ऋभुप्रोक्तं सर्वब्रह्मत्वप्रकरणनिरूपणम्
(इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं)
आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः ।
इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥ ९.२॥
परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् ।
इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥ ९.३॥
केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ।
केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहम् ॥ ९.४॥
केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.५॥
केवलं सर्वरूपोऽहं अहन्त्यक्तोऽहमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.६॥
सर्वहीनस्वरूपोऽहं चिदाकाशोऽहमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.७॥
केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.८॥
सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.९॥
केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१०॥
केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.११॥
केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१२॥
सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१३॥
सदा ह्येकस्वरूपोऽस्मि सदाऽनन्योऽस्म्यहं सुखम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१४॥
अपरिच्छिन्नरूपोऽहं अनन्तानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१५॥
सत्यानन्दस्वरूपोऽहं चित्परानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१६॥
अनन्तानन्दरूपोऽहमवाङ्मानसगोचरः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१७॥
ब्रह्मानदस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१८॥
आत्ममात्रस्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१९॥
आत्मप्रकाशरूपोऽस्मि आत्मज्योतिरसोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२०॥
आदिमध्यान्तहीनोऽस्मि आकाशसदृशोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२१॥
नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२२॥
नित्यसम्पूर्णरूपोऽस्मि नित्यं निर्मनसोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२३॥
नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२४॥
नित्यशब्दस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२५॥
रूपातीतस्वरूपोऽस्मि व्योमरूपोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२६॥
भूतानन्दस्वरूपोऽस्मि भाषानन्दोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२७॥
सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२८॥
देहभावविहीनोऽहं चित्तहीनोऽहमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२९॥
देहवृत्तिविहीनोऽहं मन्त्रैवाहमहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३०॥
सर्वदृश्यविहीनोऽस्मि दृश्यरूपोऽहमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३१॥
सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३२॥
इदं ब्रह्मैव सर्वस्य अहं चैतन्यमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३३॥
अहमेवाहमेवास्मि नान्यत्किञ्चिच्च विद्यते ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३४॥
अहमेव महानात्मा अहमेव परायणम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३५॥
अहमेव महाशून्यमित्येवं मन्त्रमुत्तमम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३६॥
अहमेवान्यवद्भामि अहमेव शरीरवत् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३७॥
अहं च शिष्यवद्भामि अहं लोकत्रयादिवत् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३८॥
अहं कालत्रयातीतः अहं वेदैरुपासितः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३९॥
अहं शास्त्रेषु निर्णीत अहं चित्ते व्यवस्थितः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४०॥
मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च या ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४१॥
मयातिरिक्तं तोयं वा इत्येवं मन्त्रमुत्तमम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४२॥
अहं ब्रह्मास्मि शुद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ।
निर्गुणोऽस्मि निरीहोऽस्मि इत्येवं मन्त्रमुत्तमम् ॥ ९.४३॥
हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्म्यहम् ।
केवलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥ ९.४४॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं अहं ब्रह्मास्मि प्रकरणनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ९ । २-४४॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 9 . 2-44..
Notes :
There is numbering error in the source text from shloka 43 onwards.
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan