श्रीराघवेन्द्र अभयप्रदानम्
या कृता द्वादशाध्यायी गुरुराजस्तुतिर्मया ।
गुरुराजाज्ञया सैव दशध्यायी विरच्यते ॥
॥ अभयप्रदानं नाम प्रथमोऽध्यायः ॥
श्रितानां स्वपादं मनोऽभीष्टदाने
सुरद्रुप्रमोद प्रहादि प्रभाव ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ १॥
रजोहीन ते हीनपादाम्बुजातं
प्रसन्नः प्रयाति प्रकृष्टप्रमोदम् । प्रपन्नः प्रयाति
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ २॥
घनानन्द ते पादपद्मं प्रविन्दन्
अनन्दोऽप्यमन्दं सदानन्दमेति ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ३॥
वदान्यो वदान्यो वदान्यास्ति कस्त्वां
ततोऽहं यते हन्त ते पादमाप्तः ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ४॥
दयालो दयालो दयालो दयालो
दयां कुर्वमोघां पदं ते प्रपद्ये ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ५॥
यथाशक्ति पादस्तुतिं तेऽप्पणार्य
प्रगीतां पठन्तः प्रमोदं भजन्ति ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ६॥
न जानामि ते पादसेवाविधानं
यथाशक्ति किन्तु स्वयं स्तौमि नौमि ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ७॥
महापद्विनाशाय ते पादरेणुः
प्रभुः स्यादतस्त्वां विपन्नोऽहमाप्तः ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्यातु हस्तं निधेहि ॥ ८॥
भुजङ्गे भुजङ्गेन कृष्णावधूतेन
गीतं सुगीतेन लोके पठेद्यः ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ९॥
इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले
अभयप्रदानं नाम प्रथमोऽध्यायः सम्पूर्णः ।
Proofread by Gopalakrishnan, PSA Easwaran