दत्तात्रेयकल्पान्तर्गता श्रीदत्तात्रेयगीता
श्रीगणेशाय नमः ।
अस्य श्रीदत्तात्रेयगीतामालामन्त्रस्य । गायत्र्यादीनि छन्दांसि ।
श्रीदत्तात्रेयो परमात्मा देवता । येनेदं पूरितमिति बीजं ।
ज्ञानारसं समरसमिति शक्तिः । किमु रोदसि मानस सर्वसममिति कीलकम् ।
स्वरूपनिर्वाणं नाम योऽहमिति यजकम् ।
योगमोक्षयोः स्वनिष्ठपरिपाकसिद्ध्यर्थे श्रीदत्तात्रेयगीता जपे विनियोगः ॥
न्यासः -
येनेदं पूरितं सर्वमित्यङ्गुष्ठाभ्यां नमः । हृदयाय नमः ।
ज्ञानामृतं समरसमिति तर्जनीभ्यां नमः । शिरसे स्वाहा ।
स्वरूपनिर्वाणमिति मध्यमाभ्यां नमः । शिखायै वौषट् ।
किमुरोदसि मानससर्वसममित्यनामिकाभ्यां नमः । कवचाय हुम् ।
यदिकचैकनिरन्तरेति कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ।
तमीशमात्मानमुपैमि शाश्वतमिति करतलकरपृष्ठाभ्यां नमः ।
अस्त्राय फट् । ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥
१ द्वैताद्वैतनिरूपणम् १
॥ अथ ध्यानं ॥
नित्यं यस्यांघ्रियुग्मं हिमकरसदृशं पादुकाद्वन्द्वभूषं
बिभ्रद्योगीन्द्रदोहत्सुखनिचयसुधानिर्झरं सुच्छविद्युत् ।
द्यूते क्रीडाविलासादभयवरकरः प्राणमूले च दृष्टि-
स्तत्त्वाद्देवावधूते त्यथ सिरसि जटासूत्रकं यो बभार ॥ १॥
श्रीमत्सिद्धकिरीटरत्नकिरणाच्छन्नांघ्रियुग्मान्तरं
भक्त्यासक्तमयैकसिन्धुलहरीसिक्तार्कचिन्तानलम् ।
तत्त्वासिं विशिखाग्रमुष्टिवसतिं श्रीदेवदत्तं प्रभुं
यातः सोऽहमनन्यभावशरणं त्वं त्राहि मां माधवम् ॥ २॥
दत्तात्रेयमिदं शुद्धं ब्रह्मनिर्वाणनिष्ठितम् ।
अवधूतमहं नौमि विज्ञानानन्दविग्रहम् ॥ ३॥
पठिता प्रत्यहं गीता त्रिवारं येन धीमता ।
त्रिमासैर्लभते सिद्धिं निष्कामं च सकामतः ॥ ४॥
यस्य बाधादिदं सर्वं ज्ञानविज्ञानगोचरम् ।
तस्मै सदैकरूपाय दत्तात्रेयाय ते नमः ॥ ५॥
दत्तात्रेयं शिवं पूर्णं भावाभावविवर्जितम् ।
अद्वैतं परमं गुह्मं निर्विकल्पं निरञ्जनम् ॥ ६॥
कथं वदामि निर्भावं भेदाभेदविवर्जितम् ।
अमोघं चामलं पूर्णं प्रसिद्धं तत्त्वमव्ययं ॥ ७॥
ईश्वरानुग्रहादेव पुंसामद्वैतवासना ।
महाभयपरित्राणं द्वित्राणमिहजायते ॥ ८॥
यदेकं निर्गुणं नित्यं निराभासं निरञ्जनम् ।
चिदानन्दस्वरूपं च दत्तात्रेयं चिदक्रियम् ॥ ९॥
गोरक्षक उवाच -
त्रिगुणं शरीरं भवतीह सारमजनं समूहे चरतीह नग्नम् ।
मुनिवरनमितं भवगुणरहितं परमविबुधं भोऽसावलं हि ॥ १०॥
भावाभावं भवति स भावो भावं शयति मननं हि ततू ।
प्रलयति तन्मननयनवशात्स्मृतवचनं शृणु भो अवधूता ॥ ११॥
श्रीदत्तात्रेय उवाच -
येनेदं पूरितं सर्वं आत्मन्येवात्मनात्मनि ।
निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् ॥ १२॥
पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् ।
कस्यास्ति ह नमस्कारो अहमेको निरन्तरम् ॥ १३॥
वेदान्तसारसर्वज्ञं ज्ञानविज्ञानमेव च ।
अहं चात्मा निराकारः स्वस्वं वेद्मिस्वभावजन् ॥ १४॥
आत्मैव केवलं सर्वं भेदाभेदो न विद्यते ।
अस्ति नास्ति कथं ब्रूयाद्विस्मयः प्रतिभाति मे ॥ १५॥
एवं सर्वात्मकं नित्यं निष्कम्पं गगनोपमम् ।
स्वभावं निर्मलं शुद्धं स एवाहं न संशयः ॥ १६॥
अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः ।
सुखं दुःखं विजानामि कथं कस्यापि वर्तते ॥ १७॥ (न जानामि)
न मानसं कर्म शुभाशुभं मे
न वाचिकं कर्म शुभाशुभं मे ।
न कामजं कर्म शुभाशुभं मे
ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ॥ १८॥
मनो वै गगनाकारं मनो वै सर्वतोमुखम् ।
मनो वै परमात्मैव न मनः परमार्थतः ॥ १९॥
लीयन्ते वा न लिप्यन्ते कथं कस्यापि वर्तते ।
नहि सर्वमसर्वं च चात्मैव केवलं यतः ॥ २०॥
मनः सर्वे प्रलीयन्ते मनस्तत्र प्रलीयते ।
एवं सर्वं मनः सर्वमात्मैव केवलं यतः ॥ २१॥
अहमकमिदं सर्वं व्योमाकारं निरन्तरम् ।
पश्यामि कथमात्मानं प्रत्यक्षं च तिरोहितम् ॥ २२॥
त्वमेव तत्त्वान्हि कथं विवुध्यसे
सर्वं हि सर्वेषु विनष्टमव्ययम् ।
सदोदसि त्वं त्वमखण्डितं विभो
दिवा च नक्तं च कथं हि मन्यते ॥ २३॥
आत्मानं सततं वित्धि सर्वमेकं निरन्तरम् ।
अहं ध्यात्वा परं ध्येयमखण्डं खण्डसे कथम् ॥ २४॥
न जातोऽसि मृतोऽसि त्वं न ते देहः कदाचन ।
सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधाश्रितः ॥ २५॥
सबाह्याभ्यन्तरेऽसि त्वं शिवः सर्वत्र सर्वदा ।
इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् ॥ २६॥
संयोगाश्च वियोगाश्च वर्तन्ते नहि तन्न मे ।
नाहं नत्वं जगन्नेति सर्वमात्मैव केवलम् ॥ २७॥
शब्दादिपञ्चकस्यास्य नैवासि त्वं हते पुनः ।
त्वमेव परमं तत्त्वम्मनः किं परितप्यसे ॥ २८॥
न च मृत्युर्न ते चित्तं बन्धं मोक्षं शुभाशुभम् ।
कथं रोदिसि रे चित्त नामरूपे न ते न मे ॥ २९॥
अहो चित्तक विभ्रान्तः प्रधावसि पिशाचवत् ।
अभिन्नं यस्य चात्मानं रागत्यागात्सुखी भव ॥ ३०॥
त्वमेव मोक्षो हि विकारवर्जितो
निष्कम्पमेकं हि विमोक्षविग्रहः ।
न वीतरागो गतवीतरागो
कथं हि सन्तप्ताकामकामी ॥ ३१॥
नाहं कर्ता न भोक्ता च न चे कर्म कदाचन ।
विशुद्धं निर्गुणं ब्रह्म बद्धमुक्तिः कथं मम ॥ ३२॥
बध्नन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् ।
अशरीरं समं तत्त्वं तन्मां सिद्धिर्नसंशयः ॥ ३३॥
साकारममृतं विद्धि निराकारं निरन्तरम् ।
एतत्तत्त्वोपदेशेन न पुनर्गर्भसम्भवः ॥ ३४॥
एकानेकसमं तत्त्वं वदन्ति ह विपश्वितः ।
रागत्यागेन मनसि ह्येकानेको न विद्यते ॥ ३५॥
अनित्यरूपस्य कुतो हि बन्धनं
नित्यस्य रूपस्य कुतो हि बन्धनन् ।
नानित्यरूपं न च नित्यरूपं
शिवस्वरूपं सहजामलं च ॥ ३६॥
अनाहरूपं हि कथं समाधि-
मोक्षस्वरूपं यदि सर्वमेकम् ।
आत्मस्वरूपं हि कथं समाधि-
रस्तीति नास्तीति कथं समाधिः ॥ ३७॥
विशुद्धोऽसि समं तत्त्वं विदेहिस्त्वमजोऽव्ययः ।
जानामि हि न जानामि चात्मानं मन्यसे कथम् ॥ ३८॥
यस्त्वं जानासि तत्त्वेन यस्त्वं पश्यसि तत्कथम् ।
यस्त्वं मन्यसि तत्त्वेन सर्वं ब्रह्मेति सर्वदा ॥ ३९॥
तत्त्वमस्यादिवाक्येन आत्मा हि प्रतिपादितः ।
नेति नेति श्रुतिर्ब्रूयान्नानृतं पाञ्चभौतिकम् ॥ ४०॥ (श्रुतिर्ब्रूयान्नानृत्यं)
आत्मनैवात्मना सर्वं त्वया पूर्णं निरन्तरम् ।
ध्याता ध्यानं न ते चित्तं निर्लक्ष्यं ध्यायसे कथम् ॥ ४१॥
शिवं न जानामि कथं वदामि
शिवं च जानामि कथं वदामि ।
सर्वं शिवं वै परमार्थतत्त्वं
स्वच्छस्वभावद्गगनोपमोऽहम् ॥ ४२॥
आत्मस्वरूपी न च चोपकल्पना
आत्मस्वभावेन मदन्यभावना ।
स्वयं शिवत्वं परमं विशुद्धं
नाहं न मे चैव परात्परं च ॥ ४३॥
न त्वं नाहं समं तत्त्वं कलानां हेतुवर्जितम् ।
ग्राह्यग्राहकनिर्मुक्तं स्वयं वेद्यं कथं भवेत् ॥ ४४॥
अतत्त्वरूपं नहि वस्तु किञ्चि-
त्तत्त्वं स्वरूषं नहि वस्तु किञ्चित् ।
आत्मैकरूपं परमार्थतत्त्वं
न हिंसको वाऽपि न चापि हिंसा ॥ ४५॥
विशुद्धोऽहं समं तत्त्वं विदेहं विश्वतोमुखम् ।
विभ्रमे कथमात्मानं विभ्रान्तोऽहं कथं पुनः ॥ ४६॥
घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् ।
शिवेन मनसा तद्वन्नभिन्नं प्रति मे शिवम् ॥ ४७॥
न घटेन घटाकाशः न जीवो जीवविग्रहः ।
केवलं ब्रह्म संवेत्ति वेद्यवेदविवर्जितम् ॥ ४८॥
सर्वत्र सर्वदा वर्जं सर्वमात्मानजं ध्रुवम् ।
सर्वशून्यमशून्यं च तन्मां विद्धि न संशयः ॥ ४९॥
न देवलोकास्त्वसुरा न यक्षा
वर्णाश्रमो नैव कुलं न जातिः ।
न धूममार्गो न च दीप्तिमार्गो
ब्रह्मैकरूपं परमार्थतत्त्वम् ॥ ५०॥
व्याप्यव्यापकनिर्मुक्तं तत्त्वमेकं च केवलम् ।
प्रत्यक्षं वा परोक्षं वा चात्मानं मन्यसे कथम् ॥ ५१॥
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे ।
समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम् ॥ ५२॥
श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् ।
कथयामि कथं तत्त्वं मनोवाचामगोचरम् ॥ ५३॥
यदा हि मन्यसे सर्वं देहादिगगनोपमम् ।
तदहं ब्रह्म संविद्धि तत्त्वं वेत्ति परात्परम् ॥ ५४॥
परेण सर्वमात्मानं न भिन्नं प्रतिभाति मे ।
ब्रह्मैव केवलं सर्वं ध्याता धानं च कथ्यते ॥ ५५॥
यत्करोषि यदश्नासि यच्छृणोषि ददासि यत् ।
एतत्सर्वं न ते किञ्चिच्छुद्धोऽहमजमव्ययम् ॥ ५६॥
सर्वं जनद्विद्धि निराकृतिं तं
सर्वं जगद्विद्धि विकारहीनम् ।
सर्वं जगद्विद्धि विशुद्धदेहं
सर्वं जगद्विद्धि शिवैकरूपम् ॥ ५७॥
तत्त्वं तत्त्वसमं देहं किं तु जानामि वा पुनः ।
असंवेद्ये स्वसंवेद्यमात्मानं मन्यसे कथम् ॥ ५८॥
अष्टाङ्गयोगेन तु नैव बुद्धं
गुरूपदेशेन तु नैव बुध्यम् ।
मनोविलासेन तु नैव बोद्धुं
स्वयं स्वबोधेन विशुद्धरूपम् ॥ ५९॥
नहि भूतात्मको देहो विदेहो वर्तते नहि ।
आत्मैव केवलं सर्वं न तु कुर्यात्कथञ्चन ॥ ६०॥
माया माया कथं तात छाया छाया न विद्यते ।
तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम् ॥ ६१॥
आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन ।
स्वभावानिर्मलं शुद्धमिति मे निश्च्वयो मनः ॥ ६२॥
महदादिजगत्सर्वं न किञ्चित्प्रतिभाति मे ।
ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमो भवेत् ॥ ६३॥
जानामि सर्वथा सर्वमहमेको निरन्तरम् ।
निरालम्बमशून्यं च न तु व्योमादिपञ्चकम् ॥ ६४॥
न पुमान्नपुंसको न स्त्री न बद्धो नैव कल्पना ।
स्वानन्दं च निरानन्दमात्मानं मन्यसे कथम् ॥ ६५॥
न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक् ।
न भर्ता न च भोक्ता च व्याप्यव्यापकवर्जितम् ॥ ६६॥
यथा जले जलं न्यस्तं स्वस्मिन् सम्भेदवर्जितम् ।
प्रकृतिं पुरुषं तद्वन्नभिन्नं प्रतिभाति मे ॥ ६७॥
जानासि ते परं रूपं प्रत्यक्षं गगनोपमम् ।
न चापरं हि रूपं हि मरीचिजलसन्निभम् ॥ ६८॥
न गुरुर्नोपदेशश्च न चोपाधिर्नच क्रिया।
विदेहीं मां विजानीहि विशुद्धोऽहं स्वभावतः ॥ ६९॥
यदि यो वै न मुक्तोऽहं न बद्धोऽहं कदाचन ।
साकारं वा निराकारमात्मानं मन्यसे कथम् ॥ ७०॥
विशुद्ध ईश्वरोऽसि त्वं न ते चित्तं परात्परम् ।
अहमात्मा परं तत्त्वमिदं वक्तुं न शक्यते ॥ ७१॥
कथं रोदिसि रे चित्त आत्मन्येवात्मना भव ।
पिबन् सकलतीर्थात्मा अद्वैतं परमामृतम् ॥ ७२॥
न वै बोधो न चाबोधो न बोधो बोध एव च ।
यस्य निर्वासनाबोधो स बोधो नान्यथा भवेत् ॥ ७३॥
न ध्यानतर्कौ न समाधियोगो
न देशकालौ न गुरुपदेशः ।
स्वभावसंवित्तिपरं च तत्त्व-
माकाशकल्पं सहजं ध्रुवं च ॥ ७४॥
न जातोऽसि मृतोऽसि त्वं न ते कर्म शुभाशुभम् ।
शुद्धोऽहं निर्गुणं नित्यं बन्धमुक्तिः कथं मम ॥ ७५॥
यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरम् ।
अन्तरं नैव पश्यामि सबाह्याभ्यन्तरं कथम् ॥ ७६॥
स्फुरत्वेवं जगत्सर्वमखण्डितनिरन्तरम् ।
अन्तरं नैव पश्यामि सबाह्याभ्यन्तरं कथम् ॥ ७७॥
अहो मायामये देहे द्वैताद्वैतविकल्पना ।
निराकारोऽपि साकारो नेति नेतीति सर्वथा ॥ ७८॥
भेदाभेदविनिर्मुक्तं वर्तते केवलं शिवम् ।
न ते च माता भगिनी पिता च
न ते च पत्नी न सुहृन्न पुत्रः ॥ ७९॥
न पक्षपाती न च पक्षपाती
किं तप्यसे तत्परकामकामी ।
दिवानक्तं न ते चित्ते उदयास्तमयं न ते ॥ ८०॥
चिद्देहमशरीरत्वात्कल्पयन्ति कथं बुधाः ।
नहि भुक्तं विभक्तं च नहि दुःखसुखानि च ॥ ८१॥
नहि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ॥
नाहं कर्ता च भोक्ता च न मे कर्म पुराऽधुना ।
न मे देहो विदेहो वा निर्ममेति ममेति किम् ॥ ८२॥
न मे रागादिको दोषो दुःखं चैवादिकं नहि ।
आत्मनं विद्धि मामेवं विशालं गगनोपमम् ॥ ८३॥
सखे मनः किं बहुजल्पितेन
सखे पुनः सर्वमिदं वितथ्यम् ।
संसारभूतं मम नैव सर्वं
भवेत्स्वरूपं गगनोपमं च ॥ ८४॥
येनकेन च भावेन यत्र यत्र मृतः पुनः ।
योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे ॥ ८५॥
तीर्थेवापि त्यजेद्देहं नष्टस्मृतिः परित्यजेत ।
ज्ञाने समयकल्पे च कैवल्यविहितासुता ॥ ८६॥
तस्य ज्ञानं न चैवास्ति यस्य स्वर्गादिकल्प्यते ।
यत्पदं प्रापितं देवैः स योगी नात्र संशयः ॥ ८७॥
धर्मार्थकाममोक्षादिविपदादिचराचरम् ।
मन्यन्ते योगिनः सर्वे मरीचिजलसन्निभम् ॥ ८८॥
अतीतानागतं कर्म वर्तमानं तथैव च ।
न करोमि न भुञ्जामि इति मे निश्चला मतिः ॥ ८९॥
कदापि चित्तदोषेण कल्पितं स्वर्गमण्डलम् ।
तेन स्वर्गपदं भोक्ता आत्मज्ञानपरायणम् ॥ ९०॥
गोरक्षक उवाच -
शून्यागारे समरसयुक्तो नित्यं तिष्ठति सुखमवधूतः ।
विचरति नग्नस्त्यक्त्वा गर्वं विन्दति केवलमात्मनि सर्वम् ॥ ९१॥
तृतीयं तुर्यं नहि नहि यत्र विन्दति केवलमात्मनि तत्र ।
धर्माधर्मौ नहि नहि यत्र बन्धविमुक्तो कथमिह तत्र ॥ ९२॥
विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र ।
समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ ९३॥
सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते ।
स्वभावभावितं ब्रूयाच्छात्रेष्वेवेतिपूर्वकम् ॥ ९४॥
ॐ तत्सदिति दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां
निर्वाणयोगे श्रीदत्तगोरक्षकंसवादे सावित्र्युपदेशे
द्वैताद्वैतनिरूपणं नाम प्रथमोऽध्यायः ॥ १॥
२ द्वैताद्वैतनिरूपणम् २
सगुणगुणविभागं वर्तते नैव किञ्चि-
त्समरसमविभागं सर्वथा नैव किञ्चित् ।
इति विरतिविहीतं निर्मलं निष्प्रपञ्चं
कथमिह खलु वन्दे व्योमरूपं शिवं वै ॥ १॥
श्वेतादिवर्णरहितास्तव यं शिवश्च
कार्यं च कारणमिदं हि वयं शिवश्च ।
एवं विकल्परहितास्तव यं च ह्यात्मा
आत्मानमात्मनि च मित्र कथं वदामि ॥ २॥
निर्मूल मूलरहितो हि सदोदितोऽहं
निर्धूमधूमरहितो हि सदोदितोऽहं ।
सन्दीप्त्यदीप्तिरहितो हि सदोदितोऽहं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३॥
निष्कारकाममिह नाम कथं वदामि
निःसङ्गसङ्गमिह नाम कथं वदामि ।
अव्यक्तव्यक्तमिह नाम कथं वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४॥
अद्वैतरूपमखिलं हि कथं वदामि
द्वैतस्वरूपमखिलं हि कथं वदामि ।
अनित्यनित्यमखिलं हि कथं वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ५॥
स्थूलं हि नो न च कृशं न गतागतं हि
चाद्यं च मध्यरहितो न परापरं हि ।
सत्यं वदामि खलु वै परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ६॥
संवित्धि सर्वकरणानि नभो नभांसि
संवित्धि सर्वविषयश्च नभोनभश्च ।
संवित्धि चैकममलं नहि बन्धमुक्तिः
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ७॥
दुर्बोधबोधगहनो न भवामि तात
दुर्लक्ष्यलक्ष्यगहनो न भवामि तात ।
आसन्नदुर्गगहनो न भवामि तात
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ८॥
निष्कर्मकर्मगहनोज्ज्वलनो भवामि
निर्दुःखदुःखदहनोज्ज्वलनो भवामि ।
निर्देहदेहदहनोज्ज्वलनो भावामि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ९॥
निष्पापपापदहने हि हुताशनोऽहं
निर्धर्मधर्मदहने हि हुताशनोऽहम् ।
निर्बन्धबन्धदहने हि हुताशनोऽहं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १०॥
निःशून्यशून्यगगने हि हुताशनोऽह-
मात्मस्वरूपगगने हि हुताशनोऽहम् ।
एवं हुताशनगुणस्य हुताशनोऽहं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ११॥
निर्भावभावरहितो न भवामि वत्स
निश्चित्तचित्तरहितो न भवामि वत्स ।
निर्योगयोगरहितो न भवामि वत्स
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १२॥
निर्मोहमोहपदवीति न मे विकल्पो
निःशोकशोकपदवीति न मे विकल्पः ।
निर्लोभलोभपदवीति न मे विकल्पो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १३॥
संसारसन्ततिलता न च मे कदाचि-
त्तापस्य शान्तिमसुखं न च मे कदाचित् ।
अज्ञानबन्धनमिदं न च मे कदाचि-
ज्ञ्ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १४॥
संसारसंसृतिरजो न च मे विकारः
संसारसन्ततितमो न च मे विकारः ।
सत्त्वं स्वधर्मजनकं न च मे विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १५॥
संसारदुःखजनकं न च मे कदाचि-
त्सन्तापमोहजनिता न च मे कदाचित् ।
यस्मादहङ्कृतिपरं न च मे कदाचि-
ज्ञ्ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १६॥
निष्कम्पकम्पनिधनं सविकल्पकल्पं
स्वप्नप्रबोधनिधनं न दिवं न नक्तम् ।
निःसारसारनिधनं न चराचरं हि
ज्ञानामृतं समरसं गगनोपमोऽहम्॥ १७॥
नो वेद्यवेदकमिदं न च हेतुकर्ता
वाचामगोचरमिदं न मनो न बुद्धिः ।
एवं कथं हि भवतां कथयामि तत्त्वम्
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १८॥
निर्भिन्नभिन्नरहितं परमैकतत्त्व-
मन्तादिमध्यरहितं परमैकतत्त्वम् ।
एवं कथं हि उचितं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १९॥
यद्वा समग्रसहजं स्वयमेव सर्व-
मन्तर्बहिः किल कथं परमार्थतत्त्वम् ।
यस्मादहो परतरं नहि वस्तु किञ्चि-
ज्ञ्ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २०॥
रागादिदोषरहितं त्वहमेव तत्त्वं
संसारशोकरहितं त्वहमेव तत्त्वम् ।
देहादिदुःखरहितं त्वहमेव तत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २१॥
स्थानत्रयं यदि च नेति कथं तुरीयं
कालत्रयादि न च नेति कथं दिशश्च ।
शान्तं परं यदि ध्रुवं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २२॥
दिर्घो लघुः पुनरतीह मनोविभागः
कोणं च वर्तुलमितीह मनोविभागम् ।
विस्तारसङ्घटमितीह मनोविभागो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २३॥
माता पिता च तनयादि न मे कदाचि-
द्गर्भं च मृत्युमनसो न च मे कदाचित् ।
निर्व्याकुलस्थिरपरं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २४॥
निःशुद्धसर्वमविचारमनन्तरूपं
निर्लेपलेपनविचारमतर्करूपम् ।
निर्नादनादमविचारमगाधरूपं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २५॥
उच्चारमात्रमपि ते नहि नाममात्रं
निर्भिन्नभिन्नमभि ते नहि रूपमात्रम् ।
निर्लज्ज मानस करोषि कथं विलापं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २६॥
ब्रह्मादयः सुरगणाः कथमत्र सन्ति
स्वर्गादयो वसतयः कथमत्र सन्ति ।
यद्येकरूपममलं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २७॥
निष्कर्मकर्मसततं तु कथं करोमि
निःसङ्गसङ्गरहितं परमं विनोदम् ।
निःसत्यसत्यरहितं सततं बलोऽहं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २८॥
मायाप्रपञ्चरचना न च मे विकाराः
कौटिल्यदम्भवचना न च मे विकारः ।
सत्याद्यसत्यरचना न च मे विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २९॥
वितर्कतर्कमिह तात न मे विभाति
वितर्कतर्क्यमिह तात न मे विभाति ।
शून्यस्य शून्यमिह तात न मे विभाति
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३०॥
आलम्बहीनमखिलं च निरामयं च
विज्ञानरूपमखिलं दमनादिहीनम् ।
संसिद्धिशान्तिमचलं ननु पूर्णपूर्णं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३१॥
सत्यं वदामि विरजावचनैकजातं
सत्यं वदामि सरजावचनैकजातम् ।
सत्यं कथं हि सततं च सितासितौ नो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३२॥
सन्ध्यादिकालरहितं न वियोगयोगं
ज्ञानं प्रबोधरहितं न बधीरमूकम् ।
एवं विकल्परहितं निजभावशुद्धं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३३॥
धर्मादिकं तव पदं हि कथं वदामि
संवित्यसंशयपदं हि कथं वदामि ।
एवं निरञ्जनसमं हि निरन्तरं हि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३४॥
निर्नाथनाथविगतं हि निराकुलं वै
निश्चित्तचित्तविगतं हि निराकुलं वै ।
निर्भावभावरहितं हि निराकुलं वै
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३५॥
किं काननं ग्रहमिदं हि कथं वदन्ति
संविद्धि संशयममू हि कथं वदन्ति ।
एवं निरन्तरसमं हि निरञ्जनं वै
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३६॥
निर्जीवजीवरहितं सततं विभाति
सज्जीवजीवरहितं सततं विभाति ।
निर्बीजबीजरहितं सततं विभाति
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३७॥
सम्भूतिवर्जितमिदं सततं विभाति
संसारवर्जितमिदं सततं विभाति ।
संसारवर्जितमिदं सततं विभाति (duplicate)
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३८॥
किन्नामरोदसि सखे न शुभाशुभानि
किन्नाम रोदसि सखे न च जन्ममृत्युः ।
किन्नाम रोदसि सखे न च ते विशोको
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३९॥
किन्नाम रोदसि सखे न च ते नयांसि
किन्नाम रोदसि सखे न च तेन्द्रियाणि ।
किन्नाम रोदसि सखे न च ते मनस्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४०॥
किन्नाम रोदसि सखे न च तेऽस्ति कामः
किन्नाम रोदसि सखे न च ते प्रकोपः ।
किन्नाम रोदसि सखे न च तेऽस्ति मोहो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४१॥
ऐश्वर्यमिच्छसि कथं न च ते धनानि
ऐश्वर्यमिच्छसि कथं न च ते प्रयत्नः ।
ऐश्वर्यमिच्छसि कथं न च ते ममेति
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४२॥
देहत्रयं न तु च मित्र न ते न मे च
निर्भेदभेदमिह मित्र न ते न मे च ।
निर्मज्य मानस विनश्य कथं विभिन्नः
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४३॥
नोचाणुमात्रमपि ते हि विरागरूपं
नोचाणुमात्रमपि ते हि सरागरूपम् ।
नोचाणुमात्रमपि ते हि विरागरूपं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४४॥
ध्याता न तेषु हृदये च न ते समाधि-
र्ध्येयं न तेषु हृदये च न ते हि देशः ।
ध्यानं न तेषु हृदये च न तेऽस्ति लोको
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४५॥
कान्तारध्वान्तवदिमं हि कथं वन्दति
सञ्चिन्त्य संशयमिदं हि कथं वदन्ति ।
एकं निरन्तरसमं हि निरञ्जनं हि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४६॥
यत्सारभूतममलं कथितं मया ते
तत्त्वं हि नाहमिह भावगुरुर्नशिष्यः ।
स्वच्छः स्वरूपममलं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४७॥
कथमिह परमार्थतत्त्वमानन्दरूपं
कथमिह परमार्थतत्त्वमक्षस्वरूपम् ।
कथमिह परमार्थतत्त्वविज्ञानरूपं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४८॥
दहनपवनहीनं विद्धि विज्ञानमेकं
धरणिजलविहीनं ज्ञानविज्ञानमेकम् ।
सकलगगनहीनं विद्धि विज्ञानमेकं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४९॥
निश्चिन्तरूपं न विशून्यरूपं
न शुद्धरूपं न विशुद्धरूपम् ।
रूपं विरूपं न भवामि किञ्चि-
त्स्वच्छैकरूपं परमार्थतत्त्वम् ॥ ५०॥
मुञ्च मुञ्चनिसन्नानि त्यागं मुञ्च शिवं वद ।
त्यागात्यागविषं मुञ्च अमृतत्त्वं विषायते ॥ ५१॥
दृश्यादृश्यपरं दृश्यमृतामृतपरं शृणु ।
शब्दाशब्दपरं वेद वेदावेदपरं सदा ॥ ५२॥
विन्दति विन्दति नहि नहि यत्र
छन्दोलक्षणं नहि नहि तत्र ।
समरसमज्ञो भावितपुंसः
प्रभवति तत्त्वं परमवधूतः ॥ ५३॥
ॐ तत्सदिति श्रीमद्दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु
निरञ्जनविद्यायां श्रीदत्तगोरक्षकसंवादे
द्वैताद्वैतनिरूपणं नाम द्वितीयोऽध्यायः ॥ २॥
३ निर्वाणयोग
श्रीदत्त उवाच -
आवाहनं नैव विसर्जनं च पुष्पाणि पत्राणि कथं भवन्ति ।
ज्ञानानि दानानि कथं भवन्ति समासमं चैव शिवार्चनं च ॥ १॥
न केवलं बन्धविबन्धमुक्तो न केवलं शुद्धविशुद्धमुक्तः ।
न केवलं योगवियोगमुक्तो सर्वैर्विमुक्तो गगनोपमोऽहम् ॥ २॥
सञ्जायते सर्वमिदं वितथ्यं न जायते सर्वमिदं वितथ्यम् ।
एवं विकल्पो मम नैव जातः संविद्धि निर्वाणमनोमयोऽहम् ॥ ३॥
न चाननं वापि निरञ्जनं वा न चान्तरं वापि निरञ्जनं वा ।
अन्तर्बहिर्भिन्नमिदं वितथ्यं स्वरूपनिर्वाणमनोमयोऽहम् ॥ ४॥
अबोधरूपं मम नैव जातं बोधस्वरूपं मम नैव जातम् ।
अबोधबोधं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ ५॥
न धर्मयुक्तो न च पापयुक्तो न बद्धमुक्तो न च मोक्षयुक्तः ।
युक्तं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाणमनोमयोऽहम् ॥ ६॥
परस्परं वा न च मे कदाचित् मध्यस्थभावो हि न चारिमित्रः ।
हिताहितं चापि कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ ७॥
नौपासको नैवमुपास्यरूपं न चौपदेशो न च मे क्रिया च ।
सिद्धिप्रसिद्धिं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ ८॥
न व्यापकं व्याप्यमिहास्ति किञ्चिन्नवाऽलयं वापि निरालयं वा ।
अशून्यशून्यं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ ९॥
न ग्राह्यकं ग्राहकमेव किञ्चिन्न कारणं वा मम नैव कार्यम् ।
अचिन्त्यचिन्त्यं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १०॥
न केवलं वा मम नैव भेद्यं न केवलं वा मम नैव भेदः ।
अनागतं मित्र कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ ११॥
न चास्ति देहो न च मे विदेहो न बुद्धिर्मनो मे नहि चेन्द्रियाणि ।
रागो विरागश्च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १२॥
उल्लेखमात्रं नहि नम्रमुच्चैरुल्लेखमात्रं न तिरोहितं च ।
समासमं मित्र कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १३॥
जितेन्द्रियोऽहं त्वजितेन्द्रियो वा न संयमो मे नियमो हि जातः ।
जयोऽजयो वाऽपि कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १४॥
अमूर्तिमूर्तिर्न च मे कदाचिदाद्यन्तमध्यो न च मे कदाचित् ।
चलाचलं चित्त कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १५॥
मृतामृतं चापि न मे विषं च सञ्जायते तात न कदाचित् ।
अशुद्धशुद्धं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १६॥
स्वप्नप्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे कदाचित् ।
अतूर्यतूर्यं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १७॥
संविद्धि मां सर्वविसर्गमुक्तं ध्यानादिकं कर्म कथं करोमि ।
मायाविमाया च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १८॥
संविद्धि मां ध्यानसमाधियुक्तं संविद्धि मां लक्षसलक्षयुक्तम् ।
योगंवियोगं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ १९॥
मूर्खोऽपि नाहं न च पण्डितोऽहं समौ न वार्ता न च मे कदाचित् ।
स्त्रेहं विमोऽहं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ २०॥
पिता न माता न कुलं न जातिः संसारभूतिर्न च मे कदाचित् ।
स्नेहं विमोऽहं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ २१॥
अस्तोदये नैव सदोदितोऽहं दिवा च नक्तं न च मे कथञ्चित् ।
तेजोवितेजश्च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ २२॥
असंशयं विद्धि निरन्तरं मामसंशयं विद्धि निरञ्जनं माम् ।
असंशयं विद्धि निराकुलं मां स्वरूपनिर्वाणमनोमयोऽहम् ॥ २३॥
धर्माणि सर्वाणि परित्यजन्ति शुभाशुभं कर्म परित्यजन्ति ।
ज्ञानामृतं चारु पिबन्ति धीराः स्वरूपनिर्वाणमनोमयोऽहम् ॥ २४॥
गोरक्ष उवाच -
विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र ।
समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ २५॥
इति श्रीदत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां
श्रीदत्तगोरक्षकसंवादे निर्वाणयोगो नाम तृतीयोऽध्यायः ॥ ३॥
४ समवृद्धिदृष्टिस्वात्मसंवित्युपदेशः
ॐकार इति खलु गगनसमो न परापरसा रविसार इति ।
अविशालविशालनिराकरणं कथमक्षरबिन्दुसमुच्चरणम् ॥ १॥
इह ``तत्त्वमसि'' प्रभृतिभिः श्रुतिभिः प्रतिपादितमात्मनि तत्त्वमसि ।
त्वमुपाधिविवर्जितसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ २॥
अधऊर्ध्वविवर्जितसर्वसमं ककुभादिविवर्जितसर्वसमम् ।
यदि चैकनिरन्तरसर्वसमं किमुरोदसि मानस सर्वसमम् ॥ ३॥
नहि कल्पितभावविभावरतिर्नहि रागविरागविचाररतिः ।
यदिसर्वविर्जितसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ ४॥
नहि बोधविबोधिसमाधिरिति नहि कालविकालसमाधिरिति ।
नहि देशविदेशसमाधिरिति किमु रोदसि मानस सर्वसमम् ॥ ५॥
नहि कुम्भनभो नहिकुम्भमिति नहि जीव वपुर्नहि जीव इति ।
नहि कारणकार्यविचार इति किमु रोदसि मानस सर्वसमम् ॥ ६॥
यदिसर्वनिरन्तरमोक्षपदं लघुदीर्घविचारविहीन इति ।
नहि वर्तुलकोणविचारगतिः किमु रोदसि मानस सर्वसमम् ॥ ७॥
इह शून्यविशून्यविहीन इति इह शुद्धविशुद्धविहीन इति ।
इह सर्वविसर्व विहीन इति किमु रोदसि मानस सर्वसमम् ॥ ८॥
नहि भीतिविचित्रविचार इति न निरन्तरसन्धिमनस्यमिति ।
अरिमित्रविवर्जितसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ ९॥
नहि शेषविशेषणरूप इति न चराचरभेदविभेद इति ।
इह मोक्षनिरन्तरसर्वमिति किमु रोदसि मानस सर्वसमम् ॥ १०॥
न गुणागुणपाशविबन्ध इति द्रुतजीवनजीवकरोमि कथम् ।
इह शुद्धनिरञ्जनसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ ११॥
इह भावविभावविहीनपरमिह कामविकामविहीनपरम् ।
इह बोधतमं खलु मोक्षसमं किमु रोदसि मानस सर्वसमम् ॥ १२॥
इह तत्त्वनिरन्तरसर्वसमं नहि सन्धिविसन्धिसमागमनम् ।
यदि सर्वविवर्जितमेव समं किमु रोदसि मानस सर्वसमम् ॥ १३॥
इह रूपविरूपविहीन इति ननु भिन्नविभिन्नविहीन इति ।
ननु सर्वविसर्वविहीन इति किमु रोदसि मानस सर्वसमम् ॥ १४॥
अनिकेतकुटीपरिचारसममिह सङ्गविसङ्गविहीनपरम् ।
इह बोधविबोधविहीन इति किमु रोदसि मानस सर्वसमम् ॥ १५॥
अविकारविकारमसत्यमिति अविलक्षविलक्षमसत्यमिति ।
इह केवलमात्मनि सत्यमिति किमु रोदसि मानस सर्वसमम् ॥ १६॥
इह सर्वगतः खलु जीव इति इह सर्वनिरन्तरजीव इति ।
इह केवलमात्मनि जीव इति किमु रोदसि मानस सर्वसमम् ॥ १७॥
अविवेकविवेकविबोध इति अविकल्पविकल्पविबोध इति ।
यदि चैकनिरन्तरबोध इति किमु रोदसि मानस सर्वसमम् ॥ १८॥
यदि वर्णविवर्णविहीनसमं यदि भेदविभेदविहीनसमम् ।
यदि कारणकार्यविहीनसमं किमु रोदसि मानस सर्वसमम् ॥ १९॥
इह सर्व हि केवलसर्वचिते इह केवलनिर्मलसर्वचिते ।
वियदादिविवर्जितसर्वचिते किमु रोदसि मानस सर्वसमम् ॥ २०॥
इति निर्मलनिश्चलसर्वगतमिति सर्वनिरन्तरसर्वगतम् ।
दिनरात्रिविवर्जितसर्वगतं किमु रोदसि मानस सर्वसमम् ॥ २१॥
न च बन्धसमाधिसमागमनं नहि योगवियोगसमागमनम् ।
न च तर्कवितर्कसमागमनं किमु रोदसि मानस सर्वसमम् ॥ २२॥
इह कालविकालनिराकरणमनुपीनकृशैकनिराकरणम् ।
नहि केवलतत्त्वनिराकरणं किमु रोदसि मानस सर्वसमम् ॥ २३॥
इह देहविदेहविहीनपरं नहिजाग्रतिभ्रान्तितृतीयपरम् ।
अपिधानपिधानविचारपरं किमु रोदसि मानस सर्वसमम् ॥ २४॥
गगनोपमशुद्धविशुद्धसममिह सर्वविवर्जितसर्वसमम् ।
गतसारविसारविकारसमं किमु रोदसि मानस सर्वसमम् ॥ २५॥
इह धर्मविधर्मविरागपरमिह वस्तुविवस्तुविहीनपरम् ।
इह कामविकामविरागपरं किमु रोदसि मानस सर्वसमम् ॥ २६॥
गुणदोषविवर्णितसर्वमसि सुखदुःखविवर्जिततत्त्वमसि ।
यदि रे गगनोपमतत्त्वमसि किमु रोदसि मानस सर्वसमम् ॥ २७॥
बहुधा श्रुतयः प्रवदन्ति यतो वियदादिगतो यदि तोयसमम् ।
यदिचेद्गगनोपमतत्त्वमसि किमु रोदसि मानस सर्वसमम् ॥ २८॥
यदि रूपविवर्जितसर्वमिदं यदि चैकनिरन्तरसर्वमिदम् ।
यदि सर्वविवर्जितसर्वमिदं किमु रोदसि मानस सर्वसमम् ॥ २९॥
इह सारसमुच्चयसर्वयति कथितो निजभावविबोधपति ।
यदि यत्कारणनहि सत्यमिति किमु रोदसि मानस सर्वसमम् ॥ ३०॥
विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र ।
समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ ३१॥
इति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां निर्वाणयोगे
श्रीदत्तगोरक्षकसंवादे समवृद्धिदृष्टिस्वात्मसंवित्युपदेशोनाम
चतुर्थोऽध्यायः ॥ ४॥
५ निर्वाणमोहद्वैतनिरूपणम्
बहुधा श्रुतयः कथयन्ति यतो वियदादिमिदं मृगतोयसमम् ।
यदि चैकनिरन्तरसर्वशिवं ह्युपमा च कथं ह्युपमेयहीनम् ॥ १॥
अविभक्तविभक्तविहीनपरं ननु कार्य विकार्यविहीनपरम् ।
यदि चैकनिरन्तरसर्वशिवं यजनं कथमध्ययनादिकम् ॥ २॥
मन एव निरन्तरसर्वगतं मन एव निरन्तरहीनपरम् ।
मन एव निरन्तरसर्वशिवं मन एव कथं हि विचारयति ॥ ३॥
दिनरात्रिविभेदनिराकरणमुदितानुदितस्य निराकरणम् ।
यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम् ॥ ४॥
गतकाम्यविकाम्यविभेद इति गतवेष्टतचेष्टतभाव इति ।
यदि चैकनिरन्तरसर्वशिवं बहिरन्तरसन्धिविसन्धिविहीनम् ॥ ५॥
नहि यत्रहि सारविसार इति इह शून्यविशून्यविहीन इति ।
यदिचैकनिरन्तरसर्वगतं प्रथमं च कथं द्वितीयं च कथम् ॥ ६॥
यदिभेदकभेद्यनिराकरणं यदि वेदकवेद्यनिराकरणम् ।
यदि चैकनिरन्तरसर्वशिवं तृतीयचतुर्थं कथं च तुरीयम् ॥ ७॥
गदितागदितं नहि सत्यमिति विहिताविहितं नहि सत्यमिति ।
यदि चैकनिरन्तरसर्वशिवं विषयेन्द्रियबुद्धिमनश्च कथम् ॥ ८॥
यदि कल्पितभेदनिराकरणं यदिकल्पितवेदनिराकरणम् ।
यदि चैकनिरन्तरसर्वशिवं श्रुतयश्च कथं हि पुराणतमम् ॥ ९॥
गगनं पवनो नहि सत्यमिति धरणी दहनो नहि सत्यमिति ।
यदि चैकनिरन्तरसर्वशिवं जलदं च कथं सलिलं च कथम् ॥ १०॥
मरणामरणस्य निराकरणं करणाकरणस्य निराकरणम् ।
यदि चैकनिरन्तरसर्वशिवं गगनागगनं च कथं हि वद ॥ ११॥
प्रकृती पुरुषो नहि भेद इति नहि कारणस्यन विरक्तिरिति ।
यदि चैकनिरन्तरसर्वशिवं पुरतोपुर्तस्य कथं हि वद ॥ १२॥
तव आश्रमवर्णविहीनपरं कारणकत्तृविहीनपरम् ।
यदि चैकनिरन्तारसर्वशिंव गुणदोषविचारवचांसि कथम् ॥ १३॥
ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति ।
यदि चैकनिरन्तरसर्वशिवमिह नेति न नेति कथं च पुनः ॥ १४॥
तनुधर्मविधर्मविहीन इति ननु कार्यविकार्यविनाश इति ।
यदि चैकनिरन्तरसर्वशिवमविनोदविनोदरतिश्च कथम् ॥ १५॥
पुरुषोपुरुषस्य विनष्टिरिति वनितावनितस्य विनष्ठिरिति ।
यदि चैकनिरन्तरसर्वशिवमविनष्टि न नष्टि कथं च भवेत ॥ १६॥
यदि मोहविमोहविहीनपरं यदि संशयशोकविहीनपरम् ।
यदि चैकनिरन्तरसर्वशिवमिह दुःखविदुःखमनश्च कथम् ॥ १७॥
न सितासितवर्णविचार इति न परापरभेदविभाग इति ।
यदि चैकनिरन्तरसर्वशिवं ननु सारविसारविभिन्नपरम् ॥ १८॥
नहि याज्ञिकयज्ञविधानमिति न हुताशनवस्तुविधानमिति ।
यदि चैकनिरन्तरसर्वशिवं भवकर्मफलं विभवञ्च कथम् ॥ १९॥
यदि पूर्णविपूर्णविहीन इति यदि सर्वविवर्जितसर्वमिति ।
यदि चैकनिरतरसर्वशिवमिह तर्कवितर्कपरञ्च कथम् ॥ २०॥
उपसंहृतभेदविभेद इति उपसंहृतिबुद्धिविबुद्धि इति ।
यदि चैकनिरन्तरसर्वशिंव अविवेकविवेकमतिश्च कथम् ॥ २१॥
ननु शोकविशोकविमुक्त इति ननु दर्पविदर्पविमुक्त इति ।
यदि चैकनिरन्तरसर्वशिवं ननुविरागमनश्च कथम् ॥ २२॥
नहि मोहविमोहविकार इति नहि लोभविलोभविकार इति ।
यदि चैकनिरन्तरसर्वशिवमिहतेति कथं ममतेति कथम् ॥ २३॥
त्वमहं नहि यत्र कदाचिदपि कुलजातिविचारमसत्यमिति ।
अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ २४॥
गुरुशिष्यविचारविशीर्ण इति उपदेशविचारविशीर्णमिति ।
अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ २५॥
नहि कल्पितवेदविभाग इति नहि कल्पिततत्त्वविभाग इति ।
अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ २६॥
सरजाविरजा न कदाचिदपि ननु निर्मलनिश्चलबुद्धिरिति ।
अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ २७॥
विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र ।
समरसमज्ञो भावितपूतः प्रभवित तत्त्वं परमवधूतः ॥ २८॥
ॐ तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु
निरञ्जनविद्यायां श्रीदत्तगोरक्षकसंवादे
निर्वाणमोहद्वैतनिरूपणं नाम पञ्चमोऽध्यायः ॥ ५॥
६ महानिर्वाणनिरूपणम्
गोरक्षक उवाच -
विद्धिहिकर्परमजिनं कन्था पुण्यापुण्यविवर्जितपन्था ।
शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः ॥ १॥
लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः ।
केवलतत्त्वनिरन्तरपूतो वादविवादः कथमवधूतः ॥ २॥
आशापाशविबन्धनमुक्तः शौचाशौचविवर्जितयुक्तः ।
एवं सर्वविवर्जितभोगी शुद्धनिरञ्जनसततं स योगी ॥ ३॥
श्रीदत्तात्रेय उवाच -
कथमिह देही देहविचारः कथमिह रागी रागविचारः ।
निर्मलनिश्चलगगनाकारं त्वहमिह तत्त्वं सहजाकारम् ॥ ४॥
गगनाकारनिरन्तरहंसः तत्त्वः वितत्त्वं रहितोऽहं सः ।
एवं कथमिह भिन्नविभिन्नं बन्धविबन्धविकारविहीनं ॥ ५॥
वयमिह तत्त्वं विन्दति यत्र रूपविरूपं कथमिह तत्र ।
गगनाकारं परमं यत्र विषयी करणं कथमिह तत्र ॥ ६॥
केवलतत्त्वनिरन्तरसर्वे योगात्कथमिह गर्वं सत्यम् ।
सत्यं संसारसारमसारमेवं कथमिह सारासारम् ॥ ७॥
केवलतत्त्वनिरन्तरबुद्धं गगनाकारनिरन्तरशुद्धम् ।
एवं कथमिह सङ्गविसङ्गं सत्यं कथमिह रङ्गविरङ्गम् ॥ ८॥
योगवियोगं रहितो योगी भोगविभोगो रहितो भोगी ।
सन्ततसर्वविवर्जितमुक्तः सन्ततसर्वविवर्जितयुक्तः ॥ ९॥
एवं कथमिह जीवितमरणं ध्यानाध्याने कथमिह करणम् ॥ १०॥
इन्द्रजालमिदं सर्वं यथा मरुमरीचिका ।
अखण्डितमनाकारं वर्तते केवलः शिवः ॥ ११॥
धर्मादिमोक्षपर्यन्तं निरीहाः सर्वथा वयम् ।
कथं रागविरागं च कल्पयन्ती विपश्चितः ॥ १२॥
विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र ।
समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ १३॥
ॐ तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां
श्रीदत्तगोरक्षकसंवादे महानिर्वाणनिरूपणं नाम षष्ठोऽध्यायः ॥ ६॥
७ महानिर्वाणयोगः
बालस्य वा विषयभोगहतस्य वाऽपि
मूर्खस्य सेवकजनस्य ग्रहस्थितस्य ।
गुह्यं परं किमपि नैव विकासनीयं
भ्रान्तः कथं भजति कस्य यदि प्रदिष्टम् ॥ १॥
नैवात्र काव्यगुणदोषविवञ्चनीयो
ग्राह्मं परं गुणवती खलु यस्य वासी ।
विभ्रान्तचित्तरहिताद्भुवि रूपशून्यान्
पारं न किन्नयतिनापि त्विह त्रिकामात् ॥ २॥
प्रयत्नेन विना येन निश्चलेन चराचरम् ।
ग्रहस्तम्भसमं शान्तं चैतन्यं गगनोपमम् ॥ ३॥
अथ तत्त्वं पठेद्यस्तु एक एव चराचरम् ।
सर्वमङ्ग कथं भिन्नमद्वैतं परमामृतम् ॥ ४॥
अहमेव परं यस्मात्सारात्सारतरं शिवम् ।
गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ॥ ५॥
पूर्णानन्दं च गृह्णामि विभोगत्रिदशार्चितम् ।
समाधिनः समं देहं किङ्करिष्यामि तृप्तिमान् ॥ ६॥
उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च जले यथा ।
महादादीनि भूतानि ममाप्येकं स एव हि ॥ ७॥
मृदुद्रवेषु तीक्ष्णेषु गुणेषु कटकेषु च ।
कटुत्वं मधुरत्वं च तीक्ष्णत्वं मृदुलं यथा ॥ ८॥
प्रकृतिः पुरुषं तद्वन्नभिन्नं प्रतिभातिभो ।
यच्च सर्वाख्यरहितं सूक्ष्मात्सूक्ष्मतरं परम् ॥ ९॥
मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् ।
अदृश्यं सह यत्र त्वमहं तत्र कथं भवेत् ॥ १०॥
त्वमेव परमं तत्त्वं यत्र यत्र चराचरम् ।
गगनोपमं च यत्प्रोक्तं तदेव गगनं परम् ॥ ११॥
चैतन्यं दोषरहितं सम्पूर्णं सर्वमेव च ।
वसुधामन्तरिक्षं च मारुतेन समाहितम् ॥ १२॥
उदके पिहितं चैव तेजोमध्ये व्यवस्थितम् ।
आकाशं तेन सम्प्राप्तं न तद्व्याप्तं च केनचित् ॥ १३॥
सबाह्याभ्यन्तरेऽसि त्वं स्थिरपूर्णनिरन्तरम् ।
सूक्ष्मत्वाच्चेददृश्यत्वं निर्मलत्वाच्च योगिभिः ॥ १४॥
आलम्बनादिर्यत्प्रोक्तं त्यक्तमालम्बनं त्यजेत् ।
ततोभाभ्यां च निर्मुक्तो निरालम्बं यदा भवेत् ॥ १५॥
वलयं लायते तात गुणदोषविवर्जितम् ।
चित्स्वरूपस्य रौद्रस्य मोहमूर्छाद्र्वस्य च ॥ १६॥
एक एवं विना यत्वममोघं सहजामृतम् ।
भावगम्यं निराकारं साकारं दृष्टिगोचरम् ॥ १७॥
भावाभावविनोर्मुक्तमन्तरालं तदुच्यते ।
बाह्यभावो भवेदिथ्थमतः प्रकृतिरुच्यते ॥ १८॥
अन्तरादन्तरं ज्ञेयं नारिकेल फलं यथा ।
पौर्णमास्यां तथा चन्द्र एक एवोति निर्मलः ॥ १९॥
भ्रान्तिज्ञानस्थितो बाह्ये सम्यग्ज्ञानं च मध्यमे ।
मध्यान्मध्यतरं ज्ञेयं नारिकेलफलं यथा ॥ २०॥
अनेनैव प्रकारेण बुद्धिभेदेन सर्वगः ।
एष बुद्धोप्यनामा च गीयते नामकोटिभिः ॥ २१॥
गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः ।
यस्तु सम्बुध्यते तत्त्वं विरक्तो भवसागरात् ॥ २२॥
रागद्वेषविनिर्मुक्तः सर्वतत्त्वहिते रतः ।
दृढबोधश्च धीरश्च स गच्छेत्परमं पदम् ॥ २३॥
घटे भिन्ने घटाकाशमाकाशे लीयते यथा ।
देहाभावे तथा योगी स्वरूपे परमात्मनि ॥ २४॥
उक्तं यत्कर्म युक्तानां मतिर्यातेऽपि सा गतिः ।
योगिनां या गतिः कापि अगत्याभावनोषितः ॥ २५॥
या गतिः कर्मयुक्तानां तां च वागीन्द्रियं वदेत् ।
एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ॥ २६॥
विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ।
तीर्थे वांऽत्यजगेहे वा यत्र यत्र मृतोऽपि वा ॥ २७॥
न योगी पश्यते गर्भं परब्रह्मणि लीयते ॥ २८॥
सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं घटति
यदि यथेच्छं लिप्यते नैव दोषैः ।
सकृदपि यदभावात्कर्म किञ्चिन्नकुर्या-
त्तदपि भवति बद्धः स्वयमेव वा तपस्वी ॥ २९॥
निरामयं निष्प्रतिमं निराकृतिं
निराशयं निर्वपुषं निराशयम् ।
निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं
तमीशमात्मानमुपैति शाश्वतम् ॥ ३०॥
विधौ न दीक्षा न च मण्डलक्रिया
गुरुर्नशिष्यो न च मन्त्रसम्पदः ।
मुद्रादिकं चापि न यत्र मानस-
स्तमीशमात्मानमुपैति शाश्वतम् ॥ ३१॥
न शाम्भवी शक्तिकमाणकं न वा
पिण्डञ्च रूपं च पदादिकं न वा ।
आरम्भनिष्पन्दघटादिकं न वा
तमीशमात्मानमुपैति शाश्वतम् ॥ ३२॥
यस्य स्वरूपं च विपद्यते जग-
च्चराचरं तिष्ठति लीयतेऽपि वा ।
पयोविकारादिव फेनबुद्बुदा-
स्तमीशमात्मानमुपैति शाश्वतम् ॥ ३३॥
नानात्वमेकत्वभावत्वमाया-
त्वाणुत्वदीर्घत्वमहत्वशून्यकम् ।
मानत्वविद्यात्वसमाप्तवर्जितं
तमीशमात्मानमुपैति शाश्वतम् ॥ ३४॥
नासानिरोधो न च दृष्टिरोधो
बद्धो विबद्धो न शुभासतं सतः ।
नास्य प्रचारोऽपि न यत्र किञ्चि-
त्तमीशमात्मानमुपैति शाश्वतम् ॥ ३५॥
सुसंयमी वा यदि वा न संयमी
निष्कर्मको वा यदि वा सकर्मकः ।
अमानुषोघोनविमुच्यते ध्रुवं
तमीशमात्मानमुपैति शाश्वतम् ॥ ३६॥
मनो न बुद्धिर्नशरीरमिन्द्रिये
तदात्मभूतादिकभेदवर्जितः ।
शौचं न लिङ्गं यदि भावनाशकं
संविद्वयं वा यदि वा न विद्यते ॥ ३७॥
मनोनु वाक्चक्षुनशक्तिमीतरं
कथं च तत्रैव गुरूपदेशं ।
पयः कथं मुक्तवतं विभाजनं
युक्तस्य तत्त्वं हि समः प्रकाशते ॥ ३८॥
विन्दति विन्दति नहि नहि यत्र
छन्दोलक्षणं नहि नहि तत्र ।
समरसमज्ञो भावितपूतः
प्रभवति तत्त्वं परमवधूतः ॥ ३९॥
ॐ तत्सदिति श्रीमद्दत्तगीतासूपनिषत्सारमथितार्थेषु निर्वाणविद्यायां
दत्तगोरक्षकसंवादे महानिर्वाणयोगो नाम सप्तमोऽध्यायः ॥
श्रीदत्तात्रेयार्पणमस्तु ॥