॥ ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ९॥

 

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया।

इन्द्राय पातवे सुतः॥ ९.००१.०१

रक्षोहा विश्वचर्षणिरभि योनिमयोहतम्।

द्रुणा सधस्थमासदत्॥ ९.००१.०२

वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः।

पर्षि राधो मघोनाम्॥ ९.००१.०३

अभ्यर्ष महानां देवानां वीतिमन्धसा।

अभि वाजमुत श्रवः॥ ९.००१.०४

त्वामच्छा चरामसि तदिदर्थं दिवेदिवे।

इन्दो त्वे न आशसः॥ ९.००१.०५

पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता।

वारेण शश्वता तना॥ ९.००१.०६

तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश।

स्वसारः पार्ये दिवि॥ ९.००१.०७

तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम्।

त्रिधातु वारणं मधु॥ ९.००१.०८

अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम्।

सोममिन्द्राय पातवे॥ ९.००१.०९

अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते।

शूरो मघा च मंहते॥ ९.००१.१०

 

पवस्व देववीरति पवित्रं सोम रंह्या।

इन्द्रमिन्दो वृषा विश॥ ९.००२.०१

आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः।

आ योनिं धर्णसिः सदः॥ ९.००२.०२

अधुक्षत प्रियं मधु धारा सुतस्य वेधसः।

अपो वसिष्ट सुक्रतुः॥ ९.००२.०३

महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः।

यद्गोभिर्वासयिष्यसे॥ ९.००२.०४

समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः।

सोमः पवित्रे अस्मयुः॥ ९.००२.०५

अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः।

सं सूर्येण रोचते॥ ९.००२.०६

गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः।

याभिर्मदाय शुम्भसे॥ ९.००२.०७

तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे।

तव प्रशस्तयो महीः॥ ९.००२.०८

अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया।

पर्जन्यो वृष्टिमाँ इव॥ ९.००२.०९

गोषा इन्दो नृषा अस्यश्वसा वाजसा उत।

आत्मा यज्ञस्य पूर्व्यः॥ ९.००२.१०

 

एष देवो अमर्त्यः पर्णवीरिव दीयति।

अभि द्रोणान्यासदम्॥ ९.००३.०१

एष देवो विपा कृतोऽति ह्वरांसि धावति।

पवमानो अदाभ्यः॥ ९.००३.०२

एष देवो विपन्युभिः पवमान ऋतायुभिः।

हरिर्वाजाय मृज्यते॥ ९.००३.०३

एष विश्वानि वार्या शूरो यन्निव सत्वभिः।

पवमानः सिषासति॥ ९.००३.०४

एष देवो रथर्यति पवमानो दशस्यति।

आविष्कृणोति वग्वनुम्॥ ९.००३.०५

एष विप्रैरभिष्टुतोऽपो देवो वि गाहते।

दधद्रत्नानि दाशुषे॥ ९.००३.०६

एष दिवं वि धावति तिरो रजांसि धारया।

पवमानः कनिक्रदत्॥ ९.००३.०७

एष दिवं व्यासरत्तिरो रजांस्यस्पृतः।

पवमानः स्वध्वरः॥ ९.००३.०८

एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः।

हरिः पवित्रे अर्षति॥ ९.००३.०९

एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः।

धारया पवते सुतः॥ ९.००३.१०

 

सना च सोम जेषि च पवमान महि श्रवः।

अथा नो वस्यसस्कृधि॥ ९.००४.०१

सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा।

अथा नो वस्यसस्कृधि॥ ९.००४.०२

सना दक्षमुत क्रतुमप सोम मृधो जहि।

अथा नो वस्यसस्कृधि॥ ९.००४.०३

पवीतारः पुनीतन सोममिन्द्राय पातवे।

अथा नो वस्यसस्कृधि॥ ९.००४.०४

त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः।

अथा नो वस्यसस्कृधि॥ ९.००४.०५

तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम्।

अथा नो वस्यसस्कृधि॥ ९.००४.०६

अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम्।

अथा नो वस्यसस्कृधि॥ ९.००४.०७

अभ्यर्षानपच्युतो रयिं समत्सु सासहिः।

अथा नो वस्यसस्कृधि॥ ९.००४.०८

त्वां यज्ञैरवीवृधन्पवमान विधर्मणि।

अथा नो वस्यसस्कृधि॥ ९.००४.०९

रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर।

अथा नो वस्यसस्कृधि॥ ९.००४.१०

 

समिद्धो विश्वतस्पतिः पवमानो वि राजति।

प्रीणन्वृषा कनिक्रदत्॥ ९.००५.०१

तनूनपात्पवमानः शृङ्गे शिशानो अर्षति।

अन्तरिक्षेण रारजत्॥ ९.००५.०२

ईळेन्यः पवमानो रयिर्वि राजति द्युमान्।

मधोर्धाराभिरोजसा॥ ९.००५.०३

बर्हिः प्राचीनमोजसा पवमान स्तृणन्हरिः।

देवेषु देव ईयते॥ ९.००५.०४

उदातैर्जिहते बृहद्द्वारो देवीर्हिरण्ययीः।

पवमानेन सुष्टुताः॥ ९.००५.०५

सुशिल्पे बृहती मही पवमानो वृषण्यति।

नक्तोषासा न दर्शते॥ ९.००५.०६

उभा देवा नृचक्षसा होतारा दैव्या हुवे।

पवमान इन्द्रो वृषा॥ ९.००५.०७

भारती पवमानस्य सरस्वतीळा मही।

इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः॥ ९.००५.०८

त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे।

इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः॥ ९.००५.०९

वनस्पतिं पवमान मध्वा समङ्ग्धि धारया।

सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम्॥ ९.००५.१०

विश्वे देवाः स्वाहाकृतिं पवमानस्या गत।

वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसः॥ ९.००५.११

 

मन्द्रया सोम धारया वृषा पवस्व देवयुः।

अव्यो वारेष्वस्मयुः॥ ९.००६.०१

अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर।

अभि वाजिनो अर्वतः॥ ९.००६.०२

अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ।

अभि वाजमुत श्रवः॥ ९.००६.०३

अनु द्रप्सास इन्दव आपो न प्रवतासरन्।

पुनाना इन्द्रमाशत॥ ९.००६.०४

यमत्यमिव वाजिनं मृजन्ति योषणो दश।

वने क्रीळन्तमत्यविम्॥ ९.००६.०५

तं गोभिर्वृषणं रसं मदाय देववीतये।

सुतं भराय सं सृज॥ ९.००६.०६

देवो देवाय धारयेन्द्राय पवते सुतः।

पयो यदस्य पीपयत्॥ ९.००६.०७

आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः।

प्रत्नं नि पाति काव्यम्॥ ९.००६.०८

एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये।

गुहा चिद्दधिषे गिरः॥ ९.००६.०९

 

असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः।

विदाना अस्य योजनम्॥ ९.००७.०१

प्र धारा मध्वो अग्रियो महीरपो वि गाहते।

हविर्हविष्षु वन्द्यः॥ ९.००७.०२

प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने।

सद्माभि सत्यो अध्वरः॥ ९.००७.०३

परि यत्काव्या कविर्नृम्णा वसानो अर्षति।

स्वर्वाजी सिषासति॥ ९.००७.०४

पवमानो अभि स्पृधो विशो राजेव सीदति।

यदीमृण्वन्ति वेधसः॥ ९.००७.०५

अव्यो वारे परि प्रियो हरिर्वनेषु सीदति।

रेभो वनुष्यते मती॥ ९.००७.०६

स वायुमिन्द्रमश्विना साकं मदेन गच्छति।

रणा यो अस्य धर्मभिः॥ ९.००७.०७

आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः।

विदाना अस्य शक्मभिः॥ ९.००७.०८

अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये।

श्रवो वसूनि सं जितम्॥ ९.००७.०९

 

एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन्।

वर्धन्तो अस्य वीर्यम्॥ ९.००८.०१

पुनानासश्चमूषदो गच्छन्तो वायुमश्विना।

ते नो धान्तु सुवीर्यम्॥ ९.००८.०२

इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय।

ऋतस्य योनिमासदम्॥ ९.००८.०३

मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः।

अनु विप्रा अमादिषुः॥ ९.००८.०४

देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः।

सं गोभिर्वासयामसि॥ ९.००८.०५

पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः।

परि गव्यान्यव्यत॥ ९.००८.०६

मघोन आ पवस्व नो जहि विश्वा अप द्विषः।

इन्दो सखायमा विश॥ ९.००८.०७

वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि।

सहो नः सोम पृत्सु धाः॥ ९.००८.०८

नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम्।

भक्षीमहि प्रजामिषम्॥ ९.००८.०९

 

परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः।

सुवानो याति कविक्रतुः॥ ९.००९.०१

प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे।

वीत्यर्ष चनिष्ठया॥ ९.००९.०२

स सूनुर्मातरा शुचिर्जातो जाते अरोचयत्।

महान्मही ऋतावृधा॥ ९.००९.०३

स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः।

या एकमक्षि वावृधुः॥ ९.००९.०४

ता अभि सन्तमस्तृतं महे युवानमा दधुः।

इन्दुमिन्द्र तव व्रते॥ ९.००९.०५

अभि वह्निरमर्त्यः सप्त पश्यति वावहिः।

क्रिविर्देवीरतर्पयत्॥ ९.००९.०६

अवा कल्पेषु नः पुमस्तमांसि सोम योध्या।

तानि पुनान जङ्घनः॥ ९.००९.०७

नू नव्यसे नवीयसे सूक्ताय साधया पथः।

प्रत्नवद्रोचया रुचः॥ ९.००९.०८

पवमान महि श्रवो गामश्वं रासि वीरवत्।

सना मेधां सना स्वः॥ ९.००९.०९

 

प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः।

सोमासो राये अक्रमुः॥ ९.०१०.०१

हिन्वानासो रथा इव दधन्विरे गभस्त्योः।

भरासः कारिणामिव॥ ९.०१०.०२

राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते।

यज्ञो न सप्त धातृभिः॥ ९.०१०.०३

परि सुवानास इन्दवो मदाय बर्हणा गिरा।

सुता अर्षन्ति धारया॥ ९.०१०.०४

आपानासो विवस्वतो जनन्त उषसो भगम्।

सूरा अण्वं वि तन्वते॥ ९.०१०.०५

अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः।

वृष्णो हरस आयवः॥ ९.०१०.०६

समीचीनास आसते होतारः सप्तजामयः।

पदमेकस्य पिप्रतः॥ ९.०१०.०७

नाभा नाभिं न आ ददे चक्षुश्चित्सूर्ये सचा।

कवेरपत्यमा दुहे॥ ९.०१०.०८

अभि प्रिया दिवस्पदमध्वर्युभिर्गुहा हितम्।

सूरः पश्यति चक्षसा॥ ९.०१०.०९

 

उपास्मै गायता नरः पवमानायेन्दवे।

अभि देवाँ इयक्षते॥ ९.०११.०१

अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः।

देवं देवाय देवयु॥ ९.०११.०२

स नः पवस्व शं गवे शं जनाय शमर्वते।

शं राजन्नोषधीभ्यः॥ ९.०११.०३

बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे।

सोमाय गाथमर्चत॥ ९.०११.०४

हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन।

मधावा धावता मधु॥ ९.०११.०५

नमसेदुप सीदत दध्नेदभि श्रीणीतन।

इन्दुमिन्द्रे दधातन॥ ९.०११.०६

अमित्रहा विचर्षणिः पवस्व सोम शं गवे।

देवेभ्यो अनुकामकृत्॥ ९.०११.०७

इन्द्राय सोम पातवे मदाय परि षिच्यसे।

मनश्चिन्मनसस्पतिः॥ ९.०११.०८

पवमान सुवीर्यं रयिं सोम रिरीहि नः।

इन्दविन्द्रेण नो युजा॥ ९.०११.०९

 

सोमा असृग्रमिन्दवः सुता ऋतस्य सादने।

इन्द्राय मधुमत्तमाः॥ ९.०१२.०१

अभि विप्रा अनूषत गावो वत्सं न मातरः।

इन्द्रं सोमस्य पीतये॥ ९.०१२.०२

मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित्।

सोमो गौरी अधि श्रितः॥ ९.०१२.०३

दिवो नाभा विचक्षणोऽव्यो वारे महीयते।

सोमो यः सुक्रतुः कविः॥ ९.०१२.०४

यः सोमः कलशेष्वाँ अन्तः पवित्र आहितः।

तमिन्दुः परि षस्वजे॥ ९.०१२.०५

प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि।

जिन्वन्कोशं मधुश्चुतम्॥ ९.०१२.०६

नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः।

हिन्वानो मानुषा युगा॥ ९.०१२.०७

अभि प्रिया दिवस्पदा सोमो हिन्वानो अर्षति।

विप्रस्य धारया कविः॥ ९.०१२.०८

आ पवमान धारय रयिं सहस्रवर्चसम्।

अस्मे इन्दो स्वाभुवम्॥ ९.०१२.०९

 

सोमः पुनानो अर्षति सहस्रधारो अत्यविः।

वायोरिन्द्रस्य निष्कृतम्॥ ९.०१३.०१

पवमानमवस्यवो विप्रमभि प्र गायत।

सुष्वाणं देववीतये॥ ९.०१३.०२

पवन्ते वाजसातये सोमाः सहस्रपाजसः।

गृणाना देववीतये॥ ९.०१३.०३

उत नो वाजसातये पवस्व बृहतीरिषः।

द्युमदिन्दो सुवीर्यम्॥ ९.०१३.०४

ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम्।

सुवाना देवास इन्दवः॥ ९.०१३.०५

अत्या हियाना न हेतृभिरसृग्रं वाजसातये।

वि वारमव्यमाशवः॥ ९.०१३.०६

वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः।

दधन्विरे गभस्त्योः॥ ९.०१३.०७

जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत्।

विश्वा अप द्विषो जहि॥ ९.०१३.०८

अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः।

योनावृतस्य सीदत॥ ९.०१३.०९

 

परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः।

कारं बिभ्रत्पुरुस्पृहम्॥ ९.०१४.०१

गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः।

परिष्कृण्वन्ति धर्णसिम्॥ ९.०१४.०२

आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत।

यदी गोभिर्वसायते॥ ९.०१४.०३

निरिणानो वि धावति जहच्छर्याणि तान्वा।

अत्रा सं जिघ्नते युजा॥ ९.०१४.०४

नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा।

गाः कृण्वानो न निर्णिजम्॥ ९.०१४.०५

अति श्रिती तिरश्चता गव्या जिगात्यण्व्या।

वग्नुमियर्ति यं विदे॥ ९.०१४.०६

अभि क्षिपः समग्मत मर्जयन्तीरिषस्पतिम्।

पृष्ठा गृभ्णत वाजिनः॥ ९.०१४.०७

परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा।

वसूनि याह्यस्मयुः॥ ९.०१४.०८

 

एष धिया यात्यण्व्या शूरो रथेभिराशुभिः।

गच्छन्निन्द्रस्य निष्कृतम्॥ ९.०१५.०१

एष पुरू धियायते बृहते देवतातये।

यत्रामृतास आसते॥ ९.०१५.०२

एष हितो वि नीयतेऽन्तः शुभ्रावता पथा।

यदी तुञ्जन्ति भूर्णयः॥ ९.०१५.०३

एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा।

नृम्णा दधान ओजसा॥ ९.०१५.०४

एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः।

पतिः सिन्धूनां भवन्॥ ९.०१५.०५

एष वसूनि पिब्दना परुषा ययिवाँ अति।

अव शादेषु गच्छति॥ ९.०१५.०६

एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः।

प्रचक्राणं महीरिषः॥ ९.०१५.०७

एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः।

स्वायुधं मदिन्तमम्॥ ९.०१५.०८

 

प्र ते सोतार ओण्यो रसं मदाय घृष्वये।

सर्गो न तक्त्येतशः॥ ९.०१६.०१

क्रत्वा दक्षस्य रथ्यमपो वसानमन्धसा।

गोषामण्वेषु सश्चिम॥ ९.०१६.०२

अनप्तमप्सु दुष्टरं सोमं पवित्र आ सृज।

पुनीहीन्द्राय पातवे॥ ९.०१६.०३

प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति।

क्रत्वा सधस्थमासदत्॥ ९.०१६.०४

प्र त्वा नमोभिरिन्दव इन्द्र सोमा असृक्षत।

महे भराय कारिणः॥ ९.०१६.०५

पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः।

शूरो न गोषु तिष्ठति॥ ९.०१६.०६

दिवो न सानु पिप्युषी धारा सुतस्य वेधसः।

वृथा पवित्रे अर्षति॥ ९.०१६.०७

त्वं सोम विपश्चितं तना पुनान आयुषु।

अव्यो वारं वि धावसि॥ ९.०१६.०८

 

प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः।

सोमा असृग्रमाशवः॥ ९.०१७.०१

अभि सुवानास इन्दवो वृष्टयः पृथिवीमिव।

इन्द्रं सोमासो अक्षरन्॥ ९.०१७.०२

अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति।

विघ्नन्रक्षांसि देवयुः॥ ९.०१७.०३

आ कलशेषु धावति पवित्रे परि षिच्यते।

उक्थैर्यज्ञेषु वर्धते॥ ९.०१७.०४

अति त्री सोम रोचना रोहन्न भ्राजसे दिवम्।

इष्णन्सूर्यं न चोदयः॥ ९.०१७.०५

अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः।

दधानाश्चक्षसि प्रियम्॥ ९.०१७.०६

तमु त्वा वाजिनं नरो धीभिर्विप्रा अवस्यवः।

मृजन्ति देवतातये॥ ९.०१७.०७

मधोर्धारामनु क्षर तीव्रः सधस्थमासदः।

चारुरृताय पीतये॥ ९.०१७.०८

 

परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः।

मदेषु सर्वधा असि॥ ९.०१८.०१

त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः।

मदेषु सर्वधा असि॥ ९.०१८.०२

तव विश्वे सजोषसो देवासः पीतिमाशत।

मदेषु सर्वधा असि॥ ९.०१८.०३

आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे।

मदेषु सर्वधा असि॥ ९.०१८.०४

य इमे रोदसी मही सं मातरेव दोहते।

मदेषु सर्वधा असि॥ ९.०१८.०५

परि यो रोदसी उभे सद्यो वाजेभिरर्षति।

मदेषु सर्वधा असि॥ ९.०१८.०६

स शुष्मी कलशेष्वा पुनानो अचिक्रदत्।

मदेषु सर्वधा असि॥ ९.०१८.०७

 

यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु।

तन्नः पुनान आ भर॥ ९.०१९.०१

युवं हि स्थः स्वर्पती इन्द्रश्च सोम गोपती।

ईशाना पिप्यतं धियः॥ ९.०१९.०२

वृषा पुनान आयुषु स्तनयन्नधि बर्हिषि।

हरिः सन्योनिमासदत्॥ ९.०१९.०३

अवावशन्त धीतयो वृषभस्याधि रेतसि।

सूनोर्वत्सस्य मातरः॥ ९.०१९.०४

कुविद्वृषण्यन्तीभ्यः पुनानो गर्भमादधत्।

याः शुक्रं दुहते पयः॥ ९.०१९.०५

उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु।

पवमान विदा रयिम्॥ ९.०१९.०६

नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस्तिर।

दूरे वा सतो अन्ति वा॥ ९.०१९.०७

 

प्र कविर्देववीतयेऽव्यो वारेभिरर्षति।

साह्वान्विश्वा अभि स्पृधः॥ ९.०२०.०१

स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति।

पवमानः सहस्रिणम्॥ ९.०२०.०२

परि विश्वानि चेतसा मृशसे पवसे मती।

स नः सोम श्रवो विदः॥ ९.०२०.०३

अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम्।

इषं स्तोतृभ्य आ भर॥ ९.०२०.०४

त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ।

पुनानो वह्ने अद्भुत॥ ९.०२०.०५

स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः।

सोमश्चमूषु सीदति॥ ९.०२०.०६

क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि।

दधत्स्तोत्रे सुवीर्यम्॥ ९.०२०.०७

 

एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः।

मत्सरासः स्वर्विदः॥ ९.०२१.०१

प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः।

स्वयं स्तोत्रे वयस्कृतः॥ ९.०२१.०२

वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित्।

सिन्धोरूर्मा व्यक्षरन्॥ ९.०२१.०३

एते विश्वानि वार्या पवमानास आशत।

हिता न सप्तयो रथे॥ ९.०२१.०४

आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे।

यो अस्मभ्यमरावा॥ ९.०२१.०५

ऋभुर्न रथ्यं नवं दधाता केतमादिशे।

शुक्राः पवध्वमर्णसा॥ ९.०२१.०६

एत उ त्ये अवीवशन्काष्ठां वाजिनो अक्रत।

सतः प्रासाविषुर्मतिम्॥ ९.०२१.०७

 

एते सोमास आशवो रथा इव प्र वाजिनः।

सर्गाः सृष्टा अहेषत॥ ९.०२२.०१

एते वाता इवोरवः पर्जन्यस्येव वृष्टयः।

अग्नेरिव भ्रमा वृथा॥ ९.०२२.०२

एते पूता विपश्चितः सोमासो दध्याशिरः।

विपा व्यानशुर्धियः॥ ९.०२२.०३

एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः।

इयक्षन्तः पथो रजः॥ ९.०२२.०४

एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः।

उतेदमुत्तमं रजः॥ ९.०२२.०५

तन्तुं तन्वानमुत्तममनु प्रवत आशत।

उतेदमुत्तमाय्यम्॥ ९.०२२.०६

त्वं सोम पणिभ्य आ वसु गव्यानि धारयः।

ततं तन्तुमचिक्रदः॥ ९.०२२.०७

 

सोमा असृग्रमाशवो मधोर्मदस्य धारया।

अभि विश्वानि काव्या॥ ९.०२३.०१

अनु प्रत्नास आयवः पदं नवीयो अक्रमुः।

रुचे जनन्त सूर्यम्॥ ९.०२३.०२

आ पवमान नो भरार्यो अदाशुषो गयम्।

कृधि प्रजावतीरिषः॥ ९.०२३.०३

अभि सोमास आयवः पवन्ते मद्यं मदम्।

अभि कोशं मधुश्चुतम्॥ ९.०२३.०४

सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम्।

सुवीरो अभिशस्तिपाः॥ ९.०२३.०५

इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः।

इन्दो वाजं सिषाससि॥ ९.०२३.०६

अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति।

जघान जघनच्च नु॥ ९.०२३.०७

 

प्र सोमासो अधन्विषुः पवमानास इन्दवः।

श्रीणाना अप्सु मृञ्जत॥ ९.०२४.०१

अभि गावो अधन्विषुरापो न प्रवता यतीः।

पुनाना इन्द्रमाशत॥ ९.०२४.०२

प्र पवमान धन्वसि सोमेन्द्राय पातवे।

नृभिर्यतो वि नीयसे॥ ९.०२४.०३

त्वं सोम नृमादनः पवस्व चर्षणीसहे।

सस्निर्यो अनुमाद्यः॥ ९.०२४.०४

इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि।

अरमिन्द्रस्य धाम्ने॥ ९.०२४.०५

पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः।

शुचिः पावको अद्भुतः॥ ९.०२४.०६

शुचिः पावक उच्यते सोमः सुतस्य मध्वः।

देवावीरघशंसहा॥ ९.०२४.०७

 

पवस्व दक्षसाधनो देवेभ्यः पीतये हरे।

मरुद्भ्यो वायवे मदः॥ ९.०२५.०१

पवमान धिया हितोऽभि योनिं कनिक्रदत्।

धर्मणा वायुमा विश॥ ९.०२५.०२

सं देवैः शोभते वृषा कविर्योनावधि प्रियः।

वृत्रहा देववीतमः॥ ९.०२५.०३

विश्वा रूपाण्याविशन्पुनानो याति हर्यतः।

यत्रामृतास आसते॥ ९.०२५.०४

अरुषो जनयन्गिरः सोमः पवत आयुषक्।

इन्द्रं गच्छन्कविक्रतुः॥ ९.०२५.०५

आ पवस्व मदिन्तम पवित्रं धारया कवे।

अर्कस्य योनिमासदम्॥ ९.०२५.०६

 

तममृक्षन्त वाजिनमुपस्थे अदितेरधि।

विप्रासो अण्व्या धिया॥ ९.०२६.०१

तं गावो अभ्यनूषत सहस्रधारमक्षितम्।

इन्दुं धर्तारमा दिवः॥ ९.०२६.०२

तं वेधां मेधयाह्यन्पवमानमधि द्यवि।

धर्णसिं भूरिधायसम्॥ ९.०२६.०३

तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः।

पतिं वाचो अदाभ्यम्॥ ९.०२६.०४

तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः।

हर्यतं भूरिचक्षसम्॥ ९.०२६.०५

तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम्।

इन्दविन्द्राय मत्सरम्॥ ९.०२६.०६

 

एष कविरभिष्टुतः पवित्रे अधि तोशते।

पुनानो घ्नन्नप स्रिधः॥ ९.०२७.०१

एष इन्द्राय वायवे स्वर्जित्परि षिच्यते।

पवित्रे दक्षसाधनः॥ ९.०२७.०२

एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः।

सोमो वनेषु विश्ववित्॥ ९.०२७.०३

एष गव्युरचिक्रदत्पवमानो हिरण्ययुः।

इन्दुः सत्राजिदस्तृतः॥ ९.०२७.०४

एष सूर्येण हासते पवमानो अधि द्यवि।

पवित्रे मत्सरो मदः॥ ९.०२७.०५

एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः।

पुनान इन्दुरिन्द्रमा॥ ९.०२७.०६

 

एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः।

अव्यो वारं वि धावति॥ ९.०२८.०१

एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः।

विश्वा धामान्याविशन्॥ ९.०२८.०२

एष देवः शुभायतेऽधि योनावमर्त्यः।

वृत्रहा देववीतमः॥ ९.०२८.०३

एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः।

अभि द्रोणानि धावति॥ ९.०२८.०४

एष सूर्यमरोचयत्पवमानो विचर्षणिः।

विश्वा धामानि विश्ववित्॥ ९.०२८.०५

एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति।

देवावीरघशंसहा॥ ९.०२८.०६

 

प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा।

देवाँ अनु प्रभूषतः॥ ९.०२९.०१

सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा।

ज्योतिर्जज्ञानमुक्थ्यम्॥ ९.०२९.०२

सुषहा सोम तानि ते पुनानाय प्रभूवसो।

वर्धा समुद्रमुक्थ्यम्॥ ९.०२९.०३

विश्वा वसूनि संजयन्पवस्व सोम धारया।

इनु द्वेषांसि सध्र्यक्॥ ९.०२९.०४

रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित्।

निदो यत्र मुमुच्महे॥ ९.०२९.०५

एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया।

द्युमन्तं शुष्ममा भर॥ ९.०२९.०६

 

प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन्।

पुनानो वाचमिष्यति॥ ९.०३०.०१

इन्दुर्हियानः सोतृभिर्मृज्यमानः कनिक्रदत्।

इयर्ति वग्नुमिन्द्रियम्॥ ९.०३०.०२

आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम्।

पवस्व सोम धारया॥ ९.०३०.०३

प्र सोमो अति धारया पवमानो असिष्यदत्।

अभि द्रोणान्यासदम्॥ ९.०३०.०४

अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः।

इन्दविन्द्राय पीतये॥ ९.०३०.०५

सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे।

चारुं शर्धाय मत्सरम्॥ ९.०३०.०६

 

प्र सोमासः स्वाध्यः पवमानासो अक्रमुः।

रयिं कृण्वन्ति चेतनम्॥ ९.०३१.०१

दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः।

भवा वाजानां पतिः॥ ९.०३१.०२

तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः।

सोम वर्धन्ति ते महः॥ ९.०३१.०३

आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्।

भवा वाजस्य संगथे॥ ९.०३१.०४

तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम्।

वर्षिष्ठे अधि सानवि॥ ९.०३१.०५

स्वायुधस्य ते सतो भुवनस्य पते वयम्।

इन्दो सखित्वमुश्मसि॥ ९.०३१.०६

 

प्र सोमासो मदच्युतः श्रवसे नो मघोनः।

सुता विदथे अक्रमुः॥ ९.०३२.०१

आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः।

इन्दुमिन्द्राय पीतये॥ ९.०३२.०२

आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम्।

अत्यो न गोभिरज्यते॥ ९.०३२.०३

उभे सोमावचाकशन्मृगो न तक्तो अर्षसि।

सीदन्नृतस्य योनिमा॥ ९.०३२.०४

अभि गावो अनूषत योषा जारमिव प्रियम्।

अगन्नाजिं यथा हितम्॥ ९.०३२.०५

अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च।

सनिं मेधामुत श्रवः॥ ९.०३२.०६

 

प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः।

वनानि महिषा इव॥ ९.०३३.०१

अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया।

वाजं गोमन्तमक्षरन्॥ ९.०३३.०२

सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः।

सोमा अर्षन्ति विष्णवे॥ ९.०३३.०३

तिस्रो वाच उदीरते गावो मिमन्ति धेनवः।

हरिरेति कनिक्रदत्॥ ९.०३३.०४

अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः।

मर्मृज्यन्ते दिवः शिशुम्॥ ९.०३३.०५

रायः समुद्राँश्चतुरोऽस्मभ्यं सोम विश्वतः।

आ पवस्व सहस्रिणः॥ ९.०३३.०६

 

प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति।

रुजद्दृळ्हा व्योजसा॥ ९.०३४.०१

सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः।

सोमो अर्षति विष्णवे॥ ९.०३४.०२

वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः।

दुहन्ति शक्मना पयः॥ ९.०३४.०३

भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः।

सं रूपैरज्यते हरिः॥ ९.०३४.०४

अभीमृतस्य विष्टपं दुहते पृश्निमातरः।

चारु प्रियतमं हविः॥ ९.०३४.०५

समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः।

धेनूर्वाश्रो अवीवशत्॥ ९.०३४.०६

 

आ नः पवस्व धारया पवमान रयिं पृथुम्।

यया ज्योतिर्विदासि नः॥ ९.०३५.०१

इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय।

रायो धर्ता न ओजसा॥ ९.०३५.०२

त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः।

क्षरा णो अभि वार्यम्॥ ९.०३५.०३

प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ऋषिः।

व्रता विदान आयुधा॥ ९.०३५.०४

तं गीर्भिर्वाचमीङ्खयं पुनानं वासयामसि।

सोमं जनस्य गोपतिम्॥ ९.०३५.०५

विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः।

पुनानस्य प्रभूवसोः॥ ९.०३५.०६

 

असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः।

कार्ष्मन्वाजी न्यक्रमीत्॥ ९.०३६.०१

स वह्निः सोम जागृविः पवस्व देववीरति।

अभि कोशं मधुश्चुतम्॥ ९.०३६.०२

स नो ज्योतींषि पूर्व्य पवमान वि रोचय।

क्रत्वे दक्षाय नो हिनु॥ ९.०३६.०३

शुम्भमान ऋतायुभिर्मृज्यमानो गभस्त्योः।

पवते वारे अव्यये॥ ९.०३६.०४

स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा।

पवतामान्तरिक्ष्या॥ ९.०३६.०५

आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि।

वीरयुः शवसस्पते॥ ९.०३६.०६

 

स सुतः पीतये वृषा सोमः पवित्रे अर्षति।

विघ्नन्रक्षांसि देवयुः॥ ९.०३७.०१

स पवित्रे विचक्षणो हरिरर्षति धर्णसिः।

अभि योनिं कनिक्रदत्॥ ९.०३७.०२

स वाजी रोचना दिवः पवमानो वि धावति।

रक्षोहा वारमव्ययम्॥ ९.०३७.०३

स त्रितस्याधि सानवि पवमानो अरोचयत्।

जामिभिः सूर्यं सह॥ ९.०३७.०४

स वृत्रहा वृषा सुतो वरिवोविददाभ्यः।

सोमो वाजमिवासरत्॥ ९.०३७.०५

स देवः कविनेषितोऽभि द्रोणानि धावति।

इन्दुरिन्द्राय मंहना॥ ९.०३७.०६

 

एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति।

गच्छन्वाजं सहस्रिणम्॥ ९.०३८.०१

एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः।

इन्दुमिन्द्राय पीतये॥ ९.०३८.०२

एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः।

याभिर्मदाय शुम्भते॥ ९.०३८.०३

एष स्य मानुषीष्वा श्येनो न विक्षु सीदति।

गच्छञ्जारो न योषितम्॥ ९.०३८.०४

एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः।

य इन्दुर्वारमाविशत्॥ ९.०३८.०५

एष स्य पीतये सुतो हरिरर्षति धर्णसिः।

क्रन्दन्योनिमभि प्रियम्॥ ९.०३८.०६

 

आशुरर्ष बृहन्मते परि प्रियेण धाम्ना।

यत्र देवा इति ब्रवन्॥ ९.०३९.०१

परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः।

वृष्टिं दिवः परि स्रव॥ ९.०३९.०२

सुत एति पवित्र आ त्विषिं दधान ओजसा।

विचक्षाणो विरोचयन्॥ ९.०३९.०३

अयं स यो दिवस्परि रघुयामा पवित्र आ।

सिन्धोरूर्मा व्यक्षरत्॥ ९.०३९.०४

आविवासन्परावतो अथो अर्वावतः सुतः।

इन्द्राय सिच्यते मधु॥ ९.०३९.०५

समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः।

योनावृतस्य सीदत॥ ९.०३९.०६

 

पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः।

शुम्भन्ति विप्रं धीतिभिः॥ ९.०४०.०१

आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः।

ध्रुवे सदसि सीदति॥ ९.०४०.०२

नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः।

आ पवस्व सहस्रिणम्॥ ९.०४०.०३

विश्वा सोम पवमान द्युम्नानीन्दवा भर।

विदाः सहस्रिणीरिषः॥ ९.०४०.०४

स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम्।

जरितुर्वर्धया गिरः॥ ९.०४०.०५

पुनान इन्दवा भर सोम द्विबर्हसं रयिम्।

वृषन्निन्दो न उक्थ्यम्॥ ९.०४०.०६

 

प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः।

घ्नन्तः कृष्णामप त्वचम्॥ ९.०४१.०१

सुवितस्य मनामहेऽति सेतुं दुराव्यम्।

साह्वांसो दस्युमव्रतम्॥ ९.०४१.०२

शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः।

चरन्ति विद्युतो दिवि॥ ९.०४१.०३

आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत्।

अश्वावद्वाजवत्सुतः॥ ९.०४१.०४

स पवस्व विचर्षण आ मही रोदसी पृण।

उषाः सूर्यो न रश्मिभिः॥ ९.०४१.०५

परि णः शर्मयन्त्या धारया सोम विश्वतः।

सरा रसेव विष्टपम्॥ ९.०४१.०६

 

जनयन्रोचना दिवो जनयन्नप्सु सूर्यम्।

वसानो गा अपो हरिः॥ ९.०४२.०१

एष प्रत्नेन मन्मना देवो देवेभ्यस्परि।

धारया पवते सुतः॥ ९.०४२.०२

वावृधानाय तूर्वये पवन्ते वाजसातये।

सोमाः सहस्रपाजसः॥ ९.०४२.०३

दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते।

क्रन्दन्देवाँ अजीजनत्॥ ९.०४२.०४

अभि विश्वानि वार्याभि देवाँ ऋतावृधः।

सोमः पुनानो अर्षति॥ ९.०४२.०५

गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः।

पवस्व बृहतीरिषः॥ ९.०४२.०६

 

यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः।

तं गीर्भिर्वासयामसि॥ ९.०४३.०१

तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा।

इन्दुमिन्द्राय पीतये॥ ९.०४३.०२

पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः।

विप्रस्य मेध्यातिथेः॥ ९.०४३.०३

पवमान विदा रयिमस्मभ्यं सोम सुश्रियम्।

इन्दो सहस्रवर्चसम्॥ ९.०४३.०४

इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ।

यदक्षारति देवयुः॥ ९.०४३.०५

पवस्व वाजसातये विप्रस्य गृणतो वृधे।

सोम रास्व सुवीर्यम्॥ ९.०४३.०६

 

प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि।

अभि देवाँ अयास्यः॥ ९.०४४.०१

मती जुष्टो धिया हितः सोमो हिन्वे परावति।

विप्रस्य धारया कविः॥ ९.०४४.०२

अयं देवेषु जागृविः सुत एति पवित्र आ।

सोमो याति विचर्षणिः॥ ९.०४४.०३

स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम्।

बर्हिष्माँ आ विवासति॥ ९.०४४.०४

स नो भगाय वायवे विप्रवीरः सदावृधः।

सोमो देवेष्वा यमत्॥ ९.०४४.०५

स नो अद्य वसुत्तये क्रतुविद्गातुवित्तमः।

वाजं जेषि श्रवो बृहत्॥ ९.०४४.०६

 

स पवस्व मदाय कं नृचक्षा देववीतये।

इन्दविन्द्राय पीतये॥ ९.०४५.०१

स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे।

देवान्सखिभ्य आ वरम्॥ ९.०४५.०२

उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम्।

वि नो राये दुरो वृधि॥ ९.०४५.०३

अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि।

इन्दुर्देवेषु पत्यते॥ ९.०४५.०४

समी सखायो अस्वरन्वने क्रीळन्तमत्यविम्।

इन्दुं नावा अनूषत॥ ९.०४५.०५

तया पवस्व धारया यया पीतो विचक्षसे।

इन्दो स्तोत्रे सुवीर्यम्॥ ९.०४५.०६

 

असृग्रन्देववीतयेऽत्यासः कृत्व्या इव।

क्षरन्तः पर्वतावृधः॥ ९.०४६.०१

परिष्कृतास इन्दवो योषेव पित्र्यावती।

वायुं सोमा असृक्षत॥ ९.०४६.०२

एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः।

इन्द्रं वर्धन्ति कर्मभिः॥ ९.०४६.०३

आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना।

गोभिः श्रीणीत मत्सरम्॥ ९.०४६.०४

स पवस्व धनंजय प्रयन्ता राधसो महः।

अस्मभ्यं सोम गातुवित्॥ ९.०४६.०५

एतं मृजन्ति मर्ज्यं पवमानं दश क्षिपः।

इन्द्राय मत्सरं मदम्॥ ९.०४६.०६

 

अया सोमः सुकृत्यया महश्चिदभ्यवर्धत।

मन्दान उद्वृषायते॥ ९.०४७.०१

कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा।

ऋणा च धृष्णुश्चयते॥ ९.०४७.०२

आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत्।

उक्थं यदस्य जायते॥ ९.०४७.०३

स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति।

यदी मर्मृज्यते धियः॥ ९.०४७.०४

सिषासतू रयीणां वाजेष्वर्वतामिव।

भरेषु जिग्युषामसि॥ ९.०४७.०५

 

तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः।

चारुं सुकृत्ययेमहे॥ ९.०४८.०१

संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम्।

शतं पुरो रुरुक्षणिम्॥ ९.०४८.०२

अतस्त्वा रयिमभि राजानं सुक्रतो दिवः।

सुपर्णो अव्यथिर्भरत्॥ ९.०४८.०३

विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम्।

गोपामृतस्य विर्भरत्॥ ९.०४८.०४

अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे।

अभिष्टिकृद्विचर्षणिः॥ ९.०४८.०५

 

पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि।

अयक्ष्मा बृहतीरिषः॥ ९.०४९.०१

तया पवस्व धारया यया गाव इहागमन्।

जन्यास उप नो गृहम्॥ ९.०४९.०२

घृतं पवस्व धारया यज्ञेषु देववीतमः।

अस्मभ्यं वृष्टिमा पव॥ ९.०४९.०३

स न ऊर्जे व्यव्ययं पवित्रं धाव धारया।

देवासः शृणवन्हि कम्॥ ९.०४९.०४

पवमानो असिष्यदद्रक्षांस्यपजङ्घनत्।

प्रत्नवद्रोचयन्रुचः॥ ९.०४९.०५

 

उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः।

वाणस्य चोदया पविम्॥ ९.०५०.०१

प्रसवे त उदीरते तिस्रो वाचो मखस्युवः।

यदव्य एषि सानवि॥ ९.०५०.०२

अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः।

पवमानं मधुश्चुतम्॥ ९.०५०.०३

आ पवस्व मदिन्तम पवित्रं धारया कवे।

अर्कस्य योनिमासदम्॥ ९.०५०.०४

स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः।

इन्दविन्द्राय पीतये॥ ९.०५०.०५

 

अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज।

पुनीहीन्द्राय पातवे॥ ९.०५१.०१

दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे।

सुनोता मधुमत्तमम्॥ ९.०५१.०२

तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते।

पवमानस्य मरुतः॥ ९.०५१.०३

त्वं हि सोम वर्धयन्सुतो मदाय भूर्णये।

वृषन्स्तोतारमूतये॥ ९.०५१.०४

अभ्यर्ष विचक्षण पवित्रं धारया सुतः।

अभि वाजमुत श्रवः॥ ९.०५१.०५

 

परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा।

सुवानो अर्ष पवित्र आ॥ ९.०५२.०१

तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः।

सहस्रधारो यात्तना॥ ९.०५२.०२

चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय।

वधैर्वधस्नवीङ्खय॥ ९.०५२.०३

नि शुष्ममिन्दवेषां पुरुहूत जनानाम्।

यो अस्माँ आदिदेशति॥ ९.०५२.०४

शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम्।

पवस्व मंहयद्रयिः॥ ९.०५२.०५

 

उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः।

नुदस्व याः परिस्पृधः॥ ९.०५३.०१

अया निजघ्निरोजसा रथसंगे धने हिते।

स्तवा अबिभ्युषा हृदा॥ ९.०५३.०२

अस्य व्रतानि नाधृषे पवमानस्य दूढ्या।

रुज यस्त्वा पृतन्यति॥ ९.०५३.०३

तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम्।

इन्दुमिन्द्राय मत्सरम्॥ ९.०५३.०४

 

अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः।

पयः सहस्रसामृषिम्॥ ९.०५४.०१

अयं सूर्य इवोपदृगयं सरांसि धावति।

सप्त प्रवत आ दिवम्॥ ९.०५४.०२

अयं विश्वानि तिष्ठति पुनानो भुवनोपरि।

सोमो देवो न सूर्यः॥ ९.०५४.०३

परि णो देववीतये वाजाँ अर्षसि गोमतः।

पुनान इन्दविन्द्रयुः॥ ९.०५४.०४

 

यवंयवं नो अन्धसा पुष्टम्पुष्टं परि स्रव।

सोम विश्वा च सौभगा॥ ९.०५५.०१

इन्दो यथा तव स्तवो यथा ते जातमन्धसः।

नि बर्हिषि प्रिये सदः॥ ९.०५५.०२

उत नो गोविदश्ववित्पवस्व सोमान्धसा।

मक्षूतमेभिरहभिः॥ ९.०५५.०३

यो जिनाति न जीयते हन्ति शत्रुमभीत्य।

स पवस्व सहस्रजित्॥ ९.०५५.०४

 

परि सोम ऋतं बृहदाशुः पवित्रे अर्षति।

विघ्नन्रक्षांसि देवयुः॥ ९.०५६.०१

यत्सोमो वाजमर्षति शतं धारा अपस्युवः।

इन्द्रस्य सख्यमाविशन्॥ ९.०५६.०२

अभि त्वा योषणो दश जारं न कन्यानूषत।

मृज्यसे सोम सातये॥ ९.०५६.०३

त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव।

नॄन्स्तोतॄन्पाह्यंहसः॥ ९.०५६.०४

 

प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः।

अच्छा वाजं सहस्रिणम्॥ ९.०५७.०१

अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति।

हरिस्तुञ्जान आयुधा॥ ९.०५७.०२

स मर्मृजान आयुभिरिभो राजेव सुव्रतः।

श्येनो न वंसु षीदति॥ ९.०५७.०३

स नो विश्वा दिवो वसूतो पृथिव्या अधि।

पुनान इन्दवा भर॥ ९.०५७.०४

 

तरत्स मन्दी धावति धारा सुतस्यान्धसः।

तरत्स मन्दी धावति॥ ९.०५८.०१

उस्रा वेद वसूनां मर्तस्य देव्यवसः।

तरत्स मन्दी धावति॥ ९.०५८.०२

ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे।

तरत्स मन्दी धावति॥ ९.०५८.०३

आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे।

तरत्स मन्दी धावति॥ ९.०५८.०४

 

पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित्।

प्रजावद्रत्नमा भर॥ ९.०५९.०१

पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः।

पवस्व धिषणाभ्यः॥ ९.०५९.०२

त्वं सोम पवमानो विश्वानि दुरिता तर।

कविः सीद नि बर्हिषि॥ ९.०५९.०३

पवमान स्वर्विदो जायमानोऽभवो महान्।

इन्दो विश्वाँ अभीदसि॥ ९.०५९.०४

 

प्र गायत्रेण गायत पवमानं विचर्षणिम्।

इन्दुं सहस्रचक्षसम्॥ ९.०६०.०१

तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम्।

अति वारमपाविषुः॥ ९.०६०.०२

अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति।

इन्द्रस्य हार्द्याविशन्॥ ९.०६०.०३

इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे।

प्रजावद्रेत आ भर॥ ९.०६०.०४

 

अया वीती परि स्रव यस्त इन्दो मदेष्वा।

अवाहन्नवतीर्नव॥ ९.०६१.०१

पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम्।

अध त्यं तुर्वशं यदुम्॥ ९.०६१.०२

परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत्।

क्षरा सहस्रिणीरिषः॥ ९.०६१.०३

पवमानस्य ते वयं पवित्रमभ्युन्दतः।

सखित्वमा वृणीमहे॥ ९.०६१.०४

ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया।

तेभिर्नः सोम मृळय॥ ९.०६१.०५

स नः पुनान आ भर रयिं वीरवतीमिषम्।

ईशानः सोम विश्वतः॥ ९.०६१.०६

एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम्।

समादित्येभिरख्यत॥ ९.०६१.०७

समिन्द्रेणोत वायुना सुत एति पवित्र आ।

सं सूर्यस्य रश्मिभिः॥ ९.०६१.०८

स नो भगाय वायवे पूष्णे पवस्व मधुमान्।

चारुर्मित्रे वरुणे च॥ ९.०६१.०९

उच्चा ते जातमन्धसो दिवि षद्भूम्या ददे।

उग्रं शर्म महि श्रवः॥ ९.०६१.१०

एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम्।

सिषासन्तो वनामहे॥ ९.०६१.११

स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः।

वरिवोवित्परि स्रव॥ ९.०६१.१२

उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम्।

इन्दुं देवा अयासिषुः॥ ९.०६१.१३

तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव।

य इन्द्रस्य हृदंसनिः॥ ९.०६१.१४

अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम्।

वर्धा समुद्रमुक्थ्यम्॥ ९.०६१.१५

पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम्।

ज्योतिर्वैश्वानरं बृहत्॥ ९.०६१.१६

पवमानस्य ते रसो मदो राजन्नदुच्छुनः।

वि वारमव्यमर्षति॥ ९.०६१.१७

पवमान रसस्तव दक्षो वि राजति द्युमान्।

ज्योतिर्विश्वं स्वर्दृशे॥ ९.०६१.१८

यस्ते मदो वरेण्यस्तेना पवस्वान्धसा।

देवावीरघशंसहा॥ ९.०६१.१९

जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे।

गोषा उ अश्वसा असि॥ ९.०६१.२०

सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः।

सीदञ्छ्येनो न योनिमा॥ ९.०६१.२१

स पवस्व य आविथेन्द्रं वृत्राय हन्तवे।

वव्रिवांसं महीरपः॥ ९.०६१.२२

सुवीरासो वयं धना जयेम सोम मीढ्वः।

पुनानो वर्ध नो गिरः॥ ९.०६१.२३

त्वोतासस्तवावसा स्याम वन्वन्त आमुरः।

सोम व्रतेषु जागृहि॥ ९.०६१.२४

अपघ्नन्पवते मृधोऽप सोमो अराव्णः।

गच्छन्निन्द्रस्य निष्कृतम्॥ ९.०६१.२५

महो नो राय आ भर पवमान जही मृधः।

रास्वेन्दो वीरवद्यशः॥ ९.०६१.२६

न त्वा शतं चन ह्रुतो राधो दित्सन्तमा मिनन्।

यत्पुनानो मखस्यसे॥ ९.०६१.२७

पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने।

विश्वा अप द्विषो जहि॥ ९.०६१.२८

अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे।

सासह्याम पृतन्यतः॥ ९.०६१.२९

या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे।

रक्षा समस्य नो निदः॥ ९.०६१.३०

 

एते असृग्रमिन्दवस्तिरः पवित्रमाशवः।

विश्वान्यभि सौभगा॥ ९.०६२.०१

विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः।

तना कृण्वन्तो अर्वते॥ ९.०६२.०२

कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम्।

इळामस्मभ्यं संयतम्॥ ९.०६२.०३

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः।

श्येनो न योनिमासदत्॥ ९.०६२.०४

शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः।

स्वदन्ति गावः पयोभिः॥ ९.०६२.०५

आदीमश्वं न हेतारोऽशूशुभन्नमृताय।

मध्वो रसं सधमादे॥ ९.०६२.०६

यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये।

ताभिः पवित्रमासदः॥ ९.०६२.०७

सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया।

सीदन्योना वनेष्वा॥ ९.०६२.०८

त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः।

वरिवोविद्घृतं पयः॥ ९.०६२.०९

अयं विचर्षणिर्हितः पवमानः स चेतति।

हिन्वान आप्यं बृहत्॥ ९.०६२.१०

एष वृषा वृषव्रतः पवमानो अशस्तिहा।

करद्वसूनि दाशुषे॥ ९.०६२.११

आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम्।

पुरुश्चन्द्रं पुरुस्पृहम्॥ ९.०६२.१२

एष स्य परि षिच्यते मर्मृज्यमान आयुभिः।

उरुगायः कविक्रतुः॥ ९.०६२.१३

सहस्रोतिः शतामघो विमानो रजसः कविः।

इन्द्राय पवते मदः॥ ९.०६२.१४

गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते।

विर्योना वसताविव॥ ९.०६२.१५

पवमानः सुतो नृभिः सोमो वाजमिवासरत्।

चमूषु शक्मनासदम्॥ ९.०६२.१६

तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे।

ऋषीणां सप्त धीतिभिः॥ ९.०६२.१७

तं सोतारो धनस्पृतमाशुं वाजाय यातवे।

हरिं हिनोत वाजिनम्॥ ९.०६२.१८

आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः।

शूरो न गोषु तिष्ठति॥ ९.०६२.१९

आ त इन्दो मदाय कं पयो दुहन्त्यायवः।

देवा देवेभ्यो मधु॥ ९.०६२.२०

आ नः सोमं पवित्र आ सृजता मधुमत्तमम्।

देवेभ्यो देवश्रुत्तमम्॥ ९.०६२.२१

एते सोमा असृक्षत गृणानाः श्रवसे महे।

मदिन्तमस्य धारया॥ ९.०६२.२२

अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि।

सनद्वाजः परि स्रव॥ ९.०६२.२३

उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः।

गृणानो जमदग्निना॥ ९.०६२.२४

पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः।

अभि विश्वानि काव्या॥ ९.०६२.२५

त्वं समुद्रिया अपोऽग्रियो वाच ईरयन्।

पवस्व विश्वमेजय॥ ९.०६२.२६

तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे।

तुभ्यमर्षन्ति सिन्धवः॥ ९.०६२.२७

प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः।

अभि शुक्रामुपस्तिरम्॥ ९.०६२.२८

इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम्।

ईशानं वीतिराधसम्॥ ९.०६२.२९

पवमान ऋतः कविः सोमः पवित्रमासदत्।

दधत्स्तोत्रे सुवीर्यम्॥ ९.०६२.३०

 

आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम्।

अस्मे श्रवांसि धारय॥ ९.०६३.०१

इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः।

चमूष्वा नि षीदसि॥ ९.०६३.०२

सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत्।

मधुमाँ अस्तु वायवे॥ ९.०६३.०३

एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः।

सोमा ऋतस्य धारया॥ ९.०६३.०४

इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम्।

अपघ्नन्तो अराव्णः॥ ९.०६३.०५

सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः।

इन्द्रं गच्छन्त इन्दवः॥ ९.०६३.०६

अया पवस्व धारया यया सूर्यमरोचयः।

हिन्वानो मानुषीरपः॥ ९.०६३.०७

अयुक्त सूर एतशं पवमानो मनावधि।

अन्तरिक्षेण यातवे॥ ९.०६३.०८

उत त्या हरितो दश सूरो अयुक्त यातवे।

इन्दुरिन्द्र इति ब्रुवन्॥ ९.०६३.०९

परीतो वायवे सुतं गिर इन्द्राय मत्सरम्।

अव्यो वारेषु सिञ्चत॥ ९.०६३.१०

पवमान विदा रयिमस्मभ्यं सोम दुष्टरम्।

यो दूणाशो वनुष्यता॥ ९.०६३.११

अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम्।

अभि वाजमुत श्रवः॥ ९.०६३.१२

सोमो देवो न सूर्योऽद्रिभिः पवते सुतः।

दधानः कलशे रसम्॥ ९.०६३.१३

एते धामान्यार्या शुक्रा ऋतस्य धारया।

वाजं गोमन्तमक्षरन्॥ ९.०६३.१४

सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः।

पवित्रमत्यक्षरन्॥ ९.०६३.१५

प्र सोम मधुमत्तमो राये अर्ष पवित्र आ।

मदो यो देववीतमः॥ ९.०६३.१६

तमी मृजन्त्यायवो हरिं नदीषु वाजिनम्।

इन्दुमिन्द्राय मत्सरम्॥ ९.०६३.१७

आ पवस्व हिरण्यवदश्वावत्सोम वीरवत्।

वाजं गोमन्तमा भर॥ ९.०६३.१८

परि वाजे न वाजयुमव्यो वारेषु सिञ्चत।

इन्द्राय मधुमत्तमम्॥ ९.०६३.१९

कविं मृजन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः।

वृषा कनिक्रदर्षति॥ ९.०६३.२०

वृषणं धीभिरप्तुरं सोममृतस्य धारया।

मती विप्राः समस्वरन्॥ ९.०६३.२१

पवस्व देवायुषगिन्द्रं गच्छतु ते मदः।

वायुमा रोह धर्मणा॥ ९.०६३.२२

पवमान नि तोशसे रयिं सोम श्रवाय्यम्।

प्रियः समुद्रमा विश॥ ९.०६३.२३

अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः।

नुदस्वादेवयुं जनम्॥ ९.०६३.२४

पवमाना असृक्षत सोमाः शुक्रास इन्दवः।

अभि विश्वानि काव्या॥ ९.०६३.२५

पवमानास आशवः शुभ्रा असृग्रमिन्दवः।

घ्नन्तो विश्वा अप द्विषः॥ ९.०६३.२६

पवमाना दिवस्पर्यन्तरिक्षादसृक्षत।

पृथिव्या अधि सानवि॥ ९.०६३.२७

पुनानः सोम धारयेन्दो विश्वा अप स्रिधः।

जहि रक्षांसि सुक्रतो॥ ९.०६३.२८

अपघ्नन्सोम रक्षसोऽभ्यर्ष कनिक्रदत्।

द्युमन्तं शुष्ममुत्तमम्॥ ९.०६३.२९

अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा।

इन्दो विश्वानि वार्या॥ ९.०६३.३०

 

वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः।

वृषा धर्माणि दधिषे॥ ९.०६४.०१

वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः।

सत्यं वृषन्वृषेदसि॥ ९.०६४.०२

अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः।

वि नो राये दुरो वृधि॥ ९.०६४.०३

असृक्षत प्र वाजिनो गव्या सोमासो अश्वया।

शुक्रासो वीरयाशवः॥ ९.०६४.०४

शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः।

पवन्ते वारे अव्यये॥ ९.०६४.०५

ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा।

पवन्तामान्तरिक्ष्या॥ ९.०६४.०६

पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत।

सूर्यस्येव न रश्मयः॥ ९.०६४.०७

केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि।

समुद्रः सोम पिन्वसे॥ ९.०६४.०८

हिन्वानो वाचमिष्यसि पवमान विधर्मणि।

अक्रान्देवो न सूर्यः॥ ९.०६४.०९

इन्दुः पविष्ट चेतनः प्रियः कवीनां मती।

सृजदश्वं रथीरिव॥ ९.०६४.१०

ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत्।

सीदन्नृतस्य योनिमा॥ ९.०६४.११

स नो अर्ष पवित्र आ मदो यो देववीतमः।

इन्दविन्द्राय पीतये॥ ९.०६४.१२

इषे पवस्व धारया मृज्यमानो मनीषिभिः।

इन्दो रुचाभि गा इहि॥ ९.०६४.१३

पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः।

हरे सृजान आशिरम्॥ ९.०६४.१४

पुनानो देववीतय इन्द्रस्य याहि निष्कृतम्।

द्युतानो वाजिभिर्यतः॥ ९.०६४.१५

प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः।

धिया जूता असृक्षत॥ ९.०६४.१६

मर्मृजानास आयवो वृथा समुद्रमिन्दवः।

अग्मन्नृतस्य योनिमा॥ ९.०६४.१७

परि णो याह्यस्मयुर्विश्वा वसून्योजसा।

पाहि नः शर्म वीरवत्॥ ९.०६४.१८

मिमाति वह्निरेतशः पदं युजान ऋक्वभिः।

प्र यत्समुद्र आहितः॥ ९.०६४.१९

आ यद्योनिं हिरण्ययमाशुरृतस्य सीदति।

जहात्यप्रचेतसः॥ ९.०६४.२०

अभि वेना अनूषतेयक्षन्ति प्रचेतसः।

मज्जन्त्यविचेतसः॥ ९.०६४.२१

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः।

ऋतस्य योनिमासदम्॥ ९.०६४.२२

तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः।

सं त्वा मृजन्त्यायवः॥ ९.०६४.२३

रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे।

पवमानस्य मरुतः॥ ९.०६४.२४

त्वं सोम विपश्चितं पुनानो वाचमिष्यसि।

इन्दो सहस्रभर्णसम्॥ ९.०६४.२५

उतो सहस्रभर्णसं वाचं सोम मखस्युवम्।

पुनान इन्दवा भर॥ ९.०६४.२६

पुनान इन्दवेषां पुरुहूत जनानाम्।

प्रियः समुद्रमा विश॥ ९.०६४.२७

दविद्युतत्या रुचा परिष्टोभन्त्या कृपा।

सोमाः शुक्रा गवाशिरः॥ ९.०६४.२८

हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत्।

सीदन्तो वनुषो यथा॥ ९.०६४.२९

ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः।

पवस्व सूर्यो दृशे॥ ९.०६४.३०

 

हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम्।

महामिन्दुं महीयुवः॥ ९.०६५.०१

पवमान रुचारुचा देवो देवेभ्यस्परि।

विश्वा वसून्या विश॥ ९.०६५.०२

आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः।

इषे पवस्व संयतम्॥ ९.०६५.०३

वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे।

पवमान स्वाध्यः॥ ९.०६५.०४

आ पवस्व सुवीर्यं मन्दमानः स्वायुध।

इहो ष्विन्दवा गहि॥ ९.०६५.०५

यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः।

द्रुणा सधस्थमश्नुषे॥ ९.०६५.०६

प्र सोमाय व्यश्ववत्पवमानाय गायत।

महे सहस्रचक्षसे॥ ९.०६५.०७

यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः।

इन्दुमिन्द्राय पीतये॥ ९.०६५.०८

तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः।

सखित्वमा वृणीमहे॥ ९.०६५.०९

वृषा पवस्व धारया मरुत्वते च मत्सरः।

विश्वा दधान ओजसा॥ ९.०६५.१०

तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम्।

हिन्वे वाजेषु वाजिनम्॥ ९.०६५.११

अया चित्तो विपानया हरिः पवस्व धारया।

युजं वाजेषु चोदय॥ ९.०६५.१२

आ न इन्दो महीमिषं पवस्व विश्वदर्शतः।

अस्मभ्यं सोम गातुवित्॥ ९.०६५.१३

आ कलशा अनूषतेन्दो धाराभिरोजसा।

एन्द्रस्य पीतये विश॥ ९.०६५.१४

यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः।

स पवस्वाभिमातिहा॥ ९.०६५.१५

राजा मेधाभिरीयते पवमानो मनावधि।

अन्तरिक्षेण यातवे॥ ९.०६५.१६

आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम्।

वहा भगत्तिमूतये॥ ९.०६५.१७

आ नः सोम सहो जुवो रूपं न वर्चसे भर।

सुष्वाणो देववीतये॥ ९.०६५.१८

अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत्।

सीदञ्छ्येनो न योनिमा॥ ९.०६५.१९

अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः।

सोमो अर्षति विष्णवे॥ ९.०६५.२०

इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः।

आ पवस्व सहस्रिणम्॥ ९.०६५.२१

ये सोमासः परावति ये अर्वावति सुन्विरे।

ये वादः शर्यणावति॥ ९.०६५.२२

य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम्।

ये वा जनेषु पञ्चसु॥ ९.०६५.२३

ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम्।

सुवाना देवास इन्दवः॥ ९.०६५.२४

पवते हर्यतो हरिर्गृणानो जमदग्निना।

हिन्वानो गोरधि त्वचि॥ ९.०६५.२५

प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः।

श्रीणाना अप्सु मृञ्जत॥ ९.०६५.२६

तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये।

स पवस्वानया रुचा॥ ९.०६५.२७

आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे।

पान्तमा पुरुस्पृहम्॥ ९.०६५.२८

आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम्।

पान्तमा पुरुस्पृहम्॥ ९.०६५.२९

आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा।

पान्तमा पुरुस्पृहम्॥ ९.०६५.३०

 

पवस्व विश्वचर्षणेऽभि विश्वानि काव्या।

सखा सखिभ्य ईड्यः॥ ९.०६६.०१

ताभ्यां विश्वस्य राजसि ये पवमान धामनी।

प्रतीची सोम तस्थतुः॥ ९.०६६.०२

परि धामानि यानि ते त्वं सोमासि विश्वतः।

पवमान ऋतुभिः कवे॥ ९.०६६.०३

पवस्व जनयन्निषोऽभि विश्वानि वार्या।

सखा सखिभ्य ऊतये॥ ९.०६६.०४

तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते।

पवित्रं सोम धामभिः॥ ९.०६६.०५

तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते।

तुभ्यं धावन्ति धेनवः॥ ९.०६६.०६

प्र सोम याहि धारया सुत इन्द्राय मत्सरः।

दधानो अक्षिति श्रवः॥ ९.०६६.०७

समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः।

विप्रमाजा विवस्वतः॥ ९.०६६.०८

मृजन्ति त्वा समग्रुवोऽव्ये जीरावधि ष्वणि।

रेभो यदज्यसे वने॥ ९.०६६.०९

पवमानस्य ते कवे वाजिन्सर्गा असृक्षत।

अर्वन्तो न श्रवस्यवः॥ ९.०६६.१०

अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये।

अवावशन्त धीतयः॥ ९.०६६.११

अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः।

अग्मन्नृतस्य योनिमा॥ ९.०६६.१२

प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः।

यद्गोभिर्वासयिष्यसे॥ ९.०६६.१३

अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः।

इन्दो सखित्वमुश्मसि॥ ९.०६६.१४

आ पवस्व गविष्टये महे सोम नृचक्षसे।

एन्द्रस्य जठरे विश॥ ९.०६६.१५

महाँ असि सोम ज्येष्ठ उग्राणामिन्द ओजिष्ठः।

युध्वा सञ्छश्वज्जिगेथ॥ ९.०६६.१६

य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः।

भूरिदाभ्यश्चिन्मंहीयान्॥ ९.०६६.१७

त्वं सोम सूर एषस्तोकस्य साता तनूनाम्।

वृणीमहे सख्याय वृणीमहे युज्याय॥ ९.०६६.१८

अग्न आयूंषि पवस आ सुवोर्जमिषं च नः।

आरे बाधस्व दुच्छुनाम्॥ ९.०६६.१९

अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः।

तमीमहे महागयम्॥ ९.०६६.२०

अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्।

दधद्रयिं मयि पोषम्॥ ९.०६६.२१

पवमानो अति स्रिधोऽभ्यर्षति सुष्टुतिम्।

सूरो न विश्वदर्शतः॥ ९.०६६.२२

स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः।

इन्दुरत्यो विचक्षणः॥ ९.०६६.२३

पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत्।

कृष्णा तमांसि जङ्घनत्॥ ९.०६६.२४

पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत।

जीरा अजिरशोचिषः॥ ९.०६६.२५

पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः।

हरिश्चन्द्रो मरुद्गणः॥ ९.०६६.२६

पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः।

दधत्स्तोत्रे सुवीर्यम्॥ ९.०६६.२७

प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम्।

पुनान इन्दुरिन्द्रमा॥ ९.०६६.२८

एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः।

इन्द्रं मदाय जोहुवत्॥ ९.०६६.२९

यस्य ते द्युम्नवत्पयः पवमानाभृतं दिवः।

तेन नो मृळ जीवसे॥ ९.०६६.३०

 

त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे।

पवस्व मंहयद्रयिः॥ ९.०६७.०१

त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः।

इन्द्राय सूरिरन्धसा॥ ९.०६७.०२

त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत्।

द्युमन्तं शुष्ममुत्तमम्॥ ९.०६७.०३

इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया।

हरिर्वाजमचिक्रदत्॥ ९.०६७.०४

इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा।

वि वाजान्सोम गोमतः॥ ९.०६७.०५

आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम्।

भरा सोम सहस्रिणम्॥ ९.०६७.०६

पवमानास इन्दवस्तिरः पवित्रमाशवः।

इन्द्रं यामेभिराशत॥ ९.०६७.०७

ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः।

आयुः पवत आयवे॥ ९.०६७.०८

हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम्।

अभि गिरा समस्वरन्॥ ९.०६७.०९

अविता नो अजाश्वः पूषा यामनियामनि।

आ भक्षत्कन्यासु नः॥ ९.०६७.१०

अयं सोमः कपर्दिने घृतं न पवते मधु।

आ भक्षत्कन्यासु नः॥ ९.०६७.११

अयं त आघृणे सुतो घृतं न पवते शुचि।

आ भक्षत्कन्यासु नः॥ ९.०६७.१२

वाचो जन्तुः कवीनां पवस्व सोम धारया।

देवेषु रत्नधा असि॥ ९.०६७.१३

आ कलशेषु धावति श्येनो वर्म वि गाहते।

अभि द्रोणा कनिक्रदत्॥ ९.०६७.१४

परि प्र सोम ते रसोऽसर्जि कलशे सुतः।

श्येनो न तक्तो अर्षति॥ ९.०६७.१५

पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः॥ ९.०६७.१६

असृग्रन्देववीतये वाजयन्तो रथा इव॥ ९.०६७.१७

ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत॥ ९.०६७.१८

ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि।

दधत्स्तोत्रे सुवीर्यम्॥ ९.०६७.१९

एष तुन्नो अभिष्टुतः पवित्रमति गाहते।

रक्षोहा वारमव्ययम्॥ ९.०६७.२०

यदन्ति यच्च दूरके भयं विन्दति मामिह।

पवमान वि तज्जहि॥ ९.०६७.२१

पवमानः सो अद्य नः पवित्रेण विचर्षणिः।

यः पोता स पुनातु नः॥ ९.०६७.२२

यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा।

ब्रह्म तेन पुनीहि नः॥ ९.०६७.२३

यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः।

ब्रह्मसवैः पुनीहि नः॥ ९.०६७.२४

उभाभ्यां देव सवितः पवित्रेण सवेन च।

मां पुनीहि विश्वतः॥ ९.०६७.२५

त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः।

अग्ने दक्षैः पुनीहि नः॥ ९.०६७.२६

पुनन्तु मां देवजनाः पुनन्तु वसवो धिया।

विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा॥ ९.०६७.२७

प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः।

देवेभ्य उत्तमं हविः॥ ९.०६७.२८

उप प्रियं पनिप्नतं युवानमाहुतीवृधम्।

अगन्म बिभ्रतो नमः॥ ९.०६७.२९

अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम।

आखुं चिदेव देव सोम॥ ९.०६७.३०

यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम्।

सर्वं स पूतमश्नाति स्वदितं मातरिश्वना॥ ९.०६७.३१

पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम्।

तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम्॥ ९.०६७.३२

 

प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः।

बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे॥ ९.०६८.०१

स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्स्वादते हरिः।

तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम्॥ ९.०६८.०२

वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता।

मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे॥ ९.०६८.०३

स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम्।

अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः॥ ९.०६८.०४

सं दक्षेण मनसा जायते कविरृतस्य गर्भो निहितो यमा परः।

यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम्॥ ९.०६८.०५

मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः।

तं मर्जयन्त सुवृधं नदीष्वाँ उशन्तमंशुं परियन्तमृग्मियम्॥ ९.०६८.०६

त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम्।

अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये॥ ९.०६८.०७

परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः।

यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळमर्त्यः॥ ९.०६८.०८

अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति।

अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम्॥ ९.०६८.०९

एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व।

अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम्॥ ९.०६८.१०

 

इषुर्न धन्वन्प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि।

उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते॥ ९.०६९.०१

उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि।

पवमानः संतनिः प्रघ्नतामिव मधुमान्द्रप्सः परि वारमर्षति॥ ९.०६९.०२

अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेरृतं यते।

हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते॥ ९.०६९.०३

उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम्।

अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत॥ ९.०६९.०४

अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत।

दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम्॥ ९.०६९.०५

सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते।

तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन॥ ९.०६९.०६

सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत।

शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः॥ ९.०६९.०७

आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम्।

यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः॥ ९.०६९.०८

एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ।

सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ॥ ९.०६९.०९

इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः।

भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः॥ ९.०६९.१०

 

त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि।

चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत॥ ९.०७०.०१

स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे।

तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः॥ ९.०७०.०२

ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु।

येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत॥ ९.०७०.०३

स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा।

व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ॥ ९.०७०.०४

स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः।

वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः॥ ९.०७०.०५

स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः।

जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः॥ ९.०७०.०६

रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः।

आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी॥ ९.०७०.०७

शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि।

जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः॥ ९.०७०.०८

पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश।

पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते॥ ९.०७०.०९

हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व।

नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निद स्पः॥ ९.०७०.१०

 

आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः।

हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे॥ ९.०७१.०१

प्र कृष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तम्।

जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना॥ ९.०७१.०२

अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती।

स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि॥ ९.०७१.०३

परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम्।

आ यस्मिन्गावः सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः॥ ९.०७१.०४

समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ।

जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन्॥ ९.०७१.०५

श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति।

ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञियः॥ ९.०७१.०६

परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि।

सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति॥ ९.०७१.०७

त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः।

अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया॥ ९.०७१.०८

उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य।

दिव्यः सुपर्णोऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः॥ ९.०७१.०९

 

हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते।

उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः॥ ९.०७२.०१

साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः।

यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु॥ ९.०७२.०२

अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम्।

अन्वस्मै जोषमभरद्विनंगृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः॥ ९.०७२.०३

नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुरृत्वियः।

पुरंधिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते॥ ९.०७२.०४

नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते।

आप्राः क्रतून्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद्धरिः॥ ९.०७२.०५

अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः।

समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः॥ ९.०७२.०६

नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः।

इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः॥ ९.०७२.०७

स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो।

मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि॥ ९.०७२.०८

आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत्।

उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि॥ ९.०७२.०९

 

स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयः।

त्रीन्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन्॥ ९.०७३.०१

सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन्।

मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन्॥ ९.०७३.०२

पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम्।

महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम्॥ ९.०७३.०३

सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः।

अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवः॥ ९.०७३.०४

पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान्।

इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि॥ ९.०७३.०५

प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः।

अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः॥ ९.०७३.०६

सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः।

रुद्रास एषामिषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः॥ ९.०७३.०७

ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे।

विद्वान्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान्॥ ९.०७३.०८

ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया।

धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः॥ ९.०७३.०९

 

शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति।

दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः॥ ९.०७४.०१

दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः।

सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः॥ ९.०७४.०२

महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेरृतं यते।

ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिरृग्मियः॥ ९.०७४.०३

आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते।

समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः॥ ९.०७४.०४

अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम्।

दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे॥ ९.०७४.०५

सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः।

चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः॥ ९.०७४.०६

श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः।

धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम्॥ ९.०७४.०७

अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान्।

आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम्॥ ९.०७४.०८

अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति।

स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये॥ ९.०७४.०९

 

अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते।

आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः॥ ९.०७५.०१

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः।

दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः॥ ९.०७५.०२

अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये।

अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति॥ ९.०७५.०३

अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः।

रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे॥ ९.०७५.०४

परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम्।

ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम्॥ ९.०७५.०५

 

धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः।

हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा॥ ९.०७६.०१

शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु।

इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः॥ ९.०७६.०२

इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश।

प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजाँ उप मासि शश्वतः॥ ९.०७६.०३

विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत्।

यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः॥ ९.०७६.०४

वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत्।

स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः॥ ९.०७६.०५

 

एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः।

अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः॥ ९.०७७.०१

स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः।

स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा॥ ९.०७७.०२

ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते।

ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः॥ ९.०७७.०३

अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः।

इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम्॥ ९.०७७.०४

चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते।

असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत्॥ ९.०७७.०५

 

प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति।

गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम्॥ ९.०७८.०१

इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने।

पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः॥ ९.०७८.०२

समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन्।

ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम्॥ ९.०७८.०३

गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित्।

यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम्॥ ९.०७८.०४

एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि।

जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि॥ ९.०७८.०५

 

अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः।

वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः॥ ९.०७९.०१

प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि।

तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि॥ ९.०७९.०२

उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः।

धन्वन्न तृष्णा समरीत ताँ अभि सोम जहि पवमान दुराध्यः॥ ९.०७९.०३

दिवि ते नाभा परमो य आददे पृथिव्यास्ते रुरुहुः सानवि क्षिपः।

अद्रयस्त्वा बप्सति गोरधि त्वच्यप्सु त्वा हस्तैर्दुदुहुर्मनीषिणः॥ ९.०७९.०४

एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः।

निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः॥ ९.०७९.०५

 

सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि।

बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः॥ ९.०८०.०१

यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान्।

मघोनामायुः प्रतिरन्महि श्रव इन्द्राय सोम पवसे वृषा मदः॥ ९.०८०.०२

एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः।

प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्यः स्यन्दते वृषा॥ ९.०८०.०३

तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः।

नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान्देवाँ आ पवस्वा सहस्रजित्॥ ९.०८०.०४

तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभं दश क्षिपः।

इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि॥ ९.०८०.०५

 

प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः।

दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः॥ ९.०८१.०१

अच्छा हि सोमः कलशाँ असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा।

अथा देवानामुभयस्य जन्मनो विद्वाँ अश्नोत्यमुत इतश्च यत्॥ ९.०८१.०२

आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः।

शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः॥ ९.०८१.०३

आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः।

बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती॥ ९.०८१.०४

उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता।

भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानं जुषन्त॥ ९.०८१.०५

 

असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत्।

पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम्॥ ९.०८२.०१

कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि।

अपसेधन्दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम्॥ ९.०८२.०२

पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे।

स्वसार आपो अभि गा उतासरन्सं ग्रावभिर्नसते वीते अध्वरे॥ ९.०८२.०३

जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते।

अन्तर्वाणीषु प्र चरा सु जीवसेऽनिन्द्यो वृजने सोम जागृहि॥ ९.०८२.०४

यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजमिन्दो।

एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचन्ते॥ ९.०८२.०५

 

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः।

अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत॥ ९.०८३.०१

तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन्।

अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा॥ ९.०८३.०२

अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः।

मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः॥ ९.०८३.०३

गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः।

गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत॥ ९.०८३.०४

हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम्।

राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत्॥ ९.०८३.०५

 

पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे।

कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम्॥ ९.०८४.०१

आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति।

कृण्वन्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः॥ ९.०८४.०२

आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः।

आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम्॥ ९.०८४.०३

एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम्।

इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति॥ ९.०८४.०४

अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम्।

धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः॥ ९.०८४.०५

 

इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह।

मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः॥ ९.०८५.०१

अस्मान्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः।

जहि शत्रूँरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि॥ ९.०८५.०२

अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः।

अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते॥ ९.०८५.०३

सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु।

जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः॥ ९.०८५.०४

कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि।

मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः॥ ९.०८५.०५

स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने।

स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः॥ ९.०८५.०६

अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते।

पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः॥ ९.०८५.०७

पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः।

माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम त्वया धनंधनम्॥ ९.०८५.०८

अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः।

राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः॥ ९.०८५.०९

दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम्।

अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ॥ ९.०८५.१०

नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामकृपन्त पूर्वीः।

शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम्॥ ९.०८५.११

ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य।

भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः॥ ९.०८५.१२

 

प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना।

दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते॥ ९.०८६.०१

प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक्।

धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः॥ ९.०८६.०२

अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम्।

वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे॥ ९.०८६.०३

प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि।

प्रान्तरृषय स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः॥ ९.०८६.०४

विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः।

व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि॥ ९.०८६.०५

उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः।

यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति॥ ९.०८६.०६

यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम्।

सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत्॥ ९.०८६.०७

राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः।

अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः॥ ९.०८६.०८

दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः।

इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति॥ ९.०८६.०९

ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः।

दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः॥ ९.०८६.१०

अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः।

हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा॥ ९.०८६.११

अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति।

अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा॥ ९.०८६.१२

अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा।

तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते॥ ९.०८६.१३

द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः।

स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति॥ ९.०८६.१४

सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे।

पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः॥ ९.०८६.१५

प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति संगिरम्।

मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा॥ ९.०८६.१६

प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः।

सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः॥ ९.०८६.१७

आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमानो अस्रिधम्।

या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम्॥ ९.०८६.१८

वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः।

क्राणा सिन्धूनां कलशाँ अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः॥ ९.०८६.१९

मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशाँ अचिक्रदत्।

त्रितस्य नाम जनयन्मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे॥ ९.०८६.२०

अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत्।

अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः॥ ९.०८६.२१

पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ।

सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि॥ ९.०८६.२२

अद्रिभिः सुतः पवसे पवित्र आँ इन्दविन्द्रस्य जठरेष्वाविशन्।

त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप॥ ९.०८६.२३

त्वां सोम पवमानं स्वाध्योऽनु विप्रासो अमदन्नवस्यवः।

त्वां सुपर्ण आभरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम्॥ ९.०८६.२४

अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः।

अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत॥ ९.०८६.२५

इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन्सुपथानि यज्यवे।

गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन्परि वारमर्षति॥ ९.०८६.२६

असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः।

क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः॥ ९.०८६.२७

तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि।

अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमो धामधा असि॥ ९.०८६.२८

त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि।

त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः॥ ९.०८६.२९

त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे।

त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे॥ ९.०८६.३०

प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः।

सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम्॥ ९.०८६.३१

स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे।

नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम्॥ ९.०८६.३२

राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत्।

सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः॥ ९.०८६.३३

पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया।

गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि॥ ९.०८६.३४

इषमूर्जं पवमानाभ्यर्षसि श्येनो न वंसु कलशेषु सीदसि।

इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः॥ ९.०८६.३५

सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम्।

अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे॥ ९.०८६.३६

ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः।

तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः॥ ९.०८६.३७

त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि।

स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे॥ ९.०८६.३८

गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः।

त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते॥ ९.०८६.३९

उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते।

राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत्॥ ९.०८६.४०

स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि।

ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात्॥ ९.०८६.४१

सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः।

द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि॥ ९.०८६.४२

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते।

सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते॥ ९.०८६.४३

विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति।

अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीळन्नसरद्वृषा हरिः॥ ९.०८६.४४

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः।

हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः॥ ९.०८६.४५

असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति।

अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः॥ ९.०८६.४६

प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः।

यद्गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि॥ ९.०८६.४७

पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम्।

जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः॥ ९.०८६.४८

 

प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष।

अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति॥ ९.०८७.०१

स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः।

पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः॥ ९.०८७.०२

ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन।

स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम्॥ ९.०८७.०३

एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः।

सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात्॥ ९.०८७.०४

एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि।

पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः॥ ९.०८७.०५

परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः।

अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष॥ ९.०८७.०६

एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा।

तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा॥ ९.०८७.०७

एषा ययौ परमादन्तरद्रेः कूचित्सतीरूर्वे गा विवेद।

दिवो न विद्युत्स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्र धारा॥ ९.०८७.०८

उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः।

पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत्॥ ९.०८७.०९

 

अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि।

त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम्॥ ९.०८८.०१

स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि।

आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त॥ ९.०८८.०२

वायुर्न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शम्भविष्ठः।

विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम॥ ९.०८८.०३

इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोम पूर्भित्।

पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः॥ ९.०८८.०४

अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु।

जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम्॥ ९.०८८.०५

एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः।

वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन्॥ ९.०८८.०६

शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट्।

आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः॥ ९.०८८.०७

राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम।

शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम॥ ९.०८८.०८

 

प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः।

सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः॥ ९.०८९.०१

राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठाम्।

अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम्॥ ९.०८९.०२

सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम्।

शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा॥ ९.०८९.०३

मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्र ऋष्वम्।

स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति॥ ९.०८९.०४

चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः।

ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः॥ ९.०८९.०५

विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य।

असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय॥ ९.०८९.०६

वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व।

शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम॥ ९.०८९.०७

 

प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत्।

इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः॥ ९.०९०.०१

अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः।

वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि॥ ९.०९०.०२

शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि।

तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून्॥ ९.०९०.०३

उरुगव्यूतिरभयानि कृण्वन्समीचीने आ पवस्वा पुरंधी।

अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान्॥ ९.०९०.०४

मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम्।

मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिन्द्रमिन्दो मदाय॥ ९.०९०.०५

एवा राजेव क्रतुमाँ अमेन विश्वा घनिघ्नद्दुरिता पवस्व।

इन्दो सूक्ताय वचसे वयो धा यूयं पात स्वस्तिभिः सदा नः॥ ९.०९०.०६

 

असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी।

दश स्वसारो अधि सानो अव्येऽजन्ति वह्निं सदनान्यच्छ॥ ९.०९१.०१

वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः।

प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानोऽविभिर्गोभिरद्भिः॥ ९.०९१.०२

वृषा वृष्णे रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयो गोः।

सहस्रमृक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति॥ ९.०९१.०३

रुजा दृळ्हा चिद्रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान्।

वृश्चोपरिष्टात्तुजता वधेन ये अन्ति दूरादुपनायमेषाम्॥ ९.०९१.०४

स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः।

ये दुःषहासो वनुषा बृहन्तस्ताँस्ते अश्याम पुरुकृत्पुरुक्षो॥ ९.०९१.०५

एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि।

शं नः क्षेत्रमुरु ज्योतींषि सोम ज्योङ्नः सूर्यं दृशये रिरीहि॥ ९.०९१.०६

 

परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः।

आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवाँ अजुषत प्रयोभिः॥ ९.०९२.०१

अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ।

सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः॥ ९.०९२.०२

प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम्।

भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः॥ ९.०९२.०३

तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः।

दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः॥ ९.०९२.०४

तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त।

ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम्॥ ९.०९२.०५

परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः।

सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु॥ ९.०९२.०६

 

साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः।

हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी॥ ९.०९३.०१

सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः।

मर्यो न योषामभि निष्कृतं यन्सं गच्छते कलश उस्रियाभिः॥ ९.०९३.०२

उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः।

मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः॥ ९.०९३.०३

स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः।

रथिरायतामुशती पुरंधिरस्मद्र्यगा दावने वसूनाम्॥ ९.०९३.०४

नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम्।

प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात्॥ ९.०९३.०५

 

अधि यदस्मिन्वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः।

अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म॥ ९.०९४.०१

द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त।

धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम्॥ ९.०९४.०२

परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा।

देवेषु यशो मर्ताय भूषन्दक्षाय रायः पुरुभूषु नव्यः॥ ९.०९४.०३

श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति।

श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ॥ ९.०९४.०४

इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान्।

विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून्॥ ९.०९४.०५

 

कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः।

नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभिः॥ ९.०९५.०१

हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम्।

देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे॥ ९.०९५.०२

अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ।

नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम्॥ ९.०९५.०३

तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम्।

तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे॥ ९.०९५.०४

इष्यन्वाचमुपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम्।

इन्द्रश्च यत्क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम॥ ९.०९५.०५

 

प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना।

भद्रान्कृण्वन्निन्द्रहवान्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते॥ ९.०९६.०१

समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः।

आ तिष्ठति रथमिन्द्रस्य सखा विद्वाँ एना सुमतिं यात्यच्छ॥ ९.०९६.०२

स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः।

कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः॥ ९.०९६.०३

अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते।

तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम॥ ९.०९६.०४

सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः।

जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः॥ ९.०९६.०५

ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्।

श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्॥ ९.०९६.०६

प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः।

अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन्॥ ९.०९६.०७

स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष।

इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन्॥ ९.०९६.०८

परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय।

सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति॥ ९.०९६.०९

स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ।

अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः॥ ९.०९६.१०

त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः।

वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः॥ ९.०९६.११

यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान्।

एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि॥ ९.०९६.१२

पवस्व सोम मधुमाँ ऋतावापो वसानो अधि सानो अव्ये।

अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः॥ ९.०९६.१३

वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ।

सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः॥ ९.०९६.१४

एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः।

पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा॥ ९.०९६.१५

स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम।

अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम॥ ९.०९६.१६

शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन।

कविर्गीर्भिः काव्येना कविः सन्सोमः पवित्रमत्येति रेभन्॥ ९.०९६.१७

ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम्।

तृतीयं धाम महिषः सिषासन्सोमो विराजमनु राजति ष्टुप्॥ ९.०९६.१८

चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत्।

अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति॥ ९.०९६.१९

मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम्।

वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश॥ ९.०९६.२०

पवस्वेन्दो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष।

क्रीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु॥ ९.०९६.२१

प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशाँ आ विवेश।

साम कृण्वन्सामन्यो विपश्चित्क्रन्दन्नेत्यभि सख्युर्न जामिम्॥ ९.०९६.२२

अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इन्दुः।

सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता॥ ९.०९६.२३

आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः।

हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम्॥ ९.०९६.२४

 

अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम्।

सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता॥ ९.०९७.०१

भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन्।

आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ॥ ९.०९७.०२

समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे।

अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः॥ ९.०९७.०३

प्र गायताभ्यर्चाम देवान्सोमं हिनोत महते धनाय।

स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः॥ ९.०९७.०४

इन्दुर्देवानामुप सख्यमायन्सहस्रधारः पवते मदाय।

नृभि स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय॥ ९.०९७.०५

स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय।

देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः॥ ९.०९७.०६

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति।

महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्॥ ९.०९७.०७

प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः।

आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम्॥ ९.०९७.०८

स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः।

परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः॥ ९.०९७.०९

इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय।

हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा॥ ९.०९७.१०

अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः।

इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय॥ ९.०९७.११

अभि प्रियाणि पवते पुनानो देवो देवान्स्वेन रसेन पृञ्चन्।

इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये॥ ९.०९७.१२

वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम्।

इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम्॥ ९.०९७.१३

रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम्।

पवमानः संतनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः॥ ९.०९७.१४

एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः।

परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः॥ ९.०९७.१५

जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन्।

घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये॥ ९.०९७.१६

वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम्।

स्तुकेव वीता धन्वा विचिन्वन्बन्धूँरिमाँ अवराँ इन्दो वायून्॥ ९.०९७.१७

ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम।

अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान्॥ ९.०९७.१८

जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये।

सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये॥ ९.०९७.१९

अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ।

एते शुक्रासो धन्वन्ति सोमा देवासस्ताँ उप याता पिबध्यै॥ ९.०९७.२०

एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु।

सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम्॥ ९.०९७.२१

तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके।

आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम्॥ ९.०९७.२२

प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः।

धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम॥ ९.०९७.२३

पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम्।

द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः॥ ९.०९७.२४

अर्वाँ इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष।

स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः॥ ९.०९७.२५

देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः।

आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः॥ ९.०९७.२६

एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः।

महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः॥ ९.०९७.२७

अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान्।

अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो॥ ९.०९७.२८

शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजन्ति।

इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य॥ ९.०९७.२९

दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः।

पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिम्॥ ९.०९७.३०

प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान्।

पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः॥ ९.०९७.३१

कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम।

स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम्॥ ९.०९७.३२

दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ।

एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम्॥ ९.०९७.३३

तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम्।

गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मत&