ऋभुप्रोक्तं प्रपञ्चस्य सर्वमनोमयत्वनिरूपणम्
(मन एव हि सर्वम्)
मन एव जगत्सर्वं मन एव महारिपुः ॥ ८.६३(२)॥
मन एव हि संसारो मन एव जगत्त्रयम् ।
मन एव महादुःखं मन एव जरादिकम् ॥ ८.६४॥
मन एव हि कालं च मन एव मलं सदा ।
मन एव हि सङ्कल्पो मन एव हि जीवकः ॥ ८.६५॥
मन एवाशुचिर्नित्यं मन एवेन्द्रजालकम् ।
मन एव सदा मिथ्या मनो वन्ध्याकुमारवत् ॥ ८.६६॥
मन एव सदा नास्ति मन एव जडं सदा ।
मन एव हि चित्तं च मनोऽहङ्कारमेव च ॥ ८.६७॥
मन एव महद्बन्धं मनोऽन्तःकरणं क्वचित् ।
मन एव हि भूमिश्च मन एव हि तोयकम् ॥ ८.६८॥
मन एव हि तेजश्च मन एव मरुन्महान् ।
मन एव हि चाकाशो मन एव हि शब्दकः ॥ ८.६९॥
मन एव स्पर्शरूपं मन एव हि रूपकम् ।
मन एव रसाकारं मनो गन्धः प्रकीर्तितः ॥ ८.७०॥
अन्नकोशं मनोरूपं प्राणकोशं मनोमयम् ।
मनोकोशं मनोरूपं विज्ञानं च मनोमयः ॥ ८.७१॥
मन एवानन्दकोशं मनो जाग्रदवस्थितम् ।
मन एव हि स्वप्नञ्च मन एव सुषुप्तिकम् ॥ ८.७२॥
मन एव हि देवादि मन एव यमादयः ।
मन एव हि यत्किञ्चिन्मन एव मनोमयः ॥ ८.७३॥
मनोमयमिदं विश्वं मनोमयमिदं पुरम् ।
मनोमयमिदं भूतं मनोमयमिदं द्वयम् ॥ ८.७४॥
मनोमयमियं जातिर्मनोमयमयं गुणः ।
मनोमयमिदं दृश्यं मनोमयमिदं जडम् ॥ ८.७५॥
मनोमयमिदं यद्यन्मनो जीव इति स्थितम् । ८।७६(१)
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं प्रपञ्चस्य सर्वमनोमयत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ८ । ६३(२)-७६(१) ॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 8 . 63(2)-76(1) ..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan