मुनिभिः कृता महाकाललिङ्गस्तुतिः
कृतानङ्गमङ्गं महाङ्गत्वगङ्गं सदा जह्नुकन्यातरङ्गोत्तमाङ्गम् ।
शिवं भक्तहृत्पद्मसद्मैकपङ्गं महाकाललिङ्गं भजामो भजामः ॥ १॥
महेशाङ्गलिङ्गं विपत्क्षोभभङ्गं भुजङ्गाङ्गसङ्गं कुरङ्गाङ्गसङ्गम् ।
तरङ्गालिमलीनिषङ्गं शुभाङ्गं महाकाललिङ्गं भजामो भजामः ॥ २॥
अनङ्गं पतन्तं पतङ्कैकमङ्ग्या निजाक्षिस्फुलिङ्गे दहन्तं शयान्ते ।
कुरङ्गं वहन्तं पतङ्गेन्दुनेत्रं महाकाललिङ्गं भजामो भजामः ॥ ३॥
जटाजूटपिङ्गं दयास्राव्यपाङ्गं कृताङ्गानुषङ्गं कयाचित् कशाङ्ग्या ।
असङ्गान्तरङ्गं महालिङ्गसङ्गं महाकाललिङ्गं भजामो भजामः ॥ ४॥
महोक्षाङ्गसङ्गं महोक्षाभसङ्गं स्वकाक्षिस्फुलिङ्गं सुगन्धोत्तमाङ्गम् ।
महः शोणिताङ्गं महानङ्गभङ्गं महाकाललिङ्गं भजामो भजामः ॥ ५॥
॥ इति शिवरहस्यान्तर्गते मुनिभिः कृता महाकाललिङ्गस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २। ३२-३६॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 2. 32-36..
Notes:
Sanaka-adi Muni-s visit King Chitraratha who had built the temple to Mahakala. Here, they recite Stuti to Mahakaleshwara Jyotirlinga.
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan