|| वाल्मीकि रामायण - बालकाण्ड ||
|| सर्ग ||
४३
स गत्वा सागरं राजा गङ्गयानुगतस्तदा |
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः || १||
भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै |
सर्व लोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् || २||
तारिता नरशार्दूल दिवं याताश् च देववत् |
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः || ३||
सागरस्य जलं लोके यावत्स्थास्यति पार्थिव |
सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत् || ४||
इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति |
त्वत्कृतेन च नाम्ना वै लोके स्थास्यति विश्रुता || ५||
गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च |
त्रिपथो भावयन्तीति ततस्त्रिपथगा स्मृता || ६||
पितामहानां सर्वेषां त्वमत्र मनुजाधिप |
कुरुष्व सलिलं राजन्प्रतिज्ञाम् अपवर्जय || ७||
पूर्वकेण हि ते राजंस्तेनातियशसा तदा |
धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः || ८||
तथैवांशुमता तात लोकेऽप्रतिमतेजसा |
गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता || ९||
राजर्षिणा गुणवता महर्षिसमतेजसा |
मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च || १०||
दिलीपेन महाभाग तव पित्रातितेजसा |
पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ || ११||
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ |
प्राप्तोऽसि परमं लोके यशः परमसंमतम् || १२||
यच्च गङ्गावतरणं त्वया कृतमरिन्दम |
अनेन च भवान्प्राप्तो धर्मस्यायतनं महत् || १३||
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते |
सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव || १४||
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् |
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप || १५||
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः |
यथागतं तथागच्छद्देवलोकं महायशाः || १६||
भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् |
यथाक्रमं यथान्यायं सागराणां महायशाः |
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह || १७||
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह |
प्रमुमोद च लोकस्तं नृपमासाद्य राघव |
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः || १८||
एष ते राम गङ्गाया विस्तरोऽभिहितो मया |
स्वस्ति प्राप्नुहि भद्रं ते सन्ध्याकालोऽतिवर्तते || १९||
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुत्र्यमथापि च |
इदमाख्यानमाख्यातं गङ्गावतरणं मया || २०||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).