श्रीभाष्यकारमङ्गलम्
श्रीवादिभीकरगुरुभिरनुगृहीतं
॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीवादिभीकरगुरवे नमः ॥
श्रीपराङ्कुशपादाब्जसुरभीकृतमौलये ।
श्रीवत्सचिह्ननाथाय यतिराजाय मङ्गलम् ॥ १॥
नाथपद्माक्षरामार्यपादपङ्कजसेविने ।
सेव्याय सर्वयमिनां यतिराजाय मङ्गलम् ॥ २॥
पूर्णाय पूर्णकरुणापात्रायामिततेजसे ।
मालाधरप्रियायास्तु यति राजाय मङ्गलम् ॥ ३॥
संसेव्य यामुनाचार्यमेकलव्योस्म्यहं गुरोः ।
इत्येवं वदते नित्यं यतिराजाय मङ्गलम् ॥ ४॥
श्रीकाञ्चीपूर्णमिश्रोक्तरहस्यार्थविदे सदा ।
देवराजप्रियायास्तु यतिराजाय मङ्गलम् ॥
श्रीमद्गोष्ठीपुरीपूर्णदिव्याज्ञां कुर्वते मुदा ।
श्लोकार्यं गृह्णते तस्मात् यतिराजाय मङ्गलम् ॥ ६॥
कूरेशकुरुकानाथदाशरथ्यादिदेशिकाः ।
यच्छिष्या भान्ति ते तस्मै यतिराजाय मङ्गलम् ॥ ७॥
चरमश्लोकतत्त्वार्थं ज्ञात्वार्याज्ञां विलङ्घ्य च ।
दिशते तं स्वकीयेभ्यः यतिराजाय मङ्गलम् ॥ ८॥
श्रीशैलपूर्णकृपया श्रीरामायणमर्थतः ।
भक्त्या येन श्रुतं तस्मै यतिराजाय मङ्गलम् ॥ ९॥
शङ्करादिकुदृष्टीनां बाह्यानां निधनाय च ।
श्रीभाष्यं कुर्वते तस्मै यतिराजाय मङ्गलम् ॥ १०॥
कुर्वन्नुपनिषद्भाष्यं जगद्रक्षां करोति यः ।
दायायाः परतन्त्राय भाष्यकाराय मङ्गलम् ॥ ११॥
द्रमिडोपनिषद्व्याख्यां कालयेति कृपाबलात् ।
शासते कुरुकेशं तं भाष्यकाराय मङ्गलम् ॥ १२॥
गत्वा तु शारदापीठं वृत्तिं बोधायनस्य च ।
अवलोक्यागतायास्तु भाष्यकाराय मङ्गलम् ॥ १३॥
परमाणुमृषावादिवादसंहारकारिणे ।
तस्मै भगवते श्रीमद्भाष्यकाराय मङ्गलम् ॥ १४॥
श्रीमत्कुरङ्गपूर्णाय श्रीभाष्यं वदते स्वयम् ।
पित्रे सम्पत्सुतस्यापि भाष्यकाराय मङ्गलम् ॥ १५॥
दत्त्वा वृषगिरीशस्य शङ्खचक्रे रमापतेः
परमप्रीतियुक्ताय भाष्यकाराय मङ्गलम् ॥ १६॥
सन्न्यासं कुर्वते काञ्च्यामनन्तसरसीतटे ।
वरदे न्यस्तभाराय भाष्यकाराय मङ्गलम् ॥ १७॥
श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।
कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ १८॥
शेषो वा सैन्यनाथो वा श्रीपतिर्वेति सात्त्विकैः ।
वितर्क्याय महाप्राज्ञैः यतिराजाय मङ्गलम् ॥ १९॥
प्रकृष्टगुणपूर्णाय प्राप्याय स्वाङ्घ्रिसेविनाम् ।
प्रपन्नसार्थवाहाय यतिराजाय मङ्गलम् ॥ २०॥
वेदात्मकप्रमाणेन सात्त्विकैश्च प्रमातृभिः ।
प्रमेयेण सह श्रीमान् वर्धतां यतिशेखरः ॥ २१॥
इति श्रीवादिभीकरगुरुभिरनुगृहीतं श्रीभाष्यकारमङ्गलं सम्पूर्णम् ।
॥ श्रीवादिभीकरगुरवे नमः ॥
Proofread by Aruna Narayanan