श्रीरामकृष्णवन्दनास्तोत्रम्
जगज्जातं त्यक्तं हिमगिरिसुता पादकमले
शरीराद्याः प्राणा वलय इव येनार्पणमिताः ।
त्रिवर्गोयच्छ्रद्धाविमल गुरुभक्त्याहि सुलभो
नुमो रामकृष्णं सुरनुतपदं भेदरहितम् ॥ १॥
स्वयं त्यक्तं प्रोक्तं हृदयकरशाखोल्लिखनतः
पुरा रामात् कृष्णः समभवदनन्यो न हि परः ।
इदानीमायान्तं नयनविषयत्वं जनिभृतां
प्रविष्टो देहेऽस्मिन्निति कनककामातिगतया ॥ २॥
यदद्वैतं शान्तं सततमघमायाविरहितं
चिदानन्दं शुद्धं प्रकृतिसहितं प्रेमवशगम् ।
त्वमेवाविर्भूतः करणविषये दुर्लभतरो
जगज्जीवैः क्रीड़न्महदमितवीर्यो रसतमः ॥ ३॥
त्वमेव श्रीरामो मधुरिपुहरिर्गोपतनयः
स्वयम्भूतश्चाद्यः परमपुरुषो नाथ रमण ।
विवादं धर्माणां शमयितुमनाश्चिन्मयवपुः
प्रसन्नो लोकानां प्रकटितमकार्षीः पुनरिह ॥ ४॥
त्वदीयाङ्घ्रिद्वन्द्वक्षरितमकरन्दं प्रतिदिशं
सदा पायं पायं कलितभवभीतिं प्रशमयन् ।
भजन् साम्यानन्दं विमलहृदयो याति परमां
जनानां सङ्घोऽयं निखिलभुवि शान्तिं मुहुरहो ॥ ५॥
समाधावानन्दं पुनरतिविशुद्धं हरिकथा-
प्रसङ्गादुद्बुद्धं करणगणरोधं प्रविवहन् ।
नराणां भक्तानां हृदयपुलकानां प्रतिदिनं
समाधानं चक्रे य इह शरणं मेऽस्तु सततम् ॥ ६॥
ध्रु वा मूर्तिर्गङ्गा-तटपरिगता या गुणमयी
गुणातीतापि स्यान्ननुलसति दक्षेश्वरमणिः ।
व्रजन्ती गायन्ती भवतारिणी मातुर्गुणकथाः
सदा स्वान्ते सा मे स्फुरतु रमणीया द्युतिमयी ॥ ७॥
कृपापीयूषाम्भः पतितमधिकं पातकिजने
दयासिन्धो मन्दे रसिकचतुर प्रीतरसिक ।
दरिद्राणां बन्धो तव विदुरगेहे सुखलवाः
समर्थो निर्णेतुं क इह महिमानं ननु बुधः ॥ ८॥
समुद्धर्तुं लोकान् स्वयमधिगतिस्ते प्रतिगृहं
क्व देवेन्द्रादीनां वसति-भवनं क्व शशधृक् ।
गुणानां साधूनां त्वयि निवसनं गुणधर
स्मरामो नित्यानामपि निरभिमानं निरुपमम् ॥ ९॥
नियन्ता जीवानामपिशिशुवदेवानुनटसि
स्वतन्त्रः सर्वेषामिव चरसि देवीपरगतः ।
अभिज्ञाता विश्वं भणसि ननु मूर्खाभिध इति
प्रियां ते जानीमो निज-सकलगुप्तिं नटवर ॥ १०॥
नमो रामैक्यामितमधुर देवीमयतनु-
भृते कृष्णैक्याय श्रुतपरमहंसाय यतये ।
नमश्चन्द्रामण्याः प्रियतनयदेवाय गतये
नमः सर्वस्वाय प्रणयिक्षुदिरामस्य मणये ॥ ११॥
इयं स्तुति कथा पूजा रामकृष्णे परे गुरौ ।
अर्पिता तेन देवेशः प्रीयतां परमेश्वरः ॥ १२॥
इति ब्रह्मचारी मेधाचैतन्येन विरचितं
``श्रीश्रीरामकृष्णवन्दनास्तोत्रम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan