श्रीवल्लभस्तोत्रम्
पुरुषोत्तममुखाब्जाधिकसौभाग्यपद्रजाः ।
गोकुलेन्दुमुखीवृन्दजीवनं यन्नतोऽस्म्यहम् ॥ १॥
निजप्रकाशप्रसरावधूत-तमःकृतार्थीकृतजीववृन्दम् ।
स्फुरन्मुखश्रीजितशारदेन्दुं श्रीगोकुलेन्दुं शरणं प्रपद्ये ॥ २॥
श्रीमद्वल्लभसत्कुल-निर्मलकमलप्रकाशमार्तण्डः ।
सज्जनकुमुदकुलेन्दुर्गोकुलनाथो हरिर्जयति ॥ ३॥
सम्पूर्णः पुरुषोत्तमभावाभिव्यक्तिसुखदमधुरश्रीः ।
अङ्गीकृतद्विजवपुर्गोकुलनाथो हरिर्जयति ॥ ४॥
चन्द्रमुखो नलिनाक्षस्तुलसीमणिमालिकां दधत्कण्ठे ।
स्मितमधुराधरबिम्बो गोकुलनाथो हरिर्जयति ॥ ५॥
निर्मलशारदहिमकरकरनिकरक्षीरहीरसत्कीर्तिः ।
श्रीविठ्ठलेशतनुजो गोकुलनाथो हरिर्जयति ॥ ६॥
आहृतवरवेदगणो मथितक्षीरनीरधिः परमः ।
उद्धृतवरगिरिराजो गोकुलनाथो हरिर्जयति ॥ ७॥
श्रवणेन स्मरणेन च नमनेन च सङ्कथावलोकाभ्याम् ।
स्वयमेव च स्वरसदो गोकुलनाथो हरिर्जयेति ॥ ८॥
सन्न्यासिवेशमोहितसाधुगणः सोऽसुरो हरिद्रोही ।
येन निराक्रियतासौ गोकुलनाथो हरिर्जयति ॥ ९॥
क्लेशमहोदधिमग्नः कल्याणो नाममात्रकल्याणः ।
स्वयमुदधारि स येन गोकुलनाथो हरिर्जयति ॥ १०॥
इति श्रीमठपतिकल्याणभट्टविरचितं श्रीवल्लभस्तोत्रं समाप्तम् ।
Proofread by PSA Easwaran