सर्पसूक्तम् ३
नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ ।
ये वा॑ व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ४। २। ८॥ (TS) १
इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म् ।
आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ॥ (३। १। १। ५॥ TS)
ये अ॒न्तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ ।
ते नः॑ स॒र्पासो॒ हव॒माग॑मिष्ठाः ।
ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ।
ये दिवं॑ दे॒वीमनु॑ सं॒चर॑न्ति ।
येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम᳚म् ।
तेभ्यः॑ स॒र्पेभ्यो॒ मधु॑मज्जुहोमि । (३। १। १। ६॥) (TS) २
नि॒घृष्वै॑रस॒मायु॑तैः । कालैर्हरित्व॑माप॒न्नैः । इन्द्राया॑हि स॒हस्र॑युक् ।
अ॒ग्निर्वि॒भ्राष्टि॑वसनः । वा॒युः श्वेत॑सिकद्रु॒कः । सं॒व॒थ्स॒रो वि॑षू॒वर्णैः᳚
। नित्या॒स्तेऽनुच॑रास्त॒व । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सु॑ब्रह्म॒ण्योम् । (०।१।१२। ५८) (TA) ३
स्वररहितम् ।
नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥
येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
येषामप्सु सदः कृतं तेभ्यः सर्पेभ्यो नमः ॥
या इषवो यातुधानानां ये वा वनस्पतीꣳरनु ।
ये वा वटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ ४। २। ८॥ (TS) १
इदꣳ सर्पेभ्यो हविरस्तु जुष्टम् ।
आश्रेषा येषामनुयन्ति चेतः ॥ (३। १। १। ५॥)
ये अन्तरिक्षं पृथिवीं क्षियन्ति ।
ते नः सर्पासो हवमागमिष्ठाः ।
ये रोचने सूर्यस्यापि सर्पाः ।
ये दिवं देवीमनु संचरन्ति ।
येषामाश्रेषा अनुयन्ति कामम् ।
तेभ्यः सर्पेभ्यो मधुमज्जुहोमि । (३। १। १। ६॥) (TS) २
निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इन्द्रायाहि सहस्रयुक् ।
अग्निर्विभ्राष्टिवसनः । वायुः श्वेतसिकद्रुकः । संवथ्सरो विषूवर्णैः
। नित्यास्तेऽनुचरास्तव । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सुब्रह्मण्योम् । (०।१।१२। ५८) (TA) ३
These are from Taittiriya Samhita (TS) 4.2.8, portion of 3.1.1 5 and 6,
and Taittiriya Aranyaka (TA) 0.1.12 58.