आत्मनाथध्यानम्
दशशतदलपद्मे संस्थमानन्दकन्दं
विधिहरिगिरिशैक्यं विद्युदुद्भासमानम् ।
प्रणवमयमतर्क्यं सूक्ष्मसूक्ष्मं महान्तं
शिवपुरनिलयं तं चिन्तयाम्यात्मनाथम् ॥
आदौ धातृहरीश्वरस्थितिकरी वेदागमोद्धारिणी
योगाध्वादिरताऽद्रिजेप्सितकरीक्षाऽदेवसंहारिणी ।
सन्दिग्धावनिनिश्चये नृपतये वाजीप्रदात्री शिवैः
क्रीडन्ती द्विजभक्तिमुक्तिघटिनी ह्यात्मेशलीलागतिः ॥
इति आत्मनाथध्यानं सम्पूर्णम् ।
Proofread by Aruna Narayanan