श्रीनिम्बार्कचतुश्श्लोकी
हरेरायुधाचार्यनिम्बार्कदेवं
व्रजे धाम्नि सर्वेश्वरार्चानिमग्नम् ।
सदा भक्तवृन्दैः समाराध्यमानं
भजे भानुकोटिम्प्रकाशं मुनीन्द्रम् ॥ १॥
असीमप्रभं नौमि निम्बार्कदेवं
मुहू राधिकाकृष्णयुग्माङ्घ्रिकञ्जे ।
अशेषाऽनुरक्तं पराभक्तिशीलं
महाभावसिन्धौ मुदा गाहमानम् ॥ २॥
स्ववेदान्तसिद्धान्त-संस्थापकं श्री-
परब्रह्मरूपाभिव्यक्ति-प्रदाने ।
श्रुतिब्रह्मसूत्रादिसद्भाष्यकारं
भजेऽहं कृपाधाम निम्बार्कदेवम् ॥ ३॥
मुकुन्दाङ्घ्रिभक्तिप्रचारप्रसिद्धं
श्रुतिव्याहृताऽऽचारमाख्यापयन्तम् ।
असत्प्रोक्ततर्काऽपहारप्रवीणं
समाराधयामीह निम्बार्कदेवम् ॥ ४॥
श्रीनिम्बार्कचतुश्श्लोकी भक्ताभीष्टप्रदायिनी ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मिता ॥
इति अनन्त श्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर
श्री श्रीजी श्रीराधासर्वेश्वरशरणदेवाचार्यजी महाराज प्रणीत
श्रीनिम्बार्कचतुश्श्लोकी समाप्ता ।
Proofread by Mohan Chettoor