
जय जगन्नाथ ।
jaya jagannātha ।
- Facebook page
- Contact Puri, Orissa, pknanda65 at gmail.com
- अच्युतानन्ददासः महापुरुष | Mahapurusha Achyutananda Das
- अनन्तदासः शिशु | Shishu Anantadasah
- अरविन्ददर्शनम् चैत्यपुरुषः (लेखः) | aravindadarshanam |
- उत्कलप्रदेशेस्वामिनिगमानन्दः (लेखः) | utkalapradeshesvAminigamAnandaH |
- उत्कलेषु संस्कृतचर्च्चा (लेखः) | | Discussion of Sanskrit (Literature) in Utkala-Odisha |
- उपनिषत्समीक्षा (लेखः) | upaniShatsamIkShA |
- काश्मीरशैवदर्शने षड्त्रिंशत्तत्त्वानां रैखिकमध्ययन-प्रारूप्यम् | Kashmirashaivadarshane ShadtrinshattattvanAm Raikhikamadhyayana-Prarupyam
- ज्योतिर्विद्याविवेकः (लेखः) | jyotirvidyAvivekaH |
- जाॅर्ज बर्कले दर्शनसमीक्षणम् | A review of George Berkeley's views
- तत्त्वपुरुषाष्टकस्य-एकं दार्शनिक-साहित्यिक-समीक्षणम् | Tattvapurushashtakasya Ekam Darshanika-Sahityika-Samikshanam
- नमः कात्यायनाय (लेखः) | namaHkAtyAyanAya |
- निगमानन्ददर्शनसमीक्षणम् (लेखः) | nigamAnandadarshanasamIkShaNam |
- निष्ठुरा कोरोना | niShThurA koronA |
- न्यासानुशासनम् (लेखः) | nyAsAnushAsanam |
- पञ्चमहायज्ञविश्लेषणम् (लेखः) | panchamahAyajnavishleShaNam |
- पार्श्वनाथ-महावीरयोः व्यक्तित्वविमर्शः (लेखः) | pArshvanAthamahAvIrayoH vyaktitvavimarshaH |
- फ्रान्सिस् बेकनदर्शनम् | About Francis Bacon
- बलरामदासः शूद्रमुनिः | shUdramuniH balarAmadAsaH
- ब्रह्मविद्या (लेखः) | brahmavidyA |
- भक्तिनिर्झरिण्यां प्रतिपादितं भक्तिदर्शनम्-एकं समीक्षात्मकमध्ययन-प्रारूप्यम् | bhaktinirjhariNyAM pratipAditaM bhaktidarshanam-ekaM samIkShAtmakamadhyayana-prArUpyam
- भागवतदर्शनं जगन्नाथदासश्च (लेखः) | bhAgavatadarshanaM jagannAthadAsaH |
- महाकविः सारलादासः | mahAkaviH sAralAdAsaH
- मादलापञ्जिकायाः विहंगमदृष्टिः (लेखः) | mAdalApanjikAyAH vihaMgamadRiShTiH |
- यशोवन्तदासः महापुरुषः | yashovantadAsaH mahApuruShaH
- यज्ञोपवीतसमीक्षणम् | Yajnopavita Samikshanam |
- रथविश्लेषणम् | rathavishleShaNam
- रसकुल्या निर्क्षरिणी | rasakulyA nirkShariNI
- रेने देकार्तदर्शनम् | About Rene Descartes
- लाइबनित्सदर्शनम् | About Gottfried Wilhelm Leibnitz
- विवेकानन्द-दर्शनम् | Vivekananda darshanam
- वैष्णवदर्शनानां दिङ्मात्रपरिशीलनम् Vaishnavadarshanam A Brief Study of Vaishnava Doctrine 1
- वैष्णवदर्शनानां दिङ्मात्रपरिशीलनम् २ | Vaishnavadarshanam A Brief Study of Vaishnava Doctrine 2
- शिवसपर्यालोकः | Shivasaparyalokah
- शैवागम-पुराणेषु प्रतिपादिताः शिवताण्डवभेदाः - एकं संक्षिप्तं अध्ययनम् | ## shaivAgama-purANeShu pratipAditAH shivatANDavabhedAH - ekaM saMkShiptaM adhyayanam
- श्रीजगन्नाथगीतामृते विप्रलम्भ-भक्तिः मानवीकरणञ्चः, रत्नसिंहासन-विरहगाथायाः समीक्षात्मकं विश्लेषणात्मकञ्चाध्ययनम् | shrIjagannAthagItAmRRite vipralambha-bhaktiH mAnavIkaraNa~nchaH, ratnasiMhAsana-virahagAthAyAH samIkShAtmakaM vishleShaNAtmaka~nchAdhyayanam
- श्रीजगन्नाथगीतामृते श्रीजगन्नाथभक्तेः अन्तरङ्गानुभूतेः- एकं काव्यिकसमीक्षणम् । ##shrIjagannAthagItAmRRite shrIjagannAthabhakteH antara~NgAnubhUteH- ekaM kAvyikasamIkShaNam |
- श्रीक्षेत्रसुधानिधि जगन्नाथतत्त्वम्- दार्शनिकसमालोचनात्मकशोधप्रारूप्यम् | shrIkShetrasudhAnidhi jagannAthatattvam- dArshanikasamAlochanAtmakashodhaprArUpyam
- स्पिनोजादर्शनम् | About Benedict (Baruch) Spinoza
- जगन्नाथगीतामृतम् १ | Jagannatha Gitamritam 1 |
- जगन्नाथगीतामृतम् २ | Jagannatha Gitamritam 2 |
- जगन्नाथगीतामृतम् ३ | Jagannatha Gitamritam 3 |
- जगन्नाथगीतामृतम् ४ | Jagannatha Gitamritam 4 |
- जगन्नाथगीतामृतम् ५ | Jagannatha Gitamritam 5 |
- जगन्नाथनवकम् | Jagannatha Navakam |
- श्रीजगन्नाथसप्तकं | Jagannatha Saptakam
- जगन्नाथाष्टकम् २ (कदाचिच्छ्रीक्षेत्रे विबुधपुरधाम्नि प्रियतमे) | jagannAthAShTakam 2 |
- तालध्वजरथः | tAladhvajarathaH
- तुलसीप्रियाष्टकम् बलरामाष्टकम् | tulasIpriyAShTakam |
- दशावतारस्तोत्रम् ८ (प्रलयपयोधिजलविहारिमीनधवल) | dashAvatArastotram 8 |
- देवदलनरथः
- नन्दिघोषरथः | nandighoSharathaH
- नवदुर्गास्तुतिः २ | navadurgAstutiH 2 |
- निराश्रयाष्टकम् १ (हे नीलकण्ठ प्रियदेवदेव) | nirAshrayAShTakam 1 |
- निराश्रयाष्टकम् २ (हे दारुदेहिन् वडदाण्डनाथ) | nirAshrayAShTakam 2 |
- नीराजनाष्टकम् | Nirajanashtakam |
- पुरीश्वराष्टकम् | purIshvarAShTakam |
- पुरुषोत्तमाष्टकम् | puruShottamAShTakam | (scan)
- प्रावृट् | prAvRiT Rainy day
- रसकुल्यादशकम् | Rasakulya Dashakam |
- रामाष्टकम् ६ सङ्कटमोचन (प्रदीप्तकुमारनन्दविरचितम् श्रीरघुनन्दन-पङ्कजलोचन) | Sankatamochana Shriramashtakam |
- लक्ष्मीधराष्टकम् | lakShmIdharAShTakam |
- लक्ष्मीधराष्टकम् | lakShmIdharAShTakam |
- वसुदेवसुताष्टकम् | vasudevasutAShTakam |
- विष्णुतोषिणी | viShNutoShiNI |
- विश्वविद्यालयगीतम् | vishvavidyAlayagItam
- शारदाष्टकम् | Sharada Ashtakam |
- शिवपञ्चकम् | shivapanchakam |
- श्रीकृष्णभजनाष्टकम् | Shrikrishna bhajana Ashtakam |
- श्रीरामगाथामृतम् | Shriramagathamritam |
- सदाशिवाष्टकम् २ | sadAshivAShTakam 2 | (scan)
- सप्तताण्डवस्तोत्रम् | saptatANDavastotram
- सुमधुराष्टकम् | sumadhurAShTakam |
- सुरभारत्याष्टकम् | Surabharati Ashtakam |
- हनुमदष्टकम् ३ | hanumadaShTakam 3 |
- जगन्नाथगीतामृतम् ४ | Jagannatha Gitamritam 4 |
- पिब रे कृष्णरसम् | bhajanaM piba re kRRiShNarasam |
- बलभद्रगीतामृतम् १ | Balabhadra Gitamritam 1 |
- बलभद्रगीतामृतम् २ | Balabhadra Gitamritam 2 |
- भजनं हीरम् | bhajanaM hIram |
- भज वेदमतम् चिरशान्तिपथं | Bhaja Vedamatam |
- भारतगीतिका इदं भारतं (ओडिशा गीतानुवाद इदं भारतम्) | Bharata Gitika idaM bhArataM | (Odia song)
- वन्देभारतवर्षम् २ (कल-कल प्रवहति पावनी गङ्गा) | Vande Bharatavarsham 2 RashtragItam | (Odia song)
- शिवभजनम् | Shiva Bhajanam
- सरसं सुखदं नः संस्कृतम् | Sarasam Sukhadam Nah Sanskritam o
- सरस्वतीभजनम् | Sarasvati Bhajanam |
- सुभद्रागीतामृतम् | Subhadra Gitamritam |
- सुरभारती भजनम् | SurabharatI Bhajanam |
- स्वच्छभारतगीतम् १ (ओडिशा गीतानुवाद स्वप्नो मम बृहत्तमः) | Svachcha Bharata Gitam 1 | (Odia song)
- हरिभजनम् | hari bhajanam |
- संस्कृतकाव्यम् Sanskrita Kavyam YouTube video account of Prof. Pradipta Kumar Nanda
- saMkaTamochanashrIrAmAShTakam (2.4Mb) (Text) सङ्कटमोचन श्रीरामाष्टकम्
- jagannAthgItAmRitam (2) by Snehasmita Nanda dehi padapallavamudAram (4.0Mb) (Text) देहि पदपल्लवमुदारम्
- surabhAratI tava padayoH praNAma by Snehasmita Nanda (5.1Mb) ((Text) सुरभारतीभजनम् सुरभारति हे । तव पादयोः प्रणतिः
- rasakulyAdashakam (3.6Mb) (Text) रसकुल्यादशकम् उत्कलजननि पदवन्दनं
- bhajanaM hIram by Snehasmita Nanda (4.2Mb), by Author, (Text) rAmamaTata kR^iShNamaTata राममटत कृष्णमटत नाम रटत शङ्करं
- lakShmIdharAShTakam (Text) श्रीलक्ष्मीधराष्टकं
- nirAshrayAShTakam2 (Text) निराश्रयाष्टकम् हे दारुदेहिन् वडदाण्डनाथ
- tulasIpriyAShTakam (Text) तुलसीप्रियाष्टकम् बलरामाष्टकम्
Participation in Computational Sanskrit Conference
Outstanding knowledge in Sanskrit and eminent speaker,
Kalinga Brahmin Samaj
Jyotish Vidwanmani
सङ्गणकसंस्कृतकार्यशाला
P K Nanda
P K Nanda
dampati
विद्यावारिधिः
अद्वैतवादाचिन्त्यभेदाभेदवाददृष्ट्या स्वामिनिगमानन्दमतस्य समीक्षणम्
PhD Thesis: The Critical Analysis of the theory of Swamy Nigamananda in the light of Advaitavada and Achintyavedavedavada
Pradipta Kumar Nanda

Introduction:
Prof. Pradipta Kumar Nanda has been designated as a scholar Vidyavaridhi, Vidvanmani. He is a retired professor of Sanskrit at Shri Jagannath Sanskrit University, Puri, Orissa.
आचार्य-प्रदीप्तकुमारनन्दस्य परिचयः (PDF)
उत्कलभूमिः प्राचीनकालादेव वैदिकसंस्कृतेः, धर्मदर्शनस्य, साहित्यस्य च पुण्यपीठत्वेन समस्तभारते प्रसिद्धा वर्तते। अस्याः पुण्यभूमेः अनेकैः महर्षिभिः, दार्शनिकैः, कविभिः, कर्मकाण्डविद्भिश्च भारतीयविद्यायाः परम्परा समुज्ज्वलिता। तादृशस्यैव गौरवसम्पन्नायाः भूमेः तुलसीक्षेत्रे केन्द्रापडा-मण्डलान्तर्गतधूमात्-नाम्नि ग्रामे १९६५ तमस्य ईस्वीयाब्दस्य सेप्टेम्बरमासस्य ऊनविंशतितमे (१९/०९/१९६५) दिने विद्यानिष्ठः, धर्मपरायणः, संस्कृतसेवारतः, प्रख्यातदार्शनिकः, कर्मकाण्डविशारदः, कविश्च प्रो० डॉ० प्रदीप्तकुमारनन्दः अवतीर्णः।
अस्य पिता श्रीसदानन्दनन्दः वैदिककर्मकाण्डविद्यायाः निष्णातः, कुलाचारपरायणः, धर्मनिष्ठश्च कुलीनब्राह्मणः आसीत्। माता श्रीमती सरस्वती देवी धार्मिकसंस्कारसम्पन्ना, त्यागमयी, वात्सल्यपरिपूर्णा च। दुर्भाग्यवशात् बाल्य एव पितृवियोगः समभवत्। तदनन्तरं मातुः अनिर्वचनीयपरिश्रमः, धैर्यम्, तपश्चर्या च एव तस्य जीवनस्य आधारशिलाभूताः। विपन्नपरिस्थितिष्वपि अध्ययनलालसा न कदापि शिथिलीभूता, प्रत्युत तस्य चरित्रे दृढसंकल्पस्य, आत्मविश्वासस्य, पुरुषार्थस्य च उज्ज्वलमुदाहरणं दृश्यते।
प्राथमिकशिक्षां सम्पन्न्य माध्यमिकाध्ययनमपि सम्यगनुष्ठाय संस्कृतभाषायां, भारतीयदर्शनेषु, वैदिकपरम्परायां च स्वाभाविकोऽनुरागः प्रादुरभवत्। शैलेन्द्रनारायण-संस्कृतमहाविद्यालये उच्चमाध्यमिकाध्ययनं सम्पन्न्य श्रीजगन्नाथसंस्कृतविश्वविद्यालये सर्वदर्शनविभागे प्रवेशं कृत्वा आचार्योपाधिं विशिष्टतया प्राप्तवान्। अध्ययनकाले एव तस्य प्रतिभा, तर्कशक्ति:, शास्त्राध्ययननिष्ठा, ग्रन्थानुसन्धानक्षमता च आचार्यवर्गस्य प्रशंसां प्राप्तवती।
उच्चशोधक्षेत्रेऽपि तस्य प्रतिभा सम्यगभिव्यक्ता। “अद्वैतवाद-अचिन्त्यभेदाभेदवाददृष्ट्या स्वामि-निगमानन्दमतसमीक्षणम्” इति गम्भीरदार्शनिकविषये मौलिकं शोधकार्यं सम्पन्न्य विद्यावारिधि (Ph.D.) इत्युपाधिना विभूषितः। अस्य शोधप्रबन्धः केवलं तुलनात्मकदर्शनस्य दृष्ट्या न, अपितु आधुनिकभारतीयदार्शनिकचिन्तनस्यापि मूल्यवान् योगदानरूपेण स्वीकृतः।
विद्याप्राप्तेः अनन्तरं श्रीदधिवामनजीउ-संस्कृतमहाविद्यालये सर्वदर्शनविभागस्य आचार्यत्वेन नियुक्तः। अध्यापनजीवने तेन न केवलं पाठ्यक्रमः सम्यगध्यापितः, अपि तु शिष्येषु शास्त्रचिन्तनस्य, अनुसन्धानेच्छायाः, संस्कृतसेवाभावस्य च विकासः कृतः। पश्चात् २०२२ तमे ईस्वीयाब्दे श्रीजगन्नाथसंस्कृतविश्वविद्यालये सर्वदर्शनविभागे आचार्यत्वेन नियुक्तः। विभागाध्यक्षत्वेन चतुर्षु वर्षेषु विभागस्य शैक्षणिकविकासे, अनुसन्धाने, विद्वत्सङ्गोष्ठीनां आयोजनस्य, छात्रहितस्य च क्षेत्रेषु महत्त्वपूर्णं योगदानमदात्। २०२६ तमे वर्षे सेवायाः निवृत्तिमगच्छन्नपि अद्यापि संस्कृतसेवायां, लेखने, व्याख्याने, शास्त्रप्रचारे च निरन्तरं प्रवृत्तः अस्ति।
वैदिककर्मकाण्डः तस्य जीवनस्य प्राणतत्त्वमिव। यागाः, यज्ञाः, देवप्रतिष्ठाः, मन्दिरसमाराधनानि, शान्तिकर्माणि, संस्काराः, वास्तुयागाः, ग्रहशान्तयः इत्यादीनि सहस्रशः वैदिकानुष्ठानानि तेन सफलतया सम्पन्नानि। न केवलम् ओडिशाराज्ये, अपितु भारतस्य विविधेषु प्रदेशेषु गत्वा वैदिककर्मपरम्परायाः संरक्षणार्थं महदनुष्ठानकार्यं कृतवान्। कर्मकाण्डसम्बद्धेषु जटिलेषु प्रश्नेषु तस्य निर्णयाः विद्वत्समाजेन प्रमाणतया स्वीकृताः।
ज्योतिषशास्त्रे, वास्तुशास्त्रे, धर्मशास्त्रे चापि तस्य गाढा प्रवीणता विद्यते। जन्मकुण्डलीनिर्णयः, मुहूर्तनिर्णयः, देवालयनिर्माणविधिः, प्रतिष्ठाक्रमः, वैदिकसंस्कारविधयः, प्रायश्चित्तविधानानि च तेन शास्त्रसम्मतरीत्या निरूपितानि। अतः बहवः जनाः तं धर्मशास्त्रपरामर्शदातारं, कर्मकाण्डविशेषज्ञं, ज्योतिषविद्वांसं च मन्यन्ते।
साहित्यक्षेत्रेऽपि तस्य योगदानं प्रशंसनीयम्। सः मूलतः दार्शनिकः कविश्च। दर्शनशास्त्रसम्बद्धानि शताधिकानि शोधपत्राणि, निबन्धाः, व्याख्यानरूपलेखाश्च तेन विरचिताः। तस्य काव्येषु भक्तिः, दर्शनम्, राष्ट्रभावना, मानवता, धर्मनिष्ठा च समन्वितरूपेण दृश्यन्ते। रस, भाव, अलङ्कार, तत्त्वचिन्तनम्, भाषासौष्ठवं च तेषु समानरूपेण प्रकाशन्ते।
अस्य प्रकाशितग्रन्थेषु ‘श्रीक्षेत्रसुधानिधिः’, ‘श्रीजगन्नाथदर्शनम्’, ‘भक्तिनिर्झरिणी’, ‘दुर्गाभक्तिकल्पलता’, ‘दुर्गापञ्चरात्रम्’, ‘शिवार्चनप्रदीपः’, ‘त्रिपुष्करशान्तिप्रदीपः’, ‘न्यायवैशेषिकदर्शनसारः’, ‘शैवदर्शनसमुच्चयः’, ‘यज्ञवेदीपूजा’ इत्यादयः विशेषतया उल्लेखनीयाः। एतेषु ग्रन्थेषु दर्शनशास्त्रस्य गाम्भीर्यम्, वैदिकपरम्परायाः प्रामाणिकता, भक्तेः माधुर्यम्, भाषायाः प्रौढता च समन्विता दृश्यते। बहवः अन्ये ग्रन्थाः सम्प्रति प्रकाशनाधीनाः सन्ति।
तस्य विद्वत्तां दृष्ट्वा समाजेन विविधैः सम्मानोपाधिभिः सः विभूषितः। “महाकविः”, “ज्योतिषविद्वन्मणिः”, “कर्मकाण्ड-वास्तु-ज्योतिषविशारदः” इत्यादयः बहुमानाः तस्य विद्यानिष्ठायाः साक्षिणः। विविधैः धार्मिक-सांस्कृतिक-साहित्यिकसंस्थाभिः बहूनि सम्मानपत्राणि, पुरस्काराश्च प्रदत्ताः।
अन्ताराष्ट्रियवैदिकब्राह्मणपरिषदि, वैदिकसुरक्षापरिषदि, कलिङ्गब्राह्मणसमाजे तथा अन्यासु सांस्कृतिकधार्मिकसंस्थासु कविगोष्ठीष्वपि तस्य योगदानम् उल्लेखनीयम्। धर्मसंरक्षणे, संस्कृतप्रचारे, वैदिकपरम्परायाः पुनरुत्थाने च सः निरन्तरं सक्रियः।
व्यक्तितः सः विनयी, सरलः, मधुरभाषी, शिष्यवत्सलः, कर्तव्यनिष्ठः, समाजसेवापरायणश्च। विद्वत्सभासु तस्य प्रभावशालिनः व्याख्यानस्य, शास्त्रार्थकौशलस्य, सौम्यव्यवहारस्य च सर्वत्र प्रशंसा क्रियते। विद्या तस्य भूषणम्, सेवा तस्य व्रतम्, संस्कृतसंरक्षणं तस्य जीवनधर्मः, धर्मप्रचारश्च तस्य साधना इति वक्तुं नातिशयोक्तिः।
एवं प्रो० डॉ० प्रदीप्तकुमारनन्दः आधुनिकसंस्कृतविद्वत्समाजस्य प्रमुखेषु बहुमुखीप्रतिभासम्पन्नेषु आचार्येषु गणनीयः। दार्शनिकत्वेन, कर्मकाण्डविशारदत्वेन, कवित्वेन, ज्योतिषविद्यापारदर्शित्वेन, संस्कृतसेवकेन च तस्य योगदानं दीर्घकालं यावत् स्मरणीयमेव भविष्यति।
Books and Texts
Books authored by Prof. Pradipta Kumar Nanda
Bhakti Nirjharini
shrIkShetrasudhAnidhH
shivArchchanapradIpaH
shree jagannAtha darshanam
Durgabhaktikalpalata
tripuShkarishAntipradIpa
tripuShkarishAntipradIpa
Articles and Stotras available on this Site
-
All the stotras and articles posted on this site are original compositions of Prof. Pradipta Kumar Nanda, and Copyright © Prof. Pradipta Kumar Nanda. They are listed and linked on the page for articles and stotras. They are listed below for reference.
Articles
Stotras
Sanskrit Songs - Geetam
Video and Audio Media
Online Articles and Links
News Items
Gallery
Miscellaneous
Personal Site hosted at sanskritdocuments.org
1 Conference
2 Conference
3 Conference
4 Conference
5 Conference
6 Conference