रुद्रकवचम् २
भैरव उवाच -
वक्ष्यामि देवि कवचं मङ्गलं प्राणरक्षकम् ।
अहोरात्रं महादेवरक्षार्थं देवमण्डितम् ॥ १॥
अस्य श्रीमहादेवकवचस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः,
सौः बीजं, रुद्राः देवता, सर्वार्थसाधने विनियोगः ।
रुद्रो मामग्रतः पातु पृष्ठतः पातु शङ्करः ।
कपर्दी दक्षिणे पातु वामपार्श्वे तथा हरः ॥ २॥
शिवः शिरसि मां पातु ललाटे नीललोहितः ।
नेत्रं मे त्र्यम्बकः पातु बाहुयुग्मं महेश्वरः ॥ ३॥
हृदये च महादेव ईश्वरश्च तथोदरे ।
नाभौ कुक्षौ कटिस्थाने पादौ पातु महेश्वरः ॥ ४॥
सर्वं रक्षतु भूतेशः सर्वगात्राणि मे हरः ।
पाशं शूलञ्च दिव्यास्त्रं खड्गं वज्रं तथैव च ॥ ५॥
नमस्करोमि भूतेश रक्ष मां जगदीश्वर ।
पापेभ्यो नरकेभ्यश्च त्राहि मां भक्तवत्सल ॥ ६॥
जन्ममृत्युजराव्याधिकामक्रोधादपि प्रभो ।
लोभमोहान्महादेव रक्ष मां त्रिदशेश्वर ॥ ७॥
त्वं गतिस्त्वं मतिश्चैव त्वं भूमिस्त्वं परायणः ।
कायेन मनसा वाचा त्वयि भक्तिर्दृढास्तु मे ॥ ८॥
फलश्रुतिः ।
इत्येतद्रुद्रकवचं पाठनात्पापनाशनम् ।
महादेवप्रसादेन भैरवेन च कीर्तितम् ॥ ९॥
न तस्य पापं देहेषु न भयं तस्य विद्यते ।
प्राप्नोति सुखमारोग्यं पुत्रमायुः प्रवर्द्धनम् ॥ १०॥
पुत्रार्थी लभते पुत्रान्धनार्थी धनमाप्नुयात् ।
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमेव च ॥ ११॥
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
ब्रह्महत्यादि पापं च पठनादेव नश्यति ॥ १२॥
इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे रुद्रकवचं समाप्तम् ।
अष्टमः पटलः
Proofread by Divya KS