श्रीमल्लारिस्तवराजस्तोत्रं
श्रीगणेशायनमः ॥
ॐ अस्य श्री मल्लारिस्तवराजस्तोत्रमन्त्रस्य स्कन्दऋषिः ।
श्रीमार्त्तण्डभैरवो देवता । अनुष्टुप्छन्दः ।
ममसकलमनोरथसिध्यर्थं जपे विनियोगः ।
नित्यं नमामि भवसागरतारणाय
मल्लारिपादयुगुलं परमार्थरूपम् ।
इन्द्रादि वन्दितमशेषसुखप्रदेयं
चिन्तामणिं सकलमङ्गलकामधेनूम् ॥ १॥
साधूनां वीरमल्लारिमूर्तिध्यानं सुदुर्लभम् ।
रूपं वक्त्रसमाख्यातं कथितं मुनिसत्तम ॥ २॥
ममवाक्यविशेषस्तु नास्तीति वचनं तथा ।
अथवावेदशास्त्रेण सूचितः परमेश्वरः ॥ ३॥
भक्त्या कालेषु भक्तानां गोचरः परमेश्वरः ।
स्तुत्याभ्यासेनभिस्तुत्यं मूर्तिनिस्थापितं शिवम् ॥ ४॥
मणीरत्नगिरौवासि लिङ्गरूपेण संस्थितम् ।
कपालडमरुखड्गं त्रिशूलपात्रमुत्तमम् ॥ ५॥
रतिनेत्रत्रयं नापि शिवरूपेण गद्यते ।
दृश्यते शास्त्रशालायां मुक्तिक्षेत्रं शिवालयम् ॥ ६॥
मल्लारेर्विश्वरूपत्वं प्रेमं दर्शनं कलौ ।
भुक्तिमुक्तिप्रदं देवं मल्लारिसकलोत्तमम् ॥ ७॥
स्थितं व्रतं क्रियाहीनं सेवया मृगयाङ्कितम् ।
अहो भाग्यमहोभाग्यं जीवितं न सुजीवितम् ॥ ८॥
मल्लारिपदपद्मेषु यन्मनो भ्रमराय ते ।
इत्येषसहितो भावस्ततस्तस्य हिताप्तलाम् ॥ ९॥
ददाति देवमल्लारिस्त्रैलोक्यं विजयं शिवम् ।
माता चैव पिता चैव भ्राता चैव गुरुस्तथा ॥ १०॥
बन्धुश्चैव सखाचैव भक्तानां परमेश्वरः ।
लोके मल्लारिदेवेश भूतप्रेतादि बन्धनात् ॥ ११॥
राजचोरादि बाधाच दूरादेव पलायते ।
अज्ञानाद्देवदेवेश कथं पापात्प्रमुच्यते ॥ १२॥
अस्मिन्लोके विनादेवं तमश्रान्तिर्विलीयते ।
हृदिस्थं देव संज्ञात्वा तीर्थयात्रा करोति च ॥ १३॥
अज्ञात्वा प्राङ्गणेऽप्यर्थं वने मृगयतेमधू ।
यत्कारुण्यकटाक्षेयं पात्र भूतायदा जनाः ॥ १४॥
तदा सकललोकेषु बलादि विक्रमान्वितम् ।
न्यासं मधुरमल्लारे भक्तप्राणसुरेश्वरः ॥ १५॥
विश्ववन्दे महाकायं पतितं भवसागरे ।
त्राहि त्राहि जगन्न्नाथ पार्वतिप्राणवल्लभः ॥ १६॥
अनाथरूपणं दिनं सर्वव्याधिनिपीडितम् ।
ब्रूहि मे परमं ज्ञानं भक्तानां भेषजं परम् ॥ १७॥
नमो मल्लारिदेवाय भक्तानां कामधेनवे ।
सत्यानृत्याय देवाय लीलाविक्रमधारिणे ॥ १८॥
नमस्ते वीरमल्लारे मकरध्वजमर्द्दने ।
सर्वयज्ञमयो देवः सर्वतीर्थ्फलं तथा ॥ १९॥
गङ्गाधरनमस्तेऽस्तु नीलकण्ठः नमोऽस्तु ते ।
सर्वज्ञपार्वतिकान्तः पिनाकी त्रिपुरान्तकः ॥ २०॥
स्कन्द उवाच ।
देहिकं च सुखं देहि ऋणव्याधिविवर्जितम् ।
सर्वरोगप्रशमनं सर्वपापप्रणाशनम् ॥ २१॥
देहित्वमचलां भक्तिं तव पादार्चने रतिम् ।
कामक्रोधादिरहितं भुकिमुतिं प्रयच्छ मे ॥ २२॥
ईश्वर उवाच ।
स्तोत्रेणानेन तुष्टोमि नित्यं श्रद्धा समाहितः ।
धृवं तस्मै मया दत्तं वीतमत्रं न संशयः ॥ २३॥
इदं यः पठते भक्तया मल्लारिस्तोत्रमुत्तमम् ।
न तस्य घोरपीडाश्च ग्रहपीडाश्च दारुणः ॥ २४॥
दुःस्वप्ना न प्रथच्छन्ति बालानां शान्तिकारकम् ।
सन्देहो नात्र कर्तव्यो मल्लारेर्वचनं धृवम् ॥ २५॥
इति स्कन्दपुराणे अवन्तिकाण्डे मल्लारिस्तवराजस्तोत्रं सम्पूर्णमस्तु ।
श्रीरेणुकेऽर्पणमस्तु ।
श्रीरस्तु ।