ऋभुप्रोक्तं स्वात्मनिरूपणम्
(स्वात्मानि स्वयमेव)
स्वयमेव स्वयम्भास्यं स्वयमेव हि नान्यतः ।
स्वयमेवात्मनि स्वस्थः इत्येवं मन्त्रमुत्तमम् ॥ ९.४५॥
स्वयमेव स्वयं भुङ्क्ष्व स्वयमेव स्वयं रमे ।
स्वयमेव स्वयञ्ज्योतिः स्वयमेव स्वयं रमे ॥ ९.४६॥
स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येवावलोकये ।
स्वात्मन्येव सुखेनासि (स्म)इत्येवं मन्त्रमुत्तमम् ॥ ९.४७॥
स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखं रमे ।
स्वात्मसिंहासने तिष्ठे इत्येवं मन्त्रमुत्तमम् ॥ ९.४८॥
स्वात्ममन्त्रं सदा पश्यन्स्वात्मज्ञानं सदाऽभ्यसन् । ९।४९(१)
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं स्वात्मनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ९ । ४५-४९(१) ॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 9 . 45-49(1) ..
Notes :
There is numbering error in the source text from shloka 43 onwards.
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan