॥ ऋग्वेदः वैदिकस्वरविरहितः मण्डलं १॥
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्।
होतारं रत्नधातमम्॥ १.००१.०१
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत।
स देवाँ एह वक्षति॥ १.००१.०२
अग्निना रयिमश्नवत्पोषमेव दिवेदिवे।
यशसं वीरवत्तमम्॥ १.००१.०३
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि।
स इद्देवेषु गच्छति॥ १.००१.०४
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः।
देवो देवेभिरा गमत्॥ १.००१.०५
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि।
तवेत्तत्सत्यमङ्गिरः॥ १.००१.०६
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम्।
नमो भरन्त एमसि॥ १.००१.०७
राजन्तमध्वराणां गोपामृतस्य दीदिविम्।
वर्धमानं स्वे दमे॥ १.००१.०८
स नः पितेव सूनवेऽग्ने सूपायनो भव।
सचस्वा नः स्वस्तये॥ १.००१.०९
वायवा याहि दर्शतेमे सोमा अरंकृताः।
तेषां पाहि श्रुधी हवम्॥ १.००२.०१
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः।
सुतसोमा अहर्विदः॥ १.००२.०२
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे।
उरूची सोमपीतये॥ १.००२.०३
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम्।
इन्दवो वामुशन्ति हि॥ १.००२.०४
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू।
तावा यातमुप द्रवत्॥ १.००२.०५
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम्।
मक्ष्वित्था धिया नरा॥ १.००२.०६
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम्।
धियं घृताचीं साधन्ता॥ १.००२.०७
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा।
क्रतुं बृहन्तमाशाथे॥ १.००२.०८
कवी नो मित्रावरुणा तुविजाता उरुक्षया।
दक्षं दधाते अपसम्॥ १.००२.०९
अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती।
पुरुभुजा चनस्यतम्॥ १.००३.०१
अश्विना पुरुदंससा नरा शवीरया धिया।
धिष्ण्या वनतं गिरः॥ १.००३.०२
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः।
आ यातं रुद्रवर्तनी॥ १.००३.०३
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः।
अण्वीभिस्तना पूतासः॥ १.००३.०४
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः।
उप ब्रह्माणि वाघतः॥ १.००३.०५
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः।
सुते दधिष्व नश्चनः॥ १.००३.०६
ओमासश्चर्षणीधृतो विश्वे देवास आ गत।
दाश्वांसो दाशुषः सुतम्॥ १.००३.०७
विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः।
उस्रा इव स्वसराणि॥ १.००३.०८
विश्वे देवासो अस्रिध एहिमायासो अद्रुहः।
मेधं जुषन्त वह्नयः॥ १.००३.०९
पावका नः सरस्वती वाजेभिर्वाजिनीवती।
यज्ञं वष्टु धियावसुः॥ १.००३.१०
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम्।
यज्ञं दधे सरस्वती॥ १.००३.११
महो अर्णः सरस्वती प्र चेतयति केतुना।
धियो विश्वा वि राजति॥ १.००३.१२
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे।
जुहूमसि द्यविद्यवि॥ १.००४.०१
उप नः सवना गहि सोमस्य सोमपाः पिब।
गोदा इद्रेवतो मदः॥ १.००४.०२
अथा ते अन्तमानां विद्याम सुमतीनाम्।
मा नो अति ख्य आ गहि॥ १.००४.०३
परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम्।
यस्ते सखिभ्य आ वरम्॥ १.००४.०४
उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत।
दधाना इन्द्र इद्दुवः॥ १.००४.०५
उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः।
स्यामेदिन्द्रस्य शर्मणि॥ १.००४.०६
एमाशुमाशवे भर यज्ञश्रियं नृमादनम्।
पतयन्मन्दयत्सखम्॥ १.००४.०७
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः।
प्रावो वाजेषु वाजिनम्॥ १.००४.०८
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो।
धनानामिन्द्र सातये॥ १.००४.०९
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा।
तस्मा इन्द्राय गायत॥ १.००४.१०
आ त्वेता नि षीदतेन्द्रमभि प्र गायत।
सखाय स्तोमवाहसः॥ १.००५.०१
पुरूतमं पुरूणामीशानं वार्याणाम्।
इन्द्रं सोमे सचा सुते॥ १.००५.०२
स घा नो योग आ भुवत्स राये स पुरंध्याम्।
गमद्वाजेभिरा स नः॥ १.००५.०३
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः।
तस्मा इन्द्राय गायत॥ १.००५.०४
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये।
सोमासो दध्याशिरः॥ १.००५.०५
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः।
इन्द्र ज्यैष्ठ्याय सुक्रतो॥ १.००५.०६
आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः।
शं ते सन्तु प्रचेतसे॥ १.००५.०७
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो।
त्वां वर्धन्तु नो गिरः॥ १.००५.०८
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम्।
यस्मिन्विश्वानि पौंस्या॥ १.००५.०९
मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः।
ईशानो यवया वधम्॥ १.००५.१०
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः।
रोचन्ते रोचना दिवि॥ १.००६.०१
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे।
शोणा धृष्णू नृवाहसा॥ १.००६.०२
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे।
समुषद्भिरजायथाः॥ १.००६.०३
आदह स्वधामनु पुनर्गर्भत्वमेरिरे।
दधाना नाम यज्ञियम्॥ १.००६.०४
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः।
अविन्द उस्रिया अनु॥ १.००६.०५
देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः।
महामनूषत श्रुतम्॥ १.००६.०६
इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा।
मन्दू समानवर्चसा॥ १.००६.०७
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति।
गणैरिन्द्रस्य काम्यैः॥ १.००६.०८
अतः परिज्मन्ना गहि दिवो वा रोचनादधि।
समस्मिन्नृञ्जते गिरः॥ १.००६.०९
इतो वा सातिमीमहे दिवो वा पार्थिवादधि।
इन्द्रं महो वा रजसः॥ १.००६.१०
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः।
इन्द्रं वाणीरनूषत॥ १.००७.०१
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा।
इन्द्रो वज्री हिरण्ययः॥ १.००७.०२
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि।
वि गोभिरद्रिमैरयत्॥ १.००७.०३
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च।
उग्र उग्राभिरूतिभिः॥ १.००७.०४
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे।
युजं वृत्रेषु वज्रिणम्॥ १.००७.०५
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि।
अस्मभ्यमप्रतिष्कुतः॥ १.००७.०६
तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः।
न विन्धे अस्य सुष्टुतिम्॥ १.००७.०७
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा।
ईशानो अप्रतिष्कुतः॥ १.००७.०८
य एकश्चर्षणीनां वसूनामिरज्यति।
इन्द्रः पञ्च क्षितीनाम्॥ १.००७.०९
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः।
अस्माकमस्तु केवलः॥ १.००७.१०
एन्द्र सानसिं रयिं सजित्वानं सदासहम्।
वर्षिष्ठमूतये भर॥ १.००८.०१
नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै।
त्वोतासो न्यर्वता॥ १.००८.०२
इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि।
जयेम सं युधि स्पृधः॥ १.००८.०३
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम्।
सासह्याम पृतन्यतः॥ १.००८.०४
महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे।
द्यौर्न प्रथिना शवः॥ १.००८.०५
समोहे वा य आशत नरस्तोकस्य सनितौ।
विप्रासो वा धियायवः॥ १.००८.०६
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते।
उर्वीरापो न काकुदः॥ १.००८.०७
एवा ह्यस्य सूनृता विरप्शी गोमती मही।
पक्वा शाखा न दाशुषे॥ १.००८.०८
एवा हि ते विभूतय ऊतय इन्द्र मावते।
सद्यश्चित्सन्ति दाशुषे॥ १.००८.०९
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या।
इन्द्राय सोमपीतये॥ १.००८.१०
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः।
महाँ अभिष्टिरोजसा॥ १.००९.०१
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने।
चक्रिं विश्वानि चक्रये॥ १.००९.०२
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे।
सचैषु सवनेष्वा॥ १.००९.०३
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत।
अजोषा वृषभं पतिम्॥ १.००९.०४
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम्।
असदित्ते विभु प्रभु॥ १.००९.०५
अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः।
तुविद्युम्न यशस्वतः॥ १.००९.०६
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्।
विश्वायुर्धेह्यक्षितम्॥ १.००९.०७
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम्।
इन्द्र ता रथिनीरिषः॥ १.००९.०८
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम्।
होम गन्तारमूतये॥ १.००९.०९
सुतेसुते न्योकसे बृहद्बृहत एदरिः।
इन्द्राय शूषमर्चति॥ १.००९.१०
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे॥ १.०१०.०१
यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम्।
तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति॥ १.०१०.०२
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा।
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर॥ १.०१०.०३
एहि स्तोमाँ अभि स्वराभि गृणीह्या रुव।
ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय॥ १.०१०.०४
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे।
शक्रो यथा सुतेषु णो रारणत्सख्येषु च॥ १.०१०.०५
तमित्सखित्व ईमहे तं राये तं सुवीर्ये।
स शक्र उत नः शकदिन्द्रो वसु दयमानः॥ १.०१०.०६
सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः।
गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः॥ १.०१०.०७
नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः।
जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि॥ १.०१०.०८
आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः।
इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम्॥ १.०१०.०९
विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम्।
वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम्॥ १.०१०.१०
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब।
नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम्॥ १.०१०.११
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः।
वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः॥ १.०१०.१२
इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरः।
रथीतमं रथीनां वाजानां सत्पतिं पतिम्॥ १.०११.०१
सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते।
त्वामभि प्र णोनुमो जेतारमपराजितम्॥ १.०११.०२
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः।
यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम्॥ १.०११.०३
पुरां भिन्दुर्युवा कविरमितौजा अजायत।
इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः॥ १.०११.०४
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम्।
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः॥ १.०११.०५
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन्।
उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः॥ १.०११.०६
मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः।
विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर॥ १.०११.०७
इन्द्रमीशानमोजसाभि स्तोमा अनूषत।
सहस्रं यस्य रातय उत वा सन्ति भूयसीः॥ १.०११.०८
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्।
अस्य यज्ञस्य सुक्रतुम्॥ १.०१२.०१
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम्।
हव्यवाहं पुरुप्रियम्॥ १.०१२.०२
अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे।
असि होता न ईड्यः॥ १.०१२.०३
ताँ उशतो वि बोधय यदग्ने यासि दूत्यम्।
देवैरा सत्सि बर्हिषि॥ १.०१२.०४
घृताहवन दीदिवः प्रति ष्म रिषतो दह।
अग्ने त्वं रक्षस्विनः॥ १.०१२.०५
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा।
हव्यवाड्जुह्वास्यः॥ १.०१२.०६
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे।
देवममीवचातनम्॥ १.०१२.०७
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति।
तस्य स्म प्राविता भव॥ १.०१२.०८
यो अग्निं देववीतये हविष्माँ आविवासति।
तस्मै पावक मृळय॥ १.०१२.०९
स नः पावक दीदिवोऽग्ने देवाँ इहा वह।
उप यज्ञं हविश्च नः॥ १.०१२.१०
स न स्तवान आ भर गायत्रेण नवीयसा।
रयिं वीरवतीमिषम्॥ १.०१२.११
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः।
इमं स्तोमं जुषस्व नः॥ १.०१२.१२
सुसमिद्धो न आ वह देवाँ अग्ने हविष्मते।
होतः पावक यक्षि च॥ १.०१३.०१
मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे।
अद्या कृणुहि वीतये॥ १.०१३.०२
नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये।
मधुजिह्वं हविष्कृतम्॥ १.०१३.०३
अग्ने सुखतमे रथे देवाँ ईळित आ वह।
असि होता मनुर्हितः॥ १.०१३.०४
स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः।
यत्रामृतस्य चक्षणम्॥ १.०१३.०५
वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः।
अद्या नूनं च यष्टवे॥ १.०१३.०६
नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये।
इदं नो बर्हिरासदे॥ १.०१३.०७
ता सुजिह्वा उप ह्वये होतारा दैव्या कवी।
यज्ञं नो यक्षतामिमम्॥ १.०१३.०८
इळा सरस्वती मही तिस्रो देवीर्मयोभुवः।
बर्हिः सीदन्त्वस्रिधः॥ १.०१३.०९
इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये।
अस्माकमस्तु केवलः॥ १.०१३.१०
अव सृजा वनस्पते देव देवेभ्यो हविः।
प्र दातुरस्तु चेतनम्॥ १.०१३.११
स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे।
तत्र देवाँ उप ह्वये॥ १.०१३.१२
ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये।
देवेभिर्याहि यक्षि च॥ १.०१४.०१
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः।
देवेभिरग्न आ गहि॥ १.०१४.०२
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम्।
आदित्यान्मारुतं गणम्॥ १.०१४.०३
प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः।
द्रप्सा मध्वश्चमूषदः॥ १.०१४.०४
ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः।
हविष्मन्तो अरंकृतः॥ १.०१४.०५
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः।
आ देवान्सोमपीतये॥ १.०१४.०६
तान्यजत्राँ ऋतावृधोऽग्ने पत्नीवतस्कृधि।
मध्वः सुजिह्व पायय॥ १.०१४.०७
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया।
मधोरग्ने वषट्कृति॥ १.०१४.०८
आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः।
विप्रो होतेह वक्षति॥ १.०१४.०९
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना।
पिबा मित्रस्य धामभिः॥ १.०१४.१०
त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि।
सेमं नो अध्वरं यज॥ १.०१४.११
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः।
ताभिर्देवाँ इहा वह॥ १.०१४.१२
इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः।
मत्सरासस्तदोकसः॥ १.०१५.०१
मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन।
यूयं हि ष्ठा सुदानवः॥ १.०१५.०२
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना।
त्वं हि रत्नधा असि॥ १.०१५.०३
अग्ने देवाँ इहा वह सादया योनिषु त्रिषु।
परि भूष पिब ऋतुना॥ १.०१५.०४
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु।
तवेद्धि सख्यमस्तृतम्॥ १.०१५.०५
युवं दक्षं धृतव्रत मित्रावरुण दूळभम्।
ऋतुना यज्ञमाशाथे॥ १.०१५.०६
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे।
यज्ञेषु देवमीळते॥ १.०१५.०७
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे।
देवेषु ता वनामहे॥ १.०१५.०८
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत।
नेष्ट्रादृतुभिरिष्यत॥ १.०१५.०९
यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे।
अध स्मा नो ददिर्भव॥ १.०१५.१०
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता।
ऋतुना यज्ञवाहसा॥ १.०१५.११
गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि।
देवान्देवयते यज॥ १.०१५.१२
आ त्वा वहन्तु हरयो वृषणं सोमपीतये।
इन्द्र त्वा सूरचक्षसः॥ १.०१६.०१
इमा धाना घृतस्नुवो हरी इहोप वक्षतः।
इन्द्रं सुखतमे रथे॥ १.०१६.०२
इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे।
इन्द्रं सोमस्य पीतये॥ १.०१६.०३
उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः।
सुते हि त्वा हवामहे॥ १.०१६.०४
सेमं न स्तोममा गह्युपेदं सवनं सुतम्।
गौरो न तृषितः पिब॥ १.०१६.०५
इमे सोमास इन्दवः सुतासो अधि बर्हिषि।
ताँ इन्द्र सहसे पिब॥ १.०१६.०६
अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शंतमः।
अथा सोमं सुतं पिब॥ १.०१६.०७
विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति।
वृत्रहा सोमपीतये॥ १.०१६.०८
सेमं नः काममा पृण गोभिरश्वैः शतक्रतो।
स्तवाम त्वा स्वाध्यः॥ १.०१६.०९
इन्द्रावरुणयोरहं सम्राजोरव आ वृणे।
ता नो मृळात ईदृशे॥ १.०१७.०१
गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः।
धर्तारा चर्षणीनाम्॥ १.०१७.०२
अनुकामं तर्पयेथामिन्द्रावरुण राय आ।
ता वां नेदिष्ठमीमहे॥ १.०१७.०३
युवाकु हि शचीनां युवाकु सुमतीनाम्।
भूयाम वाजदाव्नाम्॥ १.०१७.०४
इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम्।
क्रतुर्भवत्युक्थ्यः॥ १.०१७.०५
तयोरिदवसा वयं सनेम नि च धीमहि।
स्यादुत प्ररेचनम्॥ १.०१७.०६
इन्द्रावरुण वामहं हुवे चित्राय राधसे।
अस्मान्सु जिग्युषस्कृतम्॥ १.०१७.०७
इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा।
अस्मभ्यं शर्म यच्छतम्॥ १.०१७.०८
प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे।
यामृधाथे सधस्तुतिम्॥ १.०१७.०९
सोमानं स्वरणं कृणुहि ब्रह्मणस्पते।
कक्षीवन्तं य औशिजः॥ १.०१८.०१
यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः।
स नः सिषक्तु यस्तुरः॥ १.०१८.०२
मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य।
रक्षा णो ब्रह्मणस्पते॥ १.०१८.०३
स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः।
सोमो हिनोति मर्त्यम्॥ १.०१८.०४
त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम्।
दक्षिणा पात्वंहसः॥ १.०१८.०५
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्।
सनिं मेधामयासिषम्॥ १.०१८.०६
यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन।
स धीनां योगमिन्वति॥ १.०१८.०७
आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम्।
होत्रा देवेषु गच्छति॥ १.०१८.०८
नराशंसं सुधृष्टममपश्यं सप्रथस्तमम्।
दिवो न सद्ममखसम्॥ १.०१८.०९
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे।
मरुद्भिरग्न आ गहि॥ १.०१९.०१
नहि देवो न मर्त्यो महस्तव क्रतुं परः।
मरुद्भिरग्न आ गहि॥ १.०१९.०२
ये महो रजसो विदुर्विश्वे देवासो अद्रुहः।
मरुद्भिरग्न आ गहि॥ १.०१९.०३
य उग्रा अर्कमानृचुरनाधृष्टास ओजसा।
मरुद्भिरग्न आ गहि॥ १.०१९.०४
ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः।
मरुद्भिरग्न आ गहि॥ १.०१९.०५
ये नाकस्याधि रोचने दिवि देवास आसते।
मरुद्भिरग्न आ गहि॥ १.०१९.०६
य ईङ्खयन्ति पर्वतान्तिरः समुद्रमर्णवम्।
मरुद्भिरग्न आ गहि॥ १.०१९.०७
आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा।
मरुद्भिरग्न आ गहि॥ १.०१९.०८
अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु।
मरुद्भिरग्न आ गहि॥ १.०१९.०९
अयं देवाय जन्मने स्तोमो विप्रेभिरासया।
अकारि रत्नधातमः॥ १.०२०.०१
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी।
शमीभिर्यज्ञमाशत॥ १.०२०.०२
तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम्।
तक्षन्धेनुं सबर्दुघाम्॥ १.०२०.०३
युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः।
ऋभवो विष्ट्यक्रत॥ १.०२०.०४
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता।
आदित्येभिश्च राजभिः॥ १.०२०.०५
उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम्।
अकर्त चतुरः पुनः॥ १.०२०.०६
ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते।
एकमेकं सुशस्तिभिः॥ १.०२०.०७
अधारयन्त वह्नयोऽभजन्त सुकृत्यया।
भागं देवेषु यज्ञियम्॥ १.०२०.०८
इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि।
ता सोमं सोमपातमा॥ १.०२१.०१
ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः।
ता गायत्रेषु गायत॥ १.०२१.०२
ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे।
सोमपा सोमपीतये॥ १.०२१.०३
उग्रा सन्ता हवामह उपेदं सवनं सुतम्।
इन्द्राग्नी एह गच्छताम्॥ १.०२१.०४
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम्।
अप्रजाः सन्त्वत्रिणः॥ १.०२१.०५
तेन सत्येन जागृतमधि प्रचेतुने पदे।
इन्द्राग्नी शर्म यच्छतम्॥ १.०२१.०६
प्रातर्युजा वि बोधयाश्विनावेह गच्छताम्।
अस्य सोमस्य पीतये॥ १.०२२.०१
या सुरथा रथीतमोभा देवा दिविस्पृशा।
अश्विना ता हवामहे॥ १.०२२.०२
या वां कशा मधुमत्यश्विना सूनृतावती।
तया यज्ञं मिमिक्षतम्॥ १.०२२.०३
नहि वामस्ति दूरके यत्रा रथेन गच्छथः।
अश्विना सोमिनो गृहम्॥ १.०२२.०४
हिरण्यपाणिमूतये सवितारमुप ह्वये।
स चेत्ता देवता पदम्॥ १.०२२.०५
अपां नपातमवसे सवितारमुप स्तुहि।
तस्य व्रतान्युश्मसि॥ १.०२२.०६
विभक्तारं हवामहे वसोश्चित्रस्य राधसः।
सवितारं नृचक्षसम्॥ १.०२२.०७
सखाय आ नि षीदत सविता स्तोम्यो नु नः।
दाता राधांसि शुम्भति॥ १.०२२.०८
अग्ने पत्नीरिहा वह देवानामुशतीरुप।
त्वष्टारं सोमपीतये॥ १.०२२.०९
आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम्।
वरूत्रीं धिषणां वह॥ १.०२२.१०
अभि नो देवीरवसा महः शर्मणा नृपत्नीः।
अच्छिन्नपत्राः सचन्ताम्॥ १.०२२.११
इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये।
अग्नायीं सोमपीतये॥ १.०२२.१२
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्।
पिपृतां नो भरीमभिः॥ १.०२२.१३
तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः।
गन्धर्वस्य ध्रुवे पदे॥ १.०२२.१४
स्योना पृथिवि भवानृक्षरा निवेशनी।
यच्छा नः शर्म सप्रथः॥ १.०२२.१५
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे।
पृथिव्याः सप्त धामभिः॥ १.०२२.१६
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्।
समूळ्हमस्य पांसुरे॥ १.०२२.१७
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः।
अतो धर्माणि धारयन्॥ १.०२२.१८
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे।
इन्द्रस्य युज्यः सखा॥ १.०२२.१९
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः।
दिवीव चक्षुराततम्॥ १.०२२.२०
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते।
विष्णोर्यत्परमं पदम्॥ १.०२२.२१
तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे।
वायो तान्प्रस्थितान्पिब॥ १.०२३.०१
उभा देवा दिविस्पृशेन्द्रवायू हवामहे।
अस्य सोमस्य पीतये॥ १.०२३.०२
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये।
सहस्राक्षा धियस्पती॥ १.०२३.०३
मित्रं वयं हवामहे वरुणं सोमपीतये।
जज्ञाना पूतदक्षसा॥ १.०२३.०४
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती।
ता मित्रावरुणा हुवे॥ १.०२३.०५
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः।
करतां नः सुराधसः॥ १.०२३.०६
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये।
सजूर्गणेन तृम्पतु॥ १.०२३.०७
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः।
विश्वे मम श्रुता हवम्॥ १.०२३.०८
हत वृत्रं सुदानव इन्द्रेण सहसा युजा।
मा नो दुःशंस ईशत॥ १.०२३.०९
विश्वान्देवान्हवामहे मरुतः सोमपीतये।
उग्रा हि पृश्निमातरः॥ १.०२३.१०
जयतामिव तन्यतुर्मरुतामेति धृष्णुया।
यच्छुभं याथना नरः॥ १.०२३.११
हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः।
मरुतो मृळयन्तु नः॥ १.०२३.१२
आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः।
आजा नष्टं यथा पशुम्॥ १.०२३.१३
पूषा राजानमाघृणिरपगूळ्हं गुहा हितम्।
अविन्दच्चित्रबर्हिषम्॥ १.०२३.१४
उतो स मह्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत्।
गोभिर्यवं न चर्कृषत्॥ १.०२३.१५
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम्।
पृञ्चतीर्मधुना पयः॥ १.०२३.१६
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह।
ता नो हिन्वन्त्वध्वरम्॥ १.०२३.१७
अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः।
सिन्धुभ्यः कर्त्वं हविः॥ १.०२३.१८
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये।
देवा भवत वाजिनः॥ १.०२३.१९
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा।
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः॥ १.०२३.२०
आपः पृणीत भेषजं वरूथं तन्वे मम।
ज्योक्च सूर्यं दृशे॥ १.०२३.२१
इदमापः प्र वहत यत्किं च दुरितं मयि।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम्॥ १.०२३.२२
आपो अद्यान्वचारिषं रसेन समगस्महि।
पयस्वानग्न आ गहि तं मा सं सृज वर्चसा॥ १.०२३.२३
सं माग्ने वर्चसा सृज सं प्रजया समायुषा।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः॥ १.०२३.२४
कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम।
को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च॥ १.०२४.०१
अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम।
स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च॥ १.०२४.०२
अभि त्वा देव सवितरीशानं वार्याणाम्।
सदावन्भागमीमहे॥ १.०२४.०३
यश्चिद्धि त इत्था भगः शशमानः पुरा निदः।
अद्वेषो हस्तयोर्दधे॥ १.०२४.०४
भगभक्तस्य ते वयमुदशेम तवावसा।
मूर्धानं राय आरभे॥ १.०२४.०५
नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः।
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम्॥ १.०२४.०६
अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः।
नीचीना स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः॥ १.०२४.०७
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ।
अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित्॥ १.०२४.०८
शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु।
बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत्॥ १.०२४.०९
अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः।
अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति॥ १.०२४.१०
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः।
अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः॥ १.०२४.११
तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे।
शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु॥ १.०२४.१२
शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः।
अवैनं राजा वरुणः ससृज्याद्विद्वाँ अदब्धो वि मुमोक्तु पाशान्॥ १.०२४.१३
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः।
क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि॥ १.०२४.१४
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय।
अथा वयमादित्य व्रते तवानागसो अदितये स्याम॥ १.०२४.१५
यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम्।
मिनीमसि द्यविद्यवि॥ १.०२५.०१
मा नो वधाय हत्नवे जिहीळानस्य रीरधः।
मा हृणानस्य मन्यवे॥ १.०२५.०२
वि मृळीकाय ते मनो रथीरश्वं न संदितम्।
गीर्भिर्वरुण सीमहि॥ १.०२५.०३
परा हि मे विमन्यवः पतन्ति वस्यइष्टये।
वयो न वसतीरुप॥ १.०२५.०४
कदा क्षत्रश्रियं नरमा वरुणं करामहे।
मृळीकायोरुचक्षसम्॥ १.०२५.०५
तदित्समानमाशाते वेनन्ता न प्र युच्छतः।
धृतव्रताय दाशुषे॥ १.०२५.०६
वेदा यो वीनां पदमन्तरिक्षेण पतताम्।
वेद नावः समुद्रियः॥ १.०२५.०७
वेद मासो धृतव्रतो द्वादश प्रजावतः।
वेदा य उपजायते॥ १.०२५.०८
वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः।
वेदा ये अध्यासते॥ १.०२५.०९
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा।
साम्राज्याय सुक्रतुः॥ १.०२५.१०
अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति।
कृतानि या च कर्त्वा॥ १.०२५.११
स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत्।
प्र ण आयूंषि तारिषत्॥ १.०२५.१२
बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम्।
परि स्पशो नि षेदिरे॥ १.०२५.१३
न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम्।
न देवमभिमातयः॥ १.०२५.१४
उत यो मानुषेष्वा यशश्चक्रे असाम्या।
अस्माकमुदरेष्वा॥ १.०२५.१५
परा मे यन्ति धीतयो गावो न गव्यूतीरनु।
इच्छन्तीरुरुचक्षसम्॥ १.०२५.१६
सं नु वोचावहै पुनर्यतो मे मध्वाभृतम्।
होतेव क्षदसे प्रियम्॥ १.०२५.१७
दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि।
एता जुषत मे गिरः॥ १.०२५.१८
इमं मे वरुण श्रुधी हवमद्या च मृळय।
त्वामवस्युरा चके॥ १.०२५.१९
त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि।
स यामनि प्रति श्रुधि॥ १.०२५.२०
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत।
अवाधमानि जीवसे॥ १.०२५.२१
वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते।
सेमं नो अध्वरं यज॥ १.०२६.०१
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः।
अग्ने दिवित्मता वचः॥ १.०२६.०२
आ हि ष्मा सूनवे पितापिर्यजत्यापये।
सखा सख्ये वरेण्यः॥ १.०२६.०३
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा।
सीदन्तु मनुषो यथा॥ १.०२६.०४
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च।
इमा उ षु श्रुधी गिरः॥ १.०२६.०५
यच्चिद्धि शश्वता तना देवंदेवं यजामहे।
त्वे इद्धूयते हविः॥ १.०२६.०६
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः।
प्रियाः स्वग्नयो वयम्॥ १.०२६.०७
स्वग्नयो हि वार्यं देवासो दधिरे च नः।
स्वग्नयो मनामहे॥ १.०२६.०८
अथा न उभयेषाममृत मर्त्यानाम्।
मिथः सन्तु प्रशस्तयः॥ १.०२६.०९
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः।
चनो धाः सहसो यहो॥ १.०२६.१०
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः।
सम्राजन्तमध्वराणाम्॥ १.०२७.०१
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः।
मीढ्वाँ अस्माकं बभूयात्॥ १.०२७.०२
स नो दूराच्चासाच्च नि मर्त्यादघायोः।
पाहि सदमिद्विश्वायुः॥ १.०२७.०३
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम्।
अग्ने देवेषु प्र वोचः॥ १.०२७.०४
आ नो भज परमेष्वा वाजेषु मध्यमेषु।
शिक्षा वस्वो अन्तमस्य॥ १.०२७.०५
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ।
सद्यो दाशुषे क्षरसि॥ १.०२७.०६
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः।
स यन्ता शश्वतीरिषः॥ १.०२७.०७
नकिरस्य सहन्त्य पर्येता कयस्य चित्।
वाजो अस्ति श्रवाय्यः॥ १.०२७.०८
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता।
विप्रेभिरस्तु सनिता॥ १.०२७.०९
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय।
स्तोमं रुद्राय दृशीकम्॥ १.०२७.१०
स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः।
धिये वाजाय हिन्वतु॥ १.०२७.११
स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः।
उक्थैरग्निर्बृहद्भानुः॥ १.०२७.१२
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः।
यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः॥ १.०२७.१३
यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०१
यत्र द्वाविव जघनाधिषवण्या कृता।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०२
यत्र नार्यपच्यवमुपच्यवं च शिक्षते।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०३
यत्र मन्थां विबध्नते रश्मीन्यमितवा इव।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०४
यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे।
इह द्युमत्तमं वद जयतामिव दुन्दुभिः॥ १.०२८.०५
उत स्म ते वनस्पते वातो वि वात्यग्रमित्।
अथो इन्द्राय पातवे सुनु सोममुलूखल॥ १.०२८.०६
आयजी वाजसातमा ता ह्युच्चा विजर्भृतः।
हरी इवान्धांसि बप्सता॥ १.०२८.०७
ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः।
इन्द्राय मधुमत्सुतम्॥ १.०२८.०८
उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज।
नि धेहि गोरधि त्वचि॥ १.०२८.०९
यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०१
शिप्रिन्वाजानां पते शचीवस्तव दंसना।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०२
नि ष्वापया मिथूदृशा सस्तामबुध्यमाने।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०३
ससन्तु त्या अरातयो बोधन्तु शूर रातयः।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०४
समिन्द्र गर्दभं मृण नुवन्तं पापयामुया।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०५
पताति कुण्डृणाच्या दूरं वातो वनादधि।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०६
सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम्।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०७
आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम्।
मंहिष्ठं सिञ्च इन्दुभिः॥ १.०३०.०१
शतं वा यः शुचीनां सहस्रं वा समाशिराम्।
एदु निम्नं न रीयते॥ १.०३०.०२
सं यन्मदाय शुष्मिण एना ह्यस्योदरे।
समुद्रो न व्यचो दधे॥ १.०३०.०३
अयमु ते समतसि कपोत इव गर्भधिम्।
वचस्तच्चिन्न ओहसे॥ १.०३०.०४
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते।
विभूतिरस्तु सूनृता॥ १.०३०.०५
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो।
समन्येषु ब्रवावहै॥ १.०३०.०६
योगेयोगे तवस्तरं वाजेवाजे हवामहे।
सखाय इन्द्रमूतये॥ १.०३०.०७
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः।
वाजेभिरुप नो हवम्॥ १.०३०.०८
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम्।
यं ते पूर्वं पिता हुवे॥ १.०३०.०९
तं त्वा वयं विश्ववारा शास्महे पुरुहूत।
सखे वसो जरितृभ्यः॥ १.०३०.१०
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम्।
सखे वज्रिन्सखीनाम्॥ १.०३०.११
तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु।
यथा त उश्मसीष्टये॥ १.०३०.१२
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः।
क्षुमन्तो याभिर्मदेम॥ १.०३०.१३
आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः।
ऋणोरक्षं न चक्र्योः॥ १.०३०.१४
आ यद्दुवः शतक्रतवा कामं जरितॄणाम्।
ऋणोरक्षं न शचीभिः॥ १.०३०.१५
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि।
स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात्॥ १.०३०.१६
आश्विनावश्वावत्येषा यातं शवीरया।
गोमद्दस्रा हिरण्यवत्॥ १.०३०.१७
समानयोजनो हि वां रथो दस्रावमर्त्यः।
समुद्रे अश्विनेयते॥ १.०३०.१८
न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः।
परि द्यामन्यदीयते॥ १.०३०.१९
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये।
कं नक्षसे विभावरि॥ १.०३०.२०
वयं हि ते अमन्मह्यान्तादा पराकात्।
अश्वे न चित्रे अरुषि॥ १.०३०.२१
त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः।
अस्मे रयिं नि धारय॥ १.०३०.२२
त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा।
तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः॥ १.०३१.०१
त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसि व्रतम्।
विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे॥ १.०३१.०२
त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते।
अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो॥ १.०३१.०३
त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः।
श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः॥ १.०३१.०४
त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः।
य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि॥ १.०३१.०५
त्वमग्ने वृजिनवर्तनिं नरं सक्मन्पिपर्षि विदथे विचर्षणे।
यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः॥ १.०३१.०६
त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवेदिवे।
यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये॥ १.०३१.०७
त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः।
ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः॥ १.०३१.०८
त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः।
तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे॥ १.०३१.०९
त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम्।
सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य॥ १.०३१.१०
त्वामग्ने प्रथममायुमायवे देवा अकृण्वन्नहुषस्य विश्पतिम्।
इळामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते॥ १.०३१.११
त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य।
त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते॥ १.०३१.१२
त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे।
यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम्॥ १.०३१.१३
त्वमग्न उरुशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनोषि तत्।
आध्रस्य चित्प्रमतिरुच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः॥ १.०३१.१४
त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः।
स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः॥ १.०३१.१५
इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात्।
आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम्॥ १.०३१.१६
मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे।
अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम्॥ १.०३१.१७
एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा।
उत प्र णेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या॥ १.०३१.१८
इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री।
अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम्॥ १.०३२.०१
अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष।
वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः॥ १.०३२.०२
वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य।
आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम्॥ १.०३२.०३
यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः।
आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से॥ १.०३२.०४
अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन।
स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः॥ १.०३२.०५
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम्।
नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः॥ १.०३२.०६
अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान।
वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः॥ १.०३२.०७
नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः।
याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव॥ १.०३२.०८
नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार।
उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः॥ १.०३२.०९
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम्।
वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः॥ १.०३२.१०
दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः।
अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाँ अप तद्ववार॥ १.०३२.११
अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः।
अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून्॥ १.०३२.१२
नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च।
इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये॥ १.०३२.१३
अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत्।
नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि॥ १.०३२.१४
इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः।
सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव॥ १.०३२.१५
एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति।
अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः॥ १.०३३.०१
उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि।
इन्द्रं नमस्यन्नुपमेभिरर्कैर्य स्तोतृभ्यो हव्यो अस्ति यामन्॥ १.०३३.०२
नि सर्वसेन इषुधीँरसक्त समर्यो गा अजति यस्य वष्टि।
चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध॥ १.०३३.०३
वधीर्हि दस्युं धनिनं घनेनँ एकश्चरन्नुपशाकेभिरिन्द्र।
धनोरधि विषुणक्ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः॥ १.०३३.०४
परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभि स्पर्धमानाः।
प्र यद्दिवो हरिव स्थातरुग्र निरव्रताँ अधमो रोदस्योः॥ १.०३३.०५
अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः।
वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन्॥ १.०३३.०६
त्वमेतान्रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे।
अवादहो दिव आ दस्युमुच्चा प्र सुन्वत स्तुवतः शंसमावः॥ १.०३३.०७
चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः।
न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात्सूर्येण॥ १.०३३.०८
परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम्।
अमन्यमानाँ अभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र॥ १.०३३.०९
न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन्।
युजं वज्रं वृषभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत्॥ १.०३३.१०
अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम्।
सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून्॥ १.०३३.११
न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः।
यावत्तरो मघवन्यावदोजो वज्रेण शत्रुमवधीः पृतन्युम्॥ १.०३३.१२
अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत्।
सं वज्रेणासृजद्वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः॥ १.०३३.१३
आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम्।
शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ॥ १.०३३.१४
आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम्।
ज्योक्चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः॥ १.०३३.१५
त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना।
युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः॥ १.०३४.०१
त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व इद्विदुः।
त्रय स्कम्भास स्कभितास आरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा॥ १.०३४.०२
समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम्।
त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम्॥ १.०३४.०३
त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम्।
त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम्॥ १.०३४.०४
त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः।
त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम्॥ १.०३४.०५
त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः।
ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती॥ १.०३४.०६
त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम्।
तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम्॥ १.०३४.०७
त्रिरश्विना सिन्धुभिः सप्तमातृभिस्त्रय आहावास्त्रेधा हविष्कृतम्।
तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम्॥ १.०३४.०८
क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः।
कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः॥ १.०३४.०९
आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः।
युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति॥ १.०३४.१०
आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना।
प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा॥ १.०३४.११
आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम्।
शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ॥ १.०३४.१२
ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे।
ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये॥ १.०३५.०१
आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्॥ १.०३५.०२
याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम्।
आ देवो याति सविता परावतोऽप विश्वा दुरिता बाधमानः॥ १.०३५.०३
अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम्।
आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः॥ १.०३५.०४
वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रउगं वहन्तः।
शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः॥ १.०३५.०५
तिस्रो द्यावः सवितुर्द्वा उपस्थाँ एका यमस्य भुवने विराषाट्।
आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत्॥ १.०३५.०६
वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः।
क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान॥ १.०३५.०७
अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून्।
हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि॥ १.०३५.०८
हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते।
अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति॥ १.०३५.०९
हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ्।
अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः॥ १.०३५.१०
ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे।
तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव॥ १.०३५.११
प्र वो यह्वं पुरूणां विशां देवयतीनाम्।
अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते॥ १.०३६.०१
जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते।
स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य॥ १.०३६.०२
प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम्।
महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः॥ १.०३६.०३
देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते।
विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः॥ १.०३६.०४
मन्द्रो होता गृहपतिरग्ने दूतो विशामसि।
त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत॥ १.०३६.०५
त्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः।
स त्वं नो अद्य सुमना उतापरं यक्षि देवान्सुवीर्या॥ १.०३६.०६
तं घेमित्था नमस्विन उप स्वराजमासते।
होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः॥ १.०३६.०७
घ्नन्तो वृत्रमतरन्रोदसी अप उरु क्षयाय चक्रिरे।
भुवत्कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु॥ १.०३६.०८
सं सीदस्व महाँ असि शोचस्व देववीतमः।
वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम्॥ १.०३६.०९
यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन।
यं कण्वो मेध्यातिथिर्धनस्पृतं यं वृषा यमुपस्तुतः॥ १.०३६.१०
यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि।
तस्य प्रेषो दीदियुस्तमिमा ऋचस्तमग्निं वर्धयामसि॥ १.०३६.११
रायस्पूर्धि स्वधावोऽस्ति हि तेऽग्ने देवेष्वाप्यम्।
त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महाँ असि॥ १.०३६.१२
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता।
ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे॥ १.०३६.१३
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह।
कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः॥ १.०३६.१४
पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः।
पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य॥ १.०३६.१५
घनेव विष्वग्वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक्।
यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत॥ १.०३६.१६
अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम्।
अग्निः प्रावन्मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम्॥ १.०३६.१७
अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे।
अग्निर्नयन्नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः॥ १.०३६.१८
नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते।
दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः॥ १.०३६.१९
त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये।
रक्षस्विनः सदमिद्यातुमावतो विश्वं समत्रिणं दह॥ १.०३६.२०
क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम्।
कण्वा अभि प्र गायत॥ १.०३७.०१
ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः।
अजायन्त स्वभानवः॥ १.०३७.०२
इहेव शृण्व एषां कशा हस्तेषु यद्वदान्।
नि यामञ्चित्रमृञ्जते॥ १.०३७.०३
प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे।
देवत्तं ब्रह्म गायत॥ १.०३७.०४
प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम्।
जम्भे रसस्य वावृधे॥ १.०३७.०५
को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः।
यत्सीमन्तं न धूनुथ॥ १.०३७.०६
नि वो यामाय मानुषो दध्र उग्राय मन्यवे।
जिहीत पर्वतो गिरिः॥ १.०३७.०७
येषामज्मेषु पृथिवी जुजुर्वाँ इव विश्पतिः।
भिया यामेषु रेजते॥ १.०३७.०८
स्थिरं हि जानमेषां वयो मातुर्निरेतवे।
यत्सीमनु द्विता शवः॥ १.०३७.०९
उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत।
वाश्रा अभिज्ञु यातवे॥ १.०३७.१०
त्यं चिद्घा दीर्घं पृथुं मिहो नपातममृध्रम्।
प्र च्यावयन्ति यामभिः॥ १.०३७.११
मरुतो यद्ध वो बलं जनाँ अचुच्यवीतन।
गिरीँरचुच्यवीतन॥ १.०३७.१२
यद्ध यान्ति मरुतः सं ह ब्रुवतेऽध्वन्ना।
शृणोति कश्चिदेषाम्॥ १.०३७.१३
प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः।
तत्रो षु मादयाध्वै॥ १.०३७.१४
अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम्।
विश्वं चिदायुर्जीवसे॥ १.०३७.१५
कद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः।
दधिध्वे वृक्तबर्हिषः॥ १.०३८.०१
क्व नूनं कद्वो अर्थं गन्ता दिवो न पृथिव्याः।
क्व वो गावो न रण्यन्ति॥ १.०३८.०२
क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता।
क्वो विश्वानि सौभगा॥ १.०३८.०३
यद्यूयं पृश्निमातरो मर्तासः स्यातन।
स्तोता वो अमृतः स्यात्॥ १.०३८.०४
मा वो मृगो न यवसे जरिता भूदजोष्यः।
पथा यमस्य गादुप॥ १.०३८.०५
मो षु णः परापरा निरृतिर्दुर्हणा वधीत्।
पदीष्ट तृष्णया सह॥ १.०३८.०६
सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः।
मिहं कृण्वन्त्यवाताम्॥ १.०३८.०७
वाश्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति।
यदेषां वृष्टिरसर्जि॥ १.०३८.०८
दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन।
यत्पृथिवीं व्युन्दन्ति॥ १.०३८.०९
अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम्।
अरेजन्त प्र मानुषाः॥ १.०३८.१०
मरुतो वीळुपाणिभिश्चित्रा रोधस्वतीरनु।
यातेमखिद्रयामभिः॥ १.०३८.११
स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम्।
सुसंस्कृता अभीशवः॥ १.०३८.१२
अच्छा वदा तना गिरा जरायै ब्रह्मणस्पतिम्।
अग्निं मित्रं न दर्शतम्॥ १.०३८.१३
मिमीहि श्लोकमास्ये पर्जन्य इव ततनः।
गाय गायत्रमुक्थ्यम्॥ १.०३८.१४
वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम्।
अस्मे वृद्धा असन्निह॥ १.०३८.१५
प्र यदित्था परावतः शोचिर्न मानमस्यथ।
कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः॥ १.०३९.०१
स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे।
युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः॥ १.०३९.०२
परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु।
वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम्॥ १.०३९.०३
नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः।
युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे॥ १.०३९.०४
प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन्।
प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा॥ १.०३९.०५
उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः।
आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः॥ १.०३९.०६
आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे।
गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे॥ १.०३९.०७
युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते।
वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः॥ १.०३९.०८
असामि हि प्रयज्यवः कण्वं दद प्रचेतसः।
असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः॥ १.०३९.०९
असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः।
ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम्॥ १.०३९.१०
उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे।
उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा॥ १.०४०.०१
त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते।
सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके॥ १.०४०.०२
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता।
अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः॥ १.०४०.०३
यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः।
तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम्॥ १.०४०.०४
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम्।
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे॥ १.०४०.०५
तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम्।
इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत्॥ १.०४०.०६
को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम्।
प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे॥ १.०४०.०७
उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे।
नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः॥ १.०४०.०८
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा।
नू चित्स दभ्यते जनः॥ १.०४१.०१
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः।
अरिष्टः सर्व एधते॥ १.०४१.०२
वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम्।
नयन्ति दुरिता तिरः॥ १.०४१.०३
सुगः पन्था अनृक्षर आदित्यास ऋतं यते।
नात्रावखादो अस्ति वः॥ १.०४१.०४
यं यज्ञं नयथा नर आदित्या ऋजुना पथा।
प्र वः स धीतये नशत्॥ १.०४१.०५
स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना।
अच्छा गच्छत्यस्तृतः॥ १.०४१.०६
कथा राधाम सखाय स्तोमं मित्रस्यार्यम्णः।
महि प्सरो वरुणस्य॥ १.०४१.०७
मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम्।
सुम्नैरिद्व आ विवासे॥ १.०४१.०८
चतुरश्चिद्ददमानाद्बिभीयादा निधातोः।
न दुरुक्ताय स्पृहयेत्॥ १.०४१.०९
सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात्।
सक्ष्वा देव प्र णस्पुरः॥ १.०४२.०१
यो नः पूषन्नघो वृको दुःशेव आदिदेशति।
अप स्म तं पथो जहि॥ १.०४२.०२
अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम्।
दूरमधि स्रुतेरज॥ १.०४२.०३
त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित्।
पदाभि तिष्ठ तपुषिम्॥ १.०४२.०४
आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे।
येन पितॄनचोदयः॥ १.०४२.०५
अधा नो विश्वसौभग हिरण्यवाशीमत्तम।
धनानि सुषणा कृधि॥ १.०४२.०६
अति नः सश्चतो नय सुगा नः सुपथा कृणु।
पूषन्निह क्रतुं विदः॥ १.०४२.०७
अभि सूयवसं नय न नवज्वारो अध्वने।
पूषन्निह क्रतुं विदः॥ १.०४२.०८
शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम्।
पूषन्निह क्रतुं विदः॥ १.०४२.०९
न पूषणं मेथामसि सूक्तैरभि गृणीमसि।
वसूनि दस्ममीमहे॥ १.०४२.१०
कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे।
वोचेम शंतमं हृदे॥ १.०४३.०१
यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे।
यथा तोकाय रुद्रियम्॥ १.०४३.०२
यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति।
यथा विश्वे सजोषसः॥ १.०४३.०३
गाथपतिं मेधपतिं रुद्रं जलाषभेषजम्।
तच्छंयोः सुम्नमीमहे॥ १.०४३.०४
यः शुक्र इव सूर्यो हिरण्यमिव रोचते।
श्रेष्ठो देवानां वसुः॥ १.०४३.०५
शं नः करत्यर्वते सुगं मेषाय मेष्ये।
नृभ्यो नारिभ्यो गवे॥ १.०४३.०६
अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम्।
महि श्रवस्तुविनृम्णम्॥ १.०४३.०७
मा नः सोमपरिबाधो मारातयो जुहुरन्त।
आ न इन्दो वाजे भज॥ १.०४३.०८
यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य।
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः॥ १.०४३.०९
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य।
आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः॥ १.०४४.०१
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम्।
सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत्॥ १.०४४.०२
अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम्।
धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम्॥ १.०४४.०३
श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे।
देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु॥ १.०४४.०४
स्तविष्यामि त्वामहं विश्वस्यामृत भोजन।
अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन॥ १.०४४.०५
सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः।
प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम्॥ १.०४४.०६
होतारं विश्ववेदसं सं हि त्वा विश इन्धते।
स आ वह पुरुहूत प्रचेतसोऽग्ने देवाँ इह द्रवत्॥ १.०४४.०७
सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः।
कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर॥ १.०४४.०८
पतिर्ह्यध्वराणामग्ने दूतो विशामसि।
उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः॥ १.०४४.०९
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः।
असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः॥ १.०४४.१०
नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम्।
मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम्॥ १.०४४.११
यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम्।
सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः॥ १.०४४.१२
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः।
आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम्॥ १.०४४.१३
शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः।
पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः॥ १.०४४.१४
त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत।
यजा स्वध्वरं जनं मनुजातं घृतप्रुषम्॥ १.०४५.०१
श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः।
तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह॥ १.०४५.०२
प्रियमेधवदत्रिवज्जातवेदो विरूपवत्।
अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम्॥ १.०४५.०३
महिकेरव ऊतये प्रियमेधा अहूषत।
राजन्तमध्वराणामग्निं शुक्रेण शोचिषा॥ १.०४५.०४
घृताहवन सन्त्येमा उ षु श्रुधी गिरः।
याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा॥ १.०४५.०५
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे॥ १.०४५.०६
नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम्।
श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु॥ १.०४५.०७
आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः।
बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे॥ १.०४५.०८
प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य।
इहाद्य दैव्यं जनं बर्हिरा सादया वसो॥ १.०४५.०९
अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः।
अयं सोमः सुदानवस्तं पात तिरोअह्न्यम्॥ १.०४५.१०
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः।
स्तुषे वामश्विना बृहत्॥ १.०४६.०१
या दस्रा सिन्धुमातरा मनोतरा रयीणाम्।
धिया देवा वसुविदा॥ १.०४६.०२
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि।
यद्वां रथो विभिष्पतात्॥ १.०४६.०३
हविषा जारो अपां पिपर्ति पपुरिर्नरा।
पिता कुटस्य चर्षणिः॥ १.०४६.०४
आदारो वां मतीनां नासत्या मतवचसा।
पातं सोमस्य धृष्णुया॥ १.०४६.०५
या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः।
तामस्मे रासाथामिषम्॥ १.०४६.०६
आ नो नावा मतीनां यातं पाराय गन्तवे।
युञ्जाथामश्विना रथम्॥ १.०४६.०७
अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः।
धिया युयुज्र इन्दवः॥ १.०४६.०८
दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे।
स्वं वव्रिं कुह धित्सथः॥ १.०४६.०९
अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः।
व्यख्यज्जिह्वयासितः॥ १.०४६.१०
अभूदु पारमेतवे पन्था ऋतस्य साधुया।
अदर्शि वि स्रुतिर्दिवः॥ १.०४६.११
तत्तदिदश्विनोरवो जरिता प्रति भूषति।
मदे सोमस्य पिप्रतोः॥ १.०४६.१२
वावसाना विवस्वति सोमस्य पीत्या गिरा।
मनुष्वच्छम्भू आ गतम्॥ १.०४६.१३
युवोरुषा अनु श्रियं परिज्मनोरुपाचरत्।
ऋता वनथो अक्तुभिः॥ १.०४६.१४
उभा पिबतमश्विनोभा नः शर्म यच्छतम्।
अविद्रियाभिरूतिभिः॥ १.०४६.१५
अयं वां मधुमत्तमः सुतः सोम ऋतावृधा।
तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे॥ १.०४७.०१
त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना।
कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम्॥ १.०४७.०२
अश्विना मधुमत्तमं पातं सोममृतावृधा।
अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम्॥ १.०४७.०३
त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम्।
कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना॥ १.०४७.०४
याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना।
ताभिः ष्वस्माँ अवतं शुभस्पती पातं सोममृतावृधा॥ १.०४७.०५
सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना।
रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम्॥ १.०४७.०६
यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे।
अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः॥ १.०४७.०७
अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप।
इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा॥ १.०४७.०८
तेन नासत्या गतं रथेन सूर्यत्वचा।
येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये॥ १.०४७.०९
उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे।
शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना॥ १.०४७.१०
सह वामेन न उषो व्युच्छा दुहितर्दिवः।
सह द्युम्नेन बृहता विभावरि राया देवि दास्वती॥ १.०४८.०१
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे।
उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम्॥ १.०४८.०२
उवासोषा उच्छाच्च नु देवी जीरा रथानाम्।
ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः॥ १.०४८.०३
उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः।
अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम्॥ १.०४८.०४
आ घा योषेव सूनर्युषा याति प्रभुञ्जती।
जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः॥ १.०४८.०५
वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती।
वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति॥ १.०४८.०६
एषायुक्त परावतः सूर्यस्योदयनादधि।
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान्॥ १.०४८.०७
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी।
अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः॥ १.०४८.०८
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः।
आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु॥ १.०४८.०९
विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि।
सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम्॥ १.०४८.१०
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने।
तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः॥ १.०४८.११
विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम्।
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम्॥ १.०४८.१२
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत।
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम्॥ १.०४८.१३
ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि।
सा न स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा॥ १.०४८.१४
उषो यदद्य भानुना वि द्वारावृणवो दिवः।
प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः॥ १.०४८.१५
सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा।
सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति॥ १.०४८.१६
उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि।
वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम्॥ १.०४९.०१
सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम्।
तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः॥ १.०४९.०२
वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि।
उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परि॥ १.०४९.०३
व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम्।
तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत॥ १.०४९.०४
उदु त्यं जातवेदसं देवं वहन्ति केतवः।
दृशे विश्वाय सूर्यम्॥ १.०५०.०१
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः।
सूराय विश्वचक्षसे॥ १.०५०.०२
अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु।
भ्राजन्तो अग्नयो यथा॥ १.०५०.०३
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य।
विश्वमा भासि रोचनम्॥ १.०५०.०४
प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान्।
प्रत्यङ्विश्वं स्वर्दृशे॥ १.०५०.०५
येना पावक चक्षसा भुरण्यन्तं जनाँ अनु।
त्वं वरुण पश्यसि॥ १.०५०.०६
वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः।
पश्यञ्जन्मानि सूर्य॥ १.०५०.०७
सप्त त्वा हरितो रथे वहन्ति देव सूर्य।
शोचिष्केशं विचक्षण॥ १.०५०.०८
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः।
ताभिर्याति स्वयुक्तिभिः॥ १.०५०.०९
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम्।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्॥ १.०५०.१०
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम्।
हृद्रोगं मम सूर्य हरिमाणं च नाशय॥ १.०५०.११
शुकेषु मे हरिमाणं रोपणाकासु दध्मसि।
अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि॥ १.०५०.१२
उदगादयमादित्यो विश्वेन सहसा सह।
द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम्॥ १.०५०.१३
अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम्।
यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत॥ १.०५१.०१
अभीमवन्वन्स्वभिष्टिमूतयोऽन्तरिक्षप्रां तविषीभिरावृतम्।
इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत्॥ १.०५१.०२
त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित्।
ससेन चिद्विमदायावहो वस्वाजावद्रिं वावसानस्य नर्तयन्॥ १.०५१.०३
त्वमपामपिधानावृणोरपाधारयः पर्वते दानुमद्वसु।
वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्यं दिव्यारोहयो दृशे॥ १.०५१.०४
त्वं मायाभिरप मायिनोऽधमः स्वधाभिर्ये अधि शुप्तावजुह्वत।
त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ॥ १.०५१.०५
त्वं कुत्सं शुष्णहत्येष्वाविथारन्धयोऽतिथिग्वाय शम्बरम्।
महान्तं चिदर्बुदं नि क्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे॥ १.०५१.०६
त्वे विश्वा तविषी सध्र्यग्घिता तव राधः सोमपीथाय हर्षते।
तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या॥ १.०५१.०७
वि जानीह्यार्यान्ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान्।
शाकी भव यजमानस्य चोदिता विश्वेत्ता ते सधमादेषु चाकन॥ १.०५१.०८
अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः श्नथयन्ननाभुवः।
वृद्धस्य चिद्वर्धतो द्यामिनक्षत स्तवानो वम्रो वि जघान संदिहः॥ १.०५१.०९
तक्षद्यत्त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः।
आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणमवहन्नभि श्रवः॥ १.०५१.१०
मन्दिष्ट यदुशने काव्ये सचाँ इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति।
उग्रो ययिं निरपः स्रोतसासृजद्वि शुष्णस्य दृंहिता ऐरयत्पुरः॥ १.०५१.११
आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे।
इन्द्र यथा सुतसोमेषु चाकनोऽनर्वाणं श्लोकमा रोहसे दिवि॥ १.०५१.१२
अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते।
मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत्ता ते सवनेषु प्रवाच्या॥ १.०५१.१३
इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः।
अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद्रायः क्षयति प्रयन्ता॥ १.०५१.१४
इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसेऽवाचि।
अस्मिन्निन्द्र वृजने सर्ववीराः स्मत्सूरिभिस्तव शर्मन्स्याम॥ १.०५१.१५
त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते।
अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः॥ १.०५२.०१
स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे।
इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा॥ १.०५२.०२
स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः।
इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः॥ १.०५२.०३
आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः।
तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः॥ १.०५२.०४
अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः।
इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधीँरिव त्रितः॥ १.०५२.०५
परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत्।
वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम्॥ १.०५२.०६
ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना।
त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम्॥ १.०५२.०७
जघन्वाँ उ हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः।
अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे॥ १.०५२.०८
बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः।
यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु॥ १.०५२.०९
द्यौश्चिदस्यामवाँ अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते।
वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः॥ १.०५२.१०
यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः।
अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत्॥ १.०५२.११
त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः।
चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम्॥ १.०५२.१२
त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः।
विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान्॥ १.०५२.१३
न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः।
नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक्॥ १.०५२.१४
आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा।
वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ॥ १.०५२.१५
न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः।
नू चिद्धि रत्नं ससतामिवाविदन्न दुष्टुतिर्द्रविणोदेषु शस्यते॥ १.०५३.०१
दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः।
शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि॥ १.०५३.०२
शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु।
अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः॥ १.०५३.०३
एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना।
इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि॥ १.०५३.०४
समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः।
सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि॥ १.०५३.०५
ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते।
यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः॥ १.०५३.०६
युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा।
नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम्॥ १.०५३.०७
त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी।
त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना॥ १.०५३.०८
त्वमेताञ्जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः।
षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्॥ १.०५३.०९
त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम्।
त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः॥ १.०५३.१०
य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम।
त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः॥ १.०५३.११
मा नो अस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे।
अक्रन्दयो नद्यो रोरुवद्वना कथा न क्षोणीर्भियसा समारत॥ १.०५४.०१
अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि।
यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते॥ १.०५४.०२
अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः।
बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः॥ १.०५४.०३
त्वं दिवो बृहतः सानु कोपयोऽव त्मना धृषता शम्बरं भिनत्।
यन्मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि॥ १.०५४.०४
नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना।
प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि॥ १.०५४.०५
त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो।
त्वं रथमेतशं कृत्व्ये धने त्वं पुरो नवतिं दम्भयो नव॥ १.०५४.०६
स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति।
उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः॥ १.०५४.०७
असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे।
ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च॥ १.०५४.०८
तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः।
व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व॥ १.०५४.०९
अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः।
अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते॥ १.०५४.१०
स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळिन्द्र तव्यम्।
रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः॥ १.०५४.११
दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति।
भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः॥ १.०५५.०१
सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः।
इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते॥ १.०५५.०२
त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि।
प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः॥ १.०५५.०३
स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम्।
वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति॥ १.०५५.०४
स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः।
अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम्॥ १.०५५.०५
स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन्।
ज्योतींषि कृण्वन्नवृकाणि यज्यवेऽव सुक्रतुः सर्तवा अपः सृजत्॥ १.०५५.०६
दानाय मनः सोमपावन्नस्तु तेऽर्वाञ्चा हरी वन्दनश्रुदा कृधि।
यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः॥ १.०५५.०७
अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वै श्रुतो दधे।
आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः॥ १.०५५.०८
एष प्र पूर्वीरव तस्य चम्रिषोऽत्यो न योषामुदयंस्त भुर्वणिः।
दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगमृभ्वसम्॥ १.०५६.०१
तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः।
पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा॥ १.०५६.०२
स तुर्वणिर्महाँ अरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः।
येन शुष्णं मायिनमायसो मदे दुध्र आभूषु रामयन्नि दामनि॥ १.०५६.०३
देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः।
यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः॥ १.०५६.०४
वि यत्तिरो धरुणमच्युतं रजोऽतिष्ठिपो दिव आतासु बर्हणा।
स्वर्मीळ्हे यन्मद इन्द्र हर्ष्याहन्वृत्रं निरपामौब्जो अर्णवम्॥ १.०५६.०५
त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः।
त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः॥ १.०५६.०६
प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे।
अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम्॥ १.०५७.०१
अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः।
यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः॥ १.०५७.०२
अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे।
यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे॥ १.०५७.०३
इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो।
नहि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति नो हर्य तद्वचः॥ १.०५७.०४
भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण।
अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे॥ १.०५७.०५
त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन्पर्वशश्चकर्तिथ।
अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः॥ १.०५७.०६
नू चित्सहोजा अमृतो नि तुन्दते होता यद्दूतो अभवद्विवस्वतः।
वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति॥ १.०५८.०१
आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति।
अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत्॥ १.०५८.०२
क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः।
रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग्वार्या देव ऋण्वति॥ १.०५८.०३
वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः।
तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर॥ १.०५८.०४
तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वाँ अव वाति वंसगः।
अभिव्रजन्नक्षितं पाजसा रज स्थातुश्चरथं भयते पतत्रिणः॥ १.०५८.०५
दधुष्ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः।
होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने॥ १.०५८.०६
होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु।
अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम्॥ १.०५८.०७
अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ।
अग्ने गृणन्तमंहस उरुष्योर्जो नपात्पूर्भिरायसीभिः॥ १.०५८.०८
भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म।
उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात्॥ १.०५८.०९
वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते।
वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ॥ १.०५९.०१
मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः।
तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय॥ १.०५९.०२
आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि।
या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा॥ १.०५९.०३
बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः।
स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः॥ १.०५९.०४
दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम्।
राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ॥ १.०५९.०५
प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते।
वैश्वानरो दस्युमग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत्॥ १.०५९.०६
वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा।
शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान्॥ १.०५९.०७
वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम्।
द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा॥ १.०६०.०१
अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः।
दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः॥ १.०६०.०२
तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः।
यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त॥ १.०६०.०३
उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु।
दमूना गृहपतिर्दम आँ अग्निर्भुवद्रयिपती रयीणाम्॥ १.०६०.०४
तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः।
आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात्॥ १.०६०.०५
अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय।
ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा॥ १.०६१.०१
अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति।
इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त॥ १.०६१.०२
अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन।
मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै॥ १.०६१.०३
अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय।
गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय॥ १.०६१.०४
अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे।
वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम्॥ १.०६१.०५
अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय।
वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः॥ १.०६१.०६
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना।
मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता॥ १.०६१.०७
अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः।
परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः॥ १.०६१.०८
अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्।
स्वराळिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय॥ १.०६१.०९
अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः।
गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः॥ १.०६१.१०
अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत्।
ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः॥ १.०६१.११
अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः।
गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै॥ १.०६१.१२
अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः।
युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून्॥ १.०६१.१३
अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते।
उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः॥ १.०६१.१४
अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः।
प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः॥ १.०६१.१५
एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन्।
ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात्॥ १.०६१.१६
प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत्।
सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय॥ १.०६२.०१
प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम।
येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन्॥ १.०६२.०२
इन्द्रस्याङ्गिरसां चेष्टौ विदत्सरमा तनयाय धासिम्।
बृहस्पतिर्भिनदद्रिं विदद्गाः समुस्रियाभिर्वावशन्त नरः॥ १.०६२.०३
स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः।
सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः॥ १.०६२.०४
गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः।
वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः॥ १.०६२.०५
तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः।
उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्यश्चतस्रः॥ १.०६२.०६
द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः।
भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः॥ १.०६२.०७
सनाद्दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः।
कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या॥ १.०६२.०८
सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः।
आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु॥ १.०६२.०९
सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः।
पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम्॥ १.०६२.१०
सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः।
पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः॥ १.०६२.११
सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म।
द्युमाँ असि क्रतुमाँ इन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः॥ १.०६२.१२
सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय।
सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात्॥ १.०६२.१३
त्वं महाँ इन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवी अमे धाः।
यद्ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन्॥ १.०६३.०१
आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात्।
येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः॥ १.०६३.०२
त्वं सत्य इन्द्र धृष्णुरेतान्त्वमृभुक्षा नर्यस्त्वं षाट्।
त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन्॥ १.०६३.०३
त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्नुभ्नाः।
यद्ध शूर वृषमणः पराचैर्वि दस्यूँर्योनावकृतो वृथाषाट्॥ १.०६३.०४
त्वं ह त्यदिन्द्रारिषण्यन्दृळ्हस्य चिन्मर्तानामजुष्टौ।
व्यस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान्॥ १.०६३.०५
त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते।
तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत्॥ १.०६३.०६
त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः।
बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः॥ १.०६३.०७
त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन्।
यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै॥ १.०६३.०८
अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम्।
सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात्॥ १.०६३.०९
वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः।
अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः॥ १.०६४.०१
ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः।
पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः॥ १.०६४.०२
युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव।
दृळ्हा चिद्विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना॥ १.०६४.०३
चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्माँ अधि येतिरे शुभे।
अंसेष्वेषां नि मिमृक्षुरृष्टयः साकं जज्ञिरे स्वधया दिवो नरः॥ १.०६४.०४
ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत।
दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसा परिज्रयः॥ १.०६४.०५
पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः।
अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम्॥ १.०६४.०६
महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः।
मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम्॥ १.०६४.०७
सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः।
क्षपो जिन्वन्तः पृषतीभिरृष्टिभिः समित्सबाधः शवसाहिमन्यवः॥ १.०६४.०८
रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः।
आ वन्धुरेष्वमतिर्न दर्शता विद्युन्न तस्थौ मरुतो रथेषु वः॥ १.०६४.०९
विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः।
अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः॥ १.०६४.१०
हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान्।
मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः॥ १.०६४.११
घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि।
रजस्तुरं तवसं मारुतं गणमृजीषिणं वृषणं सश्चत श्रिये॥ १.०६४.१२
प्र नू स मर्तः शवसा जनाँ अति तस्थौ व ऊती मरुतो यमावत।
अर्वद्भिर्वाजं भरते धना नृभिरापृच्छ्यं क्रतुमा क्षेति पुष्यति॥ १.०६४.१३
चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन।
धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमाः॥ १.०६४.१४
नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त।
सहस्रिणं शतिनं शूशुवांसं प्रातर्मक्षू धियावसुर्जगम्यात्॥ १.०६४.१५
पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम्॥ १.०६५.०१
सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन्विश्वे यजत्राः॥ १.०६५.०२
ऋतस्य देवा अनु व्रता गुर्भुवत्परिष्टिर्द्यौर्न भूम॥ १.०६५.०३
वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम्॥ १.०६५.०४
पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिर्न भुज्म क्षोदो न शम्भु॥ १.०६५.०५
अत्यो नाज्मन्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते॥ १.०६५.०६
जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वनान्यत्ति॥ १.०६५.०७
यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः॥ १.०६५.०८
श्वसित्यप्सु हंसो न सीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत्॥ १.०६५.०९
सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः॥ १.०६५.१०
रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः॥ १.०६६.०१
तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा॥ १.०६६.०२
दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम्॥ १.०६६.०३
ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति॥ १.०६६.०४
दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै॥ १.०६६.०५
चित्रो यदभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु॥ १.०६६.०६
सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका॥ १.०६६.०७
यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम्॥ १.०६६.०८
तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम्॥ १.०६६.०९
सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः स्वर्दृशीके॥ १.०६६.१०
वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम्॥ १.०६७.०१
क्षेमो न साधुः क्रतुर्न भद्रो भुवत्स्वाधीर्होता हव्यवाट्॥ १.०६७.०२
हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन्॥ १.०६७.०३
विदन्तीमत्र नरो धियंधा हृदा यत्तष्टान्मन्त्राँ अशंसन्॥ १.०६७.०४
अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः॥ १.०६७.०५
प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः॥ १.०६७.०६
य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य॥ १.०६७.०७
वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै॥ १.०६७.०८
वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः॥ १.०६७.०९
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः॥ १.०६७.१०
श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत्॥ १.०६८.०१
परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा॥ १.०६८.०२
आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः॥ १.०६८.०३
भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः॥ १.०६८.०४
ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः॥ १.०६८.०५
यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वान्रयिं दयस्व॥ १.०६८.०६
होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम्॥ १.०६८.०७
इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः॥ १.०६८.०८
पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः॥ १.०६८.०९
वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः॥ १.०६८.१०
शुक्रः शुशुक्वाँ उषो न जारः पप्रा समीची दिवो न ज्योतिः॥ १.०६९.०१
परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन्॥ १.०६९.०२
वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम्॥ १.०६९.०३
जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे॥ १.०६९.०४
पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत्॥ १.०६९.०५
विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः॥ १.०६९.०६
नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ॥ १.०६९.०७
तत्तु ते दंसो यदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि॥ १.०६९.०८
उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै॥ १.०६९.०९
त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दृशीके॥ १.०६९.१०
वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः॥ १.०७०.०१
आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म॥ १.०७०.०२
गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम्॥ १.०७०.०३
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः॥ १.०७०.०४
स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः॥ १.०७०.०५
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्ताँश्च विद्वान्॥ १.०७०.०६
वर्धान्यं पूर्वीः क्षपो विरूपा स्थातुश्च रथमृतप्रवीतम्॥ १.०७०.०७
अराधि होता स्वर्निषत्तः कृण्वन्विश्वान्यपांसि सत्या॥ १.०७०.०८
गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः॥ १.०७०.०९
वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त॥ १.०७०.१०
साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु॥ १.०७०.११
उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः।
स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं न गावः॥ १.०७१.०१
वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण।
चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः॥ १.०७१.०२
दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः।
अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः॥ १.०७१.०३
मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत्।
आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय॥ १.०७१.०४
महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान्।
सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात्॥ १.०७१.०५
स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून्।
वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि॥ १.०७१.०६
अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः।
न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान्॥ १.०७१.०७
आ यदिषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौरभीके।
अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च॥ १.०७१.०८
मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे।
राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा॥ १.०७१.०९
मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन्।
नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि॥ १.०७१.१०
नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि।
अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा॥ १.०७२.०१
अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः।
श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चार्वग्नेः॥ १.०७२.०२
तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान्।
नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः॥ १.०७२.०३
आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः।
विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम्॥ १.०७२.०४
संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन्।
रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः॥ १.०७२.०५
त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः।
तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि॥ १.०७२.०६
विद्वाँ अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः।
अन्तर्विद्वाँ अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट्॥ १.०७२.०७
स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्यृतज्ञा अजानन्।
विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट्॥ १.०७२.०८
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम्।
मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः॥ १.०७२.०९
अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन्।
अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन्॥ १.०७२.१०
रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः।
स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत्॥ १.०७३.०१
देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा।
पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत्॥ १.०७३.०२
देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा।
पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी॥ १.०७३.०३
तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु।
अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम्॥ १.०७३.०४
वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः।
सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः॥ १.०७३.०५
ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः।
परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम्॥ १.०७३.०६
त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः।
नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः॥ १.०७३.०७
यान्राये मर्तान्सुषूदो अग्ने ते स्याम मघवानो वयं च।
छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम्॥ १.०७३.०८
अर्वद्भिरग्ने अर्वतो नृभिर्नॄन्वीरैर्वीरान्वनुयामा त्वोताः।
ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः॥ १.०७३.०९
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च।
शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः॥ १.०७३.१०
उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये।
आरे अस्मे च शृण्वते॥ १.०७४.०१
यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु।
अरक्षद्दाशुषे गयम्॥ १.०७४.०२
उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि।
धनंजयो रणेरणे॥ १.०७४.०३
यस्य दूतो असि क्षये वेषि हव्यानि वीतये।
दस्मत्कृणोष्यध्वरम्॥ १.०७४.०४
तमित्सुहव्यमङ्गिरः सुदेवं सहसो यहो।
जना आहुः सुबर्हिषम्॥ १.०७४.०५
आ च वहासि ताँ इह देवाँ उप प्रशस्तये।
हव्या सुश्चन्द्र वीतये॥ १.०७४.०६
न योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन।
यदग्ने यासि दूत्यम्॥ १.०७४.०७
त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः।
प्र दाश्वाँ अग्ने अस्थात्॥ १.०७४.०८
उत द्युमत्सुवीर्यं बृहदग्ने विवाससि।
देवेभ्यो देव दाशुषे॥ १.०७४.०९
जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम्।
हव्या जुह्वान आसनि॥ १.०७५.०१
अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम्।
वोचेम ब्रह्म सानसि॥ १.०७५.०२
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः।
को ह कस्मिन्नसि श्रितः॥ १.०७५.०३
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः।
सखा सखिभ्य ईड्यः॥ १.०७५.०४
यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत्।
अग्ने यक्षि स्वं दमम्॥ १.०७५.०५
का त उपेतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा।
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम॥ १.०७६.०१
एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः।
अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान्॥ १.०७६.०२
प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा।
अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने॥ १.०७६.०३
प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः।
वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम्॥ १.०७६.०४
यथा विप्रस्य मनुषो हविर्भिर्देवाँ अयजः कविभिः कविः सन्।
एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व॥ १.०७६.०५
कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः।
यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान्॥ १.०७७.०१
यो अध्वरेषु शंतम ऋतावा होता तमू नमोभिरा कृणुध्वम्।
अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति॥ १.०७७.०२
स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः।
तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः॥ १.०७७.०३
स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम्।
तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म॥ १.०७७.०४
एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः।
स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान्॥ १.०७७.०५
अभि त्वा गोतमा गिरा जातवेदो विचर्षणे।
द्युम्नैरभि प्र णोनुमः॥ १.०७८.०१
तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति।
द्युम्नैरभि प्र णोनुमः॥ १.०७८.०२
तमु त्वा वाजसातममङ्गिरस्वद्धवामहे।
द्युम्नैरभि प्र णोनुमः॥ १.०७८.०३
तमु त्वा वृत्रहन्तमं यो दस्यूँरवê