देवैः कृता शिवस्तुतिः
शरदिन्दुकरातिसुन्दरं गिरिजाधारमनोहरं हरम् ।
गिरिराजकुमारिकावरं कलये शङ्करमिन्दुशेखरम् ॥ २३॥
शरणागतवज्रपञ्जरं परमध्यात्मरतं परात्परम् ।
करुणारससारसागरं कलये शङ्करमिन्दुशेखरम् ॥ २४॥
अमरप्रवरं महेश्वरं रुचिरोरुस्मरहारकन्धरम् ।
त्रिपुरासुरमारसंहरं कलये शङ्करमिन्दुशेखरम् ॥ २५॥
मनसा वचसापि कर्मणा शिवमस्मत्कुलदैवतं मुदा ।
कलये पुनरेव सादरं गिरिजावल्लभमिन्दुशेखरम् ॥ २६॥
न जनिर्न जरा मृतिव्यथा कथमप्यर्धशशाङ्कशेखरे ।
स्मृतिमार्गगते गतागतैः कलये शङ्करमिन्दुशेखरम् ॥ २७॥
करुणाकर शङ्करेति वा हर शम्भो भगवन् शिवेति वा ।
वृषभेश्वरकेतनेति वा कलये शङ्करमिन्दुशेखरम् ॥ २८॥
त्रिदशाधिप भूतिभूषण त्रिपुरारे मुरवैरिपूजिताने ।
कुरु मामकतामतिं क्षणं मयि नित्यं कलये महेश्वरम् ॥ २९॥
कलिकालभयापहं मुदा गिरिजाकामुकमेकमेकदा ।
कलये कलये पुनः पुनः कलये कौतुकहेतुकं शिवम् ॥ ३०॥
शिव इत्यनुवेलपादरात् अनुवारं गिरिजामनोहरम् ।
कलये खलु कालकाल मां दयया केवलया विलोकय ॥ ३१॥
नवकोमलबिल्वपल्लवैः कमलैरप्यमलैरनुक्षणम् ।
विषमेक्षणमर्चयाम्यहं कलये शङ्करमिन्दुशेखरम् ॥ (अतिरिक्त श्लोकः)
॥ इति शिवरहस्यान्तर्गते देवैः कृता शिवस्तुतिः सम्पूर्णा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २५। २३-३१ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 25. 23-31 ..
Proofread by Ruma Dewan