्त्वं पुरुषः परः ।
प्रकृतिस्त्वं परा सूक्ष्मा प्रधानपुरुषेश्वराः ॥ ३९॥
महाविष्णुस्तु विष्णुस्त्वं ब्रह्मेशानपुरन्दराः ।
देवाः सर्वे जगन्नाथ त्वमेव सर्वदृक् शिवः ॥ ४०॥
त्वं भूमिस्त्वं जलं वह्निर्वायुराकाशमेव च ।
त्वमेव सर्वभूतानि स्थावराणि चराणि च ॥ ४१॥
भूतं भवद् भविष्यच्च त्वमेव परमेश्वरः ।
प्रसीद देवदेवेश परात्पर नमोऽस्तु ते ॥ ४२॥
श्रीनारद उवाच -
य इमं पठते स्त्रोत्रं ब्रह्मादिमुखनिर्गतम् ।
आयुर्विद्या यशो लक्ष्मीर्मुक्तिस्तस्य करस्थिता ॥ ४३॥
॥ इति श्रीकृष्णजा(या)मले महाशिवदर्शनं सदाशिवस्तोत्रं नाम पञ्चमोऽध्यायः ॥ ५॥
परिशिष्ट १
Proofread by Tanvir Chowdhury