॥ ऋग्वेदः वैदिकस्वरविरहितः मण्डलं १०॥

 

अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात्।

अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः॥ १०.००१.०१

स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु।

चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः॥ १०.००१.०२

विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम्।

आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र॥ १०.००१.०३

अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः।

ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता॥ १०.००१.०४

होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम्।

प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम्॥ १०.००१.०५

स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः।

अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान्॥ १०.००१.०६

आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ।

प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान्॥ १०.००१.०७

 

पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँरृतुपते यजेह।

ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः॥ १०.००२.०१

वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा।

स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन्॥ १०.००२.०२

आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम्।

अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति॥ १०.००२.०३

यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः।

अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति॥ १०.००२.०४

यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः।

अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति॥ १०.००२.०५

विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान।

स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः॥ १०.००२.०६

यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान।

पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि॥ १०.००२.०७

 

इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाँ अदर्शि।

चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन्॥ १०.००३.०१

कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम्।

ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति॥ १०.००३.०२

भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात्।

सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात्॥ १०.००३.०३

अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्युः शिवस्य।

ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे॥ १०.००३.०४

स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः।

ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम्॥ १०.००३.०५

अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन्नियुद्भिः।

प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा॥ १०.००३.०६

स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः।

अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भी रभस्वाँ एह गम्याः॥ १०.००३.०७

 

प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु।

धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन्॥ १०.००४.०१

यं त्वा जनासो अभि संचरन्ति गाव उष्णमिव व्रजं यविष्ठ।

दूतो देवानामसि मर्त्यानामन्तर्महाँश्चरसि रोचनेन॥ १०.००४.०२

शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना।

धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः॥ १०.००४.०३

मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से।

शये वव्रिश्चरति जिह्वयादन्रेरिह्यते युवतिं विश्पतिः सन्॥ १०.००४.०४

कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः।

अस्नातापो वृषभो न प्र वेति सचेतसो यं प्रणयन्त मर्ताः॥ १०.००४.०५

तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम्।

इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरङ्गैः॥ १०.००४.०६

ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत्।

रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छन्॥ १०.००४.०७

 

एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे।

सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः॥ १०.००५.०१

समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः।

ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि॥ १०.००५.०२

ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती।

विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः॥ १०.००५.०३

ऋतस्य हि वर्तनयः सुजातमिषो वाजाय प्रदिवः सचन्ते।

अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम्॥ १०.००५.०४

सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम्।

अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य॥ १०.००५.०५

सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात्।

आयोर्ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ॥ १०.००५.०६

असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे।

अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः॥ १०.००५.०७

 

अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ।

ज्येष्ठेभिर्यो भानुभिरृषूणां पर्येति परिवीतो विभावा॥ १०.००६.०१

यो भानुभिर्विभावा विभात्यग्निर्देवेभिरृतावाजस्रः।

आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः॥ १०.००६.०२

ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ।

आ यस्मिन्मना हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः॥ १०.००६.०३

शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति।

मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान्॥ १०.००६.०४

तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम्।

आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम्॥ १०.००६.०५

सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवन्त एवैः।

अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व॥ १०.००६.०६

अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ।

तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमाः॥ १०.००६.०७

 

स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव।

सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः॥ १०.००७.०१

इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्ति राधः।

यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभिः सुजात॥ १०.००७.०२

अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम्।

अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य॥ १०.००७.०३

सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आ नित्यहोता।

ऋतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु॥ १०.००७.०४

द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृत्विजमध्वरस्य जारम्।

बाहुभ्यामग्निमायवोऽजनन्त विक्षु होतारं न्यसादयन्त॥ १०.००७.०५

स्वयं यजस्व दिवि देव देवान्किं ते पाकः कृणवदप्रचेताः।

यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात॥ १०.००७.०६

भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः।

रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो अप्रयुच्छन्॥ १०.००७.०७

 

प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति।

दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध॥ १०.००८.०१

मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवाँ अरावीत्।

स देवतात्युद्यतानि कृण्वन्स्वेषु क्षयेषु प्रथमो जिगाति॥ १०.००८.०२

आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः।

अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त॥ १०.००८.०३

उषौषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा।

ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे स्वायै॥ १०.००८.०४

भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि।

भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः॥ १०.००८.०५

भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः।

दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम्॥ १०.००८.०६

अस्य त्रितः क्रतुना वव्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य।

सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति॥ १०.००८.०७

स पित्र्याण्यायुधानि विद्वानिन्द्रेषित आप्त्यो अभ्ययुध्यत्।

त्रिशीर्षाणं सप्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः॥ १०.००८.०८

भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्सत्पतिर्मन्यमानम्।

त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क्॥ १०.००८.०९

 

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन।

महे रणाय चक्षसे॥ १०.००९.०१

यो वः शिवतमो रसस्तस्य भाजयतेह नः।

उशतीरिव मातरः॥ १०.००९.०२

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ।

आपो जनयथा च नः॥ १०.००९.०३

शं नो देवीरभिष्टय आपो भवन्तु पीतये।

शं योरभि स्रवन्तु नः॥ १०.००९.०४

ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम्।

अपो याचामि भेषजम्॥ १०.००९.०५

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा।

अग्निं च विश्वशम्भुवम्॥ १०.००९.०६

आपः पृणीत भेषजं वरूथं तन्वे मम।

ज्योक्च सूर्यं दृशे॥ १०.००९.०७

इदमापः प्र वहत यत्किं च दुरितं मयि।

यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम्॥ १०.००९.०८

आपो अद्यान्वचारिषं रसेन समगस्महि।

पयस्वानग्न आ गहि तं मा सं सृज वर्चसा॥ १०.००९.०९

 

ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान्।

पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः॥ १०.०१०.०१

न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति।

महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन्॥ १०.०१०.०२

उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य।

नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः॥ १०.०१०.०३

न यत्पुरा चकृमा कद्ध नूनमृता वदन्तो अनृतं रपेम।

गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ॥ १०.०१०.०४

गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः।

नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः॥ १०.०१०.०५

को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्।

बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन्॥ १०.०१०.०६

यमस्य मा यम्यं काम आगन्समाने योनौ सहशेय्याय।

जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा॥ १०.०१०.०७

न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति।

अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा॥ १०.०१०.०८

रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात्।

दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि॥ १०.०१०.०९

आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि।

उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत्॥ १०.०१०.१०

किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निरृतिर्निगच्छात्।

काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि॥ १०.०१०.११

न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात्।

अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्॥ १०.०१०.१२

बतो बतासि यम नैव ते मनो हृदयं चाविदाम।

अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम्॥ १०.०१०.१३

अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम्।

तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम्॥ १०.०१०.१४

 

वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः।

विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून्॥ १०.०११.०१

रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु मे मनः।

इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति॥ १०.०११.०२

सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती।

यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन्॥ १०.०११.०३

अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे।

यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत॥ १०.०११.०४

सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः।

विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवाँ उपयासि भूरिभिः॥ १०.०११.०५

उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति।

विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती॥ १०.०११.०६

यस्ते अग्ने सुमतिं मर्तो अक्षत्सहसः सूनो अति स प्र शृण्वे।

इषं दधानो वहमानो अश्वैरा स द्युमाँ अमवान्भूषति द्यून्॥ १०.०११.०७

यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र।

रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्॥ १०.०११.०८

श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम्।

आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः॥ १०.०११.०९

 

द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा।

देवो यन्मर्तान्यजथाय कृण्वन्सीदद्धोता प्रत्यङ्स्वमसुं यन्॥ १०.०१२.०१

देवो देवान्परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान्।

धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान्॥ १०.०१२.०२

स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी।

विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः॥ १०.०१२.०३

अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे।

अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम्॥ १०.०१२.०४

किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद।

मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति॥ १०.०१२.०५

दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति।

यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन्॥ १०.०१२.०६

यस्मिन्देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते।

सूर्ये ज्योतिरदधुर्मास्यक्तून्परि द्योतनिं चरतो अजस्रा॥ १०.०१२.०७

यस्मिन्देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म।

मित्रो नो अत्रादितिरनागान्सविता देवो वरुणाय वोचत्॥ १०.०१२.०८

श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम्।

आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः॥ १०.०१२.०९

 

युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः।

शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः॥ १०.०१३.०१

यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः।

आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः॥ १०.०१३.०२

पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन।

अक्षरेण प्रति मिम एतामृतस्य नाभावधि सं पुनामि॥ १०.०१३.०३

देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत।

बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं प्रारिरेचीत्॥ १०.०१३.०४

सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम्।

उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः॥ १०.०१३.०५

 

परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम्।

वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य॥ १०.०१४.०१

यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ।

यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः॥ १०.०१४.०२

मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानः।

याँश्च देवा वावृधुर्ये च देवान्स्वाहान्ये स्वधयान्ये मदन्ति॥ १०.०१४.०३

इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः।

आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व॥ १०.०१४.०४

अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व।

विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य॥ १०.०१४.०५

अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः।

तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम॥ १०.०१४.०६

प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेयुः।

उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवम्॥ १०.०१४.०७

सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन्।

हित्वायावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः॥ १०.०१४.०८

अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन्।

अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै॥ १०.०१४.०९

अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा।

अथा पितॄन्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति॥ १०.०१४.१०

यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ।

ताभ्यामेनं परि देहि राजन्स्वस्ति चास्मा अनमीवं च धेहि॥ १०.०१४.११

उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु।

तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम्॥ १०.०१४.१२

यमाय सोमं सुनुत यमाय जुहुता हविः।

यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः॥ १०.०१४.१३

यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत।

स नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे॥ १०.०१४.१४

यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन।

इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः॥ १०.०१४.१५

त्रिकद्रुकेभिः पतति षळुर्वीरेकमिद्बृहत्।

त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता॥ १०.०१४.१६

 

उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः।

असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु॥ १०.०१५.०१

इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः।

ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु॥ १०.०१५.०२

आहं पितॄन्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः।

बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः॥ १०.०१५.०३

बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम्।

त आ गतावसा शंतमेनाथा नः शं योररपो दधात॥ १०.०१५.०४

उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु।

त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान्॥ १०.०१५.०५

आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे।

मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम॥ १०.०१५.०६

आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय।

पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात॥ १०.०१५.०७

ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः।

तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु॥ १०.०१५.०८

ये तातृषुर्देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः।

आग्ने याहि सुविदत्रेभिरर्वाङ्सत्यैः कव्यैः पितृभिर्घर्मसद्भिः॥ १०.०१५.०९

ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः।

आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्घर्मसद्भिः॥ १०.०१५.१०

अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः।

अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन॥ १०.०१५.११

त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी।

प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि॥ १०.०१५.१२

ये चेह पितरो ये च नेह याँश्च विद्म याँ उ च न प्रविद्म।

त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व॥ १०.०१५.१३

ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते।

तेभिः स्वराळसुनीतिमेतां यथावशं तन्वं कल्पयस्व॥ १०.०१५.१४

 

मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम्।

यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः॥ १०.०१६.०१

शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः।

यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति॥ १०.०१६.०२

सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा।

अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः॥ १०.०१६.०३

अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः।

यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम्॥ १०.०१६.०४

अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः।

आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः॥ १०.०१६.०५

यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः।

अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणाँ आविवेश॥ १०.०१६.०६

अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसा मेदसा च।

नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन्पर्यङ्खयाते॥ १०.०१६.०७

इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम्।

एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ते॥ १०.०१६.०८

क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः।

इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन्॥ १०.०१६.०९

यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसम्।

तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात्परमे सधस्थे॥ १०.०१६.१०

यो अग्निः क्रव्यवाहनः पितॄन्यक्षदृतावृधः।

प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्य आ॥ १०.०१६.११

उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि।

उशन्नुशत आ वह पितॄन्हविषे अत्तवे॥ १०.०१६.१२

यं त्वमग्ने समदहस्तमु निर्वापया पुनः।

कियाम्ब्वत्र रोहतु पाकदूर्वा व्यल्कशा॥ १०.०१६.१३

शीतिके शीतिकावति ह्लादिके ह्लादिकावति।

मण्डूक्या सु सं गम इमं स्वग्निं हर्षय॥ १०.०१६.१४

 

त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति।

यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश॥ १०.०१७.०१

अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते।

उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः॥ १०.०१७.०२

पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः।

स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः॥ १०.०१७.०३

आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात्।

यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु॥ १०.०१७.०४

पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्।

स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन्॥ १०.०१७.०५

प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः।

उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्॥ १०.०१७.०६

सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने।

सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात्॥ १०.०१७.०७

सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती।

आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे॥ १०.०१७.०८

सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः।

सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि॥ १०.०१७.०९

आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु।

विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि॥ १०.०१७.१०

द्रप्सश्चस्कन्द प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्वः।

समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः॥ १०.०१७.११

यस्ते द्रप्स स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात्।

अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम्॥ १०.०१७.१२

यस्ते द्रप्स स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा।

अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे॥ १०.०१७.१३

पयस्वतीरोषधयः पयस्वन्मामकं वचः।

अपां पयस्वदित्पयस्तेन मा सह शुन्धत॥ १०.०१७.१४

 

परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात्।

चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान्॥ १०.०१८.०१

मृत्योः पदं योपयन्तो यदैत द्राघीय आयुः प्रतरं दधानाः।

आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः॥ १०.०१८.०२

इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य।

प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः॥ १०.०१८.०३

इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम्।

शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन॥ १०.०१८.०४

यथाहान्यनुपूर्वं भवन्ति यथ ऋतव ऋतुभिर्यन्ति साधु।

यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम्॥ १०.०१८.०५

आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ।

इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः॥ १०.०१८.०६

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु।

अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे॥ १०.०१८.०७

उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि।

हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ॥ १०.०१८.०८

धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय।

अत्रैव त्वमिह वयं सुवीरा विश्वा स्पृधो अभिमातीर्जयेम॥ १०.०१८.०९

उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम्।

ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातु निरृतेरुपस्थात्॥ १०.०१८.१०

उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना।

माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि॥ १०.०१८.११

उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम्।

ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र॥ १०.०१८.१२

उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम्।

एतां स्थूणां पितरो धारयन्तु तेऽत्रा यमः सादना ते मिनोतु॥ १०.०१८.१३

प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः।

प्रतीचीं जग्रभा वाचमश्वं रशनया यथा॥ १०.०१८.१४

 

नि वर्तध्वं मानु गातास्मान्सिषक्त रेवतीः।

अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम्॥ १०.०१९.०१

पुनरेना नि वर्तय पुनरेना न्या कुरु।

इन्द्र एणा नि यच्छत्वग्निरेना उपाजतु॥ १०.०१९.०२

पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ।

इहैवाग्ने नि धारयेह तिष्ठतु या रयिः॥ १०.०१९.०३

यन्नियानं न्ययनं संज्ञानं यत्परायणम्।

आवर्तनं निवर्तनं यो गोपा अपि तं हुवे॥ १०.०१९.०४

य उदानड्व्ययनं य उदानट् परायणम्।

आवर्तनं निवर्तनमपि गोपा नि वर्तताम्॥ १०.०१९.०५

आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि।

जीवाभिर्भुनजामहै॥ १०.०१९.०६

परि वो विश्वतो दध ऊर्जा घृतेन पयसा।

ये देवाः के च यज्ञियास्ते रय्या सं सृजन्तु नः॥ १०.०१९.०७

आ निवर्तन वर्तय नि निवर्तन वर्तय।

भूम्याश्चतस्रः प्रदिशस्ताभ्य एना नि वर्तय॥ १०.०१९.०८

 

भद्रं नो अपि वातय मनः॥ १०.०२०.०१

अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम्।

यस्य धर्मन्स्वरेनीः सपर्यन्ति मातुरूधः॥ १०.०२०.०२

यमासा कृपनीळं भासाकेतुं वर्धयन्ति।

भ्राजते श्रेणिदन्॥ १०.०२०.०३

अर्यो विशां गातुरेति प्र यदानड्दिवो अन्तान्।

कविरभ्रं दीद्यानः॥ १०.०२०.०४

जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा यज्ञे।

मिन्वन्सद्म पुर एति॥ १०.०२०.०५

स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति।

अग्निं देवा वाशीमन्तम्॥ १०.०२०.०६

यज्ञासाहं दुव इषेऽग्निं पूर्वस्य शेवस्य।

अद्रेः सूनुमायुमाहुः॥ १०.०२०.०७

नरो ये के चास्मदा विश्वेत्ते वाम आ स्युः।

अग्निं हविषा वर्धन्तः॥ १०.०२०.०८

कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान्।

हिरण्यरूपं जनिता जजान॥ १०.०२०.०९

एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिः सजोषाः।

गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः॥ १०.०२०.१०

 

आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे।

यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे॥ १०.०२१.०१

त्वामु ते स्वाभुवः शुम्भन्त्यश्वराधसः।

वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे॥ १०.०२१.०२

त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव।

कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे॥ १०.०२१.०३

यमग्ने मन्यसे रयिं सहसावन्नमर्त्य।

तमा नो वाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे॥ १०.०२१.०४

अग्निर्जातो अथर्वणा विदद्विश्वानि काव्या।

भुवद्दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे॥ १०.०२१.०५

त्वां यज्ञेष्वीळतेऽग्ने प्रयत्यध्वरे।

त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे॥ १०.०२१.०६

त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदिरे।

घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे॥ १०.०२१.०७

अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत्।

अभिक्रन्दन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे॥ १०.०२१.०८

 

कुह श्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न श्रूयते।

ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा॥ १०.०२२.०१

इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः।

मित्रो न यो जनेष्वा यशश्चक्रे असाम्या॥ १०.०२२.०२

महो यस्पतिः शवसो असाम्या महो नृम्णस्य तूतुजिः।

भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम्॥ १०.०२२.०३

युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः।

स्यन्ता पथा विरुक्मता सृजान स्तोष्यध्वनः॥ १०.०२२.०४

त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै।

ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः॥ १०.०२२.०५

अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम्।

आ जग्मथुः पराकाद्दिवश्च ग्मश्च मर्त्यम्॥ १०.०२२.०६

आ न इन्द्र पृक्षसेऽस्माकं ब्रह्मोद्यतम्।

तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषम्॥ १०.०२२.०७

अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः।

त्वं तस्यामित्रहन्वधर्दासस्य दम्भय॥ १०.०२२.०८

त्वं न इन्द्र शूर शूरैरुत त्वोतासो बर्हणा।

पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा॥ १०.०२२.०९

त्वं तान्वृत्रहत्ये चोदयो नॄन्कार्पाणे शूर वज्रिवः।

गुहा यदी कवीनां विशां नक्षत्रशवसाम्॥ १०.०२२.१०

मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः।

यद्ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः॥ १०.०२२.११

माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः।

वयंवयं त आसां सुम्ने स्याम वज्रिवः॥ १०.०२२.१२

अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः।

विद्याम यासां भुजो धेनूनां न वज्रिवः॥ १०.०२२.१३

अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम्।

शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः॥ १०.०२२.१४

पिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुः सन्।

उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः॥ १०.०२२.१५

 

यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम्।

प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा॥ १०.०२३.०१

हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत्।

ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित्॥ १०.०२३.०२

यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः।

आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः॥ १०.०२३.०३

सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते।

अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम्॥ १०.०२३.०४

यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान।

तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः॥ १०.०२३.०५

स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे।

विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे॥ १०.०२३.०६

माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषेः।

विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु सख्या शिवानि॥ १०.०२३.०७

 

इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम्।

अस्मे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे॥ १०.०२४.०१

त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे।

शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे॥ १०.०२४.०२

यस्पतिर्वार्याणामसि रध्रस्य चोदिता।

इन्द्र स्तोतॄणामविता वि वो मदे द्विषो नः पाह्यंहसो विवक्षसे॥ १०.०२४.०३

युवं शक्रा मायाविना समीची निरमन्थतम्।

विमदेन यदीळिता नासत्या निरमन्थतम्॥ १०.०२४.०४

विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः।

नासत्यावब्रुवन्देवाः पुनरा वहतादिति॥ १०.०२४.०५

मधुमन्मे परायणं मधुमत्पुनरायनम्।

ता नो देवा देवतया युवं मधुमतस्कृतम्॥ १०.०२४.०६

 

भद्रं नो अपि वातय मनो दक्षमुत क्रतुम्।

अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे॥ १०.०२५.०१

हृदिस्पृशस्त आसते विश्वेषु सोम धामसु।

अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे॥ १०.०२५.०२

उत व्रतानि सोम ते प्राहं मिनामि पाक्या।

अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे॥ १०.०२५.०३

समु प्र यन्ति धीतयः सर्गासोऽवताँ इव।

क्रतुं नः सोम जीवसे वि वो मदे धारया चमसाँ इव विवक्षसे॥ १०.०२५.०४

तव त्ये सोम शक्तिभिर्निकामासो व्यृण्विरे।

गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे॥ १०.०२५.०५

पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत्।

समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन्भुवना विवक्षसे॥ १०.०२५.०६

त्वं नः सोम विश्वतो गोपा अदाभ्यो भव।

सेध राजन्नप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे॥ १०.०२५.०७

त्वं नः सोम सुक्रतुर्वयोधेयाय जागृहि।

क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्यंहसो विवक्षसे॥ १०.०२५.०८

त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा।

यत्सीं हवन्ते समिथे वि वो मदे युध्यमानास्तोकसातौ विवक्षसे॥ १०.०२५.०९

अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः।

अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे॥ १०.०२५.१०

अयं विप्राय दाशुषे वाजाँ इयर्ति गोमतः।

अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद्विवक्षसे॥ १०.०२५.११

 

प्र ह्यच्छा मनीषा स्पार्हा यन्ति नियुतः।

प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः॥ १०.०२६.०१

यस्य त्यन्महित्वं वाताप्यमयं जनः।

विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम्॥ १०.०२६.०२

स वेद सुष्टुतीनामिन्दुर्न पूषा वृषा।

अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति॥ १०.०२६.०३

मंसीमहि त्वा वयमस्माकं देव पूषन्।

मतीनां च साधनं विप्राणां चाधवम्॥ १०.०२६.०४

प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम्।

ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः॥ १०.०२६.०५

आधीषमाणायाः पतिः शुचायाश्च शुचस्य च।

वासोवायोऽवीनामा वासांसि मर्मृजत्॥ १०.०२६.०६

इनो वाजानां पतिरिनः पुष्टीनां सखा।

प्र श्मश्रु हर्यतो दूधोद्वि वृथा यो अदाभ्यः॥ १०.०२६.०७

आ ते रथस्य पूषन्नजा धुरं ववृत्युः।

विश्वस्यार्थिनः सखा सनोजा अनपच्युतः॥ १०.०२६.०८

अस्माकमूर्जा रथं पूषा अविष्टु माहिनः।

भुवद्वाजानां वृध इमं नः शृणवद्धवम्॥ १०.०२६.०९

 

असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम्।

अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम्॥ १०.०२७.०१

यदीदहं युधये संनयान्यदेवयून्तन्वा शूशुजानान्।

अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पञ्चदशं नि षिञ्चम्॥ १०.०२७.०२

नाहं तं वेद य इति ब्रवीत्यदेवयून्समरणे जघन्वान्।

यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति॥ १०.०२७.०३

यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो म आसन्।

जिनामि वेत्क्षेम आ सन्तमाभुं प्र तं क्षिणां पर्वते पादगृह्य॥ १०.०२७.०४

न वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये।

मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात्॥ १०.०२७.०५

दर्शन्न्वत्र शृतपाँ अनिन्द्रान्बाहुक्षदः शरवे पत्यमानान्।

घृषुं वा ये निनिदुः सखायमध्यू न्वेषु पवयो ववृत्युः॥ १०.०२७.०६

अभूर्वौक्षीर्व्यु आयुरानड्दर्षन्नु पूर्वो अपरो नु दर्षत्।

द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष॥ १०.०२७.०७

गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरन्तीः।

हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छन्दयाते॥ १०.०२७.०८

सं यद्वयं यवसादो जनानामहं यवाद उर्वज्रे अन्तः।

अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान्॥ १०.०२७.०९

अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि।

स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धो अस्य वि भजानि वेदः॥ १०.०२७.१०

यस्यानक्षा दुहिता जात्वास कस्तां विद्वाँ अभि मन्याते अन्धाम्।

कतरो मेनिं प्रति तं मुचाते य ईं वहाते य ईं वा वरेयात्॥ १०.०२७.११

कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण।

भद्रा वधूर्भवति यत्सुपेशाः स्वयं सा मित्रं वनुते जने चित्॥ १०.०२७.१२

पत्तो जगार प्रत्यञ्चमत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम्।

आसीन ऊर्ध्वामुपसि क्षिणाति न्यङ्ङुत्तानामन्वेति भूमिम्॥ १०.०२७.१३

बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः।

अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः॥ १०.०२७.१४

सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरन्ते।

नव पश्चातात्स्थिविमन्त आयन्दश प्राक्सानु वि तिरन्त्यश्नः॥ १०.०२७.१५

दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय।

गर्भं माता सुधितं वक्षणास्ववेनन्तं तुषयन्ती बिभर्ति॥ १०.०२७.१६

पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन्।

द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता॥ १०.०२७.१७

वि क्रोशनासो विष्वञ्च आयन्पचाति नेमो नहि पक्षदर्धः।

अयं मे देवः सविता तदाह द्र्वन्न इद्वनवत्सर्पिरन्नः॥ १०.०२७.१८

अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानम्।

सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान्॥ १०.०२७.१९

एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि।

आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्क उपरो बभूवान्॥ १०.०२७.२०

अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीषात्।

श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति॥ १०.०२७.२१

वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः।

अथेदं विश्वं भुवनं भयात इन्द्राय सुन्वदृषये च शिक्षत्॥ १०.०२७.२२

देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन्।

त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम्॥ १०.०२७.२३

सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये।

आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते॥ १०.०२७.२४

 

विश्वो ह्यन्यो अरिराजगाम ममेदह श्वशुरो ना जगाम।

जक्षीयाद्धाना उत सोमं पपीयात्स्वाशितः पुनरस्तं जगायात्॥ १०.०२८.०१

स रोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्मन्तस्थौ वरिमन्ना पृथिव्याः।

विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति॥ १०.०२८.०२

अद्रिणा ते मन्दिन इन्द्र तूयान्सुन्वन्ति सोमान्पिबसि त्वमेषाम्।

पचन्ति ते वृषभाँ अत्सि तेषां पृक्षेण यन्मघवन्हूयमानः॥ १०.०२८.०३

इदं सु मे जरितरा चिकिद्धि प्रतीपं शापं नद्यो वहन्ति।

लोपाशः सिंहं प्रत्यञ्चमत्साः क्रोष्टा वराहं निरतक्त कक्षात्॥ १०.०२८.०४

कथा त एतदहमा चिकेतं गृत्सस्य पाकस्तवसो मनीषाम्।

त्वं नो विद्वाँ ऋतुथा वि वोचो यमर्धं ते मघवन्क्षेम्या धूः॥ १०.०२८.०५

एवा हि मां तवसं वर्धयन्ति दिवश्चिन्मे बृहत उत्तरा धूः।

पुरू सहस्रा नि शिशामि साकमशत्रुं हि मा जनिता जजान॥ १०.०२८.०६

एवा हि मां तवसं जज्ञुरुग्रं कर्मन्कर्मन्वृषणमिन्द्र देवाः।

वधीं वृत्रं वज्रेण मन्दसानोऽप व्रजं महिना दाशुषे वम्॥ १०.०२८.०७

देवास आयन्परशूँरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन्।

नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटमनु तद्दहन्ति॥ १०.०२८.०८

शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात्।

बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः॥ १०.०२८.०९

सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः।

निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत्॥ १०.०२८.१०

तेभ्यो गोधा अयथं कर्षदेतद्ये ब्रह्मणः प्रतिपीयन्त्यन्नैः।

सिम उक्ष्णोऽवसृष्टाँ अदन्ति स्वयं बलानि तन्वः शृणानाः॥ १०.०२८.११

एते शमीभिः सुशमी अभूवन्ये हिन्विरे तन्वः सोम उक्थैः।

नृवद्वदन्नुप नो माहि वाजान्दिवि श्रवो दधिषे नाम वीरः॥ १०.०२८.१२

 

वने न वा यो न्यधायि चाकञ्छुचिर्वां स्तोमो भुरणावजीगः।

यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान्॥ १०.०२९.०१

प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम्।

अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान्॥ १०.०२९.०२

कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव।

कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः॥ १०.०२९.०३

कदु द्युम्नमिन्द्र त्वावतो नॄन्कया धिया करसे कन्न आगन्।

मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः॥ १०.०२९.०४

प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन्।

गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः॥ १०.०२९.०५

मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन।

वराय ते घृतवन्तः सुतासः स्वाद्मन्भवन्तु पीतये मधूनि॥ १०.०२९.०६

आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः।

स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च॥ १०.०२९.०७

व्यानळिन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः।

आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे॥ १०.०२९.०८

 

प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति।

महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम्॥ १०.०३०.०१

अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तः।

अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः॥ १०.०३०.०२

अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम्।

स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत॥ १०.०३०.०३

यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु।

अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्याय॥ १०.०३०.०४

याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यः।

ता अध्वर्यो अपो अच्छा परेहि यदासिञ्चा ओषधीभिः पुनीतात्॥ १०.०३०.०५

एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ।

सं जानते मनसा सं चिकित्रेऽध्वर्यवो धिषणापश्च देवीः॥ १०.०३०.०६

यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत्।

तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनं प्र हिणोतनापः॥ १०.०३०.०७

प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः।

घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे॥ १०.०३०.०८

तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं प्र हेत य उभे इयर्ति।

मदच्युतमौशानं नभोजां परि त्रितन्तुं विचरन्तमुत्सम्॥ १०.०३०.०९

आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरन्तीः।

ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सवृधः सयोनीः॥ १०.०३०.१०

हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम्।

ऋतस्य योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः॥ १०.०३०.११

आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च।

रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात्॥ १०.०३०.१२

प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि।

अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमं सुषुतं भरन्तीः॥ १०.०३०.१३

एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः।

नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः॥ १०.०३०.१४

आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन्देवयन्तीः।

अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या॥ १०.०३०.१५

 

आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः।

तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम॥ १०.०३१.०१

परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत्।

उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षं मनसा जगृभ्यात्॥ १०.०३१.०२

अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमाः।

अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम॥ १०.०३१.०३

नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान।

भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात्॥ १०.०३१.०४

इयं सा भूया उषसामिव क्षा यद्ध क्षुमन्तः शवसा समायन्।

अस्य स्तुतिं जरितुर्भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः॥ १०.०३१.०५

अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः।

अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः॥ १०.०३१.०६

किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः।

संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त॥ १०.०३१.०७

नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति।

त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति॥ १०.०३१.०८

स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम।

मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकम्॥ १०.०३१.०९

स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा।

पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान्॥ १०.०३१.१०

उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्त वाजी।

प्र कृष्णाय रुशदपिन्वतोधरृतमत्र नकिरस्मा अपीपेत्॥ १०.०३१.११

 

प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभि षु प्रसीदतः।

अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति॥ १०.०३२.०१

वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत।

ये त्वा वहन्ति मुहुरध्वराँ उप ते सु वन्वन्तु वग्वनाँ अराधसः॥ १०.०३२.०२

तदिन्मे छन्त्सद्वपुषो वपुष्टरं पुत्रो यज्जानं पित्रोरधीयति।

जाया पतिं वहति वग्नुना सुमत्पुंस इद्भद्रो वहतुः परिष्कृतः॥ १०.०३२.०३

तदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः।

माता यन्मन्तुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जनः॥ १०.०३२.०४

प्र वोऽच्छा रिरिचे देवयुष्पदमेको रुद्रेभिर्याति तुर्वणिः।

जरा वा येष्वमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु॥ १०.०३२.०५

निधीयमानमपगूळ्हमप्सु प्र मे देवानां व्रतपा उवाच।

इन्द्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम्॥ १०.०३२.०६

अक्षेत्रवित्क्षेत्रविदं ह्यप्राट् स प्रैति क्षेत्रविदानुशिष्टः।

एतद्वै भद्रमनुशासनस्योत स्रुतिं विन्दत्यञ्जसीनाम्॥ १०.०३२.०७

अद्येदु प्राणीदममन्निमाहापीवृतो अधयन्मातुरूधः।

एमेनमाप जरिमा युवानमहेळन्वसुः सुमना बभूव॥ १०.०३२.०८

एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि।

दान इद्वो मघवानः सो अस्त्वयं च सोमो हृदि यं बिभर्मि॥ १०.०३२.०९

 

प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण।

विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत्॥ १०.०३३.०१

सं मा तपन्त्यभितः सपत्नीरिव पर्शवः।

नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः॥ १०.०३३.०२

मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो।

सकृत्सु नो मघवन्निन्द्र मृळयाधा पितेव नो भव॥ १०.०३३.०३

कुरुश्रवणमावृणि राजानं त्रासदस्यवम्।

मंहिष्ठं वाघतामृषिः॥ १०.०३३.०४

यस्य मा हरितो रथे तिस्रो वहन्ति साधुया।

स्तवै सहस्रदक्षिणे॥ १०.०३३.०५

यस्य प्रस्वादसो गिर उपमश्रवसः पितुः।

क्षेत्रं न रण्वमूचुषे॥ १०.०३३.०६

अधि पुत्रोपमश्रवो नपान्मित्रातिथेरिहि।

पितुष्टे अस्मि वन्दिता॥ १०.०३३.०७

यदीशीयामृतानामुत वा मर्त्यानाम्।

जीवेदिन्मघवा मम॥ १०.०३३.०८

न देवानामति व्रतं शतात्मा चन जीवति।

तथा युजा वि वावृते॥ १०.०३३.०९

 

प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः।

सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान्॥ १०.०३४.०१

न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत्।

अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम्॥ १०.०३४.०२

द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मर्डितारम्।

अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम्॥ १०.०३४.०३

अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः।

पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम्॥ १०.०३४.०४

यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः।

न्युप्ताश्च बभ्रवो वाचमक्रतँ एमीदेषां निष्कृतं जारिणीव॥ १०.०३४.०५

सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः।

अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्ने दधत आ कृतानि॥ १०.०३४.०६

अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः।

कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा॥ १०.०३४.०७

त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा।

उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति॥ १०.०३४.०८

नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते।

दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति॥ १०.०३४.०९

जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित्।

ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति॥ १०.०३४.१०

स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम्।

पूर्वाह्णे अश्वान्युयुजे हि बभ्रून्सो अग्नेरन्ते वृषलः पपाद॥ १०.०३४.११

यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव।

तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि॥ १०.०३४.१२

अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः।

तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः॥ १०.०३४.१३

मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु।

नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु॥ १०.०३४.१४

 

अबुध्रमु त्य इन्द्रवन्तो अग्नयो ज्योतिर्भरन्त उषसो व्युष्टिषु।

मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे॥ १०.०३५.०१

दिवस्पृथिव्योरव आ वृणीमहे मातॄन्सिन्धून्पर्वताञ्छर्यणावतः।

अनागास्त्वं सूर्यमुषासमीमहे भद्रं सोमः सुवानो अद्या कृणोतु नः॥ १०.०३५.०२

द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा।

उषा उच्छन्त्यप बाधतामघं स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.०३

इयं न उस्रा प्रथमा सुदेव्यं रेवत्सनिभ्यो रेवती व्युच्छतु।

आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.०४

प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो व्युष्टिषु।

भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.०५

अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां ज्योतिषा बृहत्।

आयुक्षातामश्विना तूतुजिं रथं स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.०६

श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि रत्नधा असि।

रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.०७

पिपर्तु मा तदृतस्य प्रवाचनं देवानां यन्मनुष्या अमन्महि।

विश्वा इदुस्रा स्पळुदेति सूर्यः स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.०८

अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे।

आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.०९

आ नो बर्हिः सधमादे बृहद्दिवि देवाँ ईळे सादया सप्त होतॄन्।

इन्द्रं मित्रं वरुणं सातये भगं स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.१०

त आदित्या आ गता सर्वतातये वृधे नो यज्ञमवता सजोषसः।

बृहस्पतिं पूषणमश्विना भगं स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.११

तन्नो देवा यच्छत सुप्रवाचनं छर्दिरादित्याः सुभरं नृपाय्यम्।

पश्वे तोकाय तनयाय जीवसे स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.१२

विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयः समिद्धाः।

विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे॥ १०.०३५.१३

यं देवासोऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंहः।

यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः॥ १०.०३५.१४

 

उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा।

इन्द्रं हुवे मरुतः पर्वताँ अप आदित्यान्द्यावापृथिवी अपः स्वः॥ १०.०३६.०१

द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः।

मा दुर्विदत्रा निरृतिर्न ईशत तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.०२

विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः।

स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.०३

ग्रावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरृतिं विश्वमत्रिणम्।

आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.०४

एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिरृक्वो अर्चतु।

सुप्रकेतं जीवसे मन्म धीमहि तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.०५

दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतं सुम्नमिष्टये।

प्राचीनरश्मिमाहुतं घृतेन तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.०६

उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम्।

रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.०७

अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम्।

सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.०८

सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः।

ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.०९

ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन।

जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.१०

महदद्य महतामा वृणीमहेऽवो देवानां बृहतामनर्वणाम्।

यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.११

महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये।

श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.१२

ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः।

ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे॥ १०.०३६.१३

सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात्।

सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः॥ १०.०३६.१४

 

नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत।

दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत॥ १०.०३७.०१

सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च।

विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः॥ १०.०३७.०२

न ते अदेवः प्रदिवो नि वासते यदेतशेभिः पतरै रथर्यसि।

प्राचीनमन्यदनु वर्तते रज उदन्येन ज्योतिषा यासि सूर्य॥ १०.०३७.०३

येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षि भानुना।

तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव॥ १०.०३७.०४

विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसि स्वधा अनु।

यदद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम्॥ १०.०३७.०५

तं नो द्यावापृथिवी तन्न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः।

मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणामशीमहि॥ १०.०३७.०६

विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः।

उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य॥ १०.०३७.०७

महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषेचक्षुषे मयः।

आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य॥ १०.०३७.०८

यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः।

अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसावस्यसोदिहि॥ १०.०३७.०९

शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन।

यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम्॥ १०.०३७.१०

अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे।

अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन॥ १०.०३७.११

यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम्।

अरावा यो नो अभि दुच्छुनायते तस्मिन्तदेनो वसवो नि धेतन॥ १०.०३७.१२

 

अस्मिन्न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये।

यत्र गोषाता धृषितेषु खादिषु विष्वक्पतन्ति दिद्यवो नृषाह्ये॥ १०.०३८.०१

स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्र श्रवाय्यम्।

स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद्वसो कृधि॥ १०.०३८.०२

यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति।

अस्माभिष्टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे॥ १०.०३८.०३

यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्नृषाह्ये।

तं विखादे सस्निमद्य श्रुतं नरमर्वाञ्चमिन्द्रमवसे करामहे॥ १०.०३८.०४

स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम्।

प्र मुञ्चस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसते॥ १०.०३८.०५

 

यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता।

शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे॥ १०.०३९.०१

चोदयतं सूनृताः पिन्वतं धिय उत्पुरंधीरीरयतं तदुश्मसि।

यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम्॥ १०.०३९.०२

अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित्।

अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित्॥ १०.०३९.०३

युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः।

निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या॥ १०.०३९.०४

पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा।

ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत्॥ १०.०३९.०५

इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम्।

अनापिरज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेरव स्पृतम्॥ १०.०३९.०६

युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम्।

युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरंधये॥ १०.०३९.०७

युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतं युवद्वयः।

युवं वन्दनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः॥ १०.०३९.०८

युवं ह रेभं वृषणा गुहा हितमुदैरयतं ममृवांसमश्विना।

युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये॥ १०.०३९.०९

युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनम्।

चर्कृत्यं ददथुर्द्रावयत्सखं भगं न नृभ्यो हव्यं मयोभुवम्॥ १०.०३९.१०

न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितं नकिर्भयम्।

यमश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह॥ १०.०३९.११

आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना।

यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः॥ १०.०३९.१२

ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना।

वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम्॥ १०.०३९.१३

एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम्।

न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः॥ १०.०३९.१४

 

रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति।

प्रातर्यावाणं विभ्वं विशेविशे वस्तोर्वस्तोर्वहमानं धिया शमि॥ १०.०४०.०१

कुह स्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः।

को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ॥ १०.०४०.०२

प्रातर्जरेथे जरणेव कापया वस्तोर्वस्तोर्यजता गच्छथो गृहम्।

कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः॥ १०.०४०.०३

युवां मृगेव वारणा मृगण्यवो दोषा वस्तोर्हविषा नि ह्वयामहे।

युवं होत्रामृतुथा जुह्वते नरेषं जनाय वहथः शुभस्पती॥ १०.०४०.०४

युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा।

भूतं मे अह्न उत भूतमक्तवेऽश्वावते रथिने शक्तमर्वते॥ १०.०४०.०५

युवं कवी ष्ठः पर्यश्विना रथं विशो न कुत्सो जरितुर्नशायथः।

युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्कृतं न योषणा॥ १०.०४०.०६

युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः।

युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके॥ १०.०४०.०७

युवं ह कृशं युवमश्विना शयुं युवं विधन्तं विधवामुरुष्यथः।

युवं सनिभ्य स्तनयन्तमश्विनाप व्रजमूर्णुथः सप्तास्यम्॥ १०.०४०.०८

जनिष्ट योषा पतयत्कनीनको वि चारुहन्वीरुधो दंसना अनु।

आस्मै रीयन्ते निवनेव सिन्धवोऽस्मा अह्ने भवति तत्पतित्वनम्॥ १०.०४०.०९

जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः।

वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे॥ १०.०४०.१०

न तस्य विद्म तदु षु प्र वोचत युवा ह यद्युवत्याः क्षेति योनिषु।

प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि॥ १०.०४०.११

आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत।

अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि॥ १०.०४०.१२

ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे।

कृतं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम्॥ १०.०४०.१३

क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती।

क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम्॥ १०.०४०.१४

 

समानमु त्यं पुरुहूतमुक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम्।

परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे॥ १०.०४१.०१

प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम्।

विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना॥ १०.०४१.०२

अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम्।

विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना॥ १०.०४१.०३

 

अस्तेव सु प्रतरं लायमस्यन्भूषन्निव प्र भरा स्तोममस्मै।

वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम्॥ १०.०४२.०१

दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम्।

कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम्॥ १०.०४२.०२

किमङ्ग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि।

अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः॥ १०.०४२.०३

त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके।

अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः॥ १०.०४२.०४

धनं न स्यन्द्रं बहुलं यो अस्मै तीव्रान्सोमाँ आसुनोति प्रयस्वान्।

तस्मै शत्रून्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम्॥ १०.०४२.०५

यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे।

आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम्॥ १०.०४२.०६

आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन।

अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम्॥ १०.०४२.०७

प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम्।

नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम्॥ १०.०४२.०८

उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले।

यो देवकामो न धना रुणद्धि समित्तं राया सृजति स्वधावान्॥ १०.०४२.०९

गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम्।

वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम॥ १०.०४२.१०

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः।

इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु॥ १०.०४२.११

 

अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत।

परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये॥ १०.०४३.०१

न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय।

राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्सु सोमेऽवपानमस्तु ते॥ १०.०४३.०२

विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते।

तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः॥ १०.०४३.०३

वयो न वृक्षं सुपलाशमासदन्सोमास इन्द्रं मन्दिनश्चमूषदः।

प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम्॥ १०.०४३.०४

कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत्।

न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः॥ १०.०४३.०५

विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा।

यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः॥ १०.०४३.०६

आपो न सिन्धुमभि यत्समक्षरन्सोमास इन्द्रं कुल्या इव ह्रदम्।

वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना॥ १०.०४३.०७

वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः।

स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते॥ १०.०४३.०८

उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्।

वि रोचतामरुषो भानुना शुचिः स्वर्ण शुक्रं शुशुचीत सत्पतिः॥ १०.०४३.०९

गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम्।

वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम॥ १०.०४३.१०

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः।

इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु॥ १०.०४३.११

 

आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान्।

प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन॥ १०.०४४.०१

सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ।

शीभं राजन्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि॥ १०.०४४.०२

एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम्।

प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु॥ १०.०४४.०३

एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे।

ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे॥ १०.०४४.०४

गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः।

त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा॥ १०.०४४.०५

पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा।

न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः॥ १०.०४४.०६

एवैवापागपरे सन्तु दूढ्योऽश्वा येषां दुर्युज आयुयुज्रे।

इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना॥ १०.०४४.०७

गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्।

समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति॥ १०.०४४.०८

इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ्छफारुजः।

अस्मिन्सु ते सवने अस्त्वोक्यं सुत इष्टौ मघवन्बोध्याभगः॥ १०.०४४.०९

गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम्।

वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम॥ १०.०४४.१०

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः।

इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु॥ १०.०४४.११

 

दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः।

तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः॥ १०.०४५.०१

विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा।

विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आजगन्थ॥ १०.०४५.०२

समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन्।

तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन्॥ १०.०४५.०३

अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन्।

सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः॥ १०.०४५.०४

श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः।

वसुः सूनुः सहसो अप्सु राजा वि भात्यग्र उषसामिधानः॥ १०.०४५.०५

विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः।

वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च॥ १०.०४५.०६

उशिक्पावको अरतिः सुमेधा मर्तेष्वग्निरमृतो नि धायि।

इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन्॥ १०.०४५.०७

दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः।

अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः॥ १०.०४५.०८

यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने।

प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ॥ १०.०४५.०९

आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने।

प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः॥ १०.०४५.१०

त्वामग्ने यजमाना अनु द्यून्विश्वा वसु दधिरे वार्याणि।

त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो वि वव्रुः॥ १०.०४५.११

अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः।

अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम्॥ १०.०४५.१२

 

प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे।

दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः॥ १०.०४६.०१

इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु ग्मन्।

गुहा चतन्तमुशिजो नमोभिरिच्छन्तो धीरा भृगवोऽविन्दन्॥ १०.०४६.०२

इमं त्रितो भूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः।

स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य॥ १०.०४६.०३

मन्द्रं होतारमुशिजो नमोभिः प्राञ्चं यज्ञं नेतारमध्वराणाम्।

विशामकृण्वन्नरतिं पावकं हव्यवाहं दधतो मानुषेषु॥ १०.०४६.०४

प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरां दर्माणम्।

नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम्॥ १०.०४६.०५

नि पस्त्यासु त्रित स्तभूयन्परिवीतो योनौ सीददन्तः।

अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैरीयते नॄन्॥ १०.०४६.०६

अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः।

श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः॥ १०.०४६.०७

प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः।

तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम्॥ १०.०४६.०८

द्यावा यमग्निं पृथिवी जनिष्टामापस्त्वष्टा भृगवो यं सहोभिः।

ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम्॥ १०.०४६.०९

यं त्वा देवा दधिरे हव्यवाहं पुरुस्पृहो मानुषासो यजत्रम्।

स यामन्नग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः॥ १०.०४६.१०

 

जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम्।

विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः॥ १०.०४७.०१

स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम्।

चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दाः॥ १०.०४७.०२

सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र।

श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः॥ १०.०४७.०३

सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम्।

दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यं चित्रं वृषणं रयिं दाः॥ १०.०४७.०४

अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजमिन्द्र।

भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं चित्रं वृषणं रयिं दाः॥ १०.०४७.०५

प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति।

य आङ्गिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः॥ १०.०४७.०६

वनीवानो मम दूतास इन्द्रं स्तोमाश्चरन्ति सुमतीरियानाः।

हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः॥ १०.०४७.०७

यत्त्वा यामि दद्धि तन्न इन्द्र बृहन्तं क्षयमसमं जनानाम्।

अभि तद्द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दाः॥ १०.०४७.०८

 

अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः।

मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम्॥ १०.०४८.०१

अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि।

अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने॥ १०.०४८.०२

मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासोऽवृजन्नपि क्रतुम्।

ममानीकं सूर्यस्येव दुष्टरं मामार्यन्ति कृतेन कर्त्वेन च॥ १०.०४८.०३

अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम्।

पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः॥ १०.०४८.०४

अहमिन्द्रो न परा जिग्य इद्धनं न मृत्यवेऽव तस्थे कदा चन।

सोममिन्मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन॥ १०.०४८.०५

अहमेताञ्छाश्वसतो द्वाद्वेन्द्रं ये वज्रं युधयेऽकृण्वत।

आह्वयमानाँ अव हन्मनाहनं दृळ्हा वदन्ननमस्युर्नमस्विनः॥ १०.०४८.०६

अभीदमेकमेको अस्मि निष्षाळभी द्वा किमु त्रयः करन्ति।

खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः॥ १०.०४८.०७

अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम्।

यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि॥ १०.०४८.०८

प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता।

दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम्॥ १०.०४८.०९

प्र नेमस्मिन्ददृशे सोमो अन्तर्गोपा नेममाविरस्था कृणोति।

स तिग्मशृङ्गं वृषभं युयुत्सन्द्रुहस्तस्थौ बहुले बद्धो अन्तः॥ १०.०४८.१०

आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम।

ते मा भद्राय शवसे ततक्षुरपराजितमस्तृतमषाळ्हम्॥ १०.०४८.११

 

अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम्।

अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे॥ १०.०४९.०१

मां धुरिन्द्रं नाम देवता दिवश्च ग्मश्चापां च जन्तवः।

अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे॥ १०.०४९.०२

अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः।

अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे॥ १०.०४९.०३

अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम्।

अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे॥ १०.०४९.०४

अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक्।

अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम्॥ १०.०४९.०५

अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम्।

यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम्॥ १०.०४९.०६

अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमान ओजसा।

यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः॥ १०.०४९.०७

अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम्।

अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम्॥ १०.०४९.०८

अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि।

अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये॥ १०.०४९.०९

अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत्।

स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम्॥ १०.०४९.१०

एवा देवाँ इन्द्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः।

विश्वेत्ता ते हरिवः शचीवोऽभि तुरासः स्वयशो गृणन्ति॥ १०.०४९.११

 

प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे।

इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः॥ १०.०५०.०१

सो चिन्नु सख्या नर्य इन स्तुतश्चर्कृत्य इन्द्रो मावते नरे।

विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्वभि शूर मन्दसे॥ १०.०५०.०२

के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान्।

के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये॥ १०.०५०.०३

भुवस्त्वमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञियः।

भुवो नॄँश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे॥ १०.०५०.०४

अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः।

असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे॥ १०.०५०.०५

एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे।

वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः॥ १०.०५०.०६

ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश्च दावने।

प्र ते सुम्नस्य मनसा पथा भुवन्मदे सुतस्य सोम्यस्यान्धसः॥ १०.०५०.०७

 

महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः।

विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः॥ १०.०५१.०१

को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत्।

क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विश्वाः समिधो देवयानीः॥ १०.०५१.०२

ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु।

तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम्॥ १०.०५१.०३

होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्र देवाः।

तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः॥ १०.०५१.०४

एहि मनुर्देवयुर्यज्ञकामोऽरंकृत्या तमसि क्षेष्यग्ने।

सुगान्पथः कृणुहि देवयानान्वह हव्यानि सुमनस्यमानः॥ १०.०५१.०५

अग्नेः पूर्वे भ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः।

तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः॥ १०.०५१.०६

कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः।

अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात॥ १०.०५१.०७

प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम्।

घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः॥ १०.०५१.०८

तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः।

तवाग्ने यज्ञोऽयमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः॥ १०.०५१.०९

 

विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य।

प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि॥ १०.०५२.०१

अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति।

अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम्॥ १०.०५२.०२

अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः।

अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम्॥ १०.०५२.०३

मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम्।

अग्निर्विद्वान्यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम्॥ १०.०५२.०४

आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि।

आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति॥ १०.०५२.०५

त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन्।

औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त॥ १०.०५२.०६

 

यमैच्छाम मनसा सोऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान्।

स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मत्॥ १०.०५३.०१

अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत्।

यजामहै यज्ञियान्हन्त देवाँ ईळामहा ईड्याँ आज्येन॥ १०.०५३.०२

साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम्।

स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य॥ १०.०५३.०३

तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम।

ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम्॥ १०.०५३.०४

पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः।

पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान्॥ १०.०५३.०५

तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान्।

अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम्॥ १०.०५३.०६

अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत।

अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियम्॥ १०.०५३.०७

अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः।

अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान्॥ १०.०५३.०८

त्वष्टा माया वेदपसामपस्तमो बिभ्रत्पात्रा देवपानानि शंतमा।

शिशीते नूनं परशुं स्वायसं येन वृश्चादेतशो ब्रह्मणस्पतिः॥ १०.०५३.०९

सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ।

विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः॥ १०.०५३.१०

गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोत जिह्वया।

स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिम्॥ १०.०५३.११

 

तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम्।

प्रावो देवाँ आतिरो दासमोजः प्रजायै त्वस्यै यदशिक्ष इन्द्र॥ १०.०५४.०१

यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु।

मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से॥ १०.०५४.०२

क उ नु ते महिमनः समस्यास्मत्पूर्व ऋषयोऽन्तमापुः।

यन्मातरं च पितरं च साकमजनयथास्तन्वः स्वायाः॥ १०.०५४.०३

चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति।

त्वमङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ॥ १०.०५४.०४

त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि।

काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता॥ १०.०५४.०५

यो अदधाज्ज्योतिषि ज्योतिरन्तर्यो असृजन्मधुना सं मधूनि।

अध प्रियं शूषमिन्द्राय मन्म ब्रह्मकृतो बृहदुक्थादवाचि॥ १०.०५४.०६

 

दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै।

उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः॥ १०.०५५.०१

महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम्।

प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च॥ १०.०५५.०२

आ रोदसी अपृणादोत मध्यं पञ्च देवाँ ऋतुशः सप्तसप्त।

चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन॥ १०.०५५.०३

यदुष औच्छः प्रथमा विभानामजनयो येन पुष्टस्य पुष्टम्।

यत्ते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकम्॥ १०.०५५.०४

विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार।

देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान॥ १०.०५५.०५

शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीळः।

यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता॥ १०.०५५.०६

ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री।

ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः॥ १०.०५५.०७

युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट्।

पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दस्यून्॥ १०.०५५.०८

 

इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व।

संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे॥ १०.०५६.०१

तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धातु शर्म तुभ्यम्।

अह्रुतो महो धरुणाय देवान्दिवीव ज्योतिः स्वमा मिमीयाः॥ १०.०५६.०२

वाज्यसि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः।

सुवितो धर्म प्रथमानु सत्या सुवितो देवान्सुवितोऽनु पत्म॥ १०.०५६.०३

महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपि क्रतुम्।

समविव्यचुरुत यान्यत्विषुरैषां तनूषु नि विविशुः पुनः॥ १०.०५६.०४

सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमिता मिमानाः।

तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु॥ १०.०५६.०५

द्विधा सूनवोऽसुरं स्वर्विदमास्थापयन्त तृतीयेन कर्मणा।

स्वां प्रजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम्॥ १०.०५६.०६

नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा।

स्वां प्रजां बृहदुक्थो महित्वावरेष्वदधादा परेषु॥ १०.०५६.०७

 

मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः।

मान्त स्थुर्नो अरातयः॥ १०.०५७.०१

यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः।

तमाहुतं नशीमहि॥ १०.०५७.०२

मनो न्वा हुवामहे नाराशंसेन सोमेन।

पितॄणां च मन्मभिः॥ १०.०५७.०३

आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे।

ज्योक्च सूर्यं दृशे॥ १०.०५७.०४

पुनर्नः पितरो मनो ददातु दैव्यो जनः।

जीवं व्रातं सचेमहि॥ १०.०५७.०५

वयं सोम व्रते तव मनस्तनूषु बिभ्रतः।

प्रजावन्तः सचेमहि॥ १०.०५७.०६

 

यत्ते यमं वैवस्वतं मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.०१

यत्ते दिवं यत्पृथिवीं मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.०२

यत्ते भूमिं चतुर्भृष्टिं मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.०३

यत्ते चतस्रः प्रदिशो मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.०४

यत्ते समुद्रमर्णवं मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.०५

यत्ते मरीचीः प्रवतो मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.०६

यत्ते अपो यदोषधीर्मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.०७

यत्ते सूर्यं यदुषसं मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.०८

यत्ते पर्वतान्बृहतो मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.०९

यत्ते विश्वमिदं जगन्मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.१०

यत्ते पराः परावतो मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.११

यत्ते भूतं च भव्यं च मनो जगाम दूरकम्।

तत्त आ वर्तयामसीह क्षयाय जीवसे॥ १०.०५८.१२

 

प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य।

अध च्यवान उत्तवीत्यर्थं परातरं सु निरृतिर्जिहीताम्॥ १०.०५९.०१

सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि।

ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर्जिहीताम्॥ १०.०५९.०२

अभी ष्वर्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान्।

ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर्जिहीताम्॥ १०.०५९.०३

मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम्।

द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निरृतिर्जिहीताम्॥ १०.०५९.०४

असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः।

रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व॥ १०.०५९.०५

असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम्।

ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति॥ १०.०५९.०६

पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम्।

पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः॥ १०.०५९.०७

शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा।

भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत्॥ १०.०५९.०८

अव द्वके अव त्रिका दिवश्चरन्ति भेषजा।

क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत्॥ १०.०५९.०९

समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः।

भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत्॥ १०.०५९.१०

 

आ जनं त्वेषसंदृशं माहीनानामुपस्तुतम्।

अगन्म बिभ्रतो नमः॥ १०.०६०.०१

असमातिं नितोशनं त्वेषं निययिनं रथम्।

भजेरथस्य सत्पतिम्॥ १०.०६०.०२

यो जनान्महिषाँ इवातितस्थौ पवीरवान्।

उतापवीरवान्युधा॥ १०.०६०.०३

यस्येक्ष्वाकुरुप व्रते रेवान्मराय्येधते।

दिवीव पञ्च कृष्टयः॥ १०.०६०.०४

इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय।

दिवीव सूर्यं दृशे॥ १०.०६०.०५

अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता।

पणीन्न्यक्रमीरभि विश्वान्राजन्नराधसः॥ १०.०६०.०६

अयं मातायं पितायं जीवातुरागमत्।

इदं तव प्रसर्पणं सुबन्धवेहि निरिहि॥ १०.०६०.०७

यथा युगं वरत्रया नह्यन्ति धरुणाय कम्।

एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये॥ १०.०६०.०८

यथेयं पृथिवी मही दाधारेमान्वनस्पतीन्।

एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये॥ १०.०६०.०९

यमादहं वैवस्वतात्सुबन्धोर्मन आभरम्।

जीवातवे न मृत्यवेऽथो अरिष्टतातये॥ १०.०६०.१०

न्यग्वातोऽव वाति न्यक्तपति सूर्यः।

नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः॥ १०.०६०.११

अयं मे हस्तो भगवानयं मे भगवत्तरः।

अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः॥ १०.०६०.१२

 

इदमित्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्यामन्तराजौ।

क्राणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन्॥ १०.०६१.०१

स इद्दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीत वेदिम्।

तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत्॥ १०.०६१.०२

मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता।

आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ॥ १०.०६१.०३

कृष्णा यद्गोष्वरुणीषु सीदद्दिवो नपाताश्विना हुवे वाम्।

वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू॥ १०.०६१.०४

प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत्।

पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा॥ १०.०६१.०५

मध्या यत्कर्त्वमभवदभीके कामं कृण्वाने पितरि युवत्याम्।

मनानग्रेतो जहतुर्वियन्ता सानौ निषिक्तं सुकृतस्य योनौ॥ १०.०६१.०६

पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिञ्चत्।

स्वाध्योऽजनयन्ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन्॥ १०.०६१.०७

स ईं वृषा न फेनमस्यदाजौ स्मदा परैदप दभ्रचेताः।

सरत्पदा न दक्षिणा परावृङ्न ता नु मे पृशन्यो जगृभ्रे॥ १०.०६१.०८

मक्षू न वह्निः प्रजाया उपब्दिरग्निं न नग्न उप सीददूधः।

सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत्॥ १०.०६१.०९

मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिमग्मन्।

द्विबर्हसो य उप गोपमागुरदक्षिणासो अच्युता दुदुक्षन्॥ १०.०६१.१०

मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतमित्तुरण्यन्।

शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः॥ १०.०६१.११

पश्वा यत्पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः।

वसोर्वसुत्वा कारवोऽनेहा विश्वं विवेष्टि द्रविणमुप क्षु॥ १०.०६१.१२

तदिन्न्वस्य परिषद्वानो अग्मन्पुरू सदन्तो नार्षदं बिभित्सन्।

वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत्॥ १०.०६१.१३

भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थे निषेदुः।

अग्निर्ह नामोत जातवेदाः श्रुधी नो होतरृतस्य होताध्रुक्॥ १०.०६१.१४

उत त्या मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तये यजध्यै।

मनुष्वद्वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू॥ १०.०६१.१५

अयं स्तुतो राजा वन्दि वेधा अपश्च विप्रस्तरति स्वसेतुः।

स कक्षीवन्तं रेजयत्सो अग्निं नेमिं न चक्रमर्वतो रघुद्रु॥ १०.०६१.१६

स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै।

सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः॥ १०.०६१.१७

तद्बन्धुः सूरिर्दिवि ते धियंधा नाभानेदिष्ठो रपति प्र वेनन्।

सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास॥ १०.०६१.१८

इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः।

द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना॥ १०.०६१.१९

अधासु मन्द्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट्।

ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन्मक्षू स्थिरं शेवृधं सूत माता॥ १०.०६१.२०

अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः।

श्रुधि त्वं सुद्रविणो नस्त्वं याळाश्वघ्नस्य वावृधे सूनृताभिः॥ १०.०६१.२१

अध त्वमिन्द्र विद्ध्यस्मान्महो राये नृपते वज्रबाहुः।

रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवो अभिष्टौ॥ १०.०६१.२२

अध यद्राजाना गविष्टौ सरत्सरण्युः कारवे जरण्युः।

विप्रः प्रेष्ठः स ह्येषां बभूव परा च वक्षदुत पर्षदेनान्॥ १०.०६१.२३

अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु।

सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ॥ १०.०६१.२४

युवोर्यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान्।

विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गातुर्दाशत्सूनृतायै॥ १०.०६१.२५

स गृणानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः।

वर्धदुक्थैर्वचोभिरा हि नूनं व्यध्वैति पयस उस्रियायाः॥ १०.०६१.२६

त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः।

ये वाजाँ अनयता वियन्तो ये स्था निचेतारो अमूराः॥ १०.०६१.२७

 

ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश।

तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः॥ १०.०६२.०१

य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम्।

दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः॥ १०.०६२.०२

य ऋतेन सूर्यमारोहयन्दिव्यप्रथयन्पृथिवीं मातरं वि।

सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः॥ १०.०६२.०३

अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन।

सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः॥ १०.०६२.०४

विरूपास इदृषयस्त इद्गम्भीरवेपसः।

ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे॥ १०.०६२.०५

ये अग्नेः परि जज्ञिरे विरूपासो दिवस्परि।

नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते॥ १०.०६२.०६

इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम्।

सहस्रं मे ददतो अष्टकर्ण्यः श्रवो देवेष्वक्रत॥ १०.०६२.०७

प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु।

यः सहस्रं शताश्वं सद्यो दानाय मंहते॥ १०.०६२.०८

न तमश्नोति कश्चन दिव इव सान्वारभम्।

सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे॥ १०.०६२.०९

उत दासा परिविषे स्मद्दिष्टी गोपरीणसा।

यदुस्तुर्वश्च मामहे॥ १०.०६२.१०

सहस्रदा ग्रामणीर्मा रिषन्मनुः सूर्येणास्य यतमानैतु दक्षिणा।

सावर्णेर्देवाः प्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम्॥ १०.०६२.११

 

परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमा विवस्वतः।

ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः॥ १०.०६३.०१

विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः।

ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवम्॥ १०.०६३.०२

येभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः।

उक्थशुष्मान्वृषभरान्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये॥ १०.०६३.०३

नृचक्षसो अनिमिषन्तो अर्हणा बृहद्देवासो अमृतत्वमानशुः।

ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये॥ १०.०६३.०४

सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम्।

ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ अदितिं स्वस्तये॥ १०.०६३.०५

को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन।

को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये॥ १०.०६३.०६

येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः।

त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये॥ १०.०६३.०७

य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः।

ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये॥ १०.०६३.०८

भरेष्विन्द्रं सुहवं हवामहेऽंहोमुचं सुकृतं दैव्यं जनम्।

अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये॥ १०.०६३.०९

सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम्।

दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये॥ १०.०६३.१०

विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः।

सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये॥ १०.०६३.११

अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः।

आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये॥ १०.०६३.१२

अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि।

यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये॥ १०.०६३.१३

यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने।

प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये॥ १०.०६३.१४

स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति।

स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन॥ १०.०६३.१५

स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति।

सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा॥ १०.०६३.१६

एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी।

ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन॥ १०.०६३.१७

 

कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वतां मनामहे।

को मृळाति कतमो नो मयस्करत्कतम ऊती अभ्या ववर्तति॥ १०.०६४.०१

क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः।

न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत॥ १०.०६४.०२

नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा।

सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातमुषसमक्तुमश्विना॥ १०.०६४.०३

कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभिः।

अज एकपात्सुहवेभिरृक्वभिरहिः शृणोतु बुध्न्यो हवीमनि॥ १०.०६४.०४

दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि।

अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु॥ १०.०६४.०५

ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः।

सहस्रसा मेधसाताविव त्मना महो ये धनं समिथेषु जभ्रिरे॥ १०.०६४.०६

प्र वो वायुं रथयुजं पुरंधिं स्तोमैः कृणुध्वं सख्याय पूषणम्।

ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः॥ १०.०६४.०७

त्रिः सप्त सस्रा नद्यो महीरपो वनस्पतीन्पर्वताँ अग्निमूतये।

कृशानुमस्तॄन्तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे॥ १०.०६४.०८

सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तु वक्षणीः।

देवीरापो मातरः सूदयित्न्वो घृतवत्पयो मधुमन्नो अर्चत॥ १०.०६४.०९

उत माता बृहद्दिवा शृणोतु नस्त्वष्टा देवेभिर्जनिभिः पिता वचः।

ऋभुक्षा वाजो रथस्पतिर्भगो रण्वः शंसः शशमानस्य पातु नः॥ १०.०६४.१०

रण्वः संदृष्टौ पितुमाँ इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः।

गोभिः ष्याम यशसो जनेष्वा सदा देवास इळया सचेमहि॥ १०.०६४.११

यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम्।

तां पीपयत पयसेव धेनुं कुविद्गिरो अधि रथे वहाथ॥ १०.०६४.१२

कुविदङ्ग प्रति यथा चिदस्य नः सजात्यस्य मरुतो बुबोधथ।

नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः॥ १०.०६४.१३

ते हि द्यावापृथिवी मातरा मही देवी देवाञ्जन्मना यज्ञिये इतः।

उभे बिभृत उभयं भरीमभिः पुरू रेतांसि पितृभिश्च सिञ्चतः॥ १०.०६४.१४

वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिः पनीयसी।

ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्त मतिभिर्मनीषिणः॥ १०.०६४.१५

एवा कविस्तुवीरवाँ ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः।

उक्थेभिरत्र मतिभिश्च विप्रोऽपीपयद्गयो दिव्यानि जन्म॥ १०.०६४.१६

एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी।

ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन॥ १०.०६४.१७

 

अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः।

आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः॥ १०.०६५.०१

इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा।

अन्तरिक्षं मह्या पप्रुरोजसा सोमो घृतश्रीर्महिमानमीरयन्॥ १०.०६५.०२

तेषां हि मह्ना महतामनर्वणां स्तोमाँ इयर्म्यृतज्ञा ऋतावृधाम्।

ये अप्सवमर्णवं चित्रराधसस्ते नो रासन्तां महये सुमित्र्याः॥ १०.०६५.०३

स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुरोजसा।

पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय सूरयः॥ १०.०६५.०४

मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः।

ययोर्धाम धर्मणा रोचते बृहद्ययोरुभे रोदसी नाधसी वृतौ॥ १०.०६५.०५

या गौर्वर्तनिं पर्येति निष्कृतं पयो दुहाना व्रतनीरवारतः।

सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद्धविषा विवस्वते॥ १०.०६५.०६

दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते।

द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः॥ १०.०६५.०७

परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा।

द्यावापृथिवी वरुणाय सव्रते घृतवत्पयो महिषाय पिन्वतः॥ १०.०६५.०८

पर्ज