कैलाससभासु नृत्तवर्णनम् १
(हेम(कनक)सभापतीश्वर शिवस्तवः १)
स्कन्दः -
राजद्राजकलाविराजितजटाराजीरजोघ्नं सतां
रामालङ्कृत्तवामभागमनिशं श्रीराजराजार्चितं ।
नृत्यन्तं नृशिरःकपालकलिकामालास्फुरद्वक्षसं
नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये ॥ ३२॥
नृत्यद्ब्रह्मकपालघट्टनपतद्ब्रह्माण्डकोटिस्रव-
द्वर्षाधारसुपूरपूरतिजटागङ्गातरङ्गोद्भटम् ।
सेवार्थागतविष्णुमुख्यसुरतावद्धाञ्जलिप्रार्थनं
नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये ॥ ३३॥
तण्डौ वादिनि डिण्डिमण्डमरुकामाखण्डले वाद्यति
ब्रह्मण्यम्बुजलोचने च नमति श्रीचण्डिकेशे करैः ।
घण्टाडोलनतत्परे सुरनुतं श्रीताण्डवे पण्डितं
नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये ॥ ३४॥
शीर्षाबद्धकपालमालममलं नृत्यज्जटामण्डलं
भूषावेषविषाग्निमिश्रितसुधाधारेषदुष्णार्चिषम् ।
नृत्यन्तं रमणीमुदे निगमवाङ्मुर्धाधिरूढं शिवं
नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये ॥ ३५॥
पादाबद्धहरीशकङ्कणरणत्कारौघनिष्पन्दित-
ब्रह्माद्याखिलजङ्गमं बहुभुजालङ्कारदेव्याः पुरः ।
मन्दस्मेरविराजमानवदनाम्भोजं नटन्तं शिवं
कैलासाचलशातकुम्भसदसि श्रीशम्भुमालोकये ॥ ३६॥
इत्थं नृत्यति देवेशस्सायं देव्या सदाशिवः ।
कैलासहेमसदसि प्राच्यां गणवरैर्वृतः ॥ ३७॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलाससभासु नृत्तवर्णनम् १ - हेम(कनक)सभापतीश्वर शिवस्तवः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३३ - सभासु नृत्तवर्णनम् । ३२-३७॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 33 - sabhAsu nRRittavarNanam . 32-37..
Notes:
Skanda स्कन्द renders a eulogising prayer to Śiva शिव (the Sabhāpati सभापति) at Kailāsa कैलास, where He conducts His Dance Divine in the Hema हेम/Kanaka कनक/Śātakumbha शातकुम्भ sabhā सभा (Golden Assembly) - which is one of the four constituent sabhā-s सभासु (assemblies), and is located in the Eastern quarter.
Encoded and proofread by Ruma Dewan