स्कन्दकृता देवीस्तुतिः
नौमि स्तौमि जगत्प्रसादघटनासंस्थानसम्पादितां
लोकालोकनतत्परां भगवतीं मायां महेशाश्रयाम् ।
विष्णुब्रह्ममरुद्गणेश्वरमहासाम्राज्यदानक्षमा-
मीशाङ्काधिकृतां प्रसादमुखरां कायेन वाचा सदा ॥ १३॥
इन्दुकुन्दकरिमत्तजबिम्बस्फारधारविजिताखिलवृन्दाम् ।
नीलमेघनलिनामलकान्तिं केसरीन्द्रवरभूधरकूर्माम् ॥ १४॥
वक्त्रदन्तगमनाधरकेशैर्लोचनेन जघनेन कुचाभ्याम् ।
पादपङ्कजरजःपरिभूता नागयक्षसुरमानवकन्याः ॥ १५॥
अम्बामम्भोरुहाक्षीं सकलसुरकदम्बैकशालिमपूर्णां
काशीशेशान्नपूर्णा विधिहरिहरसत्संस्तुतां भर्गकान्ताम् ।
शान्तां शान्तान्तरङ्गां भजदघपटलीव्यालनागान्तकान्तां
कान्तान्देवस्य देवीमगवरवरजान्नौमि चिन्नित्यसंस्थाम् ॥ १६॥
नलिनजवनितापद्मसंस्थाकरस्थैः ।
विधिवहगरुदाभैश्चामरैर्वीज्यमानां शशिमुखनिजभर्तुर्भार्यया छत्रवत्या ।
सितनभसटसिह्मस्कन्धसिह्मासनस्थां गजमुखशिखिवाहप्रेमजानन्ददृष्टिम् ॥
रक्तबीजतुरगारिधूम्रजाचामरारिवरशुम्भनिशुम्भान् ।
चण्डमुण्डवरभण्डजमुण्डैराजिभूमिकमलैरिवदेवी ॥ १८॥
कोदण्डाकृष्टदण्डोच्चलितवरशरासारधारादिभिर्या
तस्तारामरवीरसंस्तुतपदा सा पातु नश्श्रेयसे ॥ १९॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये स्कन्दकृता देवीस्तुतिः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १० । १३-१९॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 10 . 13-19..
Notes:
Encoded and proofread by Ruma Dewan