तमन्तिमं गुरुं भजे
गुरुगोविन्दसिंहं अभिलक्ष्य विलिखिता ।
ज्वलत्तडिद्घनो यथा सुखोदकप्रदस्तथा
प्रचण्डखड्गधारिणं तथा दयार्द्रचेतसम् ।
जयप्रणादघोषकं पदप्रहारकम्पकं
धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ १॥
गुरोर्यथार्थनाम्न आत्मजो बहादुरस्य भोः
तथैव वीररक्तसंयुतो विनाशनाय च ।
कृतप्रतिज्ञ एव प्राणघातकस्य यः पितु-
र्धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ २॥
हिमालयस्य बिभ्रदुन्नतिं स्थिरत्वमेव च
गभीरतां च सागरस्य सूर्यवत् परन्तपः ।
स्वधर्मरक्षको हि यस्त्यजेदसूनपि द्रुतं
धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ ३॥
अतीतसङ्ख्यमप्रमेयसाधनं द्विषद्बलम्
दलं च मुष्टिमेयमल्पसाधनं क्व रे गुरोः ।
तथापि साहसेन यस्य लभ्यते जयोऽधुना
धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ ४॥
अहो क्व कोमला तनुः क्व चेष्टकाचयो दृढस्
तथापि धर्ममोक्षणाद् वरं मृतिर्हि स्वीकृता ।
यदीयपुत्रयुग्महृत्स्थिरत्वमद्भुतं स्मृतं
धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ ५॥
प्रवृद्धवेगनिःश्वसत्तुरङ्गकोपवह्निना
लपल्लपल्लपल्लपत्कृपाणजिह्वया पुनः ।
प्रचारितं द्विषद्वने भयं हि येन सिंहवत्
धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ ६॥
ककारपञ्चकं वहन् मृगेन्द्रतुल्यविक्रमः
करस्थजीवितो मुदा द्विषद्विमर्दनोद्यतः ।
भयङ्करो मरुद्गणो यदीयशिष्यसद्गणो
धुरन्धरं रिपुच्छिदं तमन्तिमं गुरुं भजे ॥ ७॥
कृष्णलालनादानः (१९६७)
एम ए।, डी। ए। वी। कालेज, चित्रगुप्तरोड, देहली ।
Encoded and proofread by Rishbha Bhagi