॥ ऋग्वेदः मण्डलं ८॥

 

मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत।

इन्द्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत॥ ८.००१.०१

अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह॑म्।

वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म्॥ ८.००१.०२

यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑।

अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम्॥ ८.००१.०३

वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नाम्।

उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑॥ ८.००१.०४

म॒हे च॒न त्वाम॑द्रिव॒ परा॑ शु॒ल्काय॑ देयाम्।

न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ॥ ८.००१.०५

वस्याँ॑ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु॑ञ्जतः।

मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से॥ ८.००१.०६

क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मन॑।

अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः॥ ८.००१.०७

प्रास्मै॑ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः।

याभि॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुर॑॥ ८.००१.०८

ये ते॒ सन्ति॑ दश॒ग्विन॑ श॒तिनो॒ ये स॑ह॒स्रिण॑।

अश्वा॑सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि॑र्न॒स्तूय॒मा ग॑हि॥ ८.००१.०९

आ त्व१द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसम्।

इन्द्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृत॑म्॥ ८.००१.१०

यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना॑।

वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तु॒ त्सर॑द्गन्ध॒र्वमस्तृ॑तम्॥ ८.००१.११

य ऋ॒ते चि॑दभि॒श्रिष॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृद॑।

संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुन॑॥ ८.००१.१२

मा भू॑म॒ निष्ट्या॑ इ॒वेन्द्र॒ त्वदर॑णा इव।

वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि॥ ८.००१.१३

अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वृत्रहन्।

स॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॑सा॒ अनु॒ स्तोमं॑ मुदीमहि॥ ८.००१.१४

यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः।

ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मन्द॑न्तु तुग्र्या॒वृध॑॥ ८.००१.१५

आ त्व१द्य स॒धस्तु॑तिं वा॒वातु॒ सख्यु॒रा ग॑हि।

उप॑स्तुतिर्म॒घोनां॒ प्र त्वा॑व॒त्वधा॑ ते वश्मि सुष्टु॒तिम्॥ ८.००१.१६

सोता॒ हि सोम॒मद्रि॑भि॒रेमे॑नम॒प्सु धा॑वत।

ग॒व्या वस्त्रे॑व वा॒सय॑न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा॑भ्यः॥ ८.००१.१७

अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑।

अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण॥ ८.००१.१८

इन्द्रा॑य॒ सु म॒दिन्त॑मं॒ सोमं॑ सोता॒ वरे॑ण्यम्।

श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युम्॥ ८.००१.१९

मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा।

भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत्॥ ८.००१.२०

मदे॑नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा।

विश्वे॑षां तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा॑ति नः॥ ८.००१.२१

शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑।

स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः॥ ८.००१.२२

एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा।

सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रम्॥ ८.००१.२३

आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑।

ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह॑न्तु॒ सोम॑पीतये॥ ८.००१.२४

आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या।

शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये॑॥ ८.००१.२५

पिबा॒ त्व१स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व।

परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते॥ ८.००१.२६

य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः।

गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति॥ ८.००१.२७

त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक्।

त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुव॑॥ ८.००१.२८

मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः।

मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत॥ ८.००१.२९

स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोना॑म्।

नि॒न्दि॒ताश्व॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे॥ ८.००१.३०

आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हम्।

उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्व॑ प॒शुः॥ ८.००१.३१

य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑।

ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः॥ ८.००१.३२

अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑स॒ङ्गो अ॑ग्ने द॒शभि॑ स॒हस्रै॑।

अधो॒क्षणो॒ दश॒ मह्यं॒ रुश॑न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन्॥ ८.००१.३३

अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः।

शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि॥ ८.००१.३४

 

इ॒दं व॑सो सु॒तमन्ध॒ पिबा॒ सुपू॑र्णमु॒दर॑म्।

अना॑भयिन्ररि॒मा ते॑॥ ८.००२.०१

नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारै॒ परि॑पूतः।

अश्वो॒ न नि॒क्तो न॒दीषु॑॥ ८.००२.०२

तं ते॒ यवं॒ यथा॒ गोभि॑ स्वा॒दुम॑कर्म श्री॒णन्त॑।

इन्द्र॑ त्वा॒स्मिन्स॑ध॒मादे॑॥ ८.००२.०३

इन्द्र॒ इत्सो॑म॒पा एक॒ इन्द्र॑ सुत॒पा वि॒श्वायु॑।

अ॒न्तर्दे॒वान्मर्त्याँ॑श्च॥ ८.००२.०४

न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम्।

अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द॑म्॥ ८.००२.०५

गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय॑न्ते।

अ॒भि॒त्सर॑न्ति धे॒नुभि॑॥ ८.००२.०६

त्रय॒ इन्द्र॑स्य॒ सोमा॑ सु॒तास॑ सन्तु दे॒वस्य॑।

स्वे क्षये॑ सुत॒पाव्न॑॥ ८.००२.०७

त्रय॒ कोशा॑स श्चोतन्ति ति॒स्रश्च॒म्व१ः सुपू॑र्णाः।

स॒मा॒ने अधि॒ भार्म॑न्॥ ८.००२.०८

शुचि॑रसि पुरुनि॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः।

द॒ध्ना मन्दि॑ष्ठ॒ शूर॑स्य॥ ८.००२.०९

इ॒मे त॑ इन्द्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तास॑।

शु॒क्रा आ॒शिरं॑ याचन्ते॥ ८.००२.१०

ताँ आ॒शिरं॑ पुरो॒ळाश॒मिन्द्रे॒मं सोमं॑ श्रीणीहि।

रे॒वन्तं॒ हि त्वा॑ शृ॒णोमि॑॥ ८.००२.११

हृ॒त्सु पी॒तासो॑ युध्यन्ते दु॒र्मदा॑सो॒ न सुरा॑याम्।

ऊध॒र्न न॒ग्ना ज॑रन्ते॥ ८.००२.१२

रे॒वाँ इद्रे॒वत॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोन॑।

प्रेदु॑ हरिवः श्रु॒तस्य॑॥ ८.००२.१३

उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत।

न गा॑य॒त्रं गी॒यमा॑नम्॥ ८.००२.१४

मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा॑ दाः।

शिक्षा॑ शचीव॒ शची॑भिः॥ ८.००२.१५

व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्त॒ सखा॑यः।

कण्वा॑ उ॒क्थेभि॑र्जरन्ते॥ ८.००२.१६

न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ।

तवेदु॒ स्तोमं॑ चिकेत॥ ८.००२.१७

इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति।

यन्ति॑ प्र॒माद॒मत॑न्द्राः॥ ८.००२.१८

ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१स्मान्।

म॒हाँ इ॑व॒ युव॑जानिः॥ ८.००२.१९

मो ष्व१द्य दु॒र्हणा॑वान्सा॒यं क॑रदा॒रे अ॒स्मत्।

अ॒श्री॒र इ॑व॒ जामा॑ता॥ ८.००२.२०

वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम्।

त्रि॒षु जा॒तस्य॒ मनां॑सि॥ ८.००२.२१

आ तू षि॑ञ्च॒ कण्व॑मन्तं॒ न घा॑ विद्म शवसा॒नात्।

य॒शस्त॑रं श॒तमू॑तेः॥ ८.००२.२२

ज्येष्ठे॑न सोत॒रिन्द्रा॑य॒ सोमं॑ वी॒राय॑ श॒क्राय॑।

भरा॒ पिब॒न्नर्या॑य॥ ८.००२.२३

यो वेदि॑ष्ठो अव्य॒थिष्वश्वा॑वन्तं जरि॒तृभ्य॑।

वाजं॑ स्तो॒तृभ्यो॒ गोम॑न्तम्॥ ८.००२.२४

पन्य॑म्पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य।

सोमं॑ वी॒राय॒ शूरा॑य॥ ८.००२.२५

पाता॑ वृत्र॒हा सु॒तमा घा॑ गम॒न्नारे अ॒स्मत्।

नि य॑मते श॒तमू॑तिः॥ ८.००२.२६

एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षत॒ सखा॑यम्।

गी॒र्भिः श्रु॒तं गिर्व॑णसम्॥ ८.००२.२७

स्वा॒दव॒ सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि।

शिप्रि॒न्नृषी॑व॒ शची॑वो॒ नायमच्छा॑ सध॒माद॑म्॥ ८.००२.२८

स्तुत॑श्च॒ यास्त्वा॒ वर्ध॑न्ति म॒हे राध॑से नृ॒म्णाय॑।

इन्द्र॑ का॒रिणं॑ वृ॒धन्त॑॥ ८.००२.२९

गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑।

स॒त्रा द॑धि॒रे शवां॑सि॥ ८.००२.३०

ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः।

स॒नादमृ॑क्तो दयते॥ ८.००२.३१

हन्ता॑ वृ॒त्रं दक्षि॑णे॒नेन्द्र॑ पु॒रू पु॑रुहू॒तः।

म॒हान्म॒हीभि॒ शची॑भिः॥ ८.००२.३२

यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च।

अनु॒ घेन्म॒न्दी म॒घोन॑॥ ८.००२.३३

ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे।

वा॒ज॒दावा॑ म॒घोना॑म्॥ ८.००२.३४

प्रभ॑र्ता॒ रथं॑ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति।

इ॒नो वसु॒ स हि वोळ्हा॑॥ ८.००२.३५

सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हन्ता॑ वृ॒त्रं नृभि॒ शूर॑।

स॒त्यो॑ऽवि॒ता वि॒धन्त॑म्॥ ८.००२.३६

यज॑ध्वैनं प्रियमेधा॒ इन्द्रं॑ स॒त्राचा॒ मन॑सा।

यो भूत्सोमै॑ स॒त्यम॑द्वा॥ ८.००२.३७

गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान॑म्।

कण्वा॑सो गा॒त वा॒जिन॑म्॥ ८.००२.३८

य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्य॒ शची॑वान्।

ये अ॑स्मि॒न्काम॒मश्रि॑यन्॥ ८.००२.३९

इ॒त्था धीव॑न्तमद्रिवः का॒ण्वं मेध्या॑तिथिम्।

मे॒षो भू॒तो॒३ऽभि यन्नय॑॥ ८.००२.४०

शिक्षा॑ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त्।

अ॒ष्टा प॒रः स॒हस्रा॑॥ ८.००२.४१

उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑।

ज॒नि॒त्व॒नाय॑ मामहे॥ ८.००२.४२

 

पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः।

आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३ऽस्माँ अ॑वन्तु ते॒ धिय॑॥ ८.००३.०१

भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा न॑ स्तर॒भिमा॑तये।

अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा न॑ सु॒म्नेषु॑ यामय॥ ८.००३.०२

इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑।

पा॒व॒कव॑र्णा॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत॥ ८.००३.०३

अ॒यं स॒हस्र॒मृषि॑भि॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे।

स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑॥ ८.००३.०४

इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे।

इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑॥ ८.००३.०५

इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्र॒ सूर्य॑मरोचयत्।

इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः॥ ८.००३.०६

अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यव॑।

स॒मी॒ची॒नास॑ ऋ॒भव॒ सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म्॥ ८.००३.०७

अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि।

अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑॥ ८.००३.०८

तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये।

येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ॥ ८.००३.०९

येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शव॑।

स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे॥ ८.००३.१०

श॒ग्धी न॑ इन्द्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्य॑म्।

श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य॥ ८.००३.११

श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा॑सतः।

श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्राव॒ स्व॑र्णरम्॥ ८.००३.१२

कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्य॑।

न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः॥ ८.००३.१३

कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषि॒ को विप्र॑ ओहते।

क॒दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः॥ ८.००३.१४

उदु॒ त्ये मधु॑मत्तमा॒ गिर॒ स्तोमा॑स ईरते।

स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव॥ ८.००३.१५

कण्वा॑ इव॒ भृग॑व॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः।

इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यव॑ प्रि॒यमे॑धासो अस्वरन्॥ ८.००३.१६

यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी॑ इन्द्र परा॒वत॑।

अ॒र्वा॒ची॒नो म॑घव॒न्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि॥ ८.००३.१७

इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये।

स त्वं नो॑ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव॑म्॥ ८.००३.१८

निरि॑न्द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः।

निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः॥ ८.००३.१९

निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रस॑।

निर॒न्तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदि॑न्द्र॒ पौंस्य॑म्॥ ८.००३.२०

यं मे॒ दुरिन्द्रो॑ म॒रुत॒ पाक॑स्थामा॒ कौर॑याणः।

विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानम्॥ ८.००३.२१

रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम्।

अदा॑द्रा॒यो वि॒बोध॑नम्॥ ८.००३.२२

यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः।

अस्तं॒ वयो॒ न तुग्र्य॑म्॥ ८.००३.२३

आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम्।

तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम्॥ ८.००३.२४

 

यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभि॑।

सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑॥ ८.००४.०१

यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑।

कण्वा॑सस्त्वा॒ ब्रह्म॑भि॒ स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि॥ ८.००४.०२

यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम्।

आ॒पि॒त्वे न॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑॥ ८.००४.०३

मन्द॑न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया॑य सुन्व॒ते।

आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सह॑॥ ८.००४.०४

प्र च॑क्रे॒ सह॑सा॒ सहो॑ ब॒भञ्ज॑ म॒न्युमोज॑सा।

विश्वे॑ त इन्द्र पृतना॒यवो॑ यहो॒ नि वृ॒क्षा इ॑व येमिरे॥ ८.००४.०५

स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम्।

पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑‍उक्तिभिः॥ ८.००४.०६

मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑।

म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदु॑म्॥ ८.००४.०७

स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति।

मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑॥ ८.००४.०८

अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदि॑न्द्र ते॒ सखा॑।

श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ च॒न्द्रो या॑ति स॒भामुप॑॥ ८.००४.०९

ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑।

नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सह॑॥ ८.००४.१०

अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्र॑ पिपासति।

उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा॥ ८.००४.११

स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑।

इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑॥ ८.००४.१२

र॒थे॒ष्ठाया॑ध्वर्यव॒ सोम॒मिन्द्रा॑य सोतन।

अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ दा॒श्व॑ध्वरम्॥ ८.००४.१३

उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः।

अ॒र्वाञ्चं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑॥ ८.००४.१४

प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसु॑म्।

स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन॥ ८.००४.१५

सं न॑ शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन।

त्वे तन्न॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य॑म्॥ ८.००४.१६

वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे।

न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑॥ ८.००४.१७

परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य।

अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये॥ ८.००४.१८

स्थू॒रं राध॑ श॒ताश्वं॑ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु।

राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि॥ ८.००४.१९

धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिन॑ प्रि॒यमे॑धैर॒भिद्यु॑भिः।

ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषि॑॥ ८.००४.२०

वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः।

गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑॥ ८.००४.२१

 

दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत्।

वि भा॒नुं वि॒श्वधा॑तनत्॥ ८.००५.०१

नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा।

सचे॑थे अश्विनो॒षस॑म्॥ ८.००५.०२

यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत।

वाचं॑ दू॒तो यथो॑हिषे॥ ८.००५.०३

पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुम॒न्द्रा पु॑रू॒वसू॑।

स्तु॒षे कण्वा॑सो अ॒श्विना॑॥ ८.००५.०४

मंहि॑ष्ठा वाज॒सात॑मे॒षय॑न्ता शु॒भस्पती॑।

गन्ता॑रा दा॒शुषो॑ गृ॒हम्॥ ८.००५.०५

ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीम्।

घृ॒तैर्गव्यू॑तिमुक्षतम्॥ ८.००५.०६

आ न॒ स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभि॑।

या॒तमश्वे॑भिरश्विना॥ ८.००५.०७

येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना।

त्रीँर॒क्तून्प॑रि॒दीय॑थः॥ ८.००५.०८

उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा।

वि प॒थः सा॒तये॑ सितम्॥ ८.००५.०९

आ नो॒ गोम॑न्तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिम्।

वो॒ळ्हमश्वा॑वती॒रिष॑॥ ८.००५.१०

वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी।

पिब॑तं सो॒म्यं मधु॑॥ ८.००५.११

अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथ॑।

छ॒र्दिर्य॑न्त॒मदा॑भ्यम्॥ ८.००५.१२

नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम्।

मो ष्व१न्याँ उपा॑रतम्॥ ८.००५.१३

अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः।

मध्वो॑ रा॒तस्य॑ धिष्ण्या॥ ८.००५.१४

अ॒स्मे आ व॑हतं र॒यिं श॒तव॑न्तं सह॒स्रिण॑म्।

पु॒रु॒क्षुं वि॒श्वधा॑यसम्॥ ८.००५.१५

पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वय॑न्ते मनी॒षिण॑।

वा॒घद्भि॑रश्वि॒ना ग॑तम्॥ ८.००५.१६

जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्म॑न्तो अरं॒कृत॑।

यु॒वां ह॑वन्ते अश्विना॥ ८.००५.१७

अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः।

यु॒वाभ्यां॑ भूत्वश्विना॥ ८.००५.१८

यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे।

तत॑ पिबतमश्विना॥ ८.००५.१९

तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑।

वह॑तं॒ पीव॑री॒रिष॑॥ ८.००५.२०

उ॒त नो॑ दि॒व्या इष॑ उ॒त सिन्धूँ॑रहर्विदा।

अप॒ द्वारे॑व वर्षथः॥ ८.००५.२१

क॒दा वां॑ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा।

यद्वां॒ रथो॒ विभि॒ष्पता॑त्॥ ८.००५.२२

यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये।

शश्व॑दू॒तीर्द॑शस्यथः॥ ८.००५.२३

ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभि॑।

यद्वां॑ वृषण्वसू हु॒वे॥ ८.००५.२४

यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तम्।

अत्रिं॑ शि॒ञ्जार॑मश्विना॥ ८.००५.२५

यथो॒त कृत्व्ये॒ धने॒ऽंशुं गोष्व॒गस्त्य॑म्।

यथा॒ वाजे॑षु॒ सोभ॑रिम्॥ ८.००५.२६

ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना।

गृ॒णन्त॑ सु॒म्नमी॑महे॥ ८.००५.२७

रथं॒ हिर॑ण्यवन्धुरं॒ हिर॑ण्याभीशुमश्विना।

आ हि स्थाथो॑ दिवि॒स्पृश॑म्॥ ८.००५.२८

हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्यय॑।

उ॒भा च॒क्रा हि॑र॒ण्यया॑॥ ८.००५.२९

तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम्।

उपे॒मां सु॑ष्टु॒तिं मम॑॥ ८.००५.३०

आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता॑वश्विना।

इषो॒ दासी॑रमर्त्या॥ ८.००५.३१

आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना।

पुरु॑श्चन्द्रा॒ नास॑त्या॥ ८.००५.३२

एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहन्तु प॒र्णिन॑।

अच्छा॑ स्वध्व॒रं जन॑म्॥ ८.००५.३३

रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह।

न च॒क्रम॒भि बा॑धते॥ ८.००५.३४

हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वै॑।

धीज॑वना॒ नास॑त्या॥ ८.००५.३५

यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू।

ता न॑ पृङ्क्तमि॒षा र॒यिम्॥ ८.००५.३६

ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नाम्।

यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना॑म्॥ ८.००५.३७

यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत।

अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जना॑॥ ८.००५.३८

माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दय॑।

अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जन॑॥ ८.००५.३९

 

म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व।

स्तोमै॑र्व॒त्सस्य॑ वावृधे॥ ८.००६.०१

प्र॒जामृ॒तस्य॒ पिप्र॑त॒ प्र यद्भर॑न्त॒ वह्न॑यः।

विप्रा॑ ऋ॒तस्य॒ वाह॑सा॥ ८.००६.०२

कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम्।

जा॒मि ब्रु॑वत॒ आयु॑धम्॥ ८.००६.०३

सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कृ॒ष्टय॑।

स॒मु॒द्राये॑व॒ सिन्ध॑वः॥ ८.००६.०४

ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत्।

इन्द्र॒श्चर्मे॑व॒ रोद॑सी॥ ८.००६.०५

वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा।

शिरो॑ बिभेद वृ॒ष्णिना॑॥ ८.००६.०६

इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तय॑।

अ॒ग्नेः शो॒चिर्न दि॒द्युत॑॥ ८.००६.०७

गुहा॑ स॒तीरुप॒ त्मना॒ प्र यच्छोच॑न्त धी॒तय॑।

कण्वा॑ ऋ॒तस्य॒ धार॑या॥ ८.००६.०८

प्र तमि॑न्द्र नशीमहि र॒यिं गोम॑न्तम॒श्विन॑म्।

प्र ब्रह्म॑ पू॒र्वचि॑त्तये॥ ८.००६.०९

अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑।

अ॒हं सूर्य॑ इवाजनि॥ ८.००६.१०

अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिर॑ शुम्भामि कण्व॒वत्।

येनेन्द्र॒ शुष्म॒मिद्द॒धे॥ ८.००६.११

ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः।

ममेद्व॑र्धस्व॒ सुष्टु॑तः॥ ८.००६.१२

यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प॑र्व॒शो रु॒जन्।

अ॒पः स॑मु॒द्रमैर॑यत्॥ ८.००६.१३

नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं॑ जघन्थ॒ दस्य॑वि।

वृषा॒ ह्यु॑ग्र शृण्वि॒षे॥ ८.००६.१४

न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण॑म्।

न वि॑व्यचन्त॒ भूम॑यः॥ ८.००६.१५

यस्त॑ इन्द्र म॒हीर॒प स्त॑भू॒यमा॑न॒ आश॑यत्।

नि तं पद्या॑सु शिश्नथः॥ ८.००६.१६

य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत्।

तमो॑भिरिन्द्र॒ तं गु॑हः॥ ८.००६.१७

य इ॑न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः।

ममेदु॑ग्र श्रुधी॒ हव॑म्॥ ८.००६.१८

इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर॑म्।

ए॒नामृ॒तस्य॑ पि॒प्युषी॑॥ ८.००६.१९

या इ॑न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन्।

परि॒ धर्मे॑व॒ सूर्य॑म्॥ ८.००६.२०

त्वामिच्छ॑वसस्पते॒ कण्वा॑ उ॒क्थेन॑ वावृधुः।

त्वां सु॒तास॒ इन्द॑वः॥ ८.००६.२१

तवेदि॑न्द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः।

य॒ज्ञो वि॑तन्त॒साय्य॑॥ ८.००६.२२

आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम्।

उ॒त प्र॒जां सु॒वीर्य॑म्॥ ८.००६.२३

उ॒त त्यदा॒श्वश्व्यं॒ यदि॑न्द्र॒ नाहु॑षी॒ष्वा।

अग्रे॑ वि॒क्षु प्र॒दीद॑यत्॥ ८.००६.२४

अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम्।

यदि॑न्द्र मृ॒ळया॑सि नः॥ ८.००६.२५

यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः।

म॒हाँ अ॑पा॒र ओज॑सा॥ ८.००६.२६

तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑।

उ॒रु॒ज्रय॑स॒मिन्दु॑भिः॥ ८.००६.२७

उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म्।

धि॒या विप्रो॑ अजायत॥ ८.००६.२८

अत॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति।

यतो॑ विपा॒न एज॑ति॥ ८.००६.२९

आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम्।

प॒रो यदि॒ध्यते॑ दि॒वा॥ ८.००६.३०

कण्वा॑स इन्द्र ते म॒तिं विश्वे॑ वर्धन्ति॒ पौंस्य॑म्।

उ॒तो श॑विष्ठ॒ वृष्ण्य॑म्॥ ८.००६.३१

इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व।

उ॒त प्र व॑र्धया म॒तिम्॥ ८.००६.३२

उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः।

विप्रा॑ अतक्ष्म जी॒वसे॑॥ ८.००६.३३

अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः।

इन्द्रं॒ वन॑न्वती म॒तिः॥ ८.००६.३४

इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः।

अनु॑त्तमन्युम॒जर॑म्॥ ८.००६.३५

आ नो॑ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या॑म्।

इ॒ममि॑न्द्र सु॒तं पि॑ब॥ ८.००६.३६

त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः।

हव॑न्ते॒ वाज॑सातये॥ ८.००६.३७

अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शम्।

अनु॑ सुवा॒नास॒ इन्द॑वः॥ ८.००६.३८

मन्द॑स्वा॒ सु स्व॑र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति।

मत्स्वा॒ विव॑स्वतो म॒ती॥ ८.००६.३९

वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत्।

वृ॒त्र॒हा सो॑म॒पात॑मः॥ ८.००६.४०

ऋषि॒र्हि पू॑र्व॒जा अस्येक॒ ईशा॑न॒ ओज॑सा।

इन्द्र॑ चोष्कू॒यसे॒ वसु॑॥ ८.००६.४१

अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रय॑।

श॒तं व॑हन्तु॒ हर॑यः॥ ८.००६.४२

इ॒मां सु पू॒र्व्यां धियं॒ मधो॑र्घृ॒तस्य॑ पि॒प्युषी॑म्।

कण्वा॑ उ॒क्थेन॑ वावृधुः॥ ८.००६.४३

इन्द्र॒मिद्विम॑हीनां॒ मेधे॑ वृणीत॒ मर्त्य॑।

इन्द्रं॑ सनि॒ष्युरू॒तये॑॥ ८.००६.४४

अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑।

सो॒म॒पेया॑य वक्षतः॥ ८.००६.४५

श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे।

राधां॑सि॒ याद्वा॑नाम्॥ ८.००६.४६

त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म्।

द॒दुष्प॒ज्राय॒ साम्ने॑॥ ८.००६.४७

उदा॑नट् ककु॒हो दिव॒मुष्ट्रा॑ञ्चतु॒र्युजो॒ दद॑त्।

श्रव॑सा॒ याद्वं॒ जन॑म्॥ ८.००६.४८

 

प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत्।

वि पर्व॑तेषु राजथ॥ ८.००७.०१

यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम्।

नि पर्व॑ता अहासत॥ ८.००७.०२

उदी॑रयन्त वा॒युभि॑र्वा॒श्रास॒ पृश्नि॑मातरः।

धु॒क्षन्त॑ पि॒प्युषी॒मिष॑म्॥ ८.००७.०३

वप॑न्ति म॒रुतो॒ मिहं॒ प्र वे॑पयन्ति॒ पर्व॑तान्।

यद्यामं॒ यान्ति॑ वा॒युभि॑॥ ८.००७.०४

नि यद्यामा॑य वो गि॒रिर्नि सिन्ध॑वो॒ विध॑र्मणे।

म॒हे शुष्मा॑य येमि॒रे॥ ८.००७.०५

यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मान्दिवा॑ हवामहे।

यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे॥ ८.००७.०६

उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे॑भिरीरते।

वा॒श्रा अधि॒ ष्णुना॑ दि॒वः॥ ८.००७.०७

सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या॑य॒ यात॑वे।

ते भा॒नुभि॒र्वि त॑स्थिरे॥ ८.००७.०८

इ॒मां मे॑ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः।

इ॒मं मे॑ वनता॒ हव॑म्॥ ८.००७.०९

त्रीणि॒ सरां॑सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑।

उत्सं॒ कव॑न्धमु॒द्रिण॑म्॥ ८.००७.१०

मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे।

आ तू न॒ उप॑ गन्तन॥ ८.००७.११

यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑।

उ॒त प्रचे॑तसो॒ मदे॑॥ ८.००७.१२

आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसम्।

इय॑र्ता मरुतो दि॒वः॥ ८.००७.१३

अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वम्।

सु॒वा॒नैर्म॑न्दध्व॒ इन्दु॑भिः॥ ८.००७.१४

ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्य॑।

अदा॑भ्यस्य॒ मन्म॑भिः॥ ८.००७.१५

ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभि॑।

उत्सं॑ दु॒हन्तो॒ अक्षि॑तम्॥ ८.००७.१६

उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभि॑।

उत्स्तोमै॒ पृश्नि॑मातरः॥ ८.००७.१७

येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं॑ धन॒स्पृत॑म्।

रा॒ये सु तस्य॑ धीमहि॥ ८.००७.१८

इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिष॑।

वर्धा॑न्का॒ण्वस्य॒ मन्म॑भिः॥ ८.००७.१९

क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः।

ब्र॒ह्मा को व॑ सपर्यति॥ ८.००७.२०

न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे॑भिर्वृक्तबर्हिषः।

शर्धाँ॑ ऋ॒तस्य॒ जिन्व॑थ॥ ८.००७.२१

समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य॑म्।

सं वज्रं॑ पर्व॒शो द॑धुः॥ ८.००७.२२

वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिन॑।

च॒क्रा॒णा वृष्णि॒ पौंस्य॑म्॥ ८.००७.२३

अनु॑ त्रि॒तस्य॒ युध्य॑त॒ शुष्म॑मावन्नु॒त क्रतु॑म्।

अन्विन्द्रं॑ वृत्र॒तूर्ये॑॥ ८.००७.२४

वि॒द्युद्ध॑स्ता अ॒भिद्य॑व॒ शिप्रा॑ शी॒र्षन्हि॑र॒ण्ययी॑।

शु॒भ्रा व्य॑ञ्जत श्रि॒ये॥ ८.००७.२५

उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया॑तन।

द्यौर्न च॑क्रदद्भि॒या॥ ८.००७.२६

आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः।

देवा॑स॒ उप॑ गन्तन॥ ८.००७.२७

यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः।

यान्ति॑ शु॒भ्रा रि॒णन्न॒पः॥ ८.००७.२८

सु॒षोमे॑ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या॑वति।

य॒युर्निच॑क्रया॒ नर॑॥ ८.००७.२९

क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम्।

मा॒र्डी॒केभि॒र्नाध॑मानम्॥ ८.००७.३०

कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन।

को व॑ सखि॒त्व ओ॑हते॥ ८.००७.३१

स॒हो षु णो॒ वज्र॑हस्तै॒ कण्वा॑सो अ॒ग्निं म॒रुद्भि॑।

स्तु॒षे हिर॑ण्यवाशीभिः॥ ८.००७.३२

ओ षु वृष्ण॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑।

व॒वृ॒त्यां चि॒त्रवा॑जान्॥ ८.००७.३३

गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा॑नासो॒ मन्य॑मानाः।

पर्व॑ताश्चि॒न्नि ये॑मिरे॥ ८.००७.३४

आक्ष्ण॒यावा॑नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः।

धाता॑र स्तुव॒ते वय॑॥ ८.००७.३५

अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो॑ अ॒र्चिषा॑।

ते भा॒नुभि॒र्वि त॑स्थिरे॥ ८.००७.३६

 

आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम्।

दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑॥ ८.००८.०१

आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा।

भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गम्भी॑रचेतसा॥ ८.००८.०२

आ या॑तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभि॑।

पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तम्॥ ८.००८.०३

आ नो॑ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया।

पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑॥ ८.००८.०४

आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये।

स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा॥ ८.००८.०५

यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा।

आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑॥ ८.००८.०६

दि॒वश्चि॑द्रोच॒नादध्या नो॑ गन्तं स्वर्विदा।

धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता॥ ८.००८.०७

किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑।

पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत्॥ ८.००८.०८

आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना।

अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं मयो॒भुवा॑॥ ८.००८.०९

आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू।

विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम्॥ ८.००८.१०

अत॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना।

व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः॥ ८.००८.११

पु॒रु॒म॒न्द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णाम्।

स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषाताम्॥ ८.००८.१२

आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या।

कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे॥ ८.००८.१३

यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे।

अत॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना॥ ८.००८.१४

यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत्।

तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुत॑म्॥ ८.००८.१५

प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम्।

यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती॥ ८.००८.१६

आ नो॑ गन्तं रिशादसे॒मं स्तोमं॑ पुरुभुजा।

कृ॒तं न॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये॥ ८.००८.१७

आ वां॒ विश्वा॑भिरू॒तिभि॑ प्रि॒यमे॑धा अहूषत।

राज॑न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु॥ ८.००८.१८

आ नो॑ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा॑ यु॒वम्।

यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत्॥ ८.००८.१९

याभि॒ कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजम्।

याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा॥ ८.००८.२०

याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑।

ताभि॒ ष्व१स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये॥ ८.००८.२१

प्र वां॒ स्तोमा॑ सुवृ॒क्तयो॒ गिरो॑ वर्धन्त्वश्विना।

पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑॥ ८.००८.२२

त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सान्ति॒ गुहा॑ प॒रः।

क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑॥ ८.००८.२३

 

आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से।

प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः॥ ८.००९.०१

यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑।

नृ॒म्णं तद्ध॑त्तमश्विना॥ ८.००९.०२

ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः।

ए॒वेत्का॒ण्वस्य॑ बोधतम्॥ ८.००९.०३

अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते।

अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः॥ ८.००९.०४

यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम्।

तेन॑ माविष्टमश्विना॥ ८.००९.०५

यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथ॑।

अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः॥ ८.००९.०६

आ नू॒नम॒श्विनो॒रृषि॒ स्तोमं॑ चिकेत वा॒मया॑।

आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि॥ ८.००९.०७

आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना।

आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत॥ ८.००९.०८

यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑।

यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम्॥ ८.००९.०९

यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑।

पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम्॥ ८.००९.१०

या॒तं छ॑र्दि॒ष्पा उ॒त न॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा।

व॒र्तिस्तो॒काय॒ तन॑याय यातम्॥ ८.००९.११

यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थ॒ समो॑कसा।

यदा॑दि॒त्येभि॑रृ॒भुभि॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः॥ ८.००९.१२

यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये।

यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रव॑॥ ८.००९.१३

आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता।

इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑॥ ८.००९.१४

यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम्।

तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम्॥ ८.००९.१५

अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनो॑।

व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः॥ ८.००९.१६

प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि।

प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत्॥ ८.००९.१७

यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे।

आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म्॥ ८.००९.१८

यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः।

यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑॥ ८.००९.१९

प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे।

प्र दक्षा॑य प्रचेतसा॥ ८.००९.२०

यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः।

यद्वा॑ सु॒म्नेभि॑रुक्थ्या॥ ८.००९.२१

 

यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः।

यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना॥ ८.०१०.०१

यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम्।

बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा॥ ८.०१०.०२

त्या न्व१श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता।

ययो॒रस्ति॒ प्र ण॑ स॒ख्यं दे॒वेष्वध्याप्य॑म्॥ ८.०१०.०३

ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रय॑।

ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑॥ ८.०१०.०४

यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू।

यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तम्॥ ८.०१०.०५

यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑।

यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना॥ ८.०१०.०६

 

त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा।

त्वं य॒ज्ञेष्वीड्य॑॥ ८.०११.०१

त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य।

अग्ने॑ र॒थीर॑ध्व॒राणा॑म्॥ ८.०११.०२

स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः।

अदे॑वीरग्ने॒ अरा॑तीः॥ ८.०११.०३

अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः।

नोप॑ वेषि जातवेदः॥ ८.०११.०४

मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे।

विप्रा॑सो जा॒तवे॑दसः॥ ८.०११.०५

विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑।

अ॒ग्निं गी॒र्भिर्ह॑वामहे॥ ८.०११.०६

आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त्।

अग्ने॒ त्वांका॑मया गि॒रा॥ ८.०११.०७

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः।

स॒मत्सु॑ त्वा हवामहे॥ ८.०११.०८

स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे।

वाजे॑षु चि॒त्ररा॑धसम्॥ ८.०११.०९

प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑।

स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व॥ ८.०११.१०

 

य इ॑न्द्र सोम॒पात॑मो॒ मद॑ शविष्ठ॒ चेत॑ति।

येना॒ हंसि॒ न्य१त्रिणं॒ तमी॑महे॥ ८.०१२.०१

येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम्।

येना॑ समु॒द्रमावि॑था॒ तमी॑महे॥ ८.०१२.०२

येन॒ सिन्धुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दय॑।

पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे॥ ८.०१२.०३

इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः।

येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ॥ ८.०१२.०४

इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते।

इन्द्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ॥ ८.०१२.०५

यो नो॑ दे॒वः प॑रा॒वत॑ सखित्व॒नाय॑ माम॒हे।

दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ॥ ८.०१२.०६

व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः।

यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत्॥ ८.०१२.०७

यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघ॑।

आदित्त॑ इन्द्रि॒यं महि॒ प्र वा॑वृधे॥ ८.०१२.०८

इन्द्र॒ सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति।

अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे॥ ८.०१२.०९

इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी।

स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत्॥ ८.०१२.१०

गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक्।

स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी॑त॒ इत्॥ ८.०१२.११

स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्र॒ सोम॑स्य पी॒तये॑।

प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत्॥ ८.०१२.१२

यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यव॑।

घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत्॥ ८.०१२.१३

उ॒त स्व॒राजे॒ अदि॑ति॒ स्तोम॒मिन्द्रा॑य जीजनत्।

पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत्॥ ८.०१२.१४

अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये।

न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत्॥ ८.०१२.१५

यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये।

यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः॥ ८.०१२.१६

यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से।

अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः॥ ८.०१२.१७

यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते।

उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः॥ ८.०१२.१८

दे॒वंदे॑वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑।

अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः॥ ८.०१२.१९

य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मम्।

होत्रा॑भि॒रिन्द्रं॑ वावृधु॒र्व्या॑नशुः॥ ८.०१२.२०

म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः।

विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः॥ ८.०१२.२१

इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे दे॒वासो॑ दधिरे पु॒रः।

इन्द्रं॒ वाणी॑रनूषता॒ समोज॑से॥ ८.०१२.२२

म॒हान्तं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुत॑म्।

अ॒र्कैर॒भि प्र णो॑नुम॒ समोज॑से॥ ८.०१२.२३

न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण॑म्।

अमा॒दिद॑स्य तित्विषे॒ समोज॑सः॥ ८.०१२.२४

यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः॥ ८.०१२.२५

य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः॥ ८.०१२.२६

य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः॥ ८.०१२.२७

य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे॥ ८.०१२.२८

य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे॥ ८.०१२.२९

य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे॥ ८.०१२.३०

इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभि॑।

जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे॥ ८.०१२.३१

यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन्।

नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे॥ ८.०१२.३२

सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिन्द्र दद्धि नः।

होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे॥ ८.०१२.३३

 

इन्द्र॑ सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्य॑म्।

वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः॥ ८.०१३.०१

स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः।

सु॒पा॒रः सु॒श्रव॑स्तम॒ सम॑प्सु॒जित्॥ ८.०१३.०२

तम॑ह्वे॒ वाज॑सातय॒ इन्द्रं॒ भरा॑य शु॒ष्मिण॑म्।

भवा॑ नः सु॒म्ने अन्त॑म॒ सखा॑ वृ॒धे॥ ८.०१३.०३

इ॒यं त॑ इन्द्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः।

म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि॥ ८.०१३.०४

नू॒नं तदि॑न्द्र दद्धि नो॒ यत्त्वा॑ सु॒न्वन्त॒ ईम॑हे।

र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विद॑म्॥ ८.०१३.०५

स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिर॑।

व॒या इ॒वानु॑ रोहते जु॒षन्त॒ यत्॥ ८.०१३.०६

प्र॒त्न॒वज्ज॑नया॒ गिर॑ शृणु॒धी ज॑रि॒तुर्हव॑म्।

मदे॑मदे ववक्षिथा सु॒कृत्व॑ने॥ ८.०१३.०७

क्रीळ॑न्त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता॑ य॒तीः।

अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः॥ ८.०१३.०८

उ॒तो पति॒र्य उ॒च्यते॑ कृष्टी॒नामेक॒ इद्व॒शी।

न॒मो॒वृ॒धैर॑व॒स्युभि॑ सु॒ते र॑ण॥ ८.०१३.०९

स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा॑।

गन्ता॑रा दा॒शुषो॑ गृ॒हं न॑म॒स्विन॑॥ ८.०१३.१०

तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः।

आ या॑हि य॒ज्ञमा॒शुभि॒ शमिद्धि ते॑॥ ८.०१३.११

इन्द्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय।

श्रव॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नम्॥ ८.०१३.१२

हवे॑ त्वा॒ सूर॒ उदि॑ते॒ हवे॑ म॒ध्यंदि॑ने दि॒वः।

जु॒षा॒ण इ॑न्द्र॒ सप्ति॑भिर्न॒ आ ग॑हि॥ ८.०१३.१३

आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा॑ सु॒तस्य॒ गोम॑तः।

तन्तुं॑ तनुष्व पू॒र्व्यं यथा॑ वि॒दे॥ ८.०१३.१४

यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन्।

यद्वा॑ समु॒द्रे अन्ध॑सोऽवि॒तेद॑सि॥ ८.०१३.१५

इन्द्रं॑ वर्धन्तु नो॒ गिर॒ इन्द्रं॑ सु॒तास॒ इन्द॑वः।

इन्द्रे॑ ह॒विष्म॑ती॒र्विशो॑ अराणिषुः॥ ८.०१३.१६

तमिद्विप्रा॑ अव॒स्यव॑ प्र॒वत्व॑तीभिरू॒तिभि॑।

इन्द्रं॑ क्षो॒णीर॑वर्धयन्व॒या इ॑व॥ ८.०१३.१७

त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत।

तमिद्व॑र्धन्तु नो॒ गिर॑ स॒दावृ॑धम्॥ ८.०१३.१८

स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे।

शुचि॑ पाव॒क उ॑च्यते॒ सो अद्भु॑तः॥ ८.०१३.१९

तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु।

मनो॒ यत्रा॒ वि तद्द॒धुर्विचे॑तसः॥ ८.०१३.२०

यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः।

येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम॥ ८.०१३.२१

क॒दा त॑ इन्द्र गिर्वण स्तो॒ता भ॑वाति॒ शंत॑मः।

क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः॥ ८.०१३.२२

उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथ॑म्।

अ॒जु॒र्यस्य॑ म॒दिन्त॑मं॒ यमीम॑हे॥ ८.०१३.२३

तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभि॑।

नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता॥ ८.०१३.२४

वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभि॑।

धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः॥ ८.०१३.२५

इन्द्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः।

ऋ॒तादि॑यर्मि ते॒ धियं॑ मनो॒युज॑म्॥ ८.०१३.२६

इ॒ह त्या स॑ध॒माद्या॑ युजा॒नः सोम॑पीतये।

हरी॑ इन्द्र प्र॒तद्व॑सू अ॒भि स्व॑र॥ ८.०१३.२७

अ॒भि स्व॑रन्तु॒ ये तव॑ रु॒द्रास॑ सक्षत॒ श्रिय॑म्।

उ॒तो म॒रुत्व॑ती॒र्विशो॑ अ॒भि प्रय॑॥ ८.०१३.२८

इ॒मा अ॑स्य॒ प्रतू॑र्तयः प॒दं जु॑षन्त॒ यद्दि॒वि।

नाभा॑ य॒ज्ञस्य॒ सं द॑धु॒र्यथा॑ वि॒दे॥ ८.०१३.२९

अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे।

मिमी॑ते य॒ज्ञमा॑नु॒षग्वि॒चक्ष्य॑॥ ८.०१३.३०

वृषा॒यमि॑न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑।

वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हव॑॥ ८.०१३.३१

वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः।

वृषा॑ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हव॑॥ ८.०१३.३२

वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑।

वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हव॑॥ ८.०१३.३३

 

यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत्।

स्तो॒ता मे॒ गोष॑खा स्यात्॥ ८.०१४.०१

शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑।

यद॒हं गोप॑ति॒ स्याम्॥ ८.०१४.०२

धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते।

गामश्वं॑ पि॒प्युषी॑ दुहे॥ ८.०१४.०३

न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्य॑।

यद्दित्स॑सि स्तु॒तो म॒घम्॥ ८.०१४.०४

य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत्।

च॒क्रा॒ण ओ॑प॒शं दि॒वि॥ ८.०१४.०५

वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युष॑।

ऊ॒तिमि॒न्द्रा वृ॑णीमहे॥ ८.०१४.०६

व्य१न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना।

इन्द्रो॒ यदभि॑नद्व॒लम्॥ ८.०१४.०७

उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः।

अ॒र्वाञ्चं॑ नुनुदे व॒लम्॥ ८.०१४.०८

इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च।

स्थि॒राणि॒ न प॑रा॒णुदे॑॥ ८.०१४.०९

अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते।

वि ते॒ मदा॑ अराजिषुः॥ ८.०१४.१०

त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः।

स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत्॥ ८.०१४.११

इन्द्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः।

उप॑ य॒ज्ञं सु॒राध॑सम्॥ ८.०१४.१२

अ॒पां फेने॑न॒ नमु॑चे॒ शिर॑ इ॒न्द्रोद॑वर्तयः।

विश्वा॒ यदज॑य॒ स्पृध॑॥ ८.०१४.१३

मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः।

अव॒ दस्यूँ॑रधूनुथाः॥ ८.०१४.१४

अ॒सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः।

सो॒म॒पा उत्त॑रो॒ भव॑न्॥ ८.०१४.१५

 

तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम्।

इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत॥ ८.०१५.०१

यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी।

गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना॥ ८.०१५.०२

स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे।

इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे॥ ८.०१५.०३

तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम्।

उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म्॥ ८.०१५.०४

येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ।

म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि॥ ८.०१५.०५

तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑।

वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे॥ ८.०१५.०६

तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म्।

वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम्॥ ८.०१५.०७

तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रव॑।

त्वामाप॒ पर्व॑तासश्च हिन्विरे॥ ८.०१५.०८

त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः।

त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम्॥ ८.०१५.०९

त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे।

स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे॥ ८.०१५.१०

स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे।

नान्य इन्द्रा॒त्कर॑णं॒ भूय॑ इन्वति॥ ८.०१५.११

यदि॑न्द्र मन्म॒शस्त्वा॒ नाना॒ हव॑न्त ऊ॒तये॑।

अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय॥ ८.०१५.१२

अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन्।

इन्द्रं॒ जैत्रा॑य हर्षया॒ शची॒पति॑म्॥ ८.०१५.१३

 

प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः।

नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम्॥ ८.०१६.०१

यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑।

अ॒पामवो॒ न स॑मु॒द्रे॥ ८.०१६.०२

तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम्।

म॒हो वा॒जिनं॑ स॒निभ्य॑॥ ८.०१६.०३

यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः।

ह॒र्षु॒मन्त॒ शूर॑सातौ॥ ८.०१६.०४

तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते।

येषा॒मिन्द्र॒स्ते ज॑यन्ति॥ ८.०१६.०५

तमिच्च्यौ॒त्नैरार्य॑न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णय॑।

ए॒ष इन्द्रो॑ वरिव॒स्कृत्॥ ८.०१६.०६

इन्द्रो॑ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्र॑ पु॒रू पु॑रुहू॒तः।

म॒हान्म॒हीभि॒ शची॑भिः॥ ८.०१६.०७

स स्तोम्य॒ स हव्य॑ स॒त्यः सत्वा॑ तुविकू॒र्मिः।

एक॑श्चि॒त्सन्न॒भिभू॑तिः॥ ८.०१६.०८

तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णय॑।

इन्द्रं॑ वर्धन्ति क्षि॒तय॑॥ ८.०१६.०९

प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योति॑ स॒मत्सु॑।

सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न्॥ ८.०१६.१०

स न॒ पप्रि॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः।

इन्द्रो॒ विश्वा॒ अति॒ द्विष॑॥ ८.०१६.११

स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑।

अच्छा॑ च नः सु॒म्नं ने॑षि॥ ८.०१६.१२

 

आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम्।

एदं ब॒र्हिः स॑दो॒ मम॑॥ ८.०१७.०१

आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑।

उप॒ ब्रह्मा॑णि नः शृणु॥ ८.०१७.०२

ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिन॑।

सु॒ताव॑न्तो हवामहे॥ ८.०१७.०३

आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑।

पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः॥ ८.०१७.०४

आ ते॑ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु।

गृ॒भा॒य जि॒ह्वया॒ मधु॑॥ ८.०१७.०५

स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒३ तव॑।

सोम॒ शम॑स्तु ते हृ॒दे॥ ८.०१७.०६

अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः।

प्र सोम॑ इन्द्र सर्पतु॥ ८.०१७.०७

तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे॑।

इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते॥ ८.०१७.०८

इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा।

वृ॒त्राणि॑ वृत्रहञ्जहि॥ ८.०१७.०९

दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि।

यज॑मानाय सुन्व॒ते॥ ८.०१७.१०

अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑।

एही॑म॒स्य द्रवा॒ पिब॑॥ ८.०१७.११

शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः।

आख॑ण्डल॒ प्र हू॑यसे॥ ८.०१७.१२

यस्ते॑ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्य॑।

न्य॑स्मिन्दध्र॒ आ मन॑॥ ८.०१७.१३

वास्तो॑ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्याना॑म्।

द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिन्द्रो॒ मुनी॑नां॒ सखा॑॥ ८.०१७.१४

पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एक॒ सन्न॒भि भूय॑सः।

भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये॑॥ ८.०१७.१५

 

इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्य॑।

आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि॥ ८.०१८.०१

अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म्।

अद॑ब्धा॒ सन्ति॑ पा॒यव॑ सुगे॒वृध॑॥ ८.०१८.०२

तत्सु न॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा।

शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे॥ ८.०१८.०३

दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि।

स्मत्सू॒रिभि॑ पुरुप्रिये सु॒शर्म॑भिः॥ ८.०१८.०४

ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे।

अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हस॑॥ ८.०१८.०५

अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः।

अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा॥ ८.०१८.०६

उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत्।

सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिध॑॥ ८.०१८.०७

उ॒त त्या दैव्या॑ भि॒षजा॒ शं न॑ करतो अ॒श्विना॑।

यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिध॑॥ ८.०१८.०८

शम॒ग्निर॒ग्निभि॑ कर॒च्छं न॑स्तपतु॒ सूर्य॑।

शं वातो॑ वात्वर॒पा अप॒ स्रिध॑॥ ८.०१८.०९

अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम्।

आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः॥ ८.०१८.१०

यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम्।

ऋध॒ग्द्वेष॑ कृणुत विश्ववेदसः॥ ८.०१८.११

तत्सु न॒ शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति।

एन॑स्वन्तं चि॒देन॑सः सुदानवः॥ ८.०१८.१२

यो न॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्य॑।

स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जन॑॥ ८.०१८.१३

समित्तम॒घम॑श्नवद्दु॒शंसं॒ मर्त्यं॑ रि॒पुम्।

यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः॥ ८.०१८.१४

पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्य॑म्।

उप॑ द्व॒युं चाद्व॑युं च वसवः॥ ८.०१८.१५

आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे।

द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम्॥ ८.०१८.१६

ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः।

अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन॥ ८.०१८.१७

तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑।

आदि॑त्यासः सुमहसः कृ॒णोत॑न॥ ८.०१८.१८

य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑।

यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑॥ ८.०१८.१९

बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑।

मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑॥ ८.०१८.२०

अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य॑म्।

त्रि॒वरू॑थं मरुतो यन्त नश्छ॒र्दिः॥ ८.०१८.२१

ये चि॒द्धि मृ॒त्युब॑न्धव॒ आदि॑त्या॒ मन॑व॒ स्मसि॑।

प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन॥ ८.०१८.२२

 

तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे।

दे॒व॒त्रा ह॒व्यमोहि॑रे॥ ८.०१९.०१

विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व य॒न्तुर॑म्।

अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य॑म्॥ ८.०१९.०२

यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यम्।

अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म्॥ ८.०१९.०३

ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम्।

स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि॥ ८.०१९.०४

यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑।

यो नम॑सा स्वध्व॒रः॥ ८.०१९.०५

तस्येदर्व॑न्तो रंहयन्त आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यश॑।

न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत्॥ ८.०१९.०६

स्व॒ग्नयो॑ वो अ॒ग्निभि॒ स्याम॑ सूनो सहस ऊर्जां पते।

सु॒वीर॒स्त्वम॑स्म॒युः॥ ८.०१९.०७

प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्य॑।

त्वे क्षेमा॑सो॒ अपि॑ सन्ति सा॒धव॒स्त्वं राजा॑ रयी॒णाम्॥ ८.०१९.०८

सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्त॑ सुभग॒ स प्र॒शंस्य॑।

स धी॒भिर॑स्तु॒ सनि॑ता॥ ८.०१९.०९

यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑र॒ स सा॑धते।

सो अर्व॑द्भि॒ सनि॑ता॒ स वि॑प॒न्युभि॒ स शूरै॒ सनि॑ता कृ॒तम्॥ ८.०१९.१०

यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः।

ह॒व्या वा॒ वेवि॑ष॒द्विष॑॥ ८.०१९.११

विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑।

अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वच॑॥ ८.०१९.१२

यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति।

गि॒रा वा॑जि॒रशो॑चिषम्॥ ८.०१९.१३

स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्य॑।

विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत्॥ ८.०१९.१४

तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण॑म्।

म॒न्युं जन॑स्य दू॒ढ्य॑॥ ८.०१९.१५

येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भग॑।

व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वोता विधेमहि॥ ८.०१९.१६

ते घेद॑ग्ने स्वा॒ध्यो॒३ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सम्।

विप्रा॑सो देव सु॒क्रतु॑म्॥ ८.०१९.१७

त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि।

त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे॥ ८.०१९.१८

भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः।

भ॒द्रा उ॒त प्रश॑स्तयः॥ ८.०१९.१९

भ॒द्रं मन॑ कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सह॑।

अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः॥ ८.०१९.२०

ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे।

यजि॑ष्ठं हव्य॒वाह॑नम्॥ ८.०१९.२१

ति॒ग्मज॑म्भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑।

यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः॥ ८.०१९.२२

यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च।

असु॑र इव नि॒र्णिज॑म्॥ ८.०१९.२३

यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑ग॒न्धिना॑।

विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः॥ ८.०१९.२४

यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः।

सह॑सः सूनवाहुत॥ ८.०१९.२५

न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ सन्त्य।

न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑त॒ स्याद॑ग्ने॒ न पा॒पया॑॥ ८.०१९.२६

पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः॥ ८.०१९.२७

तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो।

सदा॑ दे॒वस्य॒ मर्त्य॑॥ ८.०१९.२८

तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः।

त्वामिदा॑हु॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे॥ ८.०१९.२९

प्र सो अ॑ग्ने॒ तवो॒तिभि॑ सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः।

यस्य॒ त्वं स॒ख्यमा॒वर॑॥ ८.०१९.३०

तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इन्धा॑नः सिष्ण॒वा द॑दे।

त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि॥ ८.०१९.३१

तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से।

स॒म्राजं॒ त्रास॑दस्यवम्॥ ८.०१९.३२

यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व।

विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न्॥ ८.०१९.३३

यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्य॑म्।

म॒घोनां॒ विश्वे॑षां सुदानवः॥ ८.०१९.३४

यू॒यं रा॑जान॒ कं चि॑च्चर्षणीसह॒ क्षय॑न्तं॒ मानु॑षाँ॒ अनु॑।

व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्स्यामेदृ॒तस्य॑ र॒थ्य॑॥ ८.०१९.३५

अदा॑न्मे पौरुकु॒त्स्यः प॑ञ्चा॒शतं॑ त्र॒सद॑स्युर्व॒धूना॑म्।

मंहि॑ष्ठो अ॒र्यः सत्प॑तिः॥ ८.०१९.३६

उ॒त मे॑ प्र॒यियो॑र्व॒यियो॑ सु॒वास्त्वा॒ अधि॒ तुग्व॑नि।

ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पति॑॥ ८.०१९.३७

 

आ ग॑न्ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः।

स्थि॒रा चि॑न्नमयिष्णवः॥ ८.०२०.०१

वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभि॑।

इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यव॑॥ ८.०२०.०२

वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वताम्।

विष्णो॑रे॒षस्य॑ मी॒ळ्हुषा॑म्॥ ८.०२०.०३

वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी।

प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः॥ ८.०२०.०४

अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पति॑।

भूमि॒र्यामे॑षु रेजते॥ ८.०२०.०५

अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत्।

यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः॥ ८.०२०.०६

स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वन्तो॒ वृष॑प्सवः।

वह॑न्ते॒ अह्रु॑तप्सवः॥ ८.०२०.०७

गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑।

गोब॑न्धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हान्तो॑ न॒ स्पर॑से॒ नु॥ ८.०२०.०८

प्रति॑ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वम्।

ह॒व्या वृष॑प्रयाव्णे॥ ८.०२०.०९

वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना।

आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत॥ ८.०२०.१०

स॒मा॒नम॒ञ्ज्ये॑षां॒ वि भ्रा॑जन्ते रु॒क्मासो॒ अधि॑ बा॒हुषु॑।

दवि॑द्युतत्यृ॒ष्टय॑॥ ८.०२०.११

त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे।

स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रिय॑॥ ८.०२०.१२

येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे।

वयो॒ न पित्र्यं॒ सह॑॥ ८.०२०.१३

तान्व॑न्दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नाम्।

अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षाम्॥ ८.०२०.१४

सु॒भग॒ स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु।

यो वा॑ नू॒नमु॒तास॑ति॥ ८.०२०.१५

यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ।

अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत्॥ ८.०२०.१६

यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वश॒न्त्यसु॑रस्य वे॒धस॑।

युवा॑न॒स्तथेद॑सत्॥ ८.०२०.१७

ये चार्ह॑न्ति म॒रुत॑ सु॒दान॑व॒ स्मन्मी॒ळ्हुष॒श्चर॑न्ति॒ ये।

अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वम्॥ ८.०२०.१८

यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्ण॑ पाव॒काँ अ॒भि सो॑भरे गि॒रा।

गाय॒ गा इ॑व॒ चर्कृ॑षत्॥ ८.०२०.१९

सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु।

वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान्गि॒रा वन्द॑स्व म॒रुतो॒ अह॑॥ ८.०२०.२०

गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुत॒ सब॑न्धवः।

रि॒ह॒ते क॒कुभो॑ मि॒थः॥ ८.०२०.२१

मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति।

अधि॑ नो गात मरुत॒ सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि॥ ८.०२०.२२

मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः।

यू॒यं स॑खायः सप्तयः॥ ८.०२०.२३

याभि॒ सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि॑म्।

मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः॥ ८.०२०.२४

यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः।

यत्पर्व॑तेषु भेष॒जम्॥ ८.०२०.२५

विश्वं॒ पश्य॑न्तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत।

क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुन॑॥ ८.०२०.२६

 

व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यव॑।

वाजे॑ चि॒त्रं ह॑वामहे॥ ८.०२१.०१

उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत्।

त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम्॥ ८.०२१.०२

आ या॑ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते।

सोमं॑ सोमपते पिब॥ ८.०२१.०३

व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा॑स इन्द्र येमि॒म।

या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भि॒ सोम॑पीतये॥ ८.०२१.०४

सीद॑न्तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे।

अ॒भि त्वामि॑न्द्र नोनुमः॥ ८.०२१.०५

अच्छा॑ च त्वै॒ना नम॑सा॒ वदा॑मसि॒ किं मुहु॑श्चि॒द्वि दी॑धयः।

सन्ति॒ कामा॑सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति॑ नो॒ धिय॑॥ ८.०२१.०६

नूत्ना॒ इदि॑न्द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः।

वि॒द्मा पु॒रा परी॑णसः॥ ८.०२१.०७

वि॒द्मा स॑खि॒त्वमु॒त शू॑र भो॒ज्य१मा ते॒ ता व॑ज्रिन्नीमहे।

उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे॑ सुशिप्र॒ गोम॑ति॥ ८.०२१.०८

यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ व स्तुषे।

सखा॑य॒ इन्द्र॑मू॒तये॑॥ ८.०२१.०९

हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत।

आ तु न॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम्॥ ८.०२१.१०

त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒सन्तं॑ वृषभ ब्रुवीमहि।

सं॒स्थे जन॑स्य॒ गोम॑तः॥ ८.०२१.११

जये॑म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्य॑।

नृभि॑र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे॑रिन्द्र॒ प्र णो॒ धिय॑॥ ८.०२१.१२

अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि।

यु॒धेदा॑पि॒त्वमि॑च्छसे॥ ८.०२१.१३

नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्व॑।

य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे॥ ८.०२१.१४

मा ते॑ अमा॒जुरो॑ यथा मू॒रास॑ इन्द्र स॒ख्ये त्वाव॑तः।

नि ष॑दाम॒ सचा॑ सु॒ते॥ ८.०२१.१५

मा ते॑ गोदत्र॒ निर॑राम॒ राध॑स॒ इन्द्र॒ मा ते॑ गृहामहि।

दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते॑ दा॒मान॑ आ॒दभे॑॥ ८.०२१.१६

इन्द्रो॑ वा॒ घेदिय॑न्म॒घं सर॑स्वती वा सु॒भगा॑ द॒दिर्वसु॑।

त्वं वा॑ चित्र दा॒शुषे॑॥ ८.०२१.१७

चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑।

प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त्॥ ८.०२१.१८

 

ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑।

यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथु॑॥ ८.०२२.०१

पू॒र्वा॒युषं॑ सु॒हवं॑ पुरु॒स्पृहं॑ भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म्।

स॒च॒नाव॑न्तं सुम॒तिभि॑ सोभरे॒ विद्वे॑षसमने॒हस॑म्॥ ८.०२२.०२

इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विना॑।

अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गन्ता॑रा दा॒शुषो॑ गृ॒हम्॥ ८.०२२.०३

यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति।

अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु॥ ८.०२२.०४

रथो॒ यो वां॑ त्रिवन्धु॒रो हिर॑ण्याभीशुरश्विना।

परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम्॥ ८.०२२.०५

द॒श॒स्यन्ता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः।

ता वा॑म॒द्य सु॑म॒तिभि॑ शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि॥ ८.०२२.०६

उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभि॑।

येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः॥ ८.०२२.०७

अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू।

आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे॥ ८.०२२.०८

आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू।

यु॒ञ्जाथां॒ पीव॑री॒रिष॑॥ ८.०२२.०९

याभि॑ प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसम्।

ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रम्॥ ८.०२२.१०

यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे।

व॒यं गी॒र्भिर्वि॑प॒न्यव॑॥ ८.०२२.११

ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यम्।

इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभि॒ क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तम्॥ ८.०२२.१२

तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वन्द॑मान॒ उप॑ ब्रुवे।

ता उ॒ नमो॑भिरीमहे॥ ८.०२२.१३

ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी।

मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतम्॥ ८.०२२.१४

आ सुग्म्या॑य॒ सुग्म्यं॑ प्रा॒ता रथे॑ना॒श्विना॑ वा स॒क्षणी॑।

हु॒वे पि॒तेव॒ सोभ॑री॥ ८.०२२.१५

मनो॑जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभि॑।

आ॒रात्ता॑च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभि॑ पुरुभोजसा॥ ८.०२२.१६

आ नो॒ अश्वा॑वदश्विना व॒र्तिर्या॑सिष्टं मधुपातमा नरा।

गोम॑द्दस्रा॒ हिर॑ण्यवत्॥ ८.०२२.१७

सु॒प्रा॒व॒र्गं सु॒वीर्यं॑ सु॒ष्ठु वार्य॒मना॑धृष्टं रक्ष॒स्विना॑।

अ॒स्मिन्ना वा॑मा॒याने॑ वाजिनीवसू॒ विश्वा॑ वा॒मानि॑ धीमहि॥ ८.०२२.१८

 

ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१ यज॑स्व जा॒तवे॑दसम्।

च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषम्॥ ८.०२३.०१

दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा।

उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नाम्॥ ८.०२३.०२

येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑।

उ॒प॒विदा॒ वह्नि॑र्विन्दते॒ वसु॑॥ ८.०२३.०३

उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१जर॑म्।

तपु॑र्जम्भस्य सु॒द्युतो॑ गण॒श्रिय॑॥ ८.०२३.०४

उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा।

अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनि॑॥ ८.०२३.०५

अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक्।

यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः॥ ८.०२३.०६

अ॒ग्निं व॑ पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नाम्।

तम॒या वा॒चा गृ॑णे॒ तमु॑ व स्तुषे॥ ८.०२३.०७

य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दय॑न्त॒ इत्।

मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि॥ ८.०२३.०८

ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा।

उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे॥ ८.०२३.०९

अच्छा॑ नो॒ अङ्गि॑रस्तमं य॒ज्ञासो॑ यन्तु सं॒यत॑।

होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः॥ ८.०२३.१०

अग्ने॒ तव॒ त्ये अ॑ज॒रेन्धा॑नासो बृ॒हद्भाः।

अश्वा॑ इव॒ वृष॑णस्तविषी॒यव॑॥ ८.०२३.११

स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्य॑म्।

प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा॥ ८.०२३.१२

यद्वा उ॑ वि॒श्पति॑ शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि।

विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति॥ ८.०२३.१३

श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते।

नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह॥ ८.०२३.१४

न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्य॑।

यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः॥ ८.०२३.१५

व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषि॑।

म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि॥ ८.०२३.१६

उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत्।

आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसम्॥ ८.०२३.१७

विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त।

श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः॥ ८.०२३.१८

इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्य॑।

पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसम्॥ ८.०२३.१९

तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषम्।

वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्य॑म्॥ ८.०२३.२०

यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत्।

भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यश॑॥ ८.०२३.२१

प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम्।

प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती॥ ८.०२३.२२

आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत्।

मंहि॑ष्ठाभिर्म॒तिभि॑ शु॒क्रशो॑चिषे॥ ८.०२३.२३

नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भि स्थूरयूप॒वत्।

ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑॥ ८.०२३.२४

अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नाम्।

विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते॥ ८.०२३.२५

म॒हो विश्वाँ॑ अ॒भि ष॒तो॒३ऽभि ह॒व्यानि॒ मानु॑षा।

अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑॥ ८.०२३.२६

वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृह॑।

सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः॥ ८.०२३.२७

त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय।

सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते॥ ८.०२३.२८

त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिष॑।

म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि॥ ८.०२३.२९

अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह।

ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा॥ ८.०२३.३०

 

सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑।

स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑॥ ८.०२४.०१

शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा।

म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि॥ ८.०२४.०२

स न॒ स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम्।

नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः॥ ८.०२४.०३

आ नि॑रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना॑नाम्।

धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र॥ ८.०२४.०४

न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुर॑।

न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु॥ ८.०२४.०५

आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिरृ॑णोम्यद्रिवः।

आ स्मा॒ कामं॑ जरि॒तुरा मन॑ पृण॥ ८.०२४.०६

विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहन्तम।

उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि॥ ८.०२४.०७

व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः।

वसो॑ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः॥ ८.०२४.०८

इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शव॑।

अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑॥ ८.०२४.०९

आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से।

दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये॥ ८.०२४.१०

नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शस॑।

मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॑॥ ८.०२४.११

न॒ह्य१ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से।

रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः॥ ८.०२४.१२

एन्दु॒मिन्द्रा॑य सिञ्चत॒ पिबा॑ति सो॒म्यं मधु॑।

प्र राध॑सा चोदयाते महित्व॒ना॥ ८.०२४.१३

उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृ॒ञ्चन्त॑मब्रवम्।

नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑॥ ८.०२४.१४

न॒ह्य१ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत्।

नकी॑ रा॒या नैवथा॒ न भ॒न्दना॑॥ ८.०२४.१५

एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः।

ए॒वा हि वी॒र स्तव॑ते स॒दावृ॑धः॥ ८.०२४.१६

इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम्।

उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑॥ ८.०२४.१७

तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यव॑।

अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म्॥ ८.०२४.१८

एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑य॒ स्तोम्यं॒ नर॑म्।

कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत्॥ ८.०२४.१९

अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वच॑।

घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत॥ ८.०२४.२०

यस्यामि॑तानि वी॒र्या॒३ न राध॒ पर्ये॑तवे।

ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा॥ ८.०२४.२१

स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म्।

अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑॥ ८.०२४.२२

ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म्।

सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम्॥ ८.०२४.२३

वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म्।

अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव॥ ८.०२४.२४

तदि॒न्द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने।

द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय॥ ८.०२४.२५

तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से।

स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणि॑॥ ८.०२४.२६

य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिन्धु॑षु।

वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः॥ ८.०२४.२७

यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिम्।

व्य॑श्वेभ्यः सुभगे वाजिनीवति॥ ८.०२४.२८

आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिन॑।

स्थू॒रं च॒ राध॑ श॒तव॑त्स॒हस्र॑वत्॥ ८.०२४.२९

यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते।

ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति॥ ८.०२४.३०

 

ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑।

ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा॥ ८.०२५.०१

मि॒त्रा तना॒ न र॒थ्या॒३ वरु॑णो॒ यश्च॑ सु॒क्रतु॑।

स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता॥ ८.०२५.०२

ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा।

म॒ही ज॑जा॒नादि॑तिरृ॒ताव॑री॥ ८.०२५.०३

म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा।

ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत्॥ ८.०२५.०४

नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑।

सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः॥ ८.०२५.०५

सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिष॑।

नभ॑स्वती॒रा वां॑ चरन्तु वृ॒ष्टय॑॥ ८.०२५.०६

अधि॒ या बृ॑ह॒तो दि॒वो॒३ऽभि यू॒थेव॒ पश्य॑तः।

ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता॥ ८.०२५.०७

ऋ॒तावा॑ना॒ नि षे॑दतु॒ साम्रा॑ज्याय सु॒क्रतू॑।

धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः॥ ८.०२५.०८

अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा।

नि चि॑न्मि॒षन्ता॑ निचि॒रा नि चि॑क्यतुः॥ ८.०२५.०९

उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या।

उ॒रु॒ष्यन्तु॑ म॒रुतो॑ वृ॒द्धश॑वसः॥ ८.०२५.१०

ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः।

अरि॑ष्यन्तो॒ नि पा॒युभि॑ सचेमहि॥ ८.०२५.११

अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे।

श्रु॒धि स्व॑यावन्सिन्धो पू॒र्वचि॑त्तये॥ ८.०२५.१२

तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य॑म्।

मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद॑र्य॒मा॥ ८.०२५.१३

उ॒त न॒ सिन्धु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑।

इन्द्रो॒ विष्णु॑र्मी॒ढ्वांस॑ स॒जोष॑सः॥ ८.०२५.१४

ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित्।

ति॒ग्मं न क्षोद॑ प्रति॒घ्नन्ति॒ भूर्ण॑यः॥ ८.०२५.१५

अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पति॑।

तस्य॑ व्र॒तान्यनु॑ वश्चरामसि॥ ८.०२५.१६

अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम।

मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत्॥ ८.०२५.१७

परि॒ यो र॒श्मिना॑ दि॒वोऽन्ता॑न्म॒मे पृ॑थि॒व्याः।

उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा॥ ८.०२५.१८

उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्य॑।

अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः॥ ८.०२५.१९

वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः।

ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑॥ ८.०२५.२०

तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे।

भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑॥ ८.०२५.२१

ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे।

रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि॥ ८.०२५.२२

ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना।

उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा॥ ८.०२५.२३

स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती।

म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम्॥ ८.०२५.२४

 

यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑।

अतू॑र्तदक्षा वृषणा वृषण्वसू॥ ८.०२६.०१

यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या।

अवो॑भिर्याथो वृषणा वृषण्वसू॥ ८.०२६.०२

ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू।

पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः॥ ८.०२६.०३

आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा।

उप॒ स्तोमा॑न्तु॒रस्य॑ दर्शथः श्रि॒ये॥ ८.०२६.०४

जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू।

यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विष॑॥ ८.०२६.०५

द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभि॑ परि॒दीय॑थः।

धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑॥ ८.०२६.०६

उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह।

म॒घवा॑ना सु॒वीरा॒वन॑पच्युता॥ ८.०२६.०७

आ मे॑ अ॒स्य प्र॑ती॒व्य१मिन्द्र॑नासत्या गतम्।

दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा॥ ८.०२६.०८

व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यन्तो॑ व्यश्व॒वत्।

सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम्॥ ८.०२६.०९

अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव॑म्।

नेदी॑यसः कूळयातः प॒णीँरु॒त॥ ८.०२६.१०

वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः।

स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा॥ ८.०२६.११

यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभि॑।

अह॑रहर्वृषण॒ मह्यं॑ शिक्षतम्॥ ८.०२६.१२

यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व।

स॒प॒र्यन्ता॑ शु॒भे च॑क्राते अ॒श्विना॑॥ ८.०२६.१३

यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्य॑म्।

व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू॥ ८.०२६.१४

अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्य॑म्।

वि॒षु॒द्रुहे॑व य॒ज्ञमू॑हथुर्गि॒रा॥ ८.०२६.१५

वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा।

यु॒वाभ्यां॑ भूत्वश्विना॥ ८.०२६.१६

यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे।

श्रु॒तमिन्मे॑ अमर्त्या॥ ८.०२६.१७

उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना॑म्।

सिन्धु॒र्हिर॑ण्यवर्तनिः॥ ८.०२६.१८

स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या।

वहे॑थे शुभ्रयावाना॥ ८.०२६.१९

यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो।

आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि॥ ८.०२६.२०

तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत।

अवां॒स्या वृ॑णीमहे॥ ८.०२६.२१

त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे।

सु॒ताव॑न्तो वा॒युं द्यु॒म्ना जना॑सः॥ ८.०२६.२२

वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म्।

वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑॥ ८.०२६.२३

त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑।

ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑॥ ८.०२६.२४

स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मन्दा॒नो अ॑ग्रि॒यः।

कृ॒धि वाजाँ॑ अ॒पो धिय॑॥ ८.०२६.२५

 

अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे।

ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम्॥ ८.०२७.०१

आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः।

विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तार॑॥ ८.०२७.०२

प्र सू न॑ एत्वध्व॒रो॒३ऽग्ना दे॒वेषु॑ पू॒र्व्यः।

आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु॥ ८.०२७.०३

विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः।

अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः॥ ८.०२७.०४

आ नो॑ अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे॑ स॒जोष॑सः।

ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि॥ ८.०२७.०५

अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑।

आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यास॑ सदन्तु नः॥ ८.०२७.०६

व॒यं वो॑ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक्।

सु॒तसो॑मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः॥ ८.०२७.०७

आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या।

इन्द्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे॥ ८.०२७.०८

वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत।

न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू॑थमाद॒धर्ष॑ति॥ ८.०२७.०९

अस्ति॒ हि व॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म्।

प्र ण॒ पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से॥ ८.०२७.१०

इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑।

उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या॑मिव॥ ८.०२७.११

उदु॒ ष्य व॑ सवि॒ता सु॑प्रणीत॒योऽस्था॑दू॒र्ध्वो वरे॑ण्यः।

नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णव॑॥ ८.०२७.१२

दे॒वंदे॑वं॒ वोऽव॑से दे॒वंदे॑वम॒भिष्ट॑ये।

दे॒वंदे॑वं हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या॥ ८.०२७.१३

दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः।

ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विद॑॥ ८.०२७.१४

प्र व॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम्।

न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत्॥ ८.०२७.१५

प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति।

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्ट॒ सर्व॑ एधते॥ ८.०२७.१६

ऋ॒ते स वि॑न्दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः।

अ॒र्य॒मा मि॒त्रो वरु॑ण॒ सरा॑तयो॒ यं त्राय॑न्ते स॒जोष॑सः॥ ८.०२७.१७

अज्रे॑ चिदस्मै कृणुथा॒ न्यञ्च॑नं दु॒र्गे चि॒दा सु॑सर॒णम्।

ए॒षा चि॑दस्माद॒शनि॑ प॒रो नु सास्रे॑धन्ती॒ वि न॑श्यतु॥ ८.०२७.१८

यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध।

यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा॑ म॒ध्यंदि॑ने दि॒वः॥ ८.०२७.१९

यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑।

व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ॥ ८.०२७.२०

यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑।

वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे॥ ८.०२७.२१

व॒यं तद्व॑ सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म्।

अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै॥ ८.०२७.२२

 

ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन्।

वि॒दन्नह॑ द्वि॒तास॑नन्॥ ८.०२८.०१

वरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नय॑।

पत्नी॑वन्तो॒ वष॑ट्कृताः॥ ८.०२८.०२

ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क्।

पु॒रस्ता॒त्सर्व॑या वि॒शा॥ ८.०२८.०३

यथा॒ वश॑न्ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत्।

अरा॑वा च॒न मर्त्य॑॥ ८.०२८.०४

स॒प्ता॒नां स॒प्त ऋ॒ष्टय॑ स॒प्त द्यु॒म्नान्ये॑षाम्।

स॒प्तो अधि॒ श्रियो॑ धिरे॥ ८.०२८.०५

 

ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म्॥ ८.०२९.०१

योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेधि॑रः॥ ८.०२९.०२

वाशी॒मेको॑ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः॥ ८.०२९.०३

वज्र॒मेको॑ बिभर्ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृ॒त्राणि॑ जिघ्नते॥ ८.०२९.०४

ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः॥ ८.०२९.०५

प॒थ एक॑ पीपाय॒ तस्क॑रो यथाँ ए॒ष वे॑द निधी॒नाम्॥ ८.०२९.०६

त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मद॑न्ति॥ ८.०२९.०७

विभि॒र्द्वा च॑रत॒ एक॑या स॒ह प्र प्र॑वा॒सेव॑ वसतः॥ ८.०२९.०८

सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती॥ ८.०२९.०९

अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन्॥ ८.०२९.१०

 

न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः।

विश्वे॑ स॒तोम॑हान्त॒ इत्॥ ८.०३०.०१

इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑।

मनो॑र्देवा यज्ञियासः॥ ८.०३०.०२

ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत।

मा न॑ प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वत॑॥ ८.०३०.०३

ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त।

अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत॥ ८.०३०.०४

 

यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च।

ब्र॒ह्मेदिन्द्र॑स्य चाकनत्॥ ८.०३१.०१

पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म्।

पादित्तं श॒क्रो अंह॑सः॥ ८.०३१.०२

तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑त॒ स शू॑शुवत्।

विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑॥ ८.०३१.०३

अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे।

इळा॑ धेनु॒मती॑ दुहे॥ ८.०३१.०४

या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः।

देवा॑सो॒ नित्य॑या॒शिरा॑॥ ८.०३१.०५

प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते।

न ता वाजे॑षु वायतः॥ ८.०३१.०६

न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः।

श्रवो॑ बृ॒हद्वि॑वासतः॥ ८.०३१.०७

पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः।

उ॒भा हिर॑ण्यपेशसा॥ ८.०३१.०८

वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता॑य॒ कम्।

समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुव॑॥ ८.०३१.०९

आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीना॑म्।

आ विष्णो॑ सचा॒भुव॑॥ ८.०३१.१०

ऐतु॑ पू॒षा र॒यिर्भग॑ स्व॒स्ति स॑र्व॒धात॑मः।

उ॒रुरध्वा॑ स्व॒स्तये॑॥ ८.०३१.११

अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा।

आ॒दि॒त्याना॑मने॒ह इत्॥ ८.०३१.१२

यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑ण॒ सन्ति॑ गो॒पाः।

सु॒गा ऋ॒तस्य॒ पन्था॑॥ ८.०३१.१३

अ॒ग्निं व॑ पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम्।

स॒प॒र्यन्त॑ पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम्॥ ८.०३१.१४

म॒क्षू दे॒वव॑तो॒ रथ॒ शूरो॑ वा पृ॒त्सु कासु॑ चित्।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत्॥ ८.०३१.१५

न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत्॥ ८.०३१.१६

नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत्॥ ८.०३१.१७

अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म्।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत्॥ ८.०३१.१८

 

प्र कृ॒तान्यृ॑जी॒षिण॒ कण्वा॒ इन्द्र॑स्य॒ गाथ॑या।

मदे॒ सोम॑स्य वोचत॥ ८.०३२.०१

यः सृबि॑न्द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुव॑म्।

वधी॑दु॒ग्रो रि॒णन्न॒पः॥ ८.०३२.०२

न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र।

कृ॒षे तदि॑न्द्र॒ पौंस्य॑म्॥ ८.०३२.०३

प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑।

हु॒वे सु॑शि॒प्रमू॒तये॑॥ ८.०३२.०४

स गोरश्व॑स्य॒ वि व्र॒जं म॑न्दा॒नः सो॒म्येभ्य॑।

पुरं॒ न शू॑र दर्षसि॥ ८.०३२.०५

यदि॑ मे रा॒रण॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चन॑।

आ॒रादुप॑ स्व॒धा ग॑हि॥ ८.०३२.०६

व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः।

त्वं नो॑ जिन्व सोमपाः॥ ८.०३२.०७

उ॒त न॑ पि॒तुमा भ॑र संररा॒णो अवि॑क्षितम्।

मघ॑व॒न्भूरि॑ ते॒ वसु॑॥ ८.०३२.०८

उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विन॑।

इळा॑भि॒ सं र॑भेमहि॥ ८.०३२.०९

बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑।

साधु॑ कृ॒ण्वन्त॒मव॑से॥ ८.०३२.१०

यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा।

ज॒रि॒तृभ्य॑ पुरू॒वसु॑॥ ८.०३२.११

स न॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अन्तराभ॒रः।

इन्द्रो॒ विश्वा॑भिरू॒तिभि॑॥ ८.०३२.१२

यो रा॒यो॒३ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑।

तमिन्द्र॑म॒भि गा॑यत॥ ८.०३२.१३

आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित॑म्।

भूरे॒रीशा॑न॒मोज॑सा॥ ८.०३२.१४

नकि॑रस्य॒ शची॑नां निय॒न्ता सू॒नृता॑नाम्।

नकि॑र्व॒क्ता न दा॒दिति॑॥ ८.०३२.१५

न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒ताम्।

न सोमो॑ अप्र॒ता प॑पे॥ ८.०३२.१६

पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत।

ब्रह्मा॑ कृणोत॒ पन्य॒ इत्॥ ८.०३२.१७

पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः।

इन्द्रो॒ यो यज्व॑नो वृ॒धः॥ ८.०३२.१८

वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुव॑।

इन्द्र॒ पिब॑ सु॒ताना॑म्॥ ८.०३२.१९

पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑।

उ॒तायमि॑न्द्र॒ यस्तव॑॥ ८.०३२.२०

अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे।

इ॒मं रा॒तं सु॒तं पि॑ब॥ ८.०३२.२१

इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जनाँ॒ अति॑।

धेना॑ इन्द्राव॒चाक॑शत्॥ ८.०३२.२२

सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिर॑।

नि॒म्नमापो॒ न स॒ध्र्य॑क्॥ ८.०३२.२३

अध्व॑र्य॒वा तु हि षि॒ञ्च सोमं॑ वी॒राय॑ शि॒प्रिणे॑।

भरा॑ सु॒तस्य॑ पी॒तये॑॥ ८.०३२.२४

य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१क्सिन्धूँ॑र॒वासृ॑जत्।

यो गोषु॑ प॒क्वं धा॒रय॑त्॥ ८.०३२.२५

अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुव॑म्।

हि॒मेना॑विध्य॒दर्बु॑दम्॥ ८.०३२.२६

प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑।

दे॒वत्तं॒ ब्रह्म॑ गायत॥ ८.०३२.२७

यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः।

इन्द्रो॑ दे॒वेषु॒ चेत॑ति॥ ८.०३२.२८

इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या।

वो॒ळ्हाम॒भि प्रयो॑ हि॒तम्॥ ८.०३२.२९

अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑।

सो॒म॒पेया॑य वक्षतः॥ ८.०३२.३०

 

व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः।

प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते॥ ८.०३३.०१

स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिन॑।

क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः॥ ८.०३३.०२

कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म्।

पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे॥ ८.०३३.०३

पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा॑य मेध्यातिथे।

यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्यय॑॥ ८.०३३.०४

यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे।

य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा॑रि॒तः॥ ८.०३३.०५

यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः।

विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः॥ ८.०३३.०६

क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे।

अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः॥ ८.०३३.०७

दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे।

नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा॥ ८.०३३.०८

य उ॒ग्रः सन्ननि॑ष्टृत स्थि॒रो रणा॑य॒ संस्कृ॑तः।

यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत्॥ ८.०३३.०९

स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः।

वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः॥ ८.०३३.१०

वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑।

वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो॥ ८.०३३.११

वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र।

वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणाम्॥ ८.०३३.१२

एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम्।

नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतु॑॥ ८.०३३.१३

वह॑न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युज॑।

ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो॥ ८.०३३.१४

अ॒स्माक॑म॒द्यान्त॑मं॒ स्तोमं॑ धिष्व महामह।

अ॒स्माकं॑ ते॒ सव॑ना सन्तु॒ शंत॑मा॒ मदा॑य द्युक्ष सोमपाः॥ ८.०३३.१५

न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति।

यो अ॒स्मान्वी॒र आन॑यत्॥ ८.०३३.१६

इन्द्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मन॑।

उ॒तो अह॒ क्रतुं॑ र॒घुम्॥ ८.०३३.१७

सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथ॑म्।

ए॒वेद्धूर्वृष्ण॒ उत्त॑रा॥ ८.०३३.१८

अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा॑द॒कौ ह॑र।

मा ते॑ कशप्ल॒कौ दृ॑श॒न्स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ॥ ८.०३३.१९

 

एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम्।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.०१

आ त्वा॒ ग्रावा॒ वद॑न्नि॒ह सो॒मी घोषे॑ण यच्छतु।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.०२

अत्रा॒ वि ने॒मिरे॑षा॒मुरां॒ न धू॑नुते॒ वृक॑।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.०३

आ त्वा॒ कण्वा॑ इ॒हाव॑से॒ हव॑न्ते॒ वाज॑सातये।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.०४

दधा॑मि ते सु॒तानां॒ वृष्णे॒ न पू॑र्व॒पाय्य॑म्।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.०५

स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो॑धीर्न ऊ॒तये॑।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.०६

आ नो॑ याहि महेमते॒ सह॑स्रोते॒ शता॑मघ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.०७

आ त्वा॒ होता॒ मनु॑र्हितो देव॒त्रा व॑क्ष॒दीड्य॑।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.०८

आ त्वा॑ मद॒च्युता॒ हरी॑ श्ये॒नं प॒क्षेव॑ वक्षतः।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.०९

आ या॑ह्य॒र्य आ परि॒ स्वाहा॒ सोम॑स्य पी॒तये॑।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.१०

आ नो॑ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.११

सरू॑पै॒रा सु नो॑ गहि॒ सम्भृ॑तै॒ सम्भृ॑ताश्वः।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.१२

आ या॑हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टप॑।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.१३

आ नो॒ गव्या॒न्यश्व्या॑ स॒हस्रा॑ शूर दर्दृहि।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.१४

आ न॑ सहस्र॒शो भ॑रा॒युता॑नि श॒तानि॑ च।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो॥ ८.०३४.१५

आ यदिन्द्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः।

ओजि॑ष्ठ॒मश्व्यं॑ प॒शुम्॥ ८.०३४.१६

य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो॑ रघु॒ष्यद॑।

भ्राज॑न्ते॒ सूर्या॑ इव॥ ८.०३४.१७

पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑।

तिष्ठं॒ वन॑स्य॒ मध्य॒ आ॥ ८.०३४.१८

 

अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना॥ ८.०३५.०१

विश्वा॑भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा॑।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना॥ ८.०३५.०२

विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना॥ ८.०३५.०३

जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम्।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना॥ ८.०३५.०४

स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम्।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना॥ ८.०३५.०५

गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम्।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना॥ ८.०३५.०६

हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना॥ ८.०३५.०७

हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना॥ ८.०३५.०८

श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना॥ ८.०३५.०९

पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम्।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना॥ ८.०३५.१०

जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम्।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना॥ ८.०३५.११

ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिण॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम्।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना॥ ८.०३५.१२

मि॒त्रावरु॑णवन्ता उ॒त धर्म॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म्।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना॥ ८.०३५.१३

अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म्।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना॥ ८.०३५.१४

ऋ॒भु॒मन्ता॑ वृषणा॒ वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म्।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना॥ ८.०३५.१५

ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना॥ ८.०३५.१६

क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना॥ ८.०३५.१७

धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना॥ ८.०३५.१८

अत्रे॑रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम्॥ ८.०३५.१९

सर्गाँ॑ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम्॥ ८.०३५.२०

र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम्॥ ८.०३५.२१

अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑॥ ८.०३५.२२

न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑॥ ८.०३५.२३

स्वाहा॑कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः।

आ या॑तम