नारदप्रोक्तं मृत्युञ्जयार्चनमहिमवर्णनम्
जलधारा कल्पनीया शिवलिङ्गे शिवात्मके ।
मणिकाः पूरणीयाश्च सुगन्धैः शीतलैर्जलैः ॥ २५॥
शिवार्चकाः कल्पनीयाः शतशः शिवमन्दिरे ।
करणीयं च तैरेव शिवलिङ्गसमर्चनम् ॥ २६॥
कस्यचित् स्यात् तदालस्यं निद्राऽपि स्यात् कदाचन ।
अनालस्यैः कारणीयमन्यैरेव शिवार्चनम् ॥ २७॥
तोषणीयाश्च ते सर्वे धनैर्गोभिर्गृहैरपि ।
शिवनैवेद्यदानैश्च दुकूलैर्भूषणैरपि ॥ २८॥
शिवनामानुसन्धानकथाश्रवणपूर्वकम् ।
कालो विनेयः सर्वोऽपि निद्राऽपि स्यात् कदाचन ॥ २९॥
किं च मृत्युं सदा पश्यन् को वा निद्रां करिष्यति ।
मृत्युभीत्या न निद्राऽपि भोजनेऽपि रतिः कुतः ॥ ३०॥
कदा मरणमस्य स्यात् कदा वा यमयातना ।
इत्येव चिन्तया किञ्चित् नीयते दिनमास्तिकैः ॥ ३१॥
नास्तिकानां तथा (तया)जन्म तेषां न शिवपूजनम् ।
अतो मृत्युभयं तेषां यातनाभयमन्वहम् ॥ ३२॥
मृत्युं तरति मर्त्योऽपि महामृत्युञ्जयार्चनात् ।
अतो मृत्युञ्जयो नित्यं पूजनीयः प्रयत्नतः ॥ ३३॥
मृत्युञ्जयार्चनेनैव यदि स्यादायुषः क्षयः ।
तदा तदायुः सफलं तदन्यन्निष्फलं खलु ॥ ३४॥
॥ इति शिवरहस्यान्तर्गते नारदप्रोक्तं मृत्युञ्जयार्चनमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ८ -
आयुमूर्तिशिवभक्त्युत्कर्षवर्णनम् । २५-३४॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 8 -
AyumUrtishivabhaktyutkarShavarNanam . 25-34..
Proofread by Ruma Dewan