श्रीमद्रामायणसारश्रीरामस्तोत्रम्
ॐ
श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
नमः श्रीत्यागराजाय मदाचार्यवराय च ।
श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥
ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि ।
तन्नो रामः प्रचोदयात् ॥
अथ श्रीमद्रामायणसारश्रीरामस्तोत्रम् ।
श्रीरामप्रेमरूपाय रामायणसुगीतये ।
त्यागब्रह्मगुरुस्वामिसत्पादाय नमो नमः ॥ १॥
श्रीत्यागब्रह्मगेयाय श्रीसीताराममूर्तये ।
श्रीमानसाब्धिसोमाय श्रीराघवाय ते नमः ॥ २॥
निर्गुणब्रह्मरूपाय नरोत्तमावतारिणे ।
गुणास्पदाय गुण्याय रघुश्रेष्ठाय ते नमः ॥ ३॥
सीतां श्रीरामपत्नीं च श्रीलक्ष्मीं जनकात्मजाम् ।
गङ्गीभूतसुपावित्र्यां श्रीमातरं नमाम्यहम् ॥ ४॥
कारुण्यवीक्षितां सत्त्वां माधुर्यतमभाषिणीम् ।
सङ्गीतसुस्वरां सीतां श्रीमातरं नमाम्यहम् ॥ ५॥
तप्तजाम्बूनदाभां तां तपनोभूततापसीम् ।
तापत्रयाग्निशाम्यां सां श्रीमातरं नमाम्यहम् ॥ ६॥
तेजोजितक्षपानाथां क्षितिजां क्षान्तिविग्रहाम् ।
त्यागराजनुतां श्रेष्ठां वन्दे रामसतीं वराम् ॥ ७॥
सर्वमङ्गलसम्पन्नां सर्वभव्यगुणाश्रयाम् ।
सर्वमङ्गलधात्रीं च श्रीमातरं नमाम्यहम् ॥ ८॥
रामो ब्रह्मस्वयंजातो भावनावो भवापहः ।
नामतारकसत्सारो रामो रक्षतु मां सदा ॥ ९॥
श्रीमन्नारायणोविष्णुर्भूतलावतराव्ययः ।
रामायणमहाकाव्यनाथश्रीरामचन्द्रसः ॥ १०॥
अखिलाधारमूलश्च अवाङ्मानसगोचरः ।
अखिलाण्डैकनाथश्च अखिलाशरदाशुगः ॥ ११॥
दुराप आप्तसौलभ्यो दुरितेभहरिर्हरिः ।
दूरीकृताघसङ्घातो दूरपारकृपोदधिः ॥ १२॥
मानवावतराव्यक्तः पक्षिवानरसेवितः ।
चिरकालधरापालो विदुसाधुसुवन्दितः ॥ १३॥
जन्ममृत्युजरावर्जो जगदारामरामकः ।
जगदुद्धारणातुल्यो जयरामो जयावहः ॥ १४॥
देवतासार्वभौमश्च देवादिमार्गिताच्युतः ।
देवाधिदेवभूजापो दीनमानवरक्षकः ॥ १५॥
लीलावतारपूज्यश्च लीलाचतुरमोहनः ।
लोकधारी त्रिलोकाप्तस्त्रिलोकसन्नुतोत्तमः ॥ १६॥
मोहदारी सुहृन्मोहो मोहकारी च मोक्षकः ।
मोहनाकाररामश्च मौनिराजसुपूजितः ॥ १७॥
गुणसान्द्रो गुणातीतो गरदाशनवाहनः ।
गतकामसुहृत्कामो गतमोहातिमोहितः ॥ १८॥
दशावतारलीलश्च दशाननारिरामसः ।
दाशरथ्यतिसौलभ्यो दासमानससंरमः ॥ १९॥
परिपूर्णावतारश्च परिपूर्णमनोरथः ।
परिपालितसद्भक्तः पार्वतीरमणप्रियः ॥ २०॥
दक्षशिक्षकसन्नूतो दान्तरक्षणसुव्रतः ।
दासार्तिशामनाप्तश्च दानवासुरभेदनः ॥ २१॥
गङ्गाजनकगम्भीरो बदरीधामपावनः ।
प्रकृत्यद्भुतरूपश्च दीक्षागुरुर्मनःस्थलः ॥ २२॥
भागीरथ्यलकानन्दासङ्गमस्थलसालयः ।
रघुनाथः ससीतश्च गङ्गाभिमुखसालयः ॥ २३॥
देवप्रयागदैवश्च पुण्यस्थलसुकीर्तितः ।
पुराणालयसंस्थश्च पुराणः पुरुषोत्तमः ॥ २४॥
साधुमानससञ्चारः साधुसज्जनसन्नुतः ।
साकेतपुरिसंजातः सामादिनिगमाश्रितः ॥ २५॥
भुक्तिमुक्तिदलीलश्च मनोगुप्तसुनामकः ।
भवाब्धितारणोपायो मन्त्रतारकगुप्तसः ॥ २६॥
नामतारकसत्सारो रूपतारकसद्गुणः ।
नामरूपातिशायी च तारणार्थभवायनः ॥ २७॥
तारकाद्भुतचारित्रस्तारकानदनामकः ।
तारकारम्यरूपश्च तारकानन्दरामकः ॥ २८॥
तारकानन्दसन्नामधेयसारसुकीर्तितः ।
तारकाधिपवक्त्रश्च तारागणस्फुरत्स्मितः ॥ २९॥
भानुवंशललामाजः श्रीमद्दशरथात्मजः ।
कौसल्यादिव्यपुत्रश्च सर्वलक्षणसंयुतः ॥ ३०॥
सौमित्र्यनुजसुप्रीतः शत्रुघ्नभरताग्रजः ।
सर्वलोकसमिष्टश्च शशिपूर्णशुभाननः ॥ ३१॥
अकलङ्कमुखालोकः अब्जनेत्रःसुधावचः ।
अनर्घभूषणोरस्कः अमरार्चितपादसः ॥ ३२॥
अरुणोदयसङ्काशस्तरुणारुणसत्पदः ।
अर्णोदश्यामगात्राभः करुणारसपूरितः ॥ ३३॥
मन्दस्मितमुखाम्भोजः कुन्दकुड्मलदन्दशः ।
बिम्बोष्ठश्चारुवक्त्रश्च अतिलावण्यरामसः ॥ ३४॥
आजानुबाहुतेजस्वी अरविन्दाक्षशीकरः ।
अगश्रेष्ठातिगम्भीरः अजरुद्रादिसन्नुतः ॥ ३५॥
विधृतेषुधिकोदण्डो वीततामसराजसः ।
विधुकोटिशसम्भासो वागीशनुतराजसः ॥ ३६॥
कोदण्डपाणिविख्यातः काशीशनुततारकः ।
कुटिलालकलावण्यः कवीनहृदयालयः ॥ ३७॥
कपोलमुकुरो माप्त उमोमाप्ताप्तनामकः ।
कुमनोगणभीमश्च कुसुमाकरमण्डितः ॥ ३८॥
द्युत्ययुतविभाकोशो गमनद्विरदाद्भुतः ।
माधुर्यस्वरगाम्भीर्यो जितापघनसुस्वनः ॥ ३९॥
धर्मात्मधन्यधीरश्च धर्मपालनसुव्रतः ।
धर्मार्थकाममोक्षश्च धाराधराभविग्रहः ॥ ४०॥
दिव्यो दाशरथी दान्तो दिननाथान्वयाब्धिचः ।
दिव्यलावण्यशौर्यश्च दीनबन्धुर्धराधिपः ॥ ४१॥
साकेतराजकौमारः सर्वोन्नतगुणास्पदः ।
सत्यकामः सुशीलश्च सत्कारुण्यसुवैभवः ॥ ४२॥
मुनिभावितसत्यश्च मुनिमानसपूजितः ।
मुनिवन्दितरामश्च मुनिजीवनजीवनः ॥ ४३॥
रामः कौशिकमित्रश्च मुनियागसुपालनः ।
तरुणारुणसंदृश्यो मुनिपूजितसत्पदः ॥ ४४॥
पादस्पर्शजिताहल्याशापः पापविमोचनः ।
पादस्मरणपालश्च पापान्धपटभास्करः ॥ ४५॥
जितशङ्करचापश्च श्रीजानकीमनोहरः ।
सीताहृदब्जखद्योतः सीतारामो रघूत्तमः ॥ ४६॥
त्राणशौर्यसुबाणश्च जामदग्न्यमदापहः ।
जितरामो जिताप्तश्च सर्वानन्दकरः सुखः ॥ ४७॥
वीरो जनकजामाता जानकीप्राणनायकः ।
वरानन्दसुकन्दश्च मैथिलीमानसारमः ॥ ४८॥
कल्याणसुन्दराकारः कल्याणराजमोहनः ।
सीतामोहनरामश्च कल्याणरूपसच्छविः ॥ ४९॥
मातापित्रतिनन्दश्च अयोध्याजनमोदनः ।
श्याममेघशरच्चन्द्रनिभसीतासमेतसः ॥ ५०॥
एकवागेकपत्नीक एकबाणैकवीर्यवान् ।
एकतृष्णापहैकश्च एकवस्तुवपुर्धरः ॥ ५१॥
आत्मारामो जितात्मा च जितकामो जितेन्द्रियः ।
मानसारामरामश्च अभिरामः सुगारमः ॥ ५२॥
मृदुभाषः स्वरानन्दो माधुर्यपूर्णसुस्वरः ।
वाचस्पतिनुतो वाचो वाङ्मालिकासुभूषितः ॥ ५३॥
नामसुस्वरमाधुर्यो नामप्रभावतारकः ।
नामरामसुशब्दश्च रामो धर्मपराक्रमः ॥ ५४॥
त्यक्तपट्टाभिषेकश्च तातवाक्यसुपालनः ।
सीतानुगगतारण्यो लक्ष्मणानुजसेवितः ॥ ५५॥
गुहारामस्तपोभान्तस्तीर्णगङ्गो भवापहः ।
तापसार्चितसत्पादो भराजमुखशोभनः ॥ ५६॥
योगीन्द्रभावितात्मा च भरद्वाजर्षिसंस्तुतः ।
यमुनासङ्गतागङ्गापूतप्रयागपावनः ॥ ५७॥
चित्रकूटगिरिप्रस्थो वाल्मीकिऋषिदर्शितः ।
सौमित्रिनिर्मितारम्यपर्णशालसुवासितः ॥ ५८॥
सीतारामो वनारामः सौमित्रिसेवतोषितः ।
साधुचित्पद्मभाकोशः सीतावरानुजाश्रितः ॥ ५९॥
स्नातमन्दाकिनीसीतासहारामवनाश्रितः ।
अतिरम्यवनानन्दः सीतानुजसमेतसः ॥ ६०॥
भरताश्लिष्टमाहात्मा पादुकापूतकेकयः ।
नन्दिग्रामाभिषिक्तद्विपादुकायोध्यपालनः ॥ ६१॥
उत्सृष्टचित्रकूटश्च अनसूयात्रिसङ्गतः ।
दिव्यालङ्कृतभार्यश्च तापसाशीर्वचास्पदः ॥ ६२॥
सम्पूतदण्डकारण्यो हताशरः सुहृद्धितः ।
तापसार्तिविनाशश्च मुनिसन्नुतसत्सुखः ॥ ६३॥
पञ्चवट्यारमारामस्तपस्वी यतमानसः ।
पाटितासुरवृन्दश्च वृन्दारवृन्दवन्दितः ॥ ६४॥
खरदूषणसंहारो निशाचरहराव्ययः ।
वैदेहीहर्षसंश्लिष्टो वैदेहीभाग्यभव्यसः ॥ ६५॥
ऋषिदेवपरामोद ऋषिसङ्कुलसंस्तुतः ।
ऋषभारूढवन्द्यश्च ऋषिवेषमहायशाः ॥ ६६॥
तामसासुरसंहारस्तापसार्तिनिवारणः ।
तापसानन्दलीलश्च तापनीयारमारमः ॥ ६७॥
वारिजानननेत्रश्च वरवीरः शुभाकरः ।
वनमाली वरानन्दो वसुधातनयाप्रियः ॥ ६८॥
मायामारीचसम्पाटो मायातीतस्वरूपवान् ।
मायादारी महाबाहुर्मायाम्बुदसमीरणः ॥ ६९॥
लुप्तसीतामहाप्रेष्ठः क्षितिजान्वेषणायुतः ।
परित्यक्तजनस्थानस्त्यक्तपञ्चवटीतटः ॥ ७०॥
आसादितजटायुश्च आत्मबन्धुः सुभाषितः ।
भूजाहरणसन्देशक्रोधितासाध्यवीरसः ॥ ७१॥
जटायुमोक्षसंस्कारो राजाधिपो वनेचरः ।
जनाधारो जरापेतो राजीवलोचनापरः ॥ ७२॥
शबर्युपहृताशश्च शबरीभक्त्युपाश्रयः ।
शबरीमोक्षसाक्षी च सर्वसाक्षी दिनान्वयः ॥ ७३॥
पम्पातीरसुसञ्चारः पम्पापारसुसञ्चरः ।
ऋष्यमूकप्रतिप्रस्थो राजर्षिवेषतेजसः ॥ ७४॥
हनुमत्सङ्गतश्शस्तः सभ्रातृकश्च मावरः ।
सीतान्वेषणयुक्तश्च हनुमच्छ्लोकितानुतः ॥ ७५॥
सुग्रीवोपेतसुग्रीवः सौमित्रिसेविताग्रथः ।
मित्रीकृतेनपुत्रश्च मित्रवंशप्रदीपकः ॥ ७६॥
दृष्टजानक्यलङ्कारः कीशप्राञ्जलिसेवितः ।
सालसम्पाटनाक्लिष्टः सुग्रीवप्रत्ययावहः ॥ ७७॥
पालितादत्तवाक्यश्च प्राप्तराज्यसुहृत्कपिः ।
माल्यवद् वृष्टिवासश्च त्यक्तकामो मदापहः ॥ ७८॥
दत्ताङ्गुलीयपौरस्यप्रभावनामतारकः ।
दनुजाहवनिश्शङ्को हनुमद्धेनतारणः ॥ ७९॥
हनुमन्नीतसन्देशसीतादर्शननन्दितः ।
हर्यानीतवधूभूषचूडामण्यतिहर्षितः ॥ ८०॥
परिष्वक्तमरुज्जातो माधुर्यपूर्णभाषणः ।
परिचारवनौकश्च मारुत्यारूढवीर्यवान् ॥ ८१॥
समुद्रतीरसम्प्राप्तो विभीषणकृताञ्जलिः ।
सर्वलोकशरण्यश्च विभीषणाभयप्रदः ॥ ८२॥
सत्यवाक्सत्यकर्मा च अभिषिक्तविभीषणः ।
शत्रुमित्रसमालोकःशरणागतपाव्रतः ॥ ८३॥
सागरोपासशूरश्च अब्धिवेलकुशास्तरः ।
आशुगाशनशायी च अब्धितीरोपशायनः ॥ ८४॥
क्रुध्यक्रोधो जितक्रोधः पाथोधिमदहारकः ।
आपगेशार्चितानूत आप्तकामाप्तपालनः ॥ ८५॥
सेतुबन्धनशान्तश्च शुद्धान्तरङ्गसेवितः ।
सेव्यः सेवकसंरक्षो हनुमद्वाहनोत्तमः ॥ ८६॥
रणधीरःशरासारो रामो भीमपराक्रमः ।
राक्षसाभीषणानन्यो रिपुसूदनसच्छरः ॥ ८७॥
भास्करांशुशरावर्षो भास्करायुततेजसः ।
भास्करान्वयशूरश्च नुतभास्करभासुरः ॥ ८८॥
कुम्भजागस्त्यगेयश्च मुनिसज्जनसन्नुतः ।
कोदण्डपाणिपुण्यश्च शरनैपुण्यसागरः ॥ ८९॥
राक्षसव्यूहनाशश्च हतरावणराक्षसः ।
रिपुभीषणबाणश्च जिताधर्मसुधर्मपा ॥ ९०॥
धर्मसंस्थापनानन्तो दत्तराज्यविभीषणः ।
देवदेवार्चितानूतः पुष्पावर्षाभिषिक्तवान् ॥ ९१॥
नीतसीतासुपूतश्च अग्निप्रज्ज्वलशौचतः ।
श्रीमन्नारायणानन्तो लक्ष्मीसहावतीर्णवान् ॥ ९२॥
ब्रह्माण्डनायको रामो ब्रह्माशङ्करसंस्तुतः ।
पितृस्वस्त्ययनाश्युक्तः पितृसंश्लिष्टसत्सुतः ॥ ९३॥
विमानपुष्पकारूढः सीतारामपरन्तपः ।
सभ्रातृलक्ष्मणापूज्यः सुग्रीवहनुमच्छ्रितः ॥ ९४॥
जाम्बवद्वानरानीको नाकमार्गप्रयाणकः ।
ज्ञाताज्ञातस्थलादर्शसीतेच्छापरिपूरकः ॥ ९५॥
भरद्वाजाश्रमागन्तुर्मुनिपूजनसन्नुतः ।
भरताहर्षसंश्लिष्टः कौसल्यानन्दवर्धनः ॥ ९६॥
साकेतसागराब्जश्च कोलाहलजनाञ्जलिः ।
सुस्वागतजनारामो भरतायुक्तपादुकः ॥ ९७॥
नन्दिग्रामप्रवेशश्च सुपूतभरताश्रमः ।
गुरुवन्दनसंयुक्तः पुनर्दत्तकुभेरयः ॥ ९८॥
विशोधितजटाजूटः स्नानानुलेपनोज्ज्वलः ।
कौशेयवासभासश्च कौशल्याप्रियपुत्रसः ॥ ९९॥
सर्वालङ्कारभार्यश्च अयोध्यानगरीप्रयः ।
साकेतधामसूर्यश्च अयोध्यानगरीप्रियः ॥ १००॥
साकेतराजराजन्यः पट्टाभिषेकवैभवः ।
अतिकोलाहलानन्दसर्वोन्नतसुवैभवः ॥ १०१॥
सुसिंहासनरत्नाभः ससीतः सुरसेवितः ।
वसिष्ठवामदेवाद्यभिषिक्तो वररामसः ॥ १०२॥
सर्वोदधिजलासिक्तः सर्वनद्यभिषेचितः ।
सर्वौषधिरसासिक्तो दिव्याभिषेकराजितः ॥ १०३॥
सर्वोपनिषदासक्तः सर्ववेदार्थसारसः ।
सर्वाधारः परार्थश्च सर्वशास्त्रपदार्थसः ॥ १०४॥
सर्वमङ्गलसंयुक्तः सर्वजीवनजीवनः ।
सर्वभव्यगुणश्रायः सर्वनेत्रोत्सवच्छविः ॥ १०५॥
सुमुत्यरत्नहारश्च शताब्जहेममालिनः ।
इन्द्रनीलप्रकाशश्च इक्ष्वाकुवंशभास्करः ॥ १०६॥
शत्रुघ्नसंधृतच्छत्रः सौमित्रिभरताञ्जलिः ।
वालव्यजनसुग्रीवो विभीषणान्यचामरः ॥ १०७॥
गाननर्तननन्दश्च सङ्गीतप्रियसुस्वरः ।
काकुत्स्थराजसिंहश्च काकर्लवंशजस्तुतः ॥ १०८॥
भर्मचेलविराजश्च लसन्मकुटकुण्डलः ।
भातुवंशाधिराजश्च लोकाभिरामसुव्रतः ॥ १०९॥
लावण्यरामभद्रश्च लक्ष्मीरमणभूपतिः ।
लोकावनाभियुक्तश्च लोकत्राणाभिपूजितः ॥ ११०॥
तमालघननीलाभो घनाघनघनस्वरः ।
घृणापाङ्गो घनाभश्च घनाघघनमारुतः ॥ १११॥
पट्टाभिरामचन्द्रश्च परमानन्दवारिधिः ।
परमाद्भुतचारित्रः पङ्कजाक्षीसमेतसः ॥ ११२॥
कपिश्रेष्ठनुतश्रीमान् कामितार्थप्रदायकः ।
कायजारिनुतश्रेष्ठः कामादिरिपुदारकः ॥ ११३॥
शतिरागनुतागीतः शतकोटिरविप्रभः ।
शतिश्लोकसुवागर्थः शतकोटिनमस्कृतः ॥ ११४॥
श्रीत्यागब्रह्मसंदर्शपट्टाभिरामपूज्यसः ।
श्रीमत्सिंहासनाभूषः श्रीजानकीसुभाग्यसः ॥ ११५॥
श्रीत्यागब्रह्मवाग्वर्षस्निग्धपट्टाभिरामसः ।
सद्गुरुस्वामिसङ्गीतजगन्मोहनरामसः ॥ ११६॥
त्यागब्रह्मनुतागीतपुण्यचारित्रमाहिनः ।
श्रीसीतारामदैवश्च सर्वमङ्गलदायकः ॥ ११७॥
श्रीत्यागब्रह्महृद्वासस्तत्प्रत्यक्षसुधावचः ।
गुरुस्वामिसुसङ्गीतपूर्णवाससनातनः ॥ ११८॥
श्रीत्यागब्रह्मसन्नूतिदिव्यनामसुकीर्तनः ।
गुरुनित्योत्सवागीतो गुरुसाक्षात्कृतेश्वरः ॥ ११९॥
गुरुसङ्गीतसान्निध्यो नादसुधारसाकृतिः ।
सप्तस्वरनदद्घण्टः कोदण्डरामसुस्वरः ॥ १२०॥
ज्याघोषनयदेश्यश्च रससङ्गतिवाग्गतिः ।
गतितालशरावर्तो भजनानन्दसेवितः ॥ १२१॥
गुरुकीर्तनसत्सारो रागरत्नसुमालिकः ।
गुरुदेवपरानिष्ठो गुरुदेवापरः परः ॥ १२२॥
ओंकारधामसन्नाम ओंकारनादविग्रहः ।
ओंकारपञ्जरागुप्त ओंकारस्वरपूजितः ॥ १२३॥
श्लोकितस्वचरित्रश्च पुष्पावलिसुमण्डितः ।
नान्योपयुक्तचेतःपुष्पासक्तिस्तुतिसेवितः ॥ १२४॥
रामायणकथासारं श्रीरामसुकृपावहम् ।
रामस्तोत्रं महापुण्यं गुरुप्रेर्यं शुभप्रदम् ॥ १२५॥
मङ्गलं रामचन्द्राय सीताश्रीमणिजानये ।
त्यागब्रह्मसुलीनाय मङ्गलाङ्काय मङ्गलम् ॥ १२६॥
मङ्गलं गुरुदेवाय एतत्स्तोत्रप्रभाविने ।
रामभद्रसुलीनाय त्यागराजाय मङ्गलम् ॥ १२७॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया
अनुरागेण कृतं श्रीमद्रामायणसारश्रीरामस्तोत्रं गुरौ समर्पितम् ।
ॐ
शुभमस्तु ।
Source Shri Tyagarama Pushpavali 2005
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan