कैलासलिङ्गवर्णनम् १
स्कन्दः -
रुद्रावतारचरितैर्मणिराजद्वृषैर्युतम् ।
ललामशोभिकलशैश्चतुर्दिक्षु विराजितम् ॥ ९॥
तत्रान्तर्गृहमीशस्य गर्भागारं मनोहरम् ।
नवरत्नाखण्डकॢप्तस्तम्भपीठविराजितम् ॥ १०॥
तच्चिन्तामणिभाजालभासितं गर्भधाम तत् ।
तदग्रतो भाति शम्भोस्सहस्रस्तम्भमण्डितः ॥ ११॥
सुमुक्तिमण्डपो नाम सर्ववेदशिखास्तुतः ।
तत्प्रभाभासिता लोका ब्रह्मविष्ण्वादयस्सुराः ॥ १२॥
दिक्पालयक्षरक्षौघनागाप्सरसकिन्नराः ।
उरगास्तुरगाश्चैव सारङ्गाथामरास्सृमाः ॥ १३॥
मयवस्सामजालावा हरयश्शरभास्तथा ।
भल्लूकभेकखङ्गैश्च हरिणैर्महिषैस्तथा ॥ १४॥
लिङ्गाग्रे मण्डपो भाति कैलासेश्वरसन्निधौ ।
ततोऽन्तरे गर्भगृहं कैलासेशस्य सत्तम ॥ २३॥
नवरत्नमणीपीठं वेदिकातलसुन्दरम् ।
गर्भकोष्ठैः पट्टिकाभिर्देवकोष्ठैर्विराजितम् ॥ २४॥
वलभीतलसञ्चारिमरालकुलसुन्दरम् ।
कपोतपालीपालिस्थमणिसिह्मवृषैर्युतम् ॥ २५॥
दिक्पालैर्ब्रह्मविष्ण्वाद्यैर्दक्षिणामूर्तिविस्तृतम् ।
दक्षिणे पश्चिमे चापि प्रागुत्तरदिशि प्रभाः ॥ २६॥
लिङ्गोद्भवान्धकारातित्रिपुरासुरसंहृतिः ।
ब्रह्मविष्णूद्भवश्चापि ताण्डवेशश्च सुन्दरः ॥ २७॥
करिचर्मपरीधानो हेरम्बस्कन्दसंयुतः ।
भिक्षाटनश्च कङ्कालशूलासक्तकरो हरः ॥ २८॥
मेखलावृतकण्ठोद्यत्पादाम्भोजाक्तपादुकः ।
जटाजालितसन्मौलिरिन्दुकुन्दशताच्छभाः ॥ २९॥
सोमावतंसोक्षवाहो गणवृन्दवृतः क्वचित् ।
उमया संस्थितः पीठे पश्यन् गौरीं मनोहरः ॥ ३०॥
गौरीप्रसादनपरः पश्यंस्तद्धनुकेकरम् ।
अर्धेननारीवपुषा शोभितो हरिहीरभाः ॥ ३१॥
रत्नाहिकुण्डलद्योतिसोमधामसमाननः ।
व्याघ्ररत्नाम्बरधरस्त्रिपुण्ड्रतिलकोज्वलः ॥ ३२॥
मणिरिङ्खत्सुभूपाड्यो नानाभूतिजगन्धधृक् ।
क्वणन्मञ्जीरपादार्धशेषार्धपदपङ्कजः ॥ ३३॥
गरकण्ठार्धको दिव्यमणिकण्ठार्धधृक्छिवः ।
नपचन्द्रोत्तमाङ्गोत्थगङ्गारयवराश्रयः ॥ ३४॥
वामदक्षिणभागस्थलोकेशहरिसेवितः ।
चण्डांशुतनयोद्भीतलिङ्गालिङ्गद्विजावनः ॥ ३५॥
गङ्गातरङ्गकलितकपर्देणाङ्कशोभितः ।
मुरवैरिमहानेत्रपूजिताङ्घ्रिसरोरुहः ॥ ३६॥
ब्रह्ममुण्डललद्गण्डकर्णकुण्डलशोभितः ।
एवं रुद्रावतारैश्चाप्यखण्डमणिकल्पितैः ॥ ३७॥
चन्द्रस्फटिकहारैश्च पुष्पगोमेदनीलजैः ।
श्रीमहेशमहादिव्यविग्रहैः परितोवृतैः ॥ ३८॥
देव्या हरिन्मणिभवैः पद्मरागभवैस्तथा ।
इन्द्रविष्णुविधातॄणां दिक्पालानाञ्च मूर्तयः ॥ ३९॥
कल्पिताश्रीमहेशेन मनसैव मनोरमाः ।
हीरसारघनोत्तुङ्गपञ्चाशद्योजनोच्छ्रयम् ॥ ४३॥
वृत्तायाममहाश्लक्ष्णकोटिभास्करभाततम् ।
कदलीपुष्पसङ्काशसमुच्छ्रायोरुमण्डलम् ॥ ४४॥
ज्वलदिन्दुमहावृत्तब्रह्माण्डोदरदारणम् ।
गर्भगेहं तत्र शम्भोर्वेदवेदान्तसंस्तुतम् ॥ ४५॥
कैलाससारसुभगमणिवेदिविराजितम् ।
तत्रैवान्तर्महापीठे कोटिद्युमणिसन्निभे ॥ ४६॥
प्रभाभासिजगज्जालं चन्द्राच्छस्फटिकोज्वलम् ।
आयामवृत्तगोमुख्याहरिब्रह्मोरुपीठकम् ॥ ४७॥
महालिङ्गं महाकारमखण्डस्फटिकोज्वलम् ।
तल्लिङ्गसारधाराभिः कैलासोऽप्यतिपाण्डरः ॥ ४८॥
मणिप्रभाततात्यच्छ्शोभितोत्तुङ्गमौक्तिकम् ।
सहस्रास्यमहाशेषफणामणिविराजितम् ॥ ५५॥
पद्मरागमहारागत्रिपुण्ड्रतिलकोज्वलम् ।
तत्कान्तिकाञ्चितालोकास्तद्धारासारसागराः ॥ ५६॥
तत्कैलासमहासारपिण्डशेखरपूजितम् ।
कैलासेशाख्यममलं लिङ्गं मङ्गलदायकम् ॥ ५६॥
मङ्गलापतिदृक्पातधारासारविजृम्भितम् ।
तल्लिङ्गमहिमावेदैरपारशिखराश्रयैः ॥ ५८॥
ब्रह्मविष्ण्वादिभिर्देवै रुदैर्वा मुनिभिस्तथा ।
नशक्यो ज्ञातुमीषद्वा मूकावेदोक्तयो यथा ॥ ५९॥
कैलासशैलमणिधामनि दिव्यलिङ्गं कैलासनामकमहो त्रिजगद्विचित्रम् ।
तल्लिङ्गमौलिशकलेन्दुकलासुभाभि(झरिभि)राप्लावितोरुशिखरोऽत्र विभाति शैलः ॥ ६०॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासलिङ्गवर्णनम् १॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३५ - कैलासलिङ्गवर्णनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 35 - kailAsalingavarNanam . vAvRRittashlokAH ..
Notes:
Skanda स्कन्द provides the overview of several key Śivaliṅga-s शिवलिङ्ग - including Kailāseśaliṅga कैलासेशलिङ्ग - at Kailāsa कैलास amongst which is the Divine Presence of Maheśa महेश.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan