कैलासवर्णनम् ७
(कैलासशैले देवीमहासौधवर्णनम् ७)
स्कन्दः -
तत्र देव्या महासौधे नवरत्नविचित्रितम् ॥ २७॥
गर्भागारं महेशस्य रम्यन्देवीश्वरस्य च ।
प्राकारगोपुरोपेतं रत्नतोरणमण्डितम् ॥ २८॥
माणिक्यमुकुरोद्दामरुद्रक्रीडावृषैर्युतम् ।
सुरम्यरत्नकलशपताकाभ्राजिशेखरम् ॥ २९॥
तत्र लिङ्गं सुधापूरधवलीकृतदिङ्मुखम् ।
काकोदरफणाभ्राजिबिल्वालङ्कृन्तमस्तकम् ॥ ३०॥
सुधाधामकखण्डोप्तरत्न(द्रत्न)गोलकभूषितम् ।
तद्वै देवीश्वरं लिङ्गं पूजयत्यम्बिका सदा ॥ ३१॥
सुधासागरनीरोत्थकलशैर्नवरत्नजैः ।
पञ्चामृतमहाधारागन्धमोदैश्च नीरकैः ॥ ३२॥
यक्षकर्दमजालेपवेष्टनाम्बरसुन्दरम् ।
बिल्वचम्पकधत्तूररत्नपङ्कजमालिनी ॥ ३३॥
जातीसरावलीशोभिलिङ्गमौलिमनोहरम् ।
तक्कोलागरुजोधूपधूमैश्शिवा तदा ॥ ३४॥
कुरुविन्दमणिज्योतिदीपैरुद्योतितान्तरम् ।
सुपुण्डरीकमालाभिर्नवनीलोत्पलस्रजा ॥ ३५॥
हरिन्मणिनिभैर्बिल्वैस्सहस्त्रैः पूजयेच्छिवा ।
भक्ष्यभोज्यवरान्नानां राशिभिश्शैलकन्यका ॥ ३६॥
ताम्बूलैः खदिरासारस्वर्णकर्पूरखण्डजैः ।
नीराजनैर्मुखरितशङ्खकाहलमद्दलैः ॥ ३७॥
वीणावेणुजमड्डूत्थदुन्दुभ्यादिसुनिस्वनैः ।
रुद्राणीनर्तनैश्चैव योगिनीगणवादनैः ॥ ३८॥
त्रिकालं पूजयत्येवं त्रिपुण्ड्रललितालका ।
रुद्राक्षकीलितापारमुक्तामणिसरोज्वला ॥ ३९॥
सोमशौचे वाससी साप्यरजे धारिणी शिवा ।
संस्तुवन्ती महालिङ्गं देवीश्वरमतन्द्रिता
कृताञ्जलिपुटा देवी प्रकृष्टञ्चाष्टविग्रहम् ॥ ४१॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले देवीमहासौधवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २७ - कैलासवर्णने देवीपूजास्तुतिकथनम् । २७-४१॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 27 - kailAsavarNane devIpUjAstutikathanam . 27-41..
Notes:
Skanda स्कन्द describes about the grand residence of Devī देवी Mount Kailāsa कैलास शैल; and mentions about the Devīśvara Śivaliṅga देवीश्वर शिवलिङ्ग that She worships there.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan