विष्णुप्रोक्तं महादेवविद्यामहिमावर्णनम्
- शिवभक्तविष्णुसंवादे -
विष्णुः -
सर्वामराधीश्वरविश्वनाथपादारविन्दे तव भक्तिरेवम् ।
अनेकजन्मार्जितपुण्यसङ्घैः जाता प्रवृद्धा च पुनः पुनः सा ॥ ११०॥
अहो महद्भाग्यमभूत्तवेदं यतः शिवाराधनसक्तमेव ।
मनस्तदानन्दमित्यवैमि तेनैव तावत्परमापि मुक्तिः ॥ १११॥
न क्वापि दृष्टा दृढभक्तिरेवं मुक्तिप्रपासाधनमेव नूनम् ।
पुण्येन केनैवमभूत्तवेयं उमासहायाङ्घिसरोजमात्रे ॥ ११२॥
चित्तं पवित्रं तव गात्रमेतत्पवित्रमेवेति मतिर्ममासीत् ।
धन्यस्तदन्यो भुवि कोऽपि मान्यः सामान्यतस्त्वं मनुजो न नूनम् ॥ ११३॥
त्वमेव नन्दी किमुत प्रचण्डः तण्डी स भृङ्गी किमु वीरभद्रः ।
किं भैरवो वाऽथ षडाननो वा गजाननो वा वद तन्ममाद्य ॥ ११४॥
आशास्या भक्तिरेवं सकलसुरगणाधीश्वरो शङ्करे
मे नित्यानन्दप्रदानव्रतनिरतमहाचार धीरेऽतिशूरे ।
गौरीवक्षोजहारप्रतिभटचटलोद्दण्डदोर्दण्डभार
व्यापारासारसारप्रसरदुरुतरे ......... ॥ ११५॥
(words missing in source text)
दुस्तारापारपापप्रवरगिरिदरीद्वारगाठान्धकार
व्यापाराटोपकोपप्रतिभटनिटिलालोलकालानलश्रीः ।
स्मृत्यारूढापि पापप्रदहनशमनोपाय एवेति मन्ये
धन्याशास्या किमेषा न भवति महतां सापि सम्भावितापि ॥ ११६॥
यद्भाग्यपारपूरव्यतिकररुचिरस्फारगौरीकुचोरु
व्यापारोदारहारप्रसरदुरुतरासारकाश्मीरधाराम् ।
स्मृत्वा स्मृत्वाऽनुभूयाप्यनवरतहितस्वान्तसन्तानकान्तं
गौरीकान्तं नितान्तं कथमपि सततं स्वान्तमप्याश्रितं मे ॥ ११७॥
वारं वारं स्मरारे त्रिपुरहर हरापारसंसार घोर
व्यापारासारभीरुस्फुरदुरुखदिराङ्गार दारापसारम् ।
याचे याचे पुनस्तं पुनरपि च पुनस्तं न याचे न याचे
त्वत्पादाम्भोजरेणुप्रकरपरिकृतस्वान्तशान्तद्विरेफः ॥ ११८॥
त्वद्दर्शनं जातमिहाधुना मे प्रदोषकाले हृतपापजाले ।
श्रीकालकालार्चकदर्शनेन सम्पत्प्रवृद्धिश्च भविष्यतीह ॥ ११९॥
अयं पुण्यकालः शिवाराधनस्य स्वभावेन सर्वोऽपि कालस्तथापि ।
विशेषोऽधुना शङ्कराराधनेन प्रसन्नो भवत्येव गौरीसहायः ॥ १२०॥
महादेवविद्याप्रभावोऽपि भाग्यैरपोरैः कथञ्चिन्मया ज्ञात एव ।
त्वया साकमत्रापि सम्भाषणेन प्रभूतं च पुण्यं त्वया लब्धमेव ॥ १२१॥
महादेवविद्याविशेषाश्रयाणां यमावासवार्तापि दूरे तथा च ।
तया विद्यया सर्वसम्पत्प्रवृद्धिर्भवत्येव मुक्तिश्च तस्याः प्रभावात् ॥ १२२॥
महादेवविद्यां विना शङ्करार्चा कथं वा फलाय प्रवृत्ता तथा सा ।
फलान्याशु सूते फलप्राप्तिहेतुं वदन्त्येव तामेव सन्तः प्रशान्ताः ॥ १२३॥
न वेदान्तविद्यापि मोक्षप्रदाने समर्था यथा शर्वविद्या समर्था ।
तया विद्यया तावदुद्भूतरूपः त्वमेव स्फुरद्धानुरूपो विभासि ॥ १२४॥
त्वमत्रातिधन्यः शिवाराधनेन प्रसन्नः प्रसन्नं मनस्त्वं करोषि ।
त्वदीयं कुलं धन्यमेवेति मन्ये शिवाराधनासक्तचित्तोऽतिधन्यः ॥ १२५॥
महादेव एवाहमित्येव तावत् स्वभावोऽस्ति यद्वा महादेवभक्तः ।
भवामीति भक्तिर्भवत्वद्य मह्यं प्रसन्नो महेशो यदि स्वस्वपुण्यैः ॥ १२६॥
महादेवपादाम्बुजाराधनादौ न भक्तिर्महापापसङ्घानुषङ्गे ।
न तन्नाशहेतुः शिवाराधनान्यः ततस्तेन तन्नाशसिद्धिर्भवित्री ॥ १२७॥
महादेवपादाब्जसामर्थ्यमन्यैः न विज्ञातमेवेति मन्ये किमन्यैः ।
शिवाराधनेनैव मुक्तिर्यतः स्यात् ततस्तं महादेवमेकं भजामि ॥ १२८॥
न संसारदुःखापहर्तापि लोके शिवान्यस्तदन्यं न जाने न जाने ।
न जाने शिवान्यं न जाने शिवान्यं न जाने शिवान्यं सुखावाप्तिहेतुम् ॥ १२९॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं महादेवविद्यामहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २८। ११०-१२९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 28. 110-129 ..
Proofread by Ruma Dewan