ऋभुप्रोक्तं सच्चिदानन्दरूपत्वनिरूपणम्
(ब्रह्मैव सच्चिदानन्दम्)
ब्रह्मैव सच्चिदानन्दं ओतप्रोतेव तिष्ठति ।
ब्रह्मैव सच्चिदानन्दं सर्वाकारं सनातनम् ॥ ३३.२६॥
ब्रह्मैव सच्चिदानन्दं परमानदमव्ययम् ।
ब्रह्मैव सच्चिदानन्दं मायातीतं निरञ्जनम् ॥ ३३.२७॥
ब्रह्मैव सच्चिदानन्दं सत्तामात्रं सुखात्सुखम् ।
ब्रह्मैव सच्चिदानन्दं चिन्मात्रैकस्वरूपकम् ॥ ३३.२८॥
ब्रह्मैव सच्चिदानन्दं सर्वभेदविवर्जितम् ।
सच्चिदानन्दं ब्रह्मैव नानाकारमिव स्थितम् ॥ ३३.२९॥
ब्रह्मैव सच्चिदानन्दं कर्ता चावसरोऽस्ति हि ।
सच्चिदानदं ब्रह्मैव परं ज्योतिः स्वरूपकम् ॥ ३३.३०॥
ब्रह्मैव सच्चिदानन्दं नित्यनिश्चलमव्ययम् ।
ब्रह्मैव सच्चिदानन्दं वाचावधिरसावयम् ॥ ३३.३१॥
ब्रह्मैव सच्चिदानन्दं स्वयमेव स्वयं सदा ।
ब्रह्मैव सच्चिदानन्दं न करोति न तिष्ठति ॥ ३३.३२॥
ब्रह्मैव सच्चिदानन्दं न गच्छति न तिष्ठति ।
ब्रह्मैव सच्चिदानन्दं ब्रह्मणोऽन्यन्न किञ्चन ॥ ३३.३३॥
ब्रह्मैव सच्चिदानन्दं न शुक्लं न च कृष्णकम् ।
ब्रह्मैव सच्चिदानन्दं सर्वाधिष्ठानमव्ययम् ॥ ३३.३४॥
ब्रह्मैव सच्चिदानन्दं न तूष्णीं न विभाषणम् ।
ब्रह्मैव सच्चिदानन्दं सत्त्वं नाहं न किञ्चन ॥ ३३.३५॥
ब्रह्मैव सच्चिदानन्दं परात्परमनुद्भवम् ।
ब्रह्मैव सच्चिदानन्दं तत्त्वातीतं महोत्सवम् ॥ ३३.३६॥
ब्रह्मैव सच्चिदानन्दं परमाकाशमाततम् ।
ब्रह्मैव सच्चिदानन्दं सर्वदा गुरुरूपकम् ॥ ३३.३७॥
ब्रह्मैव सच्चिदानन्दं सदा निर्मलविग्रहम् ।
ब्रह्मैव सच्चिदानन्दं शुद्धचैतन्यमाततम् ॥ ३३.३८॥
ब्रह्मैव सच्चिदानन्दं स्वप्रकाशात्मरूपकम् ।
ब्रह्मैव सच्चिदानन्दं निश्चयं चात्मकारणम् ॥ ३३.३९॥
ब्रह्मैव सच्चिदानन्दं स्वयमेव प्रकाशते ।
ब्रह्मैव सच्चिदानन्दं नानाकार इति स्थितम् ॥ ३३.४०॥
ब्रह्मैव सच्चिदाकारं भ्रान्ताधिष्ठानरूपकम् ।
ब्रह्मैव सच्चिदानन्दं सर्वं नास्ति न मे स्थितम् ॥ ३३.४१॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सच्चिदानन्दरूपत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ३३। २६-४१॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 33. 26-41..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan