श्रीनागराजकवचम्
(विनियोगः)
नागराजस्य देवस्य कवचं सर्वकामदम् ।
ऋषिरस्य महादेवो गायत्री छन्द ईरितः ॥
ताराबीजं शिवाशक्तिः क्रोधबीजस्तु कीलकः ।
देवता नागराजस्तु फणामणिविराजितः ।
सर्वकामार्थसिध्यर्थे विनियोगः प्रकीर्तितः ॥
(कवचम्)
अनन्तो मे शिरः पातु कण्ठं सङ्कर्षणस्तथा ।
कर्कोटको नेत्रयुग्मं कपिलः कर्णयुग्मकम् ॥ १॥
वक्षःस्थलं नागयक्षः बाहू कालभुजङ्गमः ।
उदरं धृतराष्ट्रश्च वज्रनागस्तु पृष्ठकम् ॥ २॥
मर्माङ्गमश्वसेनस्तु पादावश्वतरोऽवतु ।
वासुकिः पातु मां प्राच्ये आग्नेयां तु धनञ्जयः ॥ ३॥
तक्षको दक्षिणे पातु नैरृत्यां शङ्खपालकः ।
महापद्मः प्रतीच्यां तु वायव्यां शङ्खनीलकः ॥ ४॥
उत्तरे कम्बलः पातु ईशान्यां नागभैरवः ।
ऊर्ध्वं चैरावतोऽधस्तात् नागभेतालनायकः ।
सदा सर्वत्र मां पातु नागलोकाधिनायकाः ॥ ५॥
इति श्रीनागराजकवचं सम्पूर्णम् ।