श्रीरामानुजस्तुतिश्लोकाः
श्रीश्रीवत्सचिह्नमिश्रैः अनुगृहीताः
॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीश्रीवत्सचिह्नमिश्रेभ्यो नमः ॥
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १॥
(श्रीवैकुण्ठस्तवे प्रथमः श्लोकः ।)
श्रीमन्तौ हरिचरणौ समाश्रितोऽहं
श्रीरामावरजमुनीन्द्रलब्धबोधः ।
निर्भीकस्तत इह सुन्दरोरुबाहुं
स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ २॥
(श्रीसुन्दरबाहुस्तवे प्रथमः श्लोकः)
विज्ञापनां वनगिरीश्वर ! सत्यरूपां
अङ्गीकुरुष्व करुणार्णव ! मामकीनाम् ।
श्रीरङ्गधामनि यथापुरमेकतोऽहं
रामानुजार्यवशगः परिवर्तिषीय ॥ ३॥
(श्रीसुन्दरबाहुस्तवे १२९-तमः श्लोकः)
रामानुजाङ्घ्रिशरणोऽस्मि कुलप्रदीपः
त्वासीत् स यामुनमुनेः स च नाथवंश्यः ।
वंश्यः पराङ्कुशमुनेः स च सोऽपि देव्याः
दासस्तवेति वरदास्मि तवेक्षणीयः ॥ ४॥
(श्रीवरदराजस्तवे १०२-तमः श्लोकः)
इति श्रीश्रीवत्सचिह्नमिश्रैः अनुगृहीताः
श्रीरामानुजस्तुतिश्लोकाः सम्पूर्णाः ।
अर्वाञ्चो यत्पदसरसिजद्वन्द्वमाश्रित्य पूर्वै
मूर्ध्ना यस्यान्वयमुपर ता देशिका मुक्तिमापुः ।
सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्थां
यत्सम्बन्धादमनुत कथं वर्ण्यते कूरनाथः ॥ ५॥
॥ श्रीश्रीवत्सचिह्नमिश्रेभ्यो नमः ॥
Proofread by Aruna Narayanan