श्रीभृङ्गीस्तवः
शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते
भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक ।
शर्वोग्राभय भर्ग भीम जगतां नाथाक्षर श्रीनिधे
रुद्रेशान महेश्वरेश्वर महादेवेश तुभ्यं नमः ॥ १॥
स्वामिन् सर्वजगद्गुरो हर महालीलाक्षमक्षेत्रस-
च्चिद्रूपाखिलभव्यभूतभवतां नाथ प्रपन्नार्तिहन् ।
पापघ्नाशुभदुःखपाशभयहृद्भक्तेष्टद ज्ञानद
श्रीदातर्क्य षडङ्गमोक्षद महायोगीश तुभ्यं नमः ॥ २॥
क्रूरं कष्टतमं विनष्टमनसं भ्रष्टं शठं निष्ठुरं
निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशिनं हिंसकम् ।
आशापाशशतप्रबद्धमनसं दुष्कीर्तिभाजं जडं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३॥
मूर्खं बालमतं स्वधर्मचलितं धर्मार्थहीनं खलं
कामान्धं क्षणिकं कदर्थनपरं दौःशील्यजन्मस्थलम् ।
अज्ञं लुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥
क्षुद्रं दुर्भगमल्पसत्त्वमलसं भग्नव्रतं रागिणं
भीरुं डाम्भिकमीर्ष्यकं व्यसनिनं पापात्मकं सूचकम् ।
आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं (हतधियं)
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥
आकाङ्क्षाश्रयमार्यवृत्तिविमुखं क्षीणं गुणद्वेषिणं
धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् ।
हीनं पापरतं समस्तविषयेष्वासक्तमन्यायिनं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ६॥
अश्रद्धं गतपौरुषं कुपथगं जाज्वल्यमानं रुषा
संसारार्णवमग्नमूर्मिनिहतं नीचक्रियं निर्दयम् । (ऊर्मितरलं, नीचप्रियं)
वैराग्यव्रतदानयोगनियमद्वेष्टारमुन्मादिनं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ७॥
द्वन्द्वग्रस्तमशस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं
दुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् ।
शैवज्ञानपराङ्मुखं खलजनव्यापारपारङ्गतं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ८॥
स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं
ध्यानध्येयविचराणाकुलरिपुं तुच्छं मदोच्छृङ्खलम् ।
दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्याश्रयं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ९॥
दुर्मर्यादमतिप्रवृद्धरजसं सद्वृद्धसेवारिपुं
सद्धर्माद्यसमुत्सुकं गुरुजने मान्येषु चात्युद्धतम् । (सद्धर्मेष्वसमुत्सुकं)
शिष्टानिष्टकरक्रियापरिचितं दुष्टप्रतुष्टिप्रदं (दुष्टस्य तुष्टि)
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १०॥
आत्मातिस्तुतिकारिणं परमहानिन्दाकरं निन्दितं
लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् ।
वैफल्योपगतस्वकार्यनिचयं सर्वापदां सञ्चयं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ११॥
कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महा पातकं (महा वञ्चकम्)
दुर्बुद्धिं मदमानमत्सरनिधिं दुर्वृत्तिवृत्त्याश्रयम् ।
मिथ्याज्ञानिनमार्यकण्टकमलं लोकद्वये दुःखितं (लोकत्रये दूषितम्)
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १२॥
दुष्कर्मप्रचयप्रभिन्नहृदयं क्लेशैश्च सम्पीडितं
(प्रचये प्रहृष्ट, सम्पिण्डितं)
चार्वाकं कुमतिं कुचेलमलसं कार्पण्यजन्मस्थलम् । (कुचेलमलिनं)
भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यच्युतं (धैर्यद्विषं)
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १३॥
चित्तक्षोभकरं कलङ्कहृदयं शोकास्पदं लोलुपं
सारासारविचारहीनमनसं नीचप्रियं नीरसम् ।
मत्तोन्मत्तनिकृष्टकष्टचरितं शून्यं वृथालापिनं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १४॥
आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं
सङ्कल्पैर्बहुभिर्वि भिन्नहृदयं दैत्य(न्य)प्रसक्तं सदा ।
मर्मच्छिद्वचनं कठोरहृदयं मित्रद्रुहं चुम्बकं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १५॥
वेदोक्ताचरणे शिगा(ध्रुगा)त्मचरितं स्वेच्छाप्रवृत्तिं सदा
सच्छास्त्रेष्वपरागिणं प्रियतमालक्ष्मीगुणैर्वेष्टितम् ।
दाक्षिण्यप्रतिपन्नताविरहितं स्वार्थैकनिष्ठं सदा
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १६॥
सत्यत्यागदयाक्षमाशमदमाद्यार्थानभिज्ञात्मकं
देवब्राह्मणगोत्रजातिथिपितृज्ञानात्मकापूजकम् ।
विश्वस्तेष्वपकारवञ्चनपरं मैत्रीरिपुं दुर्जनं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १७॥
कृत्वाधर्ममतिं कथञ्चिदपरः को मत्समोऽस्मिन् भवे-
दित्येवं बहुजल्पिनं कुपुरुषं भ्रान्त्याश्रयं राक्षसम् । (भ्रान्या स्थितं)
दृष्टादृष्टसुखैषिणं बत मुधा मुक्त्वा शिवाराधनं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १८॥
मार्जाराखुबकश्वकुक्कुटकपिक्रोडाहिवृत्तिं सदा
तीर्थध्वाङ्क्षमनर्थकं परसुखे सन्तापिनं दुःसहम् ।
त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १९॥
अस्पृश्यं विकलं कदर्यमखिले दोषे स्वकीये गुणं
पश्यन्तं चलमात्मकार्यनिरतं त्याज्यं विषादात्मकम् ।
चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २०॥
दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं
डासी(दासी)मेषखरस्वभावमपटुं सन्माननाभाजनम् ।
रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदा (तिक्तं बालक)
कारुण्याकर भो पितः पशुपते दोषाकरं पाहिमाम् ॥ २१॥
कर्माख्यालघुभारवाहनपशुं तृष्णातृणग्राहिणं (दुष्कार्यालघु)
संसारार्णवदुःखपङ्कपतितं यान्तं त्वधोऽधो भृशम् ।
स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदा
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २२॥
भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं
सम्भ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् ।
शम्भो त्वत्पदभक्तिहीनमदृढं सम्मूढमात्मद्विषं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २३॥
ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितं
स्वप्नेऽप्यल्पपरोपकाररहितं सर्वाहितं दुर्बलम् ।
लोके सत्परिहार्यनिन्दितमहादुःखप्रदैकक्रियं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २४॥
किं वाचां बहुविस्तरेण भगवन् मत्सन्निभो भूतले
नाभून्नास्ति च नो भविष्यति पुमान्निर्भाग्यचूडामणिः ।
तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्यचूडामणे
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २५॥
सर्वश्रेष्ठ गुणैकभाजन विभो सर्वोत्तमेषूत्तमा-
सङ्ख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् ।
श्रीशाश्रीशमतीन्द्रियेन्द्रियवशं निःसङ्ग दुःसङ्गिनं
(श्रीशं, अतीन्द्रिय, निस्सङ्ग, इमानि सम्बोधनानि)
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २६॥
विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं
दुर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् ।
दृष्ट्वापि स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २७॥
त्वक्शुक्लान्त्रसिरातनूरुहमयं कालास्यरन्ध्रस्थितं
नानापायपतिष्णुकालशिखिना पापच्यमानं भृशम् ।
दृष्ट्वापि स्वकलेवरं कृशतरं तत्राविरिक्तं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २८॥
विष्ठामूत्रयुतं त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं
कुष्टक्षैण्यविषूचिकाज्वरशिरःशूलादिरोगास्पदम् ।
ज्ञात्वापि स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २९॥
पङ्गुत्वान्ध्यजरित्वमौर्ख्यखलताबाधिर्यजन्मस्थलं
क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् ।
सम्पश्यन्नपि दोषमत्र तु सदा सम्प्रीतियुक्तं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३०॥
देहं क्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा
छन्नक्लिन्नमहाव्रणं नवमुखैर्नित्यं स्रवन्तं मलम् ।
तं दृष्ट्वाप्यविरागिणं च नरके नूनं सरागं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३१॥
लोकेऽत्यन्तपवित्रतामुपगतं यत्पञ्चगव्यादिकं
यद्देहांशकमस्थिरोमरुधिरस्नाय्वादिसंस्पर्शतः ।
स्यादेवाशुचि तद्विबुध्य च सदा तद्देहसक्तं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३२॥
आत्माधारतया स्थितां निजतनुं बाल्ये तथा यौवने
वृद्धत्वेऽपि बहुप्रकारविकृतिं प्राप्तां समीक्ष्यापि च ।
तत्रानात्मविरागिणं ह्यविकृते स्वात्मन्यसक्तं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३३॥
स्वस्यायुर्निचयस्य मध्यत इमौ नित्यं निशावासकां(वासरौ)
जाग्रत्स्वप्नसुषुप्तिषु स्थितिमतोऽवस्थात्रये खण्डशः ।
गच्छन्ताववबुध्य च स्वहितसत्कर्मण्यसक्तं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३४॥
शुद्धान्नस्य निजास्यरन्ध्रत इहान्वास्य द्रवेणाधरे(?)
विण्मूत्रान्त्रकफासृगाद्यशुचिनिक्षेपो भवेद्भोजनम् ।
स्त्रीसङ्गोऽशुचिवर्गलेपनमहो तत्रापि रक्तं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३५॥
सर्पिःखण्डपयोमधुप्रभृतिकं त्यक्त्वा तृणान्यत्ति गौ-
र्यद्वच्छाश्वतशान्त उत्तम(न्तिदोत्तम) महानन्दानपेक्षं तथा ।
शम्भो वैषयिके सुखेऽतिविरसे तुच्छेऽतिसक्तं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३६॥
देवानामपि मारुतस्य च विभो गम्यं न यत्तत्र च
स्वैरं गच्छति मन्मनो न हि कदाचिद्वा तव श्रीपते ।
धर्तुं तच्च नियन्तुमत्र सुखदे नैवासमर्थं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३७॥
गुह्ये कुङ्कुमगन्धकाङ्क्षिणमहो तोयार्थिनं वा मरौ
तैलान्वेषिणमश्मचूर्णनिचये मैत्र्यर्थिनं दुर्जने ।
निर्बुद्धिं त्रिगुणात्मके मलविधौ क्षेत्रे सुखेप्सुं पशुं (?)
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३८॥
वेदैरप्यखिर्लैमहेश बहुशो वेदान्तशास्त्रादिभि-
र्व्यापी चिन्मय एक ईश्वर इति प्रोक्तेऽत्र यत्त्वत्पदे ।
चित्तं धर्तुमशक्तमाप्तवचने विश्वासहीनं पशुं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३९॥
बुद्धिज्ञानदयाक्षमाशमदमासम्मोहयत्वा(त्ना)र्जव-
ख्यात्यख्यातिभयाभयासुखसुखाहिंसादयस्तुष्टयः ।
भूतानां तु भवत्त एव विविधा नित्यं भवन्ति प्रभो
कारुण्याकर भो पितः पशुपते दोषाकरं पाहिमाम् ॥ ४०॥
भावाभावभवाभवामृतविषासत्याः समस्ताः(विषाःसत्या असत्याः)क्रियाः
दीर्घायुष्यनिरामयत्वनिखिलाभीष्टार्थसंसिद्धयः ।
भूतानां भवदिच्छयैव भगवन् जायन्त एव प्रभो
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४१॥
योगैश्वर्यसमस्तदाननिरता(तिः) श्रद्धात्मभक्तिर्दृढा
वैराग्यं परमं महेश परमे धर्मे रतिश्चारुता ।
भूतानां भवतः प्रसादत इहाजस्रं भवन्ति प्रभो
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४२॥
वायुर्वापि(ति)तवाज्ञया शशिरवी नित्यं जगद्भासका-
वाहारं पचतीह कुक्षिसदने वह्निः सदा प्राणिनाम् ।
देवानां वहतीह हव्यमपि यः पाकं करोत्याज्ञया
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४३॥
ब्रह्माद्यास्तृणनिग्रहा इह महाभूतानि ते शासनात्
कुर्वन्त्यत्र समस्तदेहनिकरे प्रायस्तवाज्ञाबलात् ।
तिष्ठन्त्यध्यवसायमर्थनिकरे बुद्धिः करोत्याज्ञया
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४४॥
चित्तं चेतयते मनस्तु सकलं सङ्कल्पयत्याज्ञया
सर्वार्थानभिमन्यते तव महादेवाज्ञयाहङ्कृतिः ।
स्वेष्वेवेन्द्रियवर्ग एष विषयेष्वास्ते तवैवाज्ञया
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४५॥
ब्रह्मा सृष्टिकरो हरिः स्थितिकरो रुद्रस्तु कालात्मकः
संहर्ता जगतां श्रियं वितरति श्रीर्ब्रह्मविद्यामुमा ।
सावित्री च तवाज्ञयैव नरकात् सन्तारयत्याश्रितान्
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४६॥
कालं(नालं)चालयितुं तृणं च पवनः शम्भो त्वदाज्ञां विना
दग्धुं तन्न समर्थ एव दहनश्छेत्तुं तु वज्रेण तत् ।
शक्तो गोत्रभिदप्यहो जगदिदं सर्वं त्वदाज्ञावशं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४७॥
सेन्द्राः सर्वसुरासुरादय इह त्वच्छासने संस्थिताः
ब्रह्माण्डादिसमस्तवस्तुनिकरैः साधारणैः सन्ततम् ।
त्रैलोक्यानुगतान्यपीह सुबहून्याज्ञावशान्येव ते
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४८॥
भूतान्याप इहाज्ञयैव भवतः सञ्जीवयन्ति प्रभो
वाचं वाग्विपुलां दधाति जगतां धत्तेऽखिलं भूर्नभः ।
भूतानामवकाशदं जलधयो निम्ने स्थिता दुःसहाः
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४९॥
सूतेऽसौ महदादिकं प्रकृतिरप्याज्ञावशात्ते विभो
कालश्च प्रकृतिः परा पुरुष इत्येतद्धि सर्वं सदा ।
शम्भो देव भवत्त एव जगतो भूतं भविष्यद्भवत्
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ५०॥
त्वन्मायातिविमोहितं भव महालीलार्थमेतत्त्वया-
त्तं त्वत्प्रेरणयैव सर्वविषयेष्वत्र प्रवृद्धिं(द्धं) च तत् ।
पापध्वान्तरवे समस्तजगतां दुःखान्तकारिन् प्रभो
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ५१॥
बन्धच्छेदविधौ त्वमेव भुवनेष्वेकः समर्थो ध्रुवं
तत्पाशैर्भव दैव(भवतैव)बद्धमखिलं कर्मच्छलेनापि च ।
शम्भो त्वच्छरणागतं करुणया त्वं शङ्करो येन वा
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ५२॥
अत्यावेशिनमुत्तमस्थितिमतां सन्त्यागिनं नास्तिकं
रन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः ।
माहात्म्यश्रवणस्तुतीक्षणविधौ माहेश्वरावत्सलं
कारण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ५३॥
॥ इति श्रीभृङ्गीस्तवः सम्पूर्णः ॥
Proofread by Aruna Narayanan