गन्धर्वसुतण्डुप्रभृतिभिः शिवाराधनम्
स्कन्दः -
विश्वावसुश्च गन्धर्वो गानाचार्योऽभवत् पुरा ।
गानबन्धुः सुबन्धुश्च तथा नारदपर्वतौ ॥ १॥
हाहाहूहू महादेवं चिरं चिरगिरीश्वरं
भस्मचिन्होऽर्चयामास गानस्तुत्याभितोषयन् ।
रुद्रवीणापाणपस्ते शिवनाम्नां सुगायनैः ॥ २॥
- -
गन्धर्वाः -
दक्षशिक्षविषमाक्षमनुक्षं (?) उक्षवाहमरविन्ददलाक्षम् ।
मोक्षदायकसुमक्षरक्षितं कालकूटगरलात्किल देवान् (?) ॥ ३॥
- -
वसवो ब्रह्मणा शप्तास्तेऽपि गोपर्वतेश्वरम् ।
समाराध्यैव मुक्ताः स्युः स्तुवन्तः पशुपं शिवम् ॥
- -
वसवः -
शम्भो पाहि दयाम्वुघे गतमयं संसारपारङ्गतः
त्वत्पादाम्बुरुहार्चनेन भगवन् विश्वेश विश्वाधिक ।
राजत्पिङ्गजटात्तसङ्ग सुमहाधामेन्दुचुडामणे
गङ्गागर्वहराव्ययेश्वर महादेवेश रक्षाधुना ॥ ५॥
- -
तण्डुरिन्दुशकलामलमौलेरिन्दुखण्डमहशोरुकपालम् ।
भस्मपुण्ड्रनिटिलो भरिताशो वीक्ष्य नम्रशिरसा गणवर्यः ॥ ६॥
शर्वपादकलनेन सर्वदा पापपर्वतवरैर्न बिभेति ।
इन्दुचूड चरणाम्बुजसङ्गोऽप्यन्तरङ्गकरणे गणवर्यः ॥ ७॥
- -
तण्डुः -
गरधर गिरिवरशय पुरहर मुरहरशरकर कुरु करुणाम् ।
सुमशरदेहविनाशक ईश्वर नरहरिकृत्तिवसान महेश ॥ ८॥
- -
अश्विनौ पुरा देवैर्निरस्तौ भिषजाविति ।
श्रीकण्ठेशं समाराध्याभवतां सोमभागिनौ ॥ ९॥
- -
अश्विनौ -
कुन्दबृन्दनिभदेह इन्दुधृङ्मन्दराद्रिवसतेश्वर पाहि ।
इन्दुशक्तिवरहार इन्दिरानाथपूज्यपदपद्म सुन्दर ॥ १०॥
इन्द्रेण निकृताः सर्वे मरुतो हि महौजपः ।
इन्द्रेणाप्यलभंस्ते वै सोमभागं शिवार्चया ॥ ११॥
- -
तृणज्योति समाराध्य स्तुत्येशस्य कृपावशात् ॥ १२॥
- -
मरुतः -
यः कालकालमनिलाशनशोभिगात्रं रुद्रं त्रिनेत्रमयराजसुतार्धगात्रम् ।
मित्रिकृताब्जहृदयोरुविकासमित्रं मन्त्री च यन्त्रितभवो भवतीह भावः ॥ १३॥
- -
आदित्याश्चापि तपसा समाराध्य महेश्वरम् ।
सह्यजातीरलिङ्गेषु तुङ्गेषु नियतं सदा ॥ १४॥
घृतेशे पुष्पनाथे च प्रणतेशे तु वैद्यके ।
श्रीखण्डे तृणजक्षेत्रे वेदिकाख्ये प्रयाणके ॥ १५॥
जम्बुलिङ्गे मातृशैले रत्नशैल इरावृते ।
स्तुतवन्तो दीप्तनवोऽभवंस्ते शङ्करार्चनात् ॥ १६॥
- -
आदित्याः -
यश्चन्द्रचूडचरणाम्बुजसेवनेन कालं नयेत्स हि भवेत्सुगुणालबालः ।
व्यालेन्द्रमालगरलाशनरूपमाप्य कैलासमौलिषु सदा विहरत्यजस्रम् ॥ १७॥
- -
रुद्रायैकादश पुरा समाराध्य महेश्वरम् ।
रुद्रस रूप्यमापन्नाः शङ्करस्य प्रसादतः ॥ १८॥
दुर्गेशे क्षीरिणीक्षेत्रे माधव्यां सुन्दरे वने ।
तेजिनीविपिने कोटो मङ्गले दक्षिणावृते ॥ १९॥
वैद्यनाथे विधिवने कालनाशेऽम्बिकेश्वरे ।
स्तुवन्तः परमां काष्ठां ते सर्वे रुद्रमूर्तयः ॥ २०॥
- -
रुद्राः -
यस्मात्परं न परमस्ति सुरादिसङ्घमोघाघसङ्गजभयं न भवेद्धि तस्य ।
यस्यार्चनेन कलिमुक्तिपदामिपङ्गः शाङ्गस्य लिङ्गविहितामलपूजकस्य ॥ २१॥
रुद्राक्षभस्मकलितामलकालकण्ठ कुण्ठीकृताघनिचयः स तु नीलकण्ठः ।
वैकुण्ठपूजितपदाम्बुजशीलनेन पाठीनसध्वजकृतां न रुजं वहेत ॥ २२॥
- -
पितरश्च तथान्येषु तत्र सह्योद्भवातटे ।
लिङ्गेषु पूजयामासुः स्तुवन्तः साम्बमीश्वरम् ॥ २३॥
- -
पितरः -
मुकुटतटनिबद्ध (?) सोमधामोरुलिङ्गस्फुट परिचयपूजाध्यानतो मुक्तिकान्ताम् ।
कलयति सुकृतानां राशिरीशप्रसादादनुदिनगलिताघः शाम्भवः शम्भुभक्तः ॥ २४॥
- -
ग्रहाद्या ऋषयश्चेमे मुनयोऽन्ये पिनाकिनम् ।
समभ्यर्च्य स्तुवन्तस्ते लेभिरे वाञ्छितानि हि ॥
कुम्भघोणे तथा भानुः चन्द्रो मध्यार्जुनाह्वये ।
मङ्गलैश्चा मायूरे बुधः श्वेताटवीतटे ॥ २६॥
छायावने गुरुर्देवं श्रीवाञ्छ्यां भृगुरीश्वरम् ।
मन्दोऽपि कमलापुर्यां केतुर्देववने शिवम् ॥ २७॥
राहुर्वातपुरीनाथं ध्रुवो वै सेतुबन्धने ।
तथान्ये मुनयः पूर्वं भूतभव्याः सनातनाः ॥ २८॥
तत्रैव पूजयामासुश्चतुर्दशसु सत्तमाः ।
स्तुवन्तः साम्बमीशानं लेभिरे वाञ्छितानि हि ॥ २९॥
- -
ग्रहादयः -
जय जय महाभैरव महाभूतभूषिमूल कुण्डलिकुण्डलालङ्कृत
अतिधनविलसितविद्युदतिचलदुरुतरकरवाल निखिलनिगमोपगीयमान
सूकरकर निकरपरिचयचतुरविरचितचतुरशृङ्गार-
करकमलकलितकपाल सरसिजासनविस्तारितसमस्तव्यस्तसमस्तजग-
द्विस्तरसंहारसन्नद्धनिर्गणनिरवधिकपरिमाणनीहारपरिवार-
मरीचिवीच्यपारसागरपत्नीजललुलितजटाजूटाभिराम हर दुरितहर
अपराङ्गनाभोग सरागपतङ्गभङ्ग्यविततोत्तमाङ्ग भ्रूमध्यनयन-
मदनदमन मत्तमधुकरझङ्कारसङ्काशनिजशृङ्ग
संसरणकिङ्किणीक्वणितललित पदाहतिलीनमद्दीमण्डलाधाराण्डज-
प्रस्तूयमानताण्डवाडम्बरयुक्तारोत्कर्ष ध्वस्तदैत्यदानव-
सङ्घातनिरन्तरातिरित (?) शान्तान्तःकरण अनवरत-
धाराधरध्वानगम्भीरघर्घरगलगवयफूत्कारसन्निभगहरगुहाराजी
विराजमानधराधराधीशकन्याकान्तिसङ्क्रान्तनिजकलेवरैकदेश
अखिलजगत्यधीश महेश नमस्ते नमस्ते ॥ ३०॥
आदौ कर्मवशादुदश्चदखिलत्रैलोक्यमूलाङ्कुरं
पञ्चोत्पल्लवितोरङ्गविभवश्रेणीसमुन्मेखलम् ।
अन्ते लोचनमुद्रणाविघटनाभङ्गि प्रगल्भं महो
भालेलोचनमाविरस्तु पुरतः संसारमम्मोहनम् ॥ ३१॥
आधारं चतुराननस्य करकासन्नद्धपाथःस्रुतेराधेयं
गिरिकन्यकाकुचतटाभोगस्य भङ्ग्याकृतेः ।
आशापालकमूलपालमखिलब्रह्माण्डभाण्डस्थितेरा-
शापाशविमोचनाय प्रणमामान्तर्मनस्तन्महः ॥ ३२॥
- -
सूतः -
एवं लिङ्गेषु तुङ्गेष्वमरवरमहामातरो देवसङ्घा
रक्षोयक्षाधिनाथा मनुमुनय इभे सह्यजापुण्यतीरे ।
सम्पूज्य प्रमथाधिनाथमनलालङ्करफालाक्षकं
काङ्क्षामापुरतीव तुष्टहृदयाः शम्भोः कटाक्षाङ्कुरैः ॥ ३३॥
यल्लिङ्गार्चनमात्रतोऽखिलमहासाम्राज्यमाप्यात्र वै
अन्ते मुक्तिमवाप्नुवन्ति नियतं भक्त्यैव शम्भोः पदे ।
देवे देवापि(?)मोदामदमुदितधियः शान्तसंसाररागा
रोगापायैर्विमुक्ता घृतभसिवसितप्रेमरुद्राक्षसङ्गाः ॥ ३४॥
एवं तेऽमिहितो हरांशमहिमा हारेषु संहारकृत्
पापानां श्रुतिवीक्षणोत्तममहाहारार्चकेषु ध्रुवम् ।
श्रुत्वाख्यानमुमापतिप्रियमहाभक्ताभिपुण्यार्थदं
चाख्यानं श्रुतिशेखरोत्तमपदैः श्रुत्वैव तुष्टो भव ॥ ३५॥
पुण्यैः परं शिवरहस्यमधु प्रकृष्ट-
मीशास्यपङ्कजवरात् परिनिःसृतं यत् ।
पेपीय षड्वदनषट्चरणात् सुगन्धि
सन्यस्यति प्रकथयन्गणविप्रसङ्घे ॥ ३६॥
श्रुत्वेदं पुरुषार्थसारनिगमोपात्तं प्रकृष्टार्थदं
भक्त्याख्यानमनोहरं वरचतुर्थांशं रहस्यं शिवम् ।
सम्प्राप्नोति गणेन्द्रमुख्यपदवीं किं कामनाभिः परं
नाम्ना शङ्करनामकोऽयमतुलो भक्त्यामृणोद्यो नरः ॥ ३७॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये गन्धर्वसुतण्डुप्रभृतिभिः शिवाराधनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ३५ । १-३७॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 35 . 1-37..
Notes: Skanda स्कन्द and Sūta सूत narrate; that Śiva शिव is severally worshiped and eulogized at various Śiva Kṣetra-s शिव kShetra by Gandharvā-s गन्धर्वाः, Viśvavasu विश्ववसु, Taṇḍu तण्डु, Aśvina twins अश्विनौ, Maruta मरुत, Ādityā-s आदित्याः, Ekādaśa (11) Rudrā-s एकादश रुद्राः, Pitṛ-s पितृ, Navagraha नवग्रह. In this Chapter 35 अध्यायः ३५, that concludes the 4th Aṃśa चतुर्थांशः of Śiva-Rahasyam शिवरहस्यम्, Sūta सूत outlines the merit of listening and learning from the same.
Proofread by Ruma Dewan