श्रीशङ्करार्यायमङ्गलम्
मङ्गलं ब्रह्मरूपाय मङ्गलं गुरुरुपिणे ।
मङ्गलं तत्त्वबोधाय शङ्करार्याय मङ्गलम् ॥ १॥
मङ्गलं शिवरूपाय मङ्गलं शङ्कराय च ।
शिवार्याम्बातनुजाय शङ्करार्याय मङ्गलम् ॥ २॥
मङ्गलं सत्यबोधाय मङ्गलं सत्यरूपिणे ।
अद्वैताचार्यवर्याय शङ्करार्याय मङ्गलम् ॥ ३॥
मङ्गलं वेदवेद्याय वेदज्ञाय च मङ्गलम् ।
मङ्गलं वेदरूपाय शङ्करार्याय मङ्गलम् ॥ ४॥
मङ्गलं निष्प्रपञ्चाय मङ्गलं मोक्षरूपिणे ।
भाष्यत्रयकृते नित्यम शङ्करार्याय मङ्गलम् ॥ ५॥
मङ्गलं मठनिर्मात्रे मङ्गलं शिष्यबोधिने ।
विश्वोद्धारावताराय शङ्करार्याय मङ्गलम् ॥ ६॥
॥ इति श्रीमत्परमहंस परिव्राजकाचार्य सद्गुरु भगवता
श्रीधरस्वामिना विरचितं शङ्करार्यायमङ्गलं सम्पूर्णम् ॥
रचनास्थानं - श्रीक्षेत्र वरदपुरं