श्रीचन्द्रशेखरभारति सद्गुरुषोडशी
शिवस्वरूपमिन्दुकान्तिशोभितं शिवङ्करं
शिवाच्युताम्बुजोद्भवात्मकं मदान्तकप्रभुम् ।
द्विजार्चितं प्रजामहीमहेन्द्रसंश्रिताङ्घ्रिकं
शृङ्गशैलपीठनाथमाश्रयामि सन्ततम् ॥ १॥
देशिकेन्द्रचन्द्रशेखराभिधानशोभिते
श्रीनृसिंहभारतीशहस्तपद्मसम्भृते ।
शङ्करार्यसद्गुरुप्रतिष्ठितादिपीठगे
खेलतु प्रतिक्षणं मनो मदीयमन्वहम् ॥ २॥
चाक्षुषाख्यया सुदक्षियैव मां पुरा प्रभु-
र्यः क्षणेऽकरोद्भुजिष्यमक्षराम्बिकात्मकः ।
मीननेत्रया प्रदत्तयाज्ञयाश्रितो मया
लोकदेशिकं तमेकमेव सन्ततं भजे ॥ ३॥
दण्डपाणिमण्डकोटिमण्डलार्चिताङ्घ्रिकं
वैदिकाध्ववैरितूलचण्डमारुतं प्रभुम् ।
चण्डिकासरोजपादपूजकं बुधाग्रणी-
ऋष्यशृङ्गमौनिराट्तपोवनेश्वरं भजे ॥ ४॥
भस्मपुण्ड्रपावकत्रिरेखया विराजितं
सुधामयूखशेखराक्षमालया स्फुरद्गलम् ।
गुणत्रयात्मरेखयाप्यलङ्कृताब्जपीठगं
चन्द्रशेखरार्यदेशिकं तमेकमाश्रये ॥ ५॥
आत्मरूपदर्शने सदाऽपि तुष्टमानसं
भावनाख्यवेदशीर्षभावनाविशारदम् ।
पावनात्मविद्यया प्रकाशिताब्जवक्त्रकं
देशिकेन्द्रचन्द्रशेखरार्यराजमाश्रये ॥ ६॥
हस्ततालमोदनेन वृष्टिकारकं प्रभुं
चक्रराजनायिकासमर्चकं तमोहरम् ।
शुद्धविद्ययाश्रितात्मशुद्धतत्त्वबोधकं
चन्द्रशेखरार्यदेशिकं भजे विमुक्तये ॥ ७॥
देवकीसुतेन सत्वमार्गपालनेच्छुना
प्रेषितं सुवर्णपक्षमामनन्ति यं गुरुम् ।
पञ्चनागबन्धने प्रभुं परात्मदर्शन -
प्रदं तमाश्रयामि चन्द्रशेखरार्यदेशिकम् ॥ ८॥
शिलासुवर्णयोर्दरिद्रवित्तशालिनोस्तथा
पङ्करत्नयोश्च मूर्खविज्ञयोर्जडार्ययोः ।
यक्षरक्षसोर्धुरीणमानुषाख्ययोरसौ
समप्रवृत्तिको जयत्यवाप्य मानसं गुरुः ॥ ९॥
धनेन कर्मणा प्रजाभिरोंपदार्थमव्ययं
कदाऽपि वा च न स्मेरदिति प्रबोधकं प्रभुम् ।
ज्ञानकारकं नतार्तिहारिणं सदा हृदा
कदा भजेऽञ्जलिं वहन्गुरुं भवाब्धितारकम् ॥ १०॥
विरागलोकसेवितं विरक्तिमार्गसूचकं
विद्ययाविलासवन्मुखं विनीतिनायकम् ।
विशङ्कटं विशारदं विशल्यभोगदायकं
विशुद्धतृप्तमानसं नमामि देशिकप्रभुम् ॥ ११॥
मन्दहासरम्यदन्तपङ्क्तिशोभिताननं
बिन्दुतत्त्वबोधकं निरन्तरेण योगिनाम् ।
अन्धकारपापहन्तृभास्करं शिवाऽद्वयं
बन्धमोचकं तमेकमाश्रयामि सद्गुरुम् ॥ १२॥
पादुकाऽमृतेन सर्वनम्रलोकरक्षकं
चाक्षुषामृतेन मोहनाशकं सदा नृणाम् ।
वाचिकामृतेन नैगमानुकूलशिक्षकं
मातृकाक्षरामृतात्मकं नमामि सद्गुरुम् ॥ १३॥
अखण्डमण्डलेश्वरत्रिखण्डमन्त्रबोधकं
विकुण्ठकुण्डलीशयात्मकं महाशिवार्चकम् ।
महाण्डकोटिमातृकाङ्घ्रिपङ्कजे सुभक्तिदं
प्रचण्डदुःखहारिणं शरण्यमाश्रये गुरुम् ॥ १४॥
तुलाख्यमेचके मखस्य सङ्क्रमे समुद्भवं
सुमेषकृष्णषष्ट्युपागमेऽभिषिक्तमासने ।
सुखप्रदं नमत्ततेः शिवं शिवप्रदायकं
सुचन्द्रशेखरार्यदेशिकं तमेकमाश्रये ॥ १५॥
तवाङ्घ्रिपद्मयोरिमां नवां स्तुति समर्पये
गृहाण नम्यशारदाख्यपीठमध्यग प्रभो ।
सदाऽव मां सदाशिव श्रुते रहस्यबोधनैः
पुनर्नमामि देशिकेन्द्र चन्द्रशेखरार्य भोः ॥ १६॥
इति मन्त्रेश्वरशर्मणा विरचिता सद्गुरुषोडशी समाप्ता ।
(मधुरापुरिवास्तव्येन मुम्बापुरीस्थपत्रिकाप्रकटनाध्यक्षेण
श्रीगुरुपादुकाशेखरेण मन्त्रेश्वरशर्मणा विरचिता)
(Author: Sri Madura S. Mantresvara Sarma, Journalist
and Editor, Kaiser-i-Hind, Bombay.)
A garland of sixteen verses laid at the blessed feet of
His Holiness Sri Chandrasekhara Bharati Mahaswamigal.
Proofread by Ravi Venkatraman