लघुतमगीतासङ्ग्रहाः भारतमञ्जर्यां क्षेमेन्द्रविरचिताः
वामदेवगीता
उवाच कोसलाधीशं वामदेवः पुरा मुनिः ।
धर्मलोपेन भूपानां क्षीयन्ते सहसा श्रियः ॥ १३.३६२॥
सुहृद्भिः प्रणयक्रीतैर्मानक्रीतैर्मनीषिभिः ।
धनक्रीतैस्तथा भृत्यैर्धार्यते श्रीर्महीभुजा ॥ १३.३६३॥
शृणोति करुणाक्रन्दं श्रुत्वा च त्रायते भयत् ।
नाविचार्य सृजेद्दण्डं यः स सर्वप्रियो नृपः ॥ १३.३६४॥
नातः परतरं किञ्चिद्राज्ञः किल्बिषकारणम् ।
प्रजा विरक्ततां यान्ति यत्कुभर्तुरिवाबलाः ॥ १३.३६५॥
इत्युक्तं वामदेवेन श्रुत्वा स वसुधाधिपः ।
वर्तमानः स्वधर्मेण प्रजानामभवत्प्रियः ॥ १३.३६६॥
षड्गीता
श्रुत्वेति मन्दिरं पार्थो गत्वा भीष्मगिरः स्मरन् ।
विदुरेण कथाश्चक्रे धर्मसर्वस्ववादिना ॥ १३.६७८॥
तेषां विदुरषष्ठानां बभूवुर्विविधाः कथाः ।
शुद्धप्रवृत्तधर्माणां धर्मकामार्थसंश्रयाः ॥ १३.६७९॥
शम्पाकगीता
धनिनां निर्धनानां च विभागं सुखदुःखयोः ।
पृष्टोऽथ धर्मराजेन पुनः शान्तनवोऽब्रवीत् ॥ १३.७२०॥
शम्पाको नामवान्विप्रः पुरा धीमानभाषत ।
वितृष्णयातिपीड्यन्ते सन्तोषोऽमृतनिर्झरः ॥ १३.७२१॥
भयानभिज्ञो निश्चिन्तो निद्रावान्रोगवर्जितः ।
निर्धनः सुखितो नित्यं यथावाप्तकृतक्रियः ॥ १३.७२२॥
सुखमास्ते सुखं शेते सुखं च प्रतिबुध्यते ।
सन्तोषवान्निरायासो निरपायो निरामयः ॥ १३.७२३॥
धनिनो दर्पपूर्णस्य भ्रूभङ्गाद्वक्रदर्शिनः ।
कुम्भीन्यस्तधनत्राणचिन्तापाण्डुकृशत्विषः ॥ १३.७२४॥
चौरो भूपालभीतस्य वृद्ध्यार्थं पापकारिणः ।
अजीर्णरोगग्रस्तस्य ष्ठीविनो भोज्यकाङ्क्षिणः ॥ १३.७२५॥
लोभशुष्ककलत्रस्य दुःखैकफलभागिनः ।
स्पर्धाकथैव का नित्यमाकिञ्चन्यामृताशिभिः ॥ १३.७२६॥
मन्यते तावदात्मानं शक्रवैश्रवणोपमम् ।
गृह्यते धनवान्यावन्न दस्युनृपमन्युभिः ॥ १३.७२७॥
धनं गमयतां भूरि गृहांश्च सुपरिच्छदान् ।
निर्धनाद्धनिनामेव कृच्छ्राद्दुःखविषूचिका ॥ १३.७२८॥
विचख्नुगीता
गीतं विचख्नुना पूर्वं धर्मऽस्मिन्नेव भूभुजा ।
अहिंसा परमो धर्मः क्रतुश्चाद्रव्यडम्बरः ॥ १३.९६२॥
पशुप्राणैर्यजन्त्येते कामात्मानः फलेप्सवः ।
मांसमत्स्यमधुप्रायं धूर्तैर्भोगाय कल्पितम् ॥ १३.९६३॥
लोलुपैर्दम्भगुरुभिः पशुयागोऽधिगम्यते ।
पूज्यो हि भगवान्विष्णुः सोऽद्भिः पुष्पैश्च तुष्यति ॥ १३.९६४॥
रलानिं शरीरं नायाति यथा न मरणं भवेत् ।
तथा कर्म प्रवर्तेन शरीरं धर्मसाधनम् ॥ १३.९६५॥
हारीतगीता
यतेन्द्रियेच्छः सन्न्यासी निर्भयो जनिताभयः ।
अवज्ञातोऽवधूतश्च शून्याचारोऽप्यनाश्रयः ॥ १३.१००१॥
अनिर्विण्णः प्रहृष्टश्च ज्ञाता मौनी च मुच्यते ।
बुध इत्याह हारीतो विशुद्धज्ञानसंश्रयः ॥ १३.१००२॥
वृत्रगीता
भ्रष्टैश्वर्यः पुरा वृत्रः शुक्रं गुरुमभाषत ।
जीवानां कर्मबन्धानां तिष्ठतां पाञ्चभौतिके ।
पर्यायेण भवन्त्येव सम्पदो विपदस्तथा ॥ १३.१००३॥
निःस्पृहोऽस्मि न शोचामि भजे साम्यमनश्वरम् ।
न यास्याम्यधुना रागमवर्णो वर्णसङ्गमात् ॥ १३.१००४॥
इत्युक्त्वा दानवपतिर्यदृच्छोपगतान्मुनेः ।
सनत्कुमारादज्ञासीद्विष्णुं कारणमव्ययम् ॥ १३.१००५॥
स विज्ञायाच्युतं देवं प्रययौ परमां गतिम् ।
सोऽयं नारायणः कृष्णः सम्बन्धी तव पाण्डव ॥ १३.१००६॥
पराशरगीता
श्रेयः किमिति पृष्टोऽथ पुनराह पितामहः ।
पुरा विदेहाधिपतिं यदुवाच पराशरः ॥ १३.१०५५॥
मनोरथो रथो यस्य संयतः शान्तिरश्मिभिः ।
न चरत्यवटे तस्य कर्मणोऽपि सुखं सदा ॥ १३.१०५६॥
रत्यै भोगा विमूढानां सा दुःखाय वियोगिनाम् ।
तमसे दुःखमेवैषां बन्धाय महते तमः ॥ १३.१०५७॥
सतां भोगवियोगेषु निर्वेदो नाम जायते ।
निर्वेदस्तपसे तेषां तपः संसारशान्तये ॥ १३.१०५८॥
सदाचारप्रवृत्तानां यथाशास्त्रानुसारिणाम् ।
स्वकर्मसक्तमनसां स्वयमायान्ति सम्पदः ॥ १३.१०५९॥
हंसगीता
प्रजापतिर्हंसरूपी राज्ञा पृष्टोऽब्रवीत्पुरा ।
क्रोधो मृत्युः कुजन्तूनां स्वसुखाद्यदि निर्गतः ॥ १३.१०६०॥
दग्धाः क्रोधेन शोचन्ति क्रोधानधा निपतनति च ।
जितक्रोधः शसुखं शेते ग्रस्तरागादिबन्धनः ॥ १३.१०६१॥
इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता लघुतमगीतासङ्ग्रहाः समाप्ताः ।
vAmadevagItA ShaDgItA shampAkagItA vichakhnugItA hArItagItA
vRRitragItA parAsharagItA haMsagItA