प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ वृद्धिः १।१ आदैच् १।१

समासः॥

आत् च ऐच् च आदैच्, समाहारद्वन्द्वसमासः॥

अर्थः॥

आत् = आ, ऐच् = ऐ, औ। आ ऐ औ इति एतेषां वर्णाणां वृद्धिसंज्ञा भवति॥

उदाहरणम्॥

भागः, त्यागः, यागः॥ नायकः, चायकः, पावकः, स्तावकः, कारकः, हारकः, पाठकः, पाचकः॥ शालायां भवः = शालीयः, मालीयः॥ उपगोरपत्यम् = औपगवः, औपमन्यवः॥ ऐतिकायनः, आश्वलायनः, आरण्यः॥ अचैषीत्, अनैषीत्, अलावीत्, अपावीत्, अकार्षीत्, अहार्षीत्, अपाठीत्॥
व्याख्या (काशिका)
वृद्धिशब्दः संज्ञात्वेन विधीयते, प्रत्येकम् आदैचां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च। तपरकरणम् ऐजर्थम् तादपि परः तपरः इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्ग-निवृत्तये। आश्वलायनः। ऐतिकायनः। औपगवः। औपमन्यवः। शालीयः। मालीयः। वृद्धिप्रदेशाः -- {सिचि वृद्धिः परस्मैपदेषु (७।२।१)} इत्येवम् आदयः॥
काशिका-वृत्तिः
वृद्धिरादैच् १।१।१

वृद्धिशब्दः संज्ञात्वेन विधीयते, प्रत्येकम् आदैचां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च। तपरकरणम् ऐजर्थम् तादपि परः तपरः इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्ग। निवृत्तये। आश्वलायनः। ऐतिकायनः। औपगवः। औपमन्यवः। शालीयः। मालीयः। वृद्धिप्रदेशाः सिचि वृद्धिः परस्मैपदेषु ७।२।१ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
वृद्धिरादैच् ३२, १।१।१

आदैच्च वृद्धिसंज्ञः स्यात्॥
न्यासः
वृद्धिरादैच् , १।१।१

वृद्धिः,आत् ऐच्()- इति केचित् त्रिपदमिदं सूत्रं वर्णयन्ति। अन्ये तु, आच्च, ऐच्च् इति आदैजिति समाहारे द्वन्दोऽयमिति मत्वा वृद्धिः, आदैच् इति द्विपदम्। इतरेतरयोगे हि बहुत्वाद्बहुवचनं स्यात्। ननु च समाहारेऽपि "द्वन्द्वाच्चुदषहान्ता- त्"५।४।१०६इति टच् समासान्तः स्यात्; समासान्तविधेरनित्यत्वान्न भविष्यति। अनित्यत्वं षष्ठे ज्ञापयिष्यते। अथ "चोः कुः" (८।२।३०) इति कुत्वं कस्मान्न भवति? "अय- स्मयादीनि च्छन्दसि" १।४।२० इति भसञ्ज्ञकत्वात्। आदिशब्दस्य प्रकारवाचित्वादैच्छ- ब्दोऽयमयस्मयादिषु द्रष्टव्यः। ननु तत्र च्छन्दसीत्युच्यते, न चेदं छन्दः, तत्कुतो भसञ्ज्ञा? "छन्दोवत् सूत्राणि भवन्ति" इत्यदोषः। इहेदं सूत्रमनर्थकं वा स्याद्यथाकथञ्चिदुदात्तादिवचनवत्? साध्वनुशासनार्थवा, वृद्धिशब्दस्यादैचाञ्चानेन साधुत्वमाख्यायत इति? प्रयोगनियमार्थं वा, आदैच पर एव वृद्धिशब्दः प्रयोक्तव्य इति? आदेशार्थवा, आदैचां वृद्धिशब्द आदेशो भवति ते वा तस्येति? आगमागमिसम्बन्धार्थं वा, आदैचां वृद्धिशब्द आगमो भवति, ते वा तस्येति? विशेषणविशेष्यभावप्रसिद्ध्यर्थं वा, आदैचां वृद्धिशब्दो विशेषणम्, ते वा, तस्येति?एकविभक्तिकत्वं ह्रत्र दृष्टम्, दृष्टश्चैकविभक्तिकयोर्विशेषणविशेष्यभावः, तद्यथा नीलमुत्पलमिति; सञ्ज्ञासञ्ज्ञिसम्बन्धार्थं वा? दृश्यते हि सोऽप्येकविभक्तिकयोः, तद्यथा "अयं पनसः" इति? तत्र तावदाद्यः पक्षो नोपपद्यते। सगषिगतज्ञानातिशयो ह्राचार्यः परहितप्रतिपन्नः समाहितचेताः शिष्याणां कृतरक्षासंविधानो मङ्गलपूर्वकं महता प्रयत्नेन सूत्राणि प्रणीतवान्। तत्राशक्यमेकेन वर्णनाप्यनर्थकेन भवितुम, किं पुनरियता सूत्रप्रबन्धेन!नापि शक्यं वृद्धिशब्दस्यादैचां च साधुत्वमनेन विधीयत इति विज्ञातुम्, लक्षणान्तरेण विहितत्वात् तेषां साधुत्वस्य। तथा हि वृद्धिशब्दोऽयम- विशेषेणचोपदिष्टः। "वृधु वृद्धौ" (धा।पा।७५९) इत्यतः क्तिन्प्रत्ययः "स्त्रियां क्तिन्"३।३।९४ इति, "झषस्तथोर्धोऽधः"८।२।४० इति धत्वम्, "झलां जश् झशि" (८।४। ५३)इति धकारस्य दकारः। आदैचोऽप्यक्षरसमाम्नाय उपदेशात्। ऐचोऽक्षरसमाम्नाय उपदेशः, नाकारस्येति चेत्? अवर्णजातेरुपदेशात् सोऽपि गृह्रत इत्यदोषः। अथाप्यकारव्यक्तेरुपदेशः? एवमप्यदोषः। "अणुदित्सवर्णस्य चाप्रत्ययः"१।१।६८ इत्यकारेण गृह्रमाणेनाकारस्यापि ग्रहणात्। प्रयोगनियमार्थमप्येतन्नार्हति भवितुम। प्रयोगनियमार्थे ह्रेतस्मिन्? "सिचि वृद्धिः" ७।२।१ मृजेर्वृद्धिः" ७।२।११४ इत्यादावनादैच्परस्य वृद्धिशब्दस्य प्रयोगो नोपपद्यते। कथं हि नाम स्वयमेव नियमं कृत्वा तमनादैच्परं प्रयुञ्जीत! अन्यस्तु प्रयोगनियमार्थमेतन्न भवतीति प्रतिपादयितुमाह- नह च प्रयोगनियमा- र्थमारभ्यत इति। ननु चायं प्रयोगनियमार्थमेवारभ्यते "ते प्राग धातोः" (१।४।८०) इति? ते गत्यपसर्गसञ्ज्ञका धातोः प्रागेव प्रयोक्तव्याः इति परेण चोदिते परिहारमाह- " प्रत्याख्यायते स योगः, न वा, तथानिष्टदर्शनात्" इति। न हि प्रपचतीति प्रयोक्तव्ये कश्चित् पचति प्र इति प्रयुङ्कते। अथापि न प्रत्याख्यायेत, एवमपि न दोषः, यतः सञ्ज्ञानियमोऽयं न प्रयोगनियमः, ते प्रादयो धातोः प्राक् प्रयुज्यमाना एव गत्युपस-र्गसञ्ज्ञका भवन्तीति। अथापि प्रयोगनियमार्थं स्यात्, एवमपि न दोषः, लौकिकानां शब्दानामर्थे प्रयुक्तानां प्रयोगनियम आरभ्यते, आदैच्छब्दश्च लौकिकः, तस्य किं प्रयोगनियमार्थेन वचनेनेति? तत्र यदुक्तं "प्रत्याखायायते स योगः" इति, तदयुक्तम्। न हि सार्थकस्य प्रत्याख्यानं युक्तम्। निरर्थकः स इति चेत्? अत्राप्यनर्थकत्वाशङ्काप्रसङ्गः। यदि ह्रनर्थकान्यपि कानिचित् सूत्राणि प्रणीतवान् सूत्रकार इत्येषोऽ- ध्यवसायः स्यात्। तस्मात तस्य प्रामाण्यमभ्युपगच्छता सर्वं तत्प्रणीतं येन केनचित् प्रकारेण सार्थकमभ्युपेयम्। योऽपि सञ्ज्ञानियमपक्षमाश्रित्य परिहार उक्तः, सोऽपि वृत्त्या विरुध्यते। "ते गत्युपसर्गसञ्ज्ञका धातोः प्राक् प्रयोक्तव्याः" इत्यनेन हि वृत्तिग्रन्थेन प्रयोगनियम एवाश्रित इति स्पष्टमेवाख्यातम्। न च वृतिं()त व्याख्यातुमुद्यतस्य तद्विरुद्धं व्याख्यानं युज्यते कर्तुम। यदप्युक्तं "लौकिकानां शब्दानाम्" इत्यादि, तदपि न प्रयोगनियमार्थता- शङ्कापनोदायालम्। तथा हि "विभाषा सुपो बहुच् पुरस्तातु५।३।६८, "अव्ययसर्व- नाम्नामकच् प्राक् टेः" ५।३।७१, "कृञ्चानुप्रयुज्यते लिटि" ३।१।४० इत्यलौकिकानामपि बहुजादीनं शास्त्रे प्रयोगनियमो दृश्यते, तत्र भवितव्यमेवाशङ्क्या, किमेतत् प्रयोगनियमार्थम्, अथान्यार्थमित्यलमतिप्रसङ्गेन। तस्मात् पूर्वोक्त एव परीहारो युक्तः। आदेशार्थमप्येतच्छक्यते न विज्ञातुम्। यदि ह्रादैचामनेन वृद्धिशब्द आदेशो विधीयेत, य एते निर्देशाः "याति वाति द्राति प्साति" ८।४।१७ इति, यश्च "रायो हलि"७।२।८५ इति, यश्च "नावो द्विगोः" ५।४।९९ इति, ते नोपपद्येरन्। अथ वृद्धिशब्द- स्यादैच आदिश्येरन्(), एवमपि "इद्()वृद्धौ"६।३।२७, "वृद्धिनिमित्तस्य च तद्धितस्य" ६।३।३८इत्येवमादयो निर्देशा न सम्भवेयुः। अत एवागमार्थमप्येतन्नोपपद्यते। न ह्रादैचां वृद्धिशब्द आगमे विहिते तस्य वा तेषु पूर्वोक्ता निर्देशा उपपद्यन्ते। अन्यस्त्वाह- आदेशविधाने स्थान्यादेशसम्बन्धे षष्ठ()आ भवितव्यम्, आगमविधानेप्यवयवावयविसम्बन्धे, न चेह षष्ठी विद्यते, तस्मात् षष्ठ()आ अभावान्नेदमादेशार्थम्, नाप्यागमार्थम् इति। एतच्चासम्यक्। विनाऽपि षष्ठ()आ "हल्ङ्याग्भ्यो दीर्घात् सुतिस्यपृक्तं हल्" ६।१।६६, "अनिते"८।४।१९, "अन्तः"८।४।१९, "उभौ साभ्यासस्य" ८।४।२० इत्यावेशविधानदर्शनात्। आगमविधानस्यापि "न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्" ७।३।३ इति षष्ठीमन्तरेणापि दर्शनात् विशेषणविशेष्यभावप्रसिद्ध्यर्थमप्येतन्न् सम्भाव्यते। तथा हि सम्भवव्यभिचारे च सति विशेषणविशेष्यभावो भवति, नीलोत्पलवत्। न चेहादैचां वृद्धिशब्दे तस्य वा तेषु सम्भवः। ननु च यथोत्पलशब्दःसर्वत्रोत्पलार्थे वर्तमानो नीलशब्देनार्थान्तराद्वयवच्छिद्यत इति व्यवच्छिद्यमानो विशेष्यो भवति, नीलशब्दस्तु व्यवच्छिन्दन् विशेषणम्, तथानयोरपबि यो वयवच्छेद्यः स विशेष्यो भवति, यस्तु व्यवच्छेदकः स विशेषणमिति? नैतदस्ति। उभयोर्हि सार्थकत्वे सत्येतदुपपद्यते, नीलोत्पलशब्दवत्। न चादैचोऽर्थवन्तः। भवतु नामानयोर्विशेषणविशे- ष्यभावः, तथापि नैतत्सिद्ध्यर्थमिदं युक्तम्; निष्प्रयोजनत्वात्, तत्पुनः प्रकृतानुपयोगित्वात्। शब्दानुशासने हि शास्त्रे प्रकृते यग्नाम शब्दसंस्कारानुपयोगिवचनं तत्सर्वमप्रयोजनम्। शब्दसंस्कारानुपयोगित्वं त्वेतत्प्रतिपदितेन विशेषणविशेष्यभावेनवृद्धिशब्दस्यादैचां वा स्वरविशेषस्य वा रुपविशेषस्य वा संस्कारस्यासिद्धेः। विशेषणविशेष्यभाव एव तेषां संस्कार इति चेत्? यद्येवम्, अत्यल्पमिदमुच्यते"वृद्धिरादैच्" १।१।१इति। नीलोत्पलमित्यद्पि हि वक्तव्यम्, नीलोत्पलादिशब्दानां विशेषणविशेष्यभावप्रसिद्धये। न चोक्तम्, अतो नैष संस्कारोऽभिमत इति नास्य तादथ्र्यं सम्भाव्यते। ननु तुल्यविभक्तिकानां तद्गुणसमाध्यारोपोऽपि दृष्टः, तद्यथा "सिंहो माणवकः" इति, तस्मात् तदर्थमेतद्भविष्यतीति यत्पक्षान्तरमेके परिकल्पयाम्बभूवुः, तदर्थम- प्येतन्न भवति, तद्गुणसमाध्यारोपस्य सतोऽप्यत्र प्रकृतानुपयोगित्वेनानर्थकत्वात्। तस्मात् पारिशेष्यात् सञ्ज्ञासञ्ज्ञिसम्बन्धार्थमेवैतदित्यालोच्याह-"वृद्धिशब्दः सञ्ज्ञात्वेन" इत्यादि। भवतु नाम परिशेष्यात्तदर्थम्। एतत् कुतो लभ्यते? वृद्धि- शब्दः सञ्ज्ञा, आदैचः सञ्ज्ञिनः इति। विपर्ययः कस्मान्न भवति,आदैचः सञ्ज्ञा, वृद्धिशब्दः सञ्ज्ञी इति? नार्हति विपर्ययो भवितुम्। तथा हि, लघ्वर्थत्वात् सञ्ज्ञाकरणस्य, यस्मिन्नुच्चार्यमाणे प्रदेशेषु लाघवं भवति तस्य सञ्ज्ञार्थत्वेन भाव्यम्। वृद्धिशब्दे च विभक्तिकेऽप्युच्चार्यमाणे लाघवं भवति, नादैक्षु; यस्माद्()वृद्धिशब्द उच्चार्यमाणे चतस्त्रो मात्रा भवन्ति, आदैक्षु तु पञ्च। न चादैचां प्रत्येकं सञ्ज्ञाभावाल्लाघवं भवतीति शक्यं परिकल्पयितुम्, प्रयोजनविशेषमन्तरेणैकस्थाने- सञ्ज्ञाविधानस्य निष्फलत्वात्। किञ्चावर्तिभ्यः सञ्ज्ञा भवन्ति। वृद्धिशब्दश्चावर्तते, नादैच्छब्दः तस्मान्न भवति विपर्ययः "वृद्धिशब्दः" इति। शब्दग्रहणमर्थव्यवच्छे- दार्थम्। असति हि तस्मिन् शब्दादर्थावगतेरर्थस्यैव सञ्ज्ञात्वं विज्ञायेत। यद्यपि प्रागेव सञ्ज्ञा विहिता, तथापि शिष्यप्रशिष्यप्रबन्धाद्युपरमाद्विधीयत इतिवर्तमान प्रयत्वेन् निर्देशः। यत्र समुदास्य कार्यमिच्छति तत्र उभेपदग्रहणं करोति, यथा "उभे अभ्यस्तम्" ६।१।५ इति, अन्वर्थां वा महतीं सञ्ज्ञाम्, "हलोऽन्तराः संयोगः"१।१।७ इति। तत्र हि महती सञ्ज्ञैवमर्था क्रियते, समुदायस्यैषा सञ्ज्ञायथा स्यादिति। एतच्चोत्तरत्र व्यक्तीकरिष्यामः। इह तु न किञ्चित्तथाविधं वचनमस्ति यतः समुदायस्यै- षा सञ्ज्ञा स्यात्। तस्मादेकैकस्यैषा सञ्ज्ञेति मनसि कृत्वाह "प्रत्येककम्" इति। ननु चेहापि लाघवार्थमेकाक्षरायां सञ्ज्ञायां कर्तव्यायां वृद्धिरिति महत्याः सञ्ज्ञायाःकरणं समुदायस्य सञ्ज्ञा यथा स्यादित्येवमर्थम्? नैतदस्ति। मङ्गलार्थत्वा- दस्याः सञ्ज्ञायाः। अत एवास्याः प्रागुच्चारणम्। अन्यथा सञ्ज्ञायाः सतः कार्यिणः कार्येण भवितव्यमिति, यथा "अदेङ्गुणः"१।१।२ इत्यादौ पूर्वसञ्ज्ञीनिर्दिष्ट-, तथेहापि निर्दिशेत्। आकारस्य गुणान्तरयुक्तयोश्चैचोः प्रत्याहारेऽसन्निवेशान्नामी वर्णा इति कस्यचिन्मन्दधियो भ्रान्तिः स्यात्, अतस्तन्निराकरणायाह-"वर्णानाम्" इत्यादि। प्रत्यासत्तेस्तद्भावितानामेवैषां सञ्ज्ञा स्यादिति कस्यचिद्विपर्ययः स्यात्, अतस्तमपाकर्तुमाह-"सामान्येन" इति। व्याप्तेन्र्यायादित्यभिप्रायः। सामान्येनेत्यस्यार्थं विस्पष्टीकर्तुमाह- "तद्भावितनाम्" इत्यादि। ते तद्भाविताः ये वृद्धिशब्देनोत्पादिताः, ततोऽन्येऽतद्भाविताः। आदिति तपरकरणम्-"तपरस्तत्कालस्य"१।१।६९ इति गुणान्तरभिन्नानामपि तुल्यकालानां ग्रहणार्थं वा स्यात्, भिन्न- कालानां ग्रहणनिवृत्त्यर्थं वा? तत्र् पूर्वः पक्षस्तावन्नोपपद्यते; अभेदकत्वादिहोदात्तादीनां शास्त्रे गुणानाम। कुत एतत्? "लुङलङलृङक्ष्वडुदात्तः"६।४।७१ इत्युदात्तग्रहणात्, अन्यथा ह्रुदात्तगुणयुक्तमेवाटमुच्चारयेत्। द्वितीयोऽपि नोपपद्यते। यदि ह्राकारः सवर्णानां ग्राहकः स्यात्, ततस्तेन भिन्नकालस्याप्यवर्णस्य ग्रहणे सति तस्यापि सञ्ज्ञा मा भूदिति भिन्नकालानां ग्रहणनिवृत्त्यर्थं तपरकरणमुपपद्यते। न चासौ सवर्णानां ग्राहकः, अनण्त्वात्, तस्य पुनरक्षरसमाम्नायेऽसन्निवेशात्। तस्मादनर्थकं तपरकरणम्। ततो न कर्तव्यमेवेत्यत आह- "तपरकरणम्" इत्यादि। एचोरर्थः प्रयोजनं यसय् तत् तथोक्तम्। ननु च जातौ पदार्थे प्लुतस्यापि ग्रहणं भवति, तत्राप्यवर्णजातेः समवयात्, तत्रासति तपरकरणे तस्यापि सञ्ज्ञा स्यत्, तस्मात् तन्निवृत्तय तपरकरणं भवदाकारार्थमप्युपपद्यत एव, तत्किमुच्यते "एजर्थम्" इति? एवं मन्यते- जातिपक्षसमाश्रयणेऽपि हि दीर्घोच्चारणसामथ्र्याद्()द्विमात्रा एवावर्णव्यक्तयः समाश्रिता इति गम्यते, इतरथा हि लाघवार्थम्? "अद्()" इत्येवाभिदध्यात्। न च ह्यस्वनिवृत्त्यर्थं दीर्घोच्चारणमिति शक्यते परिकल्पयितुम्, दीर्घोच्चारणेऽपि ह्यस्व- ग्रहणं प्राप्नोत्येव, तत्राप्यवर्णजातेः सम्भवादिति। न चासन्देहार्थम् "आत्" इत्युक्तम्, वर्णान्तरासाधारणत्वात्, असंहितया वा सन्देहाभावादिति। ननु च "तपरस्तत्काल- स्य" १।१।६९इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः, न चात्रैच् तपरः, तत्कथं तपरकरणमैजर्थं भवतीत्यत आह- "तावपि परस्तपरः" इति। न केवलं तः परो यस्मात् स तपर इति, अपि तु तादपि यः परः सोऽपि तपर इति अपिशब्देन दर्शयति। एतदुक्तं भवति, न केवलं बहुव्रीहिरेव तत्राश्रीयते, किं तर्हि? पञ्चमीतत्पुरुषोऽपि। यता चैतदुभयमा- श्रीयते तथा तत्रैवोपपादयिष्यामः। इति करणो हेतौ यत एवं तादपि परस्तपरः, तेन तपरकरणमैजर्थमित्यर्थः।"खट्वैडकादिषु" इत्यादिना तदेवैजर्थत्वं तपरकरणस्य स्पष्टीकरोति। वृक्ष एलका "वृक्षैलका"। अक्रियमाणे ह्रत्र तपरकरणे त्रिमात्रिकस्याकारैकारसमुदाय स्यस्थाने वृद्धिरेचि"६।१।८५ इति वृद्धिरान्तरतम्यात् त्रिमात्रिक एवैकारः स्यात्यदि तस्यापि वृद्धिसञ्ज्ञा स्यात्। खट्वा ओदनं खट्वौदनम्, खट्वा एलका खट्वैलका इत्यत्रापि पूर्वोत्तरसमुदाययोश्चतुर्मात्रायोश्चतुर्मात्रावकारैकारौ स्याताम्,तन्मा भूदेष दोष इति त्रिमात्रचतुर्मात्राणामैचां वृद्धिसञ्ज्ञानिवृत्तये तपरकरणं क्रियते। आ()आलायनः, ऐतिकायनः" इति। अ()आलेतिकशब्दाभ्यां "नडादिभ्यः फक्()" ४।१।९९, "यस्येति च" ६।४।१४८ इति लोपः, "किति च"७।२।११८ इत्यादिवृद्धिः। "औपगवः" इति। उपगुशब्दात् "प्राग्दीव्यतोऽण्"४।१।८३। "औपमन्यवः" इति। उपमन्युशब्दात "अनृष्यानन्तर्ये बिदादिभ्योऽञ्" ४।१।१०४इत्यञ्, उभयत्रापि "ओर्गुणः"६।४।१४६, अवादेशः ६।१।७५, " तद्धितेष्वचामादेः" ७।२।११७ इति वृद्धिः। एतानि चत्वार्यपि तद्भावितो- दाहरणानि। ननु येऽत्र त्रयः सञ्ज्ञिनस्तेषामाद्यैस्त्रिभिर्विषयो दर्शितः, किमर्थ- श्चतुर्थोपन्यासः? केचिदाहुः- वद्धिनिमित्तभेदात्, आद्ययोरुदाहरणयोः कित्तद्धितो वृद्धेर्निमत्तम्, तृतीयेऽपि णित्, तचुर्थेऽपि ञित् इति। एतच्चायुक्तम्। तथा हि "इको गुणवृद्धी" १।१।३ इत्यत्र"अकार्षीत्" इत्युदाह्मत्य "अहार्षीन्" इत्युदाह्मतम्", न च तत्र वृद्धिनिमित्तभेदोऽस्ति। तथा "न धातुलोप आर्धधातुके" १।१।४ इत्यत्र लोलुवः इत्युदाह्मत्य "पोपुवः, मरीमृजः" इत्यधिकोदाहरणोपन्यासः कृतः। न च तत्र लोपनिमित्तभेदः; प्रतिषेधनिमित्तभेदो वा अधिकोदाहरणोपन्यासस्य हेतुर्विद्यते। प्रायेणा- न्यष्वेपि च सामान्यलक्षणेषु विनापि निमित्तभेदानाधिकोदाहरणोपन्यास उपलभ्यते। योऽप्याह "ओपगव इत्यनेनैच औकारस्य विषये दर्शितेऽपि स्वरभेदादौपमन्यव इत्येतदधिकमुदाहरणमुपन्यस्तम्" इति, तस्यापि तदयुक्तम्, अत एवानन्तरोक्ताद्धेतोर्वेदितव्यम्।। यदि निमित्तभेदः, स्वरभेदो वा सर्वत्राधिकोदाहरणोपन्यासो वेदितव्यः। "शालीयः, मालीयः" इति। अतद्भावितस्योदाहरणे। अत्र हि वृद्धिसञ्ज्ञायां वृद्धिर्यस्या चामादिस्तद्वृद्धम्" १।१।७२ इति वृद्धसञ्ज्ञाफं छप्रत्ययोपन्यासस्तस्या एव फलभूताया अभिव्यक्त्यर्थः। वृद्धसञ्ज्ञायां हि सत्यां " वृद्धाच्छः" ४।२।११३ इति जातादावर्थे छो विधीयते। ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं नात्र दर्शितम्, एतदनुसरसार- णैव गम्यमानत्वात्। आकारस्यातद्भावितस्य वृद्धिसञ्ज्ञायाः कार्ये दर्शिते, तयोरपि तदेव कार्यमिति तन्मुखेनैव गम्यत एव। के पुनसत्योरुदाहरणे? "रैमयम्, नौमयम्" इति। आत्रैकारौकारयोर्वृद्धिसञ्ज्ञायां सत्यां पूर्ववद्()वृद्धसञ्ज्ञा। तस्यां च सत्यां रायो विकारः, नावो विकार इति "नित्यं वृद्धशरादिभ्यः" ४।३।१४२ इति मयड्()भवति।
बाल-मनोरमा
वृद्धिरादैच् १८, १।१।१

इदानीं संज्ञान्तराणि विधास्यन् वृद्धिसंज्ञां तावदाह--वृद्धिरादैच्। यद्यपि पाणिनीयाष्टाध्याय्यामिदमादिमं सूत्रं, तथापि नेदमादावुपन्यस्तम्, अस्य सूत्रस्य तपरकरणेन प्रत्याहारगर्भितत्वेन ग्रहणकशास्त्रनियमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृत्त्युत्तरप्रवृत्तिकतया प्रत्याहरशास्त्रप्रपञ्चनिरूपणात्प्रागुपन्यासनर्हत्वात्। न च सूत्रकृता अयमेव पाठकमः कुतो नाद्रियत इति वाच्यम्। स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वात्। आच्च ऐच्चेति समाहारद्वन्द्वः। "द्वन्द्वाच्चुदषहान्तात्" इति समासान्तस्तु न, अत एव निर्देशेन समासान्तविधेरनित्यत्वात्। "चोः कुः" इति पदान्ते विहितं कुत्वमपि न। "अयस्मयादीनि छन्दसि" इति भत्वात्। "वृद्धिरादैजदेङ" इति संहितापाठपक्षे चकारस्य "झलां जशोऽन्ते" इति पदान्ते विहितजश्त्वं तु भवत्येव, "उभयसंज्ञान्यपि छन्दसि दृश्यन्ते" इति वचनात् , "छन्दोवत्सूत्राणि भवन्ति" इति छान्दसविधीनां सूत्रेष्वपि प्रवृत्तेः। नचैवमपि पदत्वात्कुत्वं भत्वाज्जश्त्वाऽभावश्च कुतो न स्यादिति वाच्यम्, "छन्दसि दृष्टानुविधिः" इति वचनादित्यलम्।आच्च ऐच्चेतीतरेतरयोगद्वन्द्वो वा। तथा सति सौत्रमेकवचनम्। आचार्यपारंपर्योपदेशसिद्धसंज्ञाधिकारात् संज्ञेति लभ्यते। तदेतदाह--आदैच्चेत्यादिना।

तत्त्व-बोधिनी
वृद्धिरादैच् १७, १।१।१

वृद्धिरादैच्। आच्च ऐच्चेति इतरेतरयोगद्वन्द्वः, "सुपां सुलु" गिति औङः सुर्लुग्वा। यद्वा समाहारद्वन्द्वः। नचैवं "द्वन्द्वाच्चुदषहान्तात्समाहारे" इति टच्स्यादिति वाच्यम्, समासान्तविधेरनित्यत्वात्। तत्र च प्रमाणं समासेषु वक्ष्यामः। अथवा "आ"दित्यसमस्तमेवास्तु, वृद्धिशब्दस्तन्त्रेणावृत्त्यां वा योजनीयः।?यस्मयादित्वेन भत्वाच्चोः कुर्न। "ऐ"जिह द्विमात्र एव, तात्परत्वात्, तेन "कृष्णैकत्व"मित्यत्र त्रिमात्रो न। वृद्धिप्रदेशाः-"वृद्धिरेचि"त्यादयः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अदेङ् १।१ गुणः १।१

समासः॥

अत् च एङ् च अदेङ्

अर्थः॥

अ ए ओ इति एतेषां वर्णानां गुणसंज्ञा भवति

उदाहरणम्॥

चेता, नेता, स्तोता, कर्ता, हर्ता, तरिता, भविता॥ जयति, नयति॥ पचन्ति, पठन्ति॥ पचे, यजे, देवेन्द्रः, सूर्योदयः, महर्षिः॥
काशिका-वृत्तिः
अदेङ् गुणः १।१।२

गुणशब्दः संज्ञात्वेन विधीयते, प्रत्येकम्, अदेङां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च। तपरकरणं त्विह सर्वार्थम्। तरिता। चेता। स्तोता। जयन्ति। अहं पचे। गुणप्रदेशाः मिदेर् गुणः ७।३।८२ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
अदेङ् गुणः २५, १।१।२

अत् एङ् च गुणसंज्ञः स्यात्॥
न्यासः
अदेङ् गुणः। , १।१।२

"तपरकरणं त्विह सर्वार्थम्िति। सर्वस्मिन्नर्थः प्रयोजनं यस्य तत् तथोक्तम्। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। तत्र ह्रैजर्थमेव, इह तु सर्वार्थम्, अकारार्थमेङर्थमपि। असति हि तपरकरणं अदेङामणत्वात् सवर्णानां ग्रहणं सति भिन्नकालानामप्येषा सञ्ज्ञा स्यात्। ततश्च "तरिता" इत्यत्रान्तरत्मयाद्दीर्घस्य दीर्घ एव गुणस्यात्।ननु च वृद्धिसञ्ज्ञा गुणसञ्ज्ञाया बाधिका भविष्यति, तत् कुतोऽयं प्रसङ्गः? नैतदस्ति। एकसञ्ज्ञाधिकारे हि सञ्ज्ञया सञ्ज्ञान्तरं बाध्यते, न चात्रेकसञ्ज्ञाधि-कारः। स्यादेतत्, असत्यप्येकसञ्ज्ञाधिकारे यथा "जीवति तु वंश्ये युवा"४।१।१६३ इति गोत्रसञ्ज्ञा युवसञ्ज्ञया बाध्यते, यथा च "लिट् च" ३।४।११५, "लिङाशिषि"३।४।११६इति चार्धधातुकसञ्ज्ञया सार्वधातुकसंज्ञा बाध्यते, तथा गुणसंज्ञा वृद्धिसञ्ज्ञया बाधिष्यते इति? अयुक्तमेतत। युवसञ्ज्ञाविधौ तुग्रहणं नियमार्थं क्रियते। ततो युक्तं यद्युवसञ्ज्ञया गोत्रसञ्ज्ञा बाध्यत इति। आर्धधातुकसञ्ज्ञाऽपि यत् सार्वधातुकसञ्ज्ञा बाध्यते तदपि युक्तमेव, "छन्दस्युभयथा" ३।४।११७ति वचनात्। यदि सार्व- धातुकार्धधातुकसञ्ज्ञयोः समावेशः स्यात्, न बाध्यबाधकभावः, तदा "छन्दस्युभयथा"३।४।११७ इति वचनमपार्थकं स्यात्। इह तु न किञ्चित् तथाविधं निबन्धनमस्ति, यतो वृद्धिसञ्ज्ञया गुणसञ्ज्ञा बाध्यते। अथापि कथञ्चिद्बाध्येत, एवमपि त्रिमात्रिकस्यापि गुण- सञ्ज्ञा स्यादेव। न हि सा तया शक्या बाधितुम्, तस्य अतद्विषयत्वात्। त्रिमात्रस्यापि गुणसञ्ज्ञायां सत्यां त्रिमात्रोऽपि गुणः प्रसज्यते। ऋकारस्य हि कालतो यथैकमत्रिकोऽकारोऽन्तरतमो न सम्भवति, तथा त्रिमात्रोऽपि, तत् कुत एतल्लभ्यते? ह्यस्वेनैवास्य गुणेन भवितव्यम् न हि त्रिमात्रेणाकारेणेति। किञ्च, यदि भिन्न- कालानामपि गुणसञ्ज्ञा स्यात्, "खट्वा इन्द्रः= खट्वेन्द्रः खट्वा उर्वी खट्वोर्वी" इत्यत्र त्रिमात्रत्वात् पूर्वोत्तरसमुदायात्मनः स्थानिनः "आद्()गुणः" ६।१।८४इति त्रिमात्रो गुणः स्यात्। खट्वा ईषा= खट्वेषा, खट्वा उढा=खट्वोढा" इत्यत्र चतुर्मा- मात्रित्वात् चतुर्मात्रः। तस्मात् सर्वार्थं तपरकरणं कर्तव्यम्। "तरिता" इत्यादि। "तृ? तप्लवनतरणयोः" (धा।पा।९६९), "चिञ् चयने" (धा।पा।१२५१), "ष्टुञ् स्तुतौ" (धा।पा।१०४३), एभ्यः "ण्लुल्()तृचौ"३।१।१३३ इति तृच्। "आर्धधातुकस्येड् वलादेः"७।२।३५ इतीट्, "सार्वधातुकार्धधातुकयोः" ७।३।८४ इति गुणः, सु, "ऋदुशनस्()"७।१।९४ इत्यादिना अनङ, "सर्वनामस्थाने च" ६।४।८ इति दीर्घः। एतानि त्रीणि यथाक्रमदेङां तद्भावितानामुदाहरणानि। "पठन्ति, पठन्" इत्यकारस्यात्द्भावितस्योदाहरणे। अत्रान्त्याकारस्य गुणसञ्ज्ञायां "अतो गुणे" ६।१।९४ पररूपत्वं भवति। पठन्निति शत्रन्तमेतत्। एकास्यातद्भावितस्यकार्योदाहरणम्- "अहं पचे" इत्यादि। ओकारस्यातद्भावितस् तन्न सम्भवतीति न प्रदश्र्यते।
बाल-मनोरमा
अदेङ्गुणः १९, १।१।२

अदेङ्गुणः। संज्ञाप्रस्तावात्संज्ञेति लभ्यते। अच्च एङ्? चेति समाहारद्वन्द्वः। तदाह--अदेङ् चेत्यादिना।

तत्त्व-बोधिनी
अदेङ्गुणः १८, १।१।२

अदेङ्गुणः। तपरकरणमिह सर्वार्थम्। तेन "गङ्गोदक"मित्यत्र त्रिमात्रो न। "तरती"त्यत्र त्वकार एव, नतु कदाचिदाकारः। नच प्रमाणत आन्तर्येण नियमसिद्धिः, रपरत्वे कृते एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात्। गुणप्रदेशास्तु-"आद्गुणः" "अतो गुणे" इत्यादयः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ इकः ६।१ गुण-वृद्धी १।२ वृद्धिः गुणः

समासः॥

गुणश्च वृद्धिश्च गुणवृद्धी, इतरेतरद्वन्द्वसमासः

अर्थः॥

वृद्धिः स्यात्, गुणः स्यात्, इति गुण-वृद्धि-शब्दाभ्यां यत्र गुण-वृद्धी विधीयते, तत्र इकः इति षष्ट्यन्तं पदम् उपस्थितं द्रष्टव्यम् = तत्र इकः स्थाने भवतः इत्यर्थः।

उदाहरणम्॥

मेद्यति, चेता, कर्ता, जयति। मार्ष्टि। अलावीत्।
काशिका-वृत्तिः
इको गुणवृद्धी १।१।३

परिभाषा इयं स्थानिनियमार्था। अनियमप्रसङ्गे नियमो विधीयते। वृद्धिगुणौ स्वसंज्ञया शिष्यमाणौ इकः एव स्थाने वेदितव्यौ। वक्ष्यति सार्वधातुकार्धधातुकयोः ७।३।८४ अङ्गस्य गुण इति। स इको एव स्थाने विदितव्यः। नयति। भवति। वृद्धिः खल्वपि अकार्षीत्। अहार्षीत्। अचैषीत्। अनैषीत्। अलावीत्। अस्तावीत्। गुणवृद्धी स्वसंज्ञया विधीयेते, तत्र इकः इति एतदुपस्थितं द्रष्टव्यम्। किं कृतं भवति? द्वितीयया षष्ठी प्रादुर्भाव्यते। मिदिमृजिपुगन्तलघौउपर्धाच्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेन इग् विशेष्यते। जुसि सार्वधातुकाऽदिगुणेषु इकाङ्गं विशेष्यते। मेद्यते। अबिघयुः। इकः इति किम्? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत्। यानम्। ग्लायति। उम्भिता। पुनर् गुणवृद्धिग्रहणं स्वसंज्ञ्या विधाने नियमार्थम्। इह मा भूत् द्यौः, पन्थाः, सः, इमम् इति।
न्यासः
इको गुणवृद्धी। , १।१।३

"परिभाषेयम्" इति। नाधिकारः, अस्वरितत्वात्। नापि गुणवृद्धयोर्विधायकं लक्षणम्, लक्षणान्तरेण तयोर्विधास्यमानत्वात्। "स्थानिनियमार्था" इति। स्थानिनि नियमः स्थानिनियमः, स्थान्यन्तरव्यवच्छेदेनैकत्र प्रवर्तनम्, सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता। "अनियमप्रसङ्गे नियमो विधीयते" इति। यत्र साक्षात् स्थानी न निर्दिष्टः "सार्वधातुकार्धधातुकयोः"७।३।८४, "सिचि वृद्धिः परस्मैपदेषु"७।२।१ इत्यादौ, तत्रानियमे प्रसक्ते नियममेषां करोति-इक एव नान्यस्येति। अतः स एवस्या विषयो वेदितव्यः, न तु यत्र साक्षात् स्थानी निर्दिश्यते सोऽपि, यथा- "ओर्गुणः" ६।४।१४६ "अत उपधायाः" ७।२।११६ इत्यादिः। तत्र ह्रनियमस्य प्राप्तिरेव नास्ति। लिङ्गवती चेयं परिभाषा, लिङ्गं चास्या गुणवृद्धिग्रहणम्, तत्रोपतिष्ठते। तथा च द्वे षष्ठ्यौ प्रादुर्भवतः,-"इकः" इत्येका षष्ठी, "मिदेर्गुणः"७।३।८२ इत्येवमादिका द्वितीया। तत्र कामचारादयथेष्टं सिध्यति। तयोर्विशेषणविशेष्यभावः क्रियते। "मिदेः" इत्यत्रान्त इग न सम्भवतीति त्सयाङविशेषणत्वं नोपपद्यतेतस्मादत्राङ्गेनेगेव विशिष्यते- मिदेरङ्गस्य य इगिति। तेन स्थानष्ठ()भावादलोऽन्त्यस्यानुपस्थाने सति यत्र तत्र स्थस्येको गुणः सिद्धो भवति। "सार्वधातुकार्धधातुकयोः" ७।३।८४ इत्यादौ त्वङ्गस्य इगन्तत्वं सम्भवति। तेन चाङ्गे विशिष्यमाणे तदन्तविधौ सतीष्टं सिध्यति। तस्मादिकै-वाङ्गं विशिष्यते, "इगन्तस्याङ्गस्येति। एवंचय सत्यस्याः स्थानषष्ठीत्वात् "अलो।- न्त्त्यस्य" १।१।५१ इत्येतदुपतिष्ठछते, तेनेगन्तस्यैवाङ्गस्य गुणवृद्धी भवतः, नेतरस्य। "स्वसञ्ज्ञया" इति। अत्र वक्ष्यमाणोऽभिप्रायः। "इक एव स्थाने" इति। यदर्थेयं परिभाषा तस्य नियमस्य स्वरूपं दर्शयति- "अकार्षीत्" इति। "डुकृञ् करण" (धा।पा। १४७२),लुङ, "च्लेः सिच्" ३।१।४४ सिचि वृद्धिः ७।२।१"अस्तिसिचोऽपृक्ते" ७।३।९६ इतीट्। एवम् "अहार्षीत्" इति। अत्र "ह्मञ् हरणे" (धा।८९९) इत्ययं विशेषः। "इक इति किम्" इत। एकदेशद्वारेण समुदायस्य पर्यनुयोगो वेदितव्यः। न हि "गुणवृद्धी" इत्येतावता विनेग्ग्रहणेनार्थः कश्चित् संगृह्रते। "यानम्" इति। यातेर्ल्युटि गुणे विधीयमान आन्तरतम्यादकारः स्यात्। ततश्च द्वयोरकारयोः "अतो गुणे" (६।१।९७ पररूपत्वे कृते "यनम्" इत्यनिष्टं रूपं स्यात्। "ग्लायति" इति। "ग्लै म्लै हर्षक्षये" (धा।पा।९०३।९०४), अत्र सन्ध्यक्षरस्य ऐकारस्य एकारो गुणः स्यात्। ततश्चायादेशे कृते ग्लयति इत्यनिष्टं रूपं स्यात्। "उम्भिता"इति। "उभ उम्भ पूरणे" (धा।पा।१३१९,१३२०), तृच्, इट्। अत्र व्यञ्जनस्य कारस्यौष्ठ()स्य ओकारो गुणः स्यात्। ततश्चावादेशे कृते "उभविता" इत्यनिष्टं रूपं स्यात्। अथ कथं स्वसञ्ज्ञया शिष्यमाणावित्येष विशेषो लभ्यते? न हि सूत्रे स्वसञ्ज्ञाग्रहणमस्तीत्यत आह "पुनर्गुणवृद्धिग्रहणम्" इत्यादि। इहपूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते। कतस्मिन्ननुवर्तमाने यत् पुनरिह गुणवृद्धरिग्रहणं क्रियतेतस्यैतत् प्रयोजनम्- "यत्र स्वसञ्ज्ञया गुणवृद्धी विधीयेते तत्रायं नियमो यथा स्यात्, अन्यत्र मा भूत्िति। पुनर्गुणवृद्धिग्रहणसामथ्र्यादन्यतरस्य गुणवृद्धिग्रहणस्य सञ्ज्ञाप्रधानत्वं सम्पाद्यते। कतेन स्वसञ्ज्ञया विधाने नियमो भवतीत्येषोऽ- र्थो लभ्यते। अन्यथा हि यद्येवं पूर्वो नियमो नात्राभिमतः स्यात्, ततो नियतस्य निय मस्य प्रकृतगुणवृद्धिग्रहणानुवृत्त्यैव सिद्धत्वात् पुनरिह गुणवृद्धिग्रहणमनर्थकं स्यादित्येवमभिप्रायः। "इह मा भूत्" इत्यादिनार्यैवं प्रकारस्य नियमस्य व्यवच्छेद्यत्वं दर्शयति- "द्यौः" इति। "दिव औत्"७।१।८४ इत्यौकारः। स्वरूपेण विधीयमानोऽलोऽन्त्यस्यैव भवति, नेकः। "पन्थाः" इति। "पथिमध्यृभुक्षामात्" ७।१।८५ इत्याकारोऽन्त्यस्यैव भवति, नेकः। "इतोऽत्सर्वनामस्थाने"७।१।८६ इतीकारस्य अकारः, "थोऽन्थः" ७।१।८७ इति थकारस्य न्थादेशः। "इयम्" इति। "त्यदादीनामः" ७।२।१०२ इत्यत्वमन्तर्सयैव भवति, नेकः। "दश्च" ७।२।१०९ इति दकारस्य मकारः। स इत्यत्र त्वस्याः परिभाषाया उपस्थाने सति त्यदाद्यत्वं न स्यादेव। "तदोः सः सावन- न्त्ययोः" ७।२।१०६ इति सत्वम्, ननु च "अनश्च" १।२।२८ इत्ययमपि स्थानिनियमः स्वसञ्ज्ञाविधान एवेष्यते, तस्यापि च नियमस्य द्यौरित्यादिकं व्यवच्छेद्यम्। तथा हि वृत्तिकारस्तत्र वक्ष्यति "स्वसञ्ज्ञया विधाने नियमः। अजिति वर्तते। इह मा भूत्, द्यौः, पन्थाः, सः, द्युभ्याम्, द्युभिः" (का ३८) इति, ततश्च यदनेन नियमेनैवंविधेन कत्र्तव्यं तत्तेनैव सिध्यति, नार्थ एवंविधयनियमर्थेन पुनरिह गुणवृद्धिग्रहणेन() सत्यमेतत्" किन्त्वेवमर्थप्रतिपत्तौ य एते मन्दधियः प्राथमकल्पिकाः श्रोतारः, तेषांप्रतिपत्तिगौरवं स्यात्। तस्मात् ताननुग्रहीतं विस्पष्टार्थमिह सञ्ज्ञाविधाने नियमं प्रतिपादयितुं पुनर्गुणवृद्धिग्रहणं कृतम्। तद्येवम्, यत् येन विधातव्यं तदनेनैव विहितमिति तत्र सञ्ज्ञाविधाने नियमो न कत्र्तव्यः? नैतदस्ति; यदि ह्रसावित्थम्भूतो नियमो न स्यात्, ततो "द्युभ्याम् द्युभिः" इत्यत्र "दिव उत्"६।१।१२७ इत्युकारः स्वरूपेणैव विधीयमानोऽच एव स्थाने स्यात्, नालोऽन्त्यस्य। न ह्रनेन नियमेनाचः शक्यते व्यावर्तयितुम्, तस्य गुणवृद्धिसञ्ज्ञकत्वात्।
बाल-मनोरमा
इको गुणवृद्धीः ३६, १।१।३

इको गुणवृद्धि। "इक" इति षष्ट()न्तशब्दः स्वरूपपरो नपुंसकलिङ्गः प्रथमैकवचनान्तः। सोर्लुका लुप्तत्वादत्वसन्तस्येति दीर्घो न ओ। "इकस्"शब्द इत्यर्थः। "उपतिष्ठते" इति शेषः। "वृद्धिरादैच्" "अदेङ्गुणः" इत्यतो वृद्धिरिति गुण इति चानुवर्तते। इतिशब्दोऽध्याहार्यः। "यत्र विधीयते तत्रे"त्यप्यध्याहार्यम्। गुणो वृद्धिरित्युच्चार्य यत्र गुणवृद्धि विधीयेते तत्र इक इति षष्ठ()न्तं पदमुपतिष्ठत इति योजना। तदाह--गुणवृद्धिशब्दाभ्यामित्यादिना। उपतिष्ठत इति। सङ्गतं भवतीत्यर्थः। "उपाद्देवपूचासङ्गतिकरणे"त्यात्मनेपदम्। सोऽयं पदोपस्थितिपक्षो भाष्यादौ सिद्धान्तितः। "सार्वधातुकार्धधातुकयोः", मिदेर्गुणः" इत्याद्युदाहरणम्। इक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभवष्यति। "यत्र विधीयेते" इत्युक्त्या "वृद्धिर्यस्याचा"मित्याद्यनुवादे इक इति नोपतिष्ठते। अनुवादे परिभाषामनुपस्थितेः। "त्यदादीनामः" इत्यादावपि नेदमुपतिष्ठते, तत्र गुणवृद्धिशब्दयोरश्रवणात्।

तत्त्व-बोधिनी
इको गुणवृद्धी ३०, १।१।३

इको गुणवृद्धी। यत्र साक्षात्स्थानी न निर्दिष्टः "सार्वधातुकाद्र्धधातुकयोः" "सिचि वृद्धि" रित्यादौ, तत्रैवेयं परिभाषा प्रवर्तते नतु "अचो ञ्णिती"त्यादौ, स्थानिनिर्देशात्। गुणवृद्धिशब्दाभ्यामिति। एतच्च पूर्वसूत्राभ्यां गुणवृद्धिपदे अनुवर्त्त्य "गुणो वृद्धिरिति ये गुणवृद्धी" इति योजनया लभ्यते। तेनेह न "त्यदादीनामः" इमम्। "दिव औत्"द्यौः। विधीयेते इति। यत्र। त्वनुवादो "वृद्धिर्यस्याचामादि"रित्यादौ तत्रेक इति षष्ट()न्तं नोपतिष्ठते, अनुवादे परिभाषाणामनुपस्थितेरिति भावः। "अनुवादे परिभाषाणा"मित्यस्यानूद्यमानविशेषणेष्वित्यर्थः। अनुपस्थितौ लिङ्गं फलं च-"उदीचामातः स्थाने" इत्यत्र स्फुटीकरिष्यते। षष्ठ()न्तमिति। सूत्रे षष्ठ()न्तस्यानुकरणाच्छब्दस्वरूपपरतया नपुंसकत्वात्सोर्लुकि "अत्वसन्तस्ये"ति दीर्धो नेति भावः। पदमिति। तच्च संभवति सामानाधिकरण्ये "इगन्तस्याङ्गस्ये"त्यादिक्रमेण संबध्यते। "मिदेर्गुणः" मृजेर्बृद्धिः" इत्यादौ तु सामानाधिकरण्याऽसंभवान्मिदिमृज्योरवयवस्येक इति संबध्यते।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ धातुलोपे ७।१ आर्धधातुके ७।१ इकः ६।१ गुणवृद्धी १।२

समासः॥

धात्ववयवः धातुः, धातोः लोपः यस्मिन् तदिदं धातुलोपम्, तस्मिन् धातुलोपे, उत्तरपदलोपी-बहुव्रीहिसमासः

अर्थः॥

आर्धधातुकनिमित्ते धातुलोपे इकः स्थाने ये गुणवृद्धी प्राप्नुतः, ते न भवतः

उदाहरणम्॥

लोलुवः पोपुवः। मरीमृजः, सरीसृपः।
काशिका-वृत्तिः
न धातुलोप आर्धधातुके १।१।४

धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्धधातुके तदार्धधातुकं धातुलोपं, तत्र ये गुणवृद्धी प्राप्नुतः, ते न भवतः। लोलुवः। पोपुवः। मरीमृजः। लोलूयाऽदिभ्यो यङन्तेभ्यः पचाऽद्यचि विहिते यङो ऽचि च २।४।७४ इति यङो लुकि कृते तम् एव अचम् आश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः। धातुग्रहणं किम्? लूञ्, लविता। रेडसि। पर्णं न वेः। अनुबन्धप्रत्ययलोपे मा भूत्। रिषेर्हिसार्थस्य विच्प्रत्ययलोप उदाहरणं रेटिति। आर्धधातुके इति किम्? त्रिधा बद्धो वृषभो रोरवीति इति। सार्वधातुके मा भूत्। इकः इत्येव अभाजि, रागः। बहुव्रीहिसमाश्रयणं किम्? क्नोपयति, प्रेद्धम्।
न्यासः
न धातुलोप आर्धधातुके। , १।१।४

उक्तपरिमाणस्य शब्दस्य धातुसञ्ज्ञा कृता। तस्य सर्वस्य लोपे कृते यत्र गुणवृद्धी प्राप्नुतस्तदार्धधातुकेन सम्भवत्येव, तत् किं प्रतिषेधेन? तस्मात् प्रतिषेधविधानसामथ्र्याद्धात्वेकदेशे धातुशब्दो वर्तत इति मत्वाह- "धात्वेकदेशो धातुः" इति। "धातुलोपे"इति। यद्ययं धातोर्लोपो धातुलोप इति तत्पुरूषः, तत आर्धधातुकग्रहणं गुणवृद्धिविशेषणं वा स्यात्- "धा४तुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः" इति। लोपविशेषणं वा स्यात्-" आर्धधातुकनिमित्ते धातुलोपे सति गुणवृद्धी न भवतः" इति? पूर्वस्मिन् "क्नोपयति"इत्यत्र प्रतिषेधः प्राप्नोति। तत्र प्रतिविधानं कर्तव्यम्। द्वितीये तु न भवत्येष दोषः। न हि "क्नोपयति" इत्यत्रार्धधातुकनिमित्तलोपः, किं तर्हि, कतवल्निमित्तकः। किन्तु द्वितीये पक्षे प्रेद्धमित्यत्र प्राप्नोति। अस्ति ह्रत्रार्धधातुकनिमित्तो लोपः। ननु चेग्लक्षणयोर्गुणवृद्धयोरयं प्रतिषेधः; न चात्रेग्लक्षणो गुणः? नैतदस्ति; अत्रापीग्लक्षण एव गुणो यो ह्रुभयोः स्थाने भवति, लभते सोऽन्तयतरव्यपदेशम्। तथा हि- "मातुः, पितुः" इत्यत्रोभयोः स्थाने भवन् रपरोऽण् भवति। तस्माल्लोपविशेषणपक्षेऽपि तत्पुरुषे प्रतिविधानं कत्र्तव्यमेव। बहुव्रीहौ तु न किञ्चित् प्रतिविधेयमिति मन्यमानो बहुव्रीहिरयमिति दर्शयन्नाह- "तस्य" इत्यादि। एतेन लोपविशेषणमार्धधातुकमित्येतद्दर्शितं भवति। एवं चार्धधातुके सम्भवति यदि तत्तस्य निमित्तं भवति, ततश्च क्नोपयतीत्यत्रातिप्रसङ्गो नावतरति। "तत्र" इत्यादि। नापि गुणवृद्ध्योरार्धधातुकं निमित्त्वेन विशेषणमित्या- ख्यातम्। ततश्च प्रेद्धमित्यत्राप्यतिप्रसङ्गो न भवति, न ह्राद्गुण आर्धधातुक- निमित्तः। "ये ते" इति। स्त्रीलिङ्गनिर्देशः "गुणवृद्धी"इत्यनेन स्त्रीलिङ्गेन सामानाधिकरण्यात्। अस्य तु स्त्रीलिङ्गता "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" २।४।२६ इत्यतिदेशात्। अर्थस्य च सोऽतिदेश इति यत्तदोरपि तत्रार्थे वर्तमानयोः स्त्रीलिङ्गता भवति। ननु च नियमस्य प्रकृतत्वात् तस्यैवायं प्रतिषेधो युक्तः, तत् किमित्येवमाह-"तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः" इति। तयोः प्राधान्यात्। तत् पुनर्नियमेनोपक्रियमाणत्वात्, नियमस्य तु तादथ्र्यादप्राधान्यम्। तस्माद्()गुणवृद्धयोरेवायं प्रतिषेधो न्याय्यः। "लोलुवः, पोपुवः" इति। "लूञ् छेदने" (धा।पा।१४८३), "पूञ् पवने (धा।पा।१४८२)इत्येताभ्यां "धातोरेकाचः" ३।१।२२ इत्यादिना यङ्, "सन्यङो" ६।१।९ इति द्विर्वचनम्, "गुणोयङलुकोः" ७।४।८२ इत्यभ्यासस्य गुणः, यङन्तात् पचाद्यचि "यङोऽचि च" २।४।७४ इति लुकि तन्निमित्तगुणप्रतिषेधः, तस्मिन् सति "अचि श्नुधातुकभ्रुवाम्" (६।४। ७७) इत्यादिनोवङ। "मरीमृजः" इति। "मृजू शुद्धौ" (धा।पा।१०६६), पूर्ववद्यङ, द्विर्वचनम्, उरदत्त्वम्, ७।४।६६ "हलादिः शेषः" ७।४।६० "रीगृदुपधस्य च" ७।४।९०इति रीगागमः। लोलूयादिभ्य इत्यादिशब्देन "पोपूय, मरीमृज्य" इत्येतयोग्र्रहणम्। "लूञ्- लविता" इति। यावदेव धातुसञ्ज्ञा न भवति तावदेव "सर्वविधिभ्यो लोपविधिर्बलीयात्" (व्या।प।७०) इति ञकारस्य लोपो भवति, पश्चाल्लू इत्येतस्य धातुसञ्ज्ञा, तेन ञकारलोपो धातुलोपो न भवतीति भवति प्रत्युदाहरणम्। "रेड् " इति। "रिष रुष हिंसायाम्" (धा।पा।१२३२,१२३०), "अन्येभ्योऽपि दृश्यन्ते"३।२।७५ इति विच्, इकारचकारौ "वेरपृक्तस्य"६।१।६५ इत्यत्र सामान्यग्रहणाविघातार्थो, वकारस्य चानेनैव लोपः, "पुगन्तलघूपध्स्य च" ७।३।८६ इति गुणः। "झलां जशोऽन्ते" ८।२।३९ इति षकारस्य डकारः। ननु च द्वयङ्गविकले द्वे अपि एते प्रत्युदाहरणे, तथैव ह्रत्र धातुलोपो न भवति, एवमार्धधातुकनिमि-त्तोऽपि न भवति, नैतदस्ति; सति हि धातुग्रहणे पदद्वयसान्निध्याद्बहुव्रीहिर्लभ्यते। त()स्मश्च सत्यार्धधातुकनिमत्तत्वं लोपस्य। असति हि धातुग्रहणे "न लोप आर्धधातुके" इत्युच्यमाने "आर्धधातुकाश्रये ये गुणवृद्धी प्रतिषेधः स्यात्। "रोरवीति" इति। " रु शब्दे" (धा।पा। १०३४) इत्यस्माद्यङ, "बहुलं छन्दसि" २।४।७३ इति यङो लुक्, लट्,तिप्, शप्। अदादित्वाच्छपो लुक् (२।४।७२(,"यङो वा"()७।३।९४) इतीट्। अत्र सार्वधातुकनिमित्तो गुणो न प्रतिषिध्यते। ननु च द्वयङ्गविकलमेवेदम्, यथैव ह्रार्धधातुकनिमित्तो गुणो न भवत्येवं लोपोऽपि? नैतदस्ति; सति ह्रार्धधातुकग्रहणेऽन्यपदार्थत्वे न तस्याश्रयणात् तन्निमित्तो लोपो लभ्यते, त()स्मश्च सति "न धातुलोपे" इतीयत्युच्यमाने "ये केचन गुणवृद्धी ते च लोपे सति भवतः" इत्येष वाक्यार्थः स्यात्। ततश्चाविशेषितत्वाल्लोपस्य लोपमात्रे प्रतिषेधो विज्ञायते। "अभाजि" इति। "भञ्जो आमद्र्दने" (धा।पा। १४५३),लुङ्, च्लिः, "चिण् भावकर्मणोः"३।१।६६ इति चिण्, "इणो लुक्" ६।४।१०४इति तशब्दस्य लुक्, "भञ्जेश्च चिणि" ६।४।३३ इत्यनुनासिकलोपः। "रागः" इति। अत्रापि "घञि च भावकरणयोः" ६।४।२७ इति नलोपः। "रञ्ज रागे" (धा।पा।११६७), भावे घञ्। यद्यप्यत्र रुआवमस्ति तथापीक इत्यत्रानुवृत्तेरिह चेकोऽसम्भवात् " अत उपधायाः" ७।२।११६ इति वृद्धेः प्राप्तायाः प्रतिषेधो न भवति। "क्नोपयति" इति। "क्नूयी शब्दे" (धा।पा।४८५), "हेतुमति च" ३।१।२६ इति णिच्, "अर्त्तिह्यी" गुणः। "प्रेद्धम्" इति। "ञीन्धी दीप्तौ" (धा।पा।१४४८), क्तः, "अनिदिताम्" ६।४।२४ इत्या-दिनानुनासिकलोपः, "झषस्तर्थोर्घोऽधः" ८।२।४० इति तकारस्य धत्वम्। "झलां जश् झशि"८।४।५२ इति धातुधकारस्य दकारः, प्रगतमिद्धमिति "कुगतिप्रादयः" २।२।१८ इति समासः।
तत्त्व-बोधिनी
न धातुलोप आद्र्धधातुके ४१३, १।१।४

ज्वर रोगे। ञित्वरा संभ्रमे। अत्र वृत्तौ "झलादौ क्ङिती"त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह-- क्ङितीति नानुवर्तत इति। अवतेस्तुनीति। "ज्वरत्वरे"त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः। ज्वरादेरुदाहरणं क्विपि जूः। जुरौ। जुरः। झलादौ तु-- जूर्तिः। जूर्णः। जूर्णवान्। त्वर-- तूः। तुरौ। तुरः। तूर्तिः। तूर्णः। तूर्णवान्। रिउआवि- स्रूः। रुआउवौ। रुआउवः। रुआऊतिः। अवि-- ऊः। उवौ। उवः।ऊतिः। मव-- मूः। मुवौ। मूतः। मूतिः। मामोषीत्यादि। ईट्पक्षे मामवीषि। मामवीमि। मामवीतु। अमामवीत्। अमामवीरिति बोध्यम्। राल्लोपः। "च्छ्वोः शू"डित्तश्च्छ्वोरित्यनुवर्तते। क्वावुदाहरणं--तूः। तुरौ तुरः। धुर्वी-- धूः। धुरौ। धुरः। मुच्र्छा--मूः। मुरौ। मुरः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ क्क्ङिति ७।१ इकः ६।१ गुणवृद्धी १।२

समासः॥

गश्च कश्च ङश्च क्क्ङः, क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् क्क्ङिति, द्वन्द्वगर्भो बहुव्रीहिः।

अर्थः॥

क्क्ङिति इति निमित्तसप्तमी। गित् कित् ङित् निमित्तके इकः स्थाने ये गुणवृद्धी प्राप्नुतः, ते न भवतः।

उदाहरणम्॥

गित् - जिष्णुः भूष्णुः। कित् - चितः चितवान्, स्तुतः स्तुतवान्, कृतः कृतवान्। मृष्टः, मृष्टवान्। ङित् - चिनुतः सुनुतः, चिन्वन्ति सुन्वन्ति, मृजन्ति।
काशिका-वृत्तिः
क्ङिति च १।१।५

निमित्तसप्तम्येषा। क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः, ते न भवतः। चितः, चितवान्। स्तुतः, स्तुतवान्। भिन्नः, भिन्नवान्। मृष्टः, मृष्टवान्। ङिति खल्वपि चिनुतः, चिन्वन्ति। मृष्टः, मृजन्ति। गकारो ऽपि अत्र चर्त्वभूतो निर्दिश्यते। ग्लाजिस्थश्च ग्स्तुः ३।२।१३९ जिष्णुः। भूष्णुः। इकः इत्य्म् एव कामयते, लैगवायनः। मृजेरजादौ सङ्त्रमे विभाषा वृद्धिरिष्यते। सङ्क्रमो नाम गुणवृद्धिप्रतिषेधविषयः। परिमृजन्ति,परिमार्जन्ति। परिमृजन्तु, परिमार्जन्तु। लघूपधगुणस्य अप्यत्र प्रतिषेधः। अचिनवम्, असुनवम् इत्यादौ लकारस्य सत्यपि ङित्त्वे यासुटो ङिद्वचनं ज्ञापकम् ङिति यत्कार्यं तल्लकारे ङिति न भवति इति।
लघु-सिद्धान्त-कौमुदी
क्ङिति च ४३५, १।१।५

गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः। भूयात्। भूयास्ताम्। भूयासुः। भूयाः। भूयास्तम्। भूयास्त। भूयासम्। भूयास्व। भूयास्म।
न्यासः
क्ङिति च। , १।१।५

क्ङितीति यदीयं परसप्तमी स्यादनन्तरस्यैवेकः प्रतिषेधः स्यात्, "चितः, चितवात्" इत्यादौ व्यवहितस्य "भिन्नो भिन्नवात्" इत्यादौ न स्यात्, "तस्मिन्निति निर्दिष्टे स्पूर्वस्य" १।१।६५ इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थत्वात्। निमित्तसप्तम्यां त्वस्यां सर्वत्र भवितव्यम्, व्यवहितयोरपि निमित्तनिमित्तिभावसद्भावा- दिति मन्यमान आह- "निमित्तसप्तम्येषा" इति। निमित्तात् सप्तमी निमित्तसप्तमी। "पञ्चमी भयेन" २।१।३६ इति "पञ्चमी" इति योगविभागात् समासः। सा पुनः सप्तमी "यस्य च भावेन भावलक्षणम्" २।३।३७ इत्यनेन वेदितव्या। क्ङितो हि निमित्तभावेन गुणवृद्धयोःप्राप्तिलक्षणो भावो लक्ष्यते। अथ निमित्तसप्तम्यामप्यस्यां कस्मादेव व्यवहितस् प्रतिषेधो लभ्यते? तत्र तस्मिन् १।१।६५ इत्यादिकायाः परिभाषाया अनुपस्थानात्। "क्ङिति च" १।१।७२ इत्यादरावप्यस्या इक्()परिभाषाया उपस्थानात् "शालीयः, मालीयः" इत्यत्र वृद्धरसञ्ज्ञा न स्यात। यता चेयमिक्()परिभाषा विध्यङ्गशेषभूतत्वाद्विधावेवोपतिष्ठते, तथासावप्यानन्तर्यपरिभाषा। न चेह गुणवृद्धी विधीयेते, किं तर्हि? विहिते अप्यन्यत्र क्ङितीत्यनेन विशिष्येते। तस्मान्नात्र तस्याः परिभाषाया उपस्थानमित्यन-न्तरस्यापि प्रतिषेधः सिध्यति। "क्ङिन्निमित्ते ये गुणवृद्धी" इति। क्ङिन्निमित्तं ययोस्ते तथोक्ते। ते पुनर्ये क्ङिन्निमित्ते सति प्राप्नुतस्ते विज्ञेये। एतेन गुण- वृद्धीविशेषणं क्ङिद्()ग्रहणमिति दर्शयति। ननु च विधीयमानतया प्राधान्यात् प्रतिषेध- स्यैवैतद्विशेषणं युक्तम्? नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्र प्रधानस्यैव भूयांसमुपकारं कर्तुमात्मनः संस्कारमनुभूय प्रधानेन सम्बन्धमनुभवति। यथोक्तम्- "गुणः कृतात्मसंस्कारः प्रतिपद्यते। प्रधानस्योपकारे हि तथा भयसि वर्तते॥ इति। इह तु गुणवृद्धयोः क्ङिद्दग्रहणेन विशेषितयोर्महान प्रधानस्य प्रतिषेधस्योपकारो भवति, व्यवहितस्यापि तत्सिद्धेः। "भिन्नः" इति। "भिदिर् विदारणे" (धा।पा। १४३९),क्तः, "रदाभ्यां निष्ठातोनः"८।२।४२ इति नत्वम्। "मृष्टः" इति। मृजेः "व्रश्च"८।२।३६ इत्यादिना जकारस्य षत्वम्, "ष्टुना ष्टुः"८।४।४० इति ष्टुत्वम्। चिनुत इत्यादौ तु "सार्वधातुकमपित्"१।२।४ इति क्ङित्त्वम्। "चिन्वन्ति"इति। "हुश्नुवोः सार्वधातुके"६।४।८७ इति यणादेशः। अत्र "चितः, चितवान्, स्तुतः, स्तुतवान्, चिनतः, चिन्वन्ति" इत्येषूदाहरणेषु यतायोगं सार्वधातुकार्धधातुकलक्षणस्य गुणस्य प्रतिषेधः, "भिन्नः भिन्नवान्" इति लघूपधलक्षणस्य, परिशिष्टेषु "मृजेर्वृद्धिः" ७।२।११४ इति वृद्धेः। "ग्लाजिस्थश्च क्स्नुः" इति। क्स्नुप्रत्ययोऽयं यदि कित् स्यात्, स्थास्नुरित्यत्र घुमास्थादिसूत्रेण ६।४।६६ तिष्ठतेरीत्त्वं स्यात्। अतस्तत्परिहाराय क्स्नोर्गित्त्वं प्रतिज्ञायते। तथा हि तत्र वक्ष्यति-"गिच्चायं प्रत्ययो न कित्। तेन स्थ ईकारो न भवति"(का।२४१) इति। गित्वे च सति "भूष्णुः, जिष्णुः" इत्यत्र"क्ङितिच" १।१।५ इति प्रतिषेध उच्यमानो न प्राप्नोति। अत एतद्दोषपरिहारायाह- "गकारोऽप्यत्र" इत्यादि (का२४१)।चत्त्र्वभूतः चर्त्वं प्राप्त इत्यर्थः। चर्त्वं तु " खरि च"८।४।५४ इति। यदि हि क्स्नोर्गित्त्वमिष्यते, भूष्णुरित्यत्र "श्रयुकः किति"(७।२।११) इति किति प्रतिषेध उच्यमानो न स्यात्? नैष दोषः; तत्रापि चत्त्र्वभूतो गकारो निर्दिश्यते। तथा हि -"ग्लाजिस्थश्च क्स्नुः" ३।२।१३९ इत्यत्र जयादित्यवृ- त्तौ ग्रन्थः- ""क्ङिति च" १।१।५ इत्यत्र गकारश्चत्त्र्वभूतो निर्दिश्यते, तेन गुणो न भवति। "श्रयुकः किति" ७।२।११ इत्यत्रापि गकारो निर्दिश्यते, तेन भुव इड् न भवति"(का। २४१) इति। "श्रयुकः किति" ७।२।११ इत्यत्रापि जयादित्यवृत्तौ ग्रन्थः- "गकारोऽप्यत्र चत्त्र्वभूतो निर्दिश्यते भूष्णुरित्यत्र यथा स्यात्" इति। वामनस्य त्वेतत् सर्वमनभिमतम्। तथा हि तस्यैव सूत्रस्य तद्विरचितायां वृत्तौ ग्रन्थः- केचिदत्र द्विककरानिर्देशेन गकारप्रश्लेषं वर्णयन्ति भूष्णुरित्येवं यथा स्यात्। सौत्रत्वाच्च निर्देशस्य "श्रयुकः किति" ७।२।११ इत्यत्र चत्र्वस्यासिद्धत्वमना- श्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृतः इति। "ग्लाजिस्थश्च क्स्नुः" ३।२।१३९ इत्यत्र स्था आ इत्यकारप्रश्लेषेण स्थास्नोः सिद्धत्वान्न किञ्चदेतत्"(का ८०२) इति। स एवं मन्यते- यदि क्स्नुप्रत्यययस्य कित्त्वे सति तिष्ठतेरीत्त्वं प्राप्नुयात् तथा तत्परिहारार्थं गित्त्वं युज्यते प्रतिज्ञातुम। गित्त्वे च सति जिष्णुः, भूष्णुः" इत्यत्र यथायोगमिड्()गुणयोर्निरासाय "क्ङिति च"१।१।५ इत्यत्र "श्रयुकः किति" ७।२।११ इत्यत्र च गकारश्चत्र्वभूतो निर्दिश्यमानः शोभेत। न च क्स्नुप्रत्ययो गित्,किं तर्हि? किदेव। तत्किमिड्()गुण्प्रतिषेधार्थेन चत्त्र्वभूतगकारस्य निर्देशेन !न च क्स्नोः कित्त्वेसति तिष्ठतेरात्वं प्राप्नोति। तस्मात् " ग्लाजिस्थशाच क्स्नुः" ३।२।१३९ इत्याकारप्रश्लेषः कृतः, क्स्नुप्रत्ययान्तस्य तिष्ठतेराकार एव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूत् इत्येवमर्थः। ततश्च तेनैव सिद्धत्वात् स्थास्नुशब्दस्याकिञ्चित्करमिह गकारप्रश्लेषवर्णनमिति। "कामयते" इति। "कमेर्णिङ"३।१।३०। अत्र "अत उपधायाः"७।२।११६ इति वृद्धेः प्रतिषेधो न भवति। "लैगवायनः" इति। लिगुशब्दात् "नडादिभ्यःफक्" ४।१।९९ इति फकि कृते "ओर्गुणः" ६।४।१४६ इति गुणस्य प्रतिषेधो न भवति। ननु चोकारैगेव, तदयुक्तमिदं प्रत्युदाहरणम्? नैतदस्ति; अत्र हि चकारः क्रियते "इकः" इत्यनुकर्षणार्थः। तत्र चकारेणानुकर्षणसा- मथ्र्यादिक इत्येतदर्थपदार्थतामुत्सृज्य स्वरूपपदार्थतामनुभवति। अन्यथा हि यदि चकारेणाध्यनुकृष्यमाणमर्थपदार्थकमेव स्यात् तदनुकर्षणार्थं चकारकरणमनर्थकं स्यात्, अर्थपदार्थस्य स्वरितत्वादेवानुवृत्तिसिद्धेः। स्वरूपपदार्थके च तस्()मिन्निह सन्नि- हिते सत्ययमर्थो भवति, "इकग इत्येवं ये गुणवृद्धी विधीयेते, इक इतीमं शब्दमुचार्य ये गुणवृद्धी विधीयेते, ते क्ङिन्निमित्ते न भवतः" इति। न च "लैगवायनः" इत्यत्र इकः" इतीमं शब्दमुचार्य गुणो विधीयते, इक्परिभाषायास्तत्रानुपस्थानात्। अनुपस्थानं तु साक्षादुकारस्य स्थानिनो निर्देशात्। यत्र हि साक्षात् स्थानी न निर्दिश्यते तत्रासावुपतिष्ठते। ननु यदि स्वरूपपदार्थस्येक इत्यस्येह सन्निधानम्, स्थानी न निर्दिष्टः स्यात्, ततश्च न ज्ञायते कस्य गुणवृद्धी प्रतिषिध्येते इति? नैष दोषः। सामथ्र्यादिक एव गुणवृद्धयोः प्रतिषेधोऽयं गम्यते। न ह्रन्यस्येक इतीमं शब्दुमु- च्चार्य गुणवृद्धी विधीयेते। अथ वा " यद्यपीक्परिभाषा विध्यङ्गशेषभूता, तथापीहास- त्यपि गुणवृद्धयोर्विधाने चकारेणानुकृशष्य सन्निधाप्यते। एतदेव हि चकारकरणस्य प्रयोजनं यदिदमिक्परिभाषायाः सन्निधापनम्। ततश्च तस्या उपस्थाने सति यत्रासौ व्याप्रियते तत्रैवायं प्रतिषेधो विज्ञायते। क्व चासौ व्याप्रियते? यत्र स्थानी साक्षान्न् निर्दिश्यते। इह तु निर्दिश्यते स्थानी, तस्मादिक्परिभाषाया व्यापाराभावाद्भवति प्रत्युदाहरण्। "मृजेः" इत्यादि। कथं पुनरिष्यमाणापि सा लभ्यते? यथा लभ्यते तथा श्रूयताम। "अचो ञ्णिति" श्७।२।११५ इत्यत्र "मृजेर्वृद्धिः" ७।२।११४ इति वर्तते, "जराया जरसन्यतरस्याम्" ७।२।१०१ इत्यतोऽन्यतरस्यां ग्रहणं च मण्डूकप्लुतिन्यायेनानुवत्र्तते, सा च व्यवस्थितविभाषा। "अचः" इति योगविभागः क्रियते। मृजेरजादौ संक्रमे विभाषा वृद्धिर्भवति, अन्यत्र न भवत्येव। "लघूपधगुणस्याप्यत्र प्रतिषेधः" इति। एतेन संक्रमत्वं दर्शयति। अन्ये तु उत्तरसूत्रे "कणिता ()आः" रणिता ()आः" इत्यनन्तरमनेन ग्रन्थेन भवितव्यम्िह तु दुर्विन्यस्तकाकुपदजनितभ्रान्तिभिः कुलेखकैर्लिखितमिति वर्णयन्ति। अथ वा- निमित्तसप्त- म्या एवेदं फलं दर्शितमिति मन्तव्यम्। "अचिनवम्, असनुवम्" इत्यत्र लङो ङित्वात् तदादेशस्यापि मिपो ङित्त्वम्। स्थानिवद्भावेन मिपो ङित्त्वात् तदादेशस्याप्यमो ङित्त्वं पूर्ववत्, ततश्च तदाश्रयो विकरणस्य गुणप्रतिषेधः प्राप्नोति। कस्मान्न भवतीत्याह- "अचिनवम्" इत्यादि। आदिशब्देन "अकरवम्" इत्यादिनां परिग्रहः। "लकारस्य" इति। लकारादेशोऽपि पारम्पर्येण लकारपूर्वकत्वादुपचारेण लकार इत्युक्तः। सत्यपीत्य- भ्युपगमे "हलः श्नः शानज्झौ" ३।२।८३ इति शानजादेशस्य शित्करणाल्लिङ्गान्नावश्यमनुबन्धकार्येषु स्थानिवद्भावो भवतीत्यध्यवसितोऽयमर्थः। अतो ङित्त्ववचम्" इत्यादि। यदि ङिति यत्कार्यं विधीयते तल्लकारे ङिति स्यात्, ततो लिङ एव ङित्त्वेन चिनुयादि- त्यादौ गुणप्रतिषेधस्य सिद्धत्वात् "यासुट् परस्मैपदेषूदात्तो ङिच्च" ३।४।१०३ इति यत् तस्य यासुटो ङ्द्विचनं तन्न कुर्यात्, कृतञ्च; ततोऽवसीयते- "ङिति यत् कार्यं तल्लकारे इति न भवति" इति।
बाल-मनोरमा
क्ङिति च ६५, १।१।५

क्ङिति च। ग्? क् ङ् एषां समाहारद्वन्द्वः, कात्पूर्वगकारस्य चर्त्वेन निर्देशात्। ग् क् ङ् च इत् यस्येति विग्रहः। द्वन्द्वान्ते श्रूयमाण इत्यर्थ। इक इत्युचार्य विहिते इति लभ्यते। "न धातुलोप आद्र्धधातुके" इत्यतो नेत्यनुवर्तते। तदाह--गित्किन्ङिन्नमित्ते इत्यादिना। गितीत्यनुक्तौ तु "ग्लाजिस्थश्च ग्स्नु"रिति ग्स्नुप्रत्यये "जिष्णु"रित्यत्र गुणनिषेधो न स्यात्। न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यं, तथा सति "घुमास्थे"ति किति विहितस्य ईत्वस्य प्रसङ्गात्। यदि तु गिति ङिति परतो गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघुपधगुणनिषेधो न स्यात्। स्थानिभूतस्येको हला व्यवधानात्। न च येन नाव्यवधानन्यायः शङ्क्यः। चितं स्तुतमित्यादावव्यवहिते चरितार्थत्वात्। यदि च "इको गुणवृद्धी" इत्येव व्याख्यायेत, न त्विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक्, इह आदिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वान्निषेधः स्यादित्यलम्। भूयादिति। इहाद्र्धधातुकत्वाल्लिङ सलोप इत्यस्याऽप्रवृत्तेः स्कोरिति सलोप इत्युक्तं न विस्मर्तव्यम्। न चैवमपि संयोगादिलोपस्याऽसिद्धत्वाद्धल्ङ्यादिलोपः स्यादिति वाच्यं, सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावादित्यलम्। भूयास्तामिति। आशिषि लिङस्तस्तामादेशे आद्र्धधातुकत्वाच्छभावे यासुडागमेऽतः परत्वाऽभावादियादेशाऽभावे सुटि झल्परसंयोगदित्वेन यासुटः सकारस्य लोपो, गुणनिषेधश्च। भूयासुरिति। झेर्जुसि यासुडागमे गुणनिषेधे रूपम्। भूया इति। आशीर्लिङः सिपि इतश्चेतीकारलोपः। यासुटः "स्को"रिति सलोपः, गुणनिषेधः, रुत्वविसर्गौ। भूयास्तमिति। थसस्तमादेशे यासुटि गुणनिषेधः। एवं थस्य तादेशेऽपि भूयास्तेति रूपम्। भूयासमिति। मिपोऽमादेशे यासुटि गुणनिषेधः। भूयास्वेति। लिङो वस्। "नित्यं ङित" इति सकारलोपः। यासुट्। गुणनिषेधः। एवं मसि भूयास्मेति रूपम्। इत्याशीर्लिङ्()प्रक्रिया।

तत्त्व-बोधिनी
क्ङिति च ५०, १।१।५

ङिन्निमित्ते इति। "कितिगितिङिति परे इको गुणवृद्धी न स्त" इति न व्याख्यातम्, छिन्नं भिन्नमित्यत्र लघूपधगुणस्याऽनिषेधप्रसङ्गात्। नचाऽ‌ऽरम्भसामथ्र्यं शङ्क्यं, चितं स्तुतमित्यादाव्वयवहिते किति चरितार्थत्वादिति भावः। अन्ये तु-- क्ङितीति प्रत्ययग्रहणात्प्रत्ययेन संनिधापितस्याऽह्गस्य क्ङिति पर इति व्याख्यानेन तु छिन्नं भिन्नमित्यादि सिध्यत्येव। नचैवं भवावः भवाम प्रश्लिष्यत इत्याशयेन "गित्किन्ङिन्निमित्ते" इत्युक्तम्। गिति किम्?। "ग्लाजिस्थश्च ग्स्नु" जिष्णुः। किति त्वस्मिन्स्थास्नुरित्यत्र "घुमास्थे"तीत्त्वं प्रसज्येत। न ग्स्नोर्गित्त्वे भूष्णुरित्यत्रेण्निषेधो न स्यात्, "ग्लाजिस्थश्चे"ति चकाराद्भुवश्च ग्स्नुर्भवतीति स्वीकारादिति वाच्यम्, "श्र्युकः किती"त्यत्रापि चर्त्वेन गकारं प्रश्लिष्य गित्कितोरिण्न स्यादिति व्याख्यानात्। न चैवं चत्र्वस्याऽसिद्धतया "श्र्युकः" इत्यत्र विसर्जनीयो न लभ्यत इति "हशि चे"त्युत्वमेव स्यादिति वाच्यं, सौत्रत्वात्। "न मु ने"त्यत्यत्र नेति योगविभागेनाऽसिद्धत्वाऽभावाद्वेष्टसिद्धेः। वामनस्तु--"ग्लाजिस्थश्चे"ति सूत्रे स्था- आ इति प्रश्लेषात्स्थास्नुरित्यत्र "घुमास्थे"तीत्वं न भविष्यतीति गकारप्रश्लेषाऽभावान्न "श्र्युकः किती"त्यत्र चत्र्वस्याऽसद्धत्वाऽभावसमर्थनक्लेश इत्याह। इग्लक्षण इति। "इक" इत्येवं विहिते इत्यर्थः। इग्लक्षणे किम्?। लैगवायनः। लिगोर्नडादित्वात्फक्। इहादिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वेऽपि न निषेधः। न चेक इत्युक्तेऽपि "किति चे"त्यारम्भसामथ्र्यादत्र निषेधो न भवेदिति शङ्क्यम्, नाडायनादौ तस्य चरितार्थत्वात्। भूयादिति। इह "स्को"रिति लोपस्याऽसिद्धत्वात्तकारस्य संयोगान्तलोपः प्राप्तः पदान्तसंयोगादिलोपेनाऽनवकाशेन बाध्यते। नन्वेवमपि संयोगादिलोपस्य "पूर्वत्रासिद्ध"मित्यसिद्धत्वाद्धल्ङ्यादिलोपः स्यात्, पदान्ते संयोगादिलोपस्य भृट् भृडित्यादौ सावकाशत्वादितिचेत्, अत्राहुः--- सुड()आसुटोः सतोस्ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावात्, हलन्तायाः प्रकृतेः परत्वाऽभावाच्चोक्तदोषशङ्कैव नास्तीति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ दीधीवेवीटाम् ६।३ इकः ६।१ गुणवृद्धी १।२

समासः॥

दीधी च वेवी च, इट् च दीधीवेवीटः, तेषां दीधीवेवीटाम्, इतरेतरद्वन्द्वसमासः

अर्थः॥

दीधीङ् (दीप्तिदेवनयोः), वेवीङ् (वेतिना तुल्ये) छान्दसौ धातू अदादिगणे पठितौ स्तः। दीधीवेव्योः इटश्च इकः स्थाने ये गुणवृद्धी प्राप्नुतः, ते न भवतः।

उदाहरणम्॥

आदीध्यनम्, आदीध्यकः, आवेव्यनम्, आवेव्यकः॥ पठिता कणिता।
काशिका-वृत्तिः
दीधीवेवीइटाम् १।१।६

दीधीवेव्योः इटश्च ये गुणवृद्धी प्राप्नुतः, ते न भवतः। आदीछ्यनम्, आदीद्यकः। आवेव्यनम्, आवेव्यकः। इटः खल्वपि कणिता श्वः। रणिता श्वः। वृद्धिरिटो न संभवति इति लघूपधगुणस्यात्र प्रतिषेधः।
न्यासः
दीधीवेवीटाम्। , १।१।६

"दीधीवेव्योः" इति। दीधीङ दीप्तिदेवनयोः" (धा।पा। १०७६); "वेवीङ वेतिना तुल्ये (धा।पा।१०७७) इत्येतयोग्र्रहणम्। ननु च "दीङ क्षये" (धा।पा। ११३४) "धीङ अनादरे"(धा।पा।११३६), "वेञ् तन्तुसन्ताने" (धा।पा।१००६) "वी गतिप्रजनकान्त्यसनखादनेषु" (धा।पा।१०४८) इत्येतेषां ग्रहणं कस्मान्न विज्ञायते? यद्येषां ग्रहणमभिमतं स्यादसन्देहार्थं "वीवेधीदीटाम्" इत्येवं न्यासं कुर्यात्। अन्यथा तु कृतम्। तस्मात् पूर्वोक्तयोरेव धात्वोरिह ग्रहणम्। इटश्चेति- "आर्धरधातुकस्य" ७।२।३५ इत्यादिना विहितस्य। अथ "इट्, किट, कटी गतौ" (धा।पा।३१८,३१९३२०) इत्यस्य ग्रहणं कस्मान्न भवति, युक्तं चैतत्, धातुसाहचर्यात्? नैतदस्ति; इह"अल्पाच्तरम्" २।२।३४ इत इटः पूर्वनिपाते कत्र्तव्ये तद्विपर्यासं कुर्वतैतत् सूचितम्-"अन्योऽ- प्यत्र कश्चिद्विपर्यासो विज्ञेयः" इति। तेन धातुसाहचर्याद्धातुग्रहणे प्राप्ते तद्विपरीतस्यैवागमस्य ग्रहणं विज्ञायते। "आदीध्यनम्" इति। ल्युट्। "आदीध्यकः" इति। ण्वुल्।"कणिता ()आः, रणिता ()आः" इति। "अण रण कण" (धा।पा।४४४,४४५,४४९) इत्यादौ शब्दार्थे धातुवर्गे कणिरणी पठ()एते , ताभ्यां लुटि स्यताशी लृलुटोः" ३।१।३३ इति तासिः, "लुटः प्रथमस्य "२।४।८५ इत्यादिना तिषो डादेशः, टिलोपः, "आर्धधातुकस्य" ७।२।३५ इत्यादिनेट्। अथेटो वृद्धेरुदाहरणं कस्मान्न प्रदर्शितमित्याह- "वृद्धिरिटो न सम्भवति" इति। अङ्गस्य वृद्धिर्ञ्णिदादौ प्रत्यये विधीयते इट् चायमार्धधुकभवतः। न चार्धधातुकस्याङसञ्ज्ञास्ति ञ्णिदादौ प्रत्यये। तस्मादिटो वृद्धिर्न भवति।
बाल-मनोरमा
दीधीवेवीटाम् ३९, १।१।६

दीधीवेवी। "दीधीह् दीप्तिदेवनयोः" "वेवीङ् वेतिनी तुल्ये"। दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्ठी। "इको गुणवृद्धी" इत्यतो गुणवृद्धी इति, "न धातुलोप" इत्यतो नेति चानुवर्तते।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ हलः १।३ अनन्तराः १।३ संयोगः १।१

समासः॥

न विद्यतेऽन्तरं येषां, ते अनन्तराः, बहुव्रीहिः

अर्थः॥

अनन्तराः व्यवधानरहिताः हलः संयोगसंज्ञकाः भवन्ति।

उदाहरणम्॥

अग्निः, अत्र ग् न्। अश्वः अत्र श् व्। इन्द्रः अत्र न् द् र्। गोमान्, यवमान्, चितवान्।
काशिका-वृत्तिः
हलो ऽनन्तराः संयोगः १।१।७

भिन्नजातीयैरज्भिरव्यवहितः श्लिष्टौच्चारिता हलः संयोगसंज्ञा भवन्ति। समुदायः संज्ञी। जातौ चेदं बहुवचनम्। तेन द्वयोर् बहूनां च संयोगसंज्ञा सिद्धा भवति। अग्निः इति गनौ। अश्वः इति शवौ। कर्णः इति रणौ। इन्द्रः, चन्द्रः मन्द्रः इति नदराः। उष्ट्रः, राष्ट्रम्, भ्राष्ट्रम् इति षटराः। तिलान्स्त्र्यावपति इति नसतरयाः, नतसतरया वा। हलः इति किम्? तितौच्छत्रम् संयोगान्तस्य लोपः ८।२।२३ इति लोपः स्यात्। अनन्तराः इति किम्? पचति पनसम् स्कोः संयोगाऽद्योरन्ते च ८।२।२९ इति लोपः स्यात्। संयोगप्रदेशाः सम्योगान्तस्य लोपः ८।२।२३ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
हलोऽनन्तराः संयोगः १३, १।१।७

अज्भिरव्यवहता हलिः संयोगसंज्ञाः स्युः॥
न्यासः
हलोऽनन्तराः संयोगः। , १।१।७

अन्तरं छिद्रं विवरं वर्णशून्यः काल इत्यर्थः। न विद्यतेऽन्तरं यषां ते तथोक्ताः। "भिन्नजातीयैः" इत्यादि। भिन्नजातीयैरिति वचनं भिन्नजातीयानामेव लोके व्यवधायकत्वदर्शनात्। तथा हि कश्चित् केनचित् किमनन्तरे परे ब्राआहृणकुले इति पृष्टः सन्नाह- नानन्तरे, वृषलकुलमनयोर्मध्ये प्रतिवसीति। "श्लिष्टोच्चारितस्य हलः सञ्ज्ञा स्यादिह निर्वायाय्, निर्यायादिति "वान्यस्य संयोगादेः" ६।४।६८ इत्येत्वं स्यात्, इह च "संस्कषीष्ट" इति "ऋतश्च संयोगादेः" ७।२।४३ इतीट्, इह च "संस्क्रियते" इति "गुणोऽर्तिसंयोगाद्योः" ७।४।२९ इति गुणः- इत्येवमादयोऽन्येऽपि बहवो दोषाः प्रत्येकं हलां सञ्ज्ञित्वे भाष्य उद्भाविताः। यद्यपि तत्रैव ते कथ- ञ्चित् प्रयासेन परिह्मताः, तथापि यस्तु तत्परिहारेण प्रतिपत्तौ साध्यायां प्रति- पत्तिगौरवदोष आपद्यते सोऽपरिहार्य एव। समुदाये तु सञ्ज्ञिनि दोषाशङ्काऽपि नास्ति। तस्मात् स एव सञ्ज्ञी युक्त इत्यालोच्याह- "समुदायः सञ्ज्ञी" इति। ननु च यत्र सहभूतानां कार्यमिच्छति तत्र यत्न आरभ्यते, यथा- "उभे अभ्यस्तम्" ६।१।५ इति उभेग्रहणं करोति, न चेह कश्चिद्यत्नः कृतः, तत्कथं समुदायस्य सञ्ज्ञा लभ्यते? इहापि कृत एव यत्न इत्यदोषः। पुनरसौ? महत्याः सञ्ज्ञायाः करणम्। "लघ्वर्थं हि सञ्ज्ञाकरणम्" (व्या।प।१३५) इति महत्याः सञ्ज्ञायाः करणं प्रयोजनमन्तरेण न सम्भाव्यते। तस्मान्महानत्र सञ्ज्ञीत्येतत् सूचयितुं महती सञ्ज्ञा कृतेति गम्येति। तथा चोक्तम्- "इङ्गितेनोन्मिषितेमन महता वा सूत्रप्रबन्धेनाचार्याणामभिप्रायो लक्ष्यते" इति। एवं च महान् सञ्ज्ञी भवति, यदि समुदायः सञ्ज्ञी भवति, नैकैको हळ्। तस्मादुप- पन्नमेतत् समुदायः सञ्ज्ञीति "हलः" इति बहुवचननर्देशाद्()द्वयोः सञ्ज्ञा न सिद्ध्यतीति यश्चोदयेत् तं प्रत्याह- "जातौ च " इत्यादि। चशब्दो यस्मादर्थे। यस्माज्जातौ बहुवचनं तेन द्वयोर्बहूनां च संयोगसञ्ज्ञा सिद्धा भवति। अग्निरित्यादिकं रूपोदाहरणं द्रष्टव्यम् "तिलान्स्त्रावपति" इत्यादि। "हे मपरे वा" ८।३।२६ इत्यतो वेति वत्र्तमाने , "डः सि धुट्" ८।३।२९ इत्यतो धुडिति च, "नश्च" ८।३।३० इति पक्षे धुट्, "खरि च" ८।४।५४ इति च तकारः। तत्र यदा धुण्()नास्ति तदा"नसतयाः" इति। यदा त्वस्ति तदा "नतसतरयाः"। "तितौच्छत्रम्" इति। "तनोतेर्डौः सन्वच्च(द।उ।१।१६०) इति डौ- प्रत्यये टिलोपे द्विर्वचने च कृते रूपम्। "संयोगान्तस्य लोपः"स्यात् इति। यद्य- त्राकारस्योकारेण सञ्ज्ञा स्यादित्यभिप्रायः। न च लोपे सत्युकारोपदेशस्य वैयथ्र्यमाशङ्कनीयम्। यत्र पदसञ्ज्ञा नास्ति तितौनीत्यादौ, तत्र श्रूयमाणत्वात्। "पचति" इति रूपप्रत्युदाहरणम्, "पनसम्" इति कार्यप्रत्युदाहरणम् "स्कोः संयोगाद्योरिति लोपः स्यात्" इति। यदि सकारनकारयोः सान्तरयोरपि संयोगसञ्ज्ञा स्यादिति भावः।
बाल-मनोरमा
हलोऽनन्तराः संयोगः ३२, १।१।७

हलोऽनन्तराः संयोगः। "अन्तर"शब्दोऽत्र व्यवधाने वर्तते। "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये" इत्यमरः। व्यवधानं च विजातीयेनैव। अविद्यमानमन्तरं व्यवधानं येषामिति विग्रहः। "नञोऽल्त्यर्थाना"मिति विद्यमानपदस्य लोपः। तदाह--अज्भिरित्यादिना। तत्र हलौ च हलश्च हल इत्येकशेषः। तेन द्वयोरपि संयोगसंज्ञा लभ्यते। ततश्च शिक्षेत्यत्र "गुरोश्च" हलः इत्यप्रत्ययः सिध्यति। अत्र च समुदायस्यैव संयोगसंज्ञा, महासंज्ञाकरणात्, व्याख्यानाच। नतु प्रत्येकम्। तथा सति "सुदृषत्प्रासाद" इत्यत्र पकारसन्निधौ तकारस्य संयोगत्वापत्तौ संयोगान्तलोपापत्तेः। यत्र तु बहवो हलः श्लिष्टास्तत्रापि द्वयोद्र्वयोः संयोग९संज्ञा न तु बहूनामेवेति शब्देन्दुशेखरे स्पष्टम्।

तत्त्व-बोधिनी
हलोऽनन्तराः संयोगः ३७८, १।१।७

हलोऽनन्तराः संयोगः। तध्वर्थमेकाक्षरायां संज्ञायां कर्तव्यायां "संयोग" इति महासंज्ञाकरणमन्वर्थसंज्ञाज्ञापनार्थं-संयुज्यन्तेऽस्मिन्समुदाये वर्णा इति। तेनात्र समुदाये वाक्यपरिसमाप्तिर्न तु गुणवृध्द्या दिसंज्ञावत्प्रत्येकम्। तथाहि सति "दृषद्विभर्ती"त्यत्र बकारसंनिधौ दकारस्य संयोगत्वात्संयोगान्तलोपः स्यात्। "निर्याया"दित्यत्र यकारः संयोग इति "वान्यस्य संयोगादे"रित्येत्त्वं स्यात्। सिद्धान्ते तु "अचो रहाभ्या"मिति द्वित्वे सत्यपि तस्याऽसिद्धत्वादेत्त्वमत्र न भवति। "हल" इति जातौ बहुवचनम्, "जात्याख्यायामेकस्मिन्बहुवचन"मिति वचनात्। तेन द्वयोरपि संयोगसंज्ञा भवतीति "शिक्षे"त्यादौ "गुरोश्च हलः" इत्यप्रत्ययः सिध्यति। यत्र बहवो हलः संश्लिष्टास्तत्र द्वयोर्बहूनां चाऽविशेषेण संज्ञेति स्थितमाकरे। यदि तु बहूनामेव स्यात्तर्हि "गोमान्तकरोती"त्यत्र मतुपस्तकारस्य संयोगान्तलोपो न स्यादिति दिक्। हलः किम्?, तितौभ्याम्। अत्र "तनोतेर्डौः सन्वच्चे"ति "डौ"प्रत्ययः। सन्वद्भावाद्द्रित्वं, "सन्यतः" इति इत्वं च। व्यस्तोच्चारणसामर्थाद्गुणाऽबावः। यदि ह्रचोरप्यनन्तरयोः संयोहसंज्ञा स्यात्तर्हि इह "संयोगान्तस्ये"त्युकारलोपः स्यात्। अनन्तरा इति किम्? पनसम्। यदीह सकारमकारयोः संयोगसंज्ञा स्यात्तर्हि "स्को"रिति सलोपः स्यात्॥

॥ इति तत्त्वबोधिन्यां संज्ञाप्रकरणम्॥

---------------------------

अथ सन्नन्तप्रक्रिया।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ मुखनासिकावचनः १।१ अनुनासिकः १।१

समासः॥

मुखश्च नासिका च मुखनासिकम्, ईषद्वचनम् आवचनम्, मुखनासिकम् आवचनं यस्य, सः मुखनासिकावचनः, द्वन्द्वगर्भो बहुव्रीहिः॥

अर्थः॥

मुखनासिकम् आवचनं यस्य वर्णस्य सः अनुनासिकसंज्ञकः भवति॥

उदाहरणम्॥

अभ्र आँ अपः (ऋ॰ ५।५८।१॥ निरु॰ ५।५), चन आँ इन्द्रः। सुँ, पठँ, एधँ, ञिमिदाँ॥
काशिका-वृत्तिः
मुखनासिकावचनो ऽनुनासिकः १।१।८

मुखसहिता नासिका मुखनासिका, तया य उच्चार्यते वर्णः सो ऽनुनासिकसंज्ञो भवति। आङो ऽनुनासिकश् छन्दसि ६।१।१२२। अभ्र आं अपः। गभीर आं उग्रपुत्रे। च न आं इन्द्रः। मुखग्रहनं किम्? अनुस्वारस्यैव हि स्यात्। नासिकाग्रहणं किम्? कचटतपानां मा भूत्। अनुनासिकप्रदेशाः आङो ऽनुनासिकश् छन्दसि ६।१।२६ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तुल्यास्यप्रयत्नं सवर्णम् १०, १।१।८

ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। (ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्)। अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठ तालु। ओदौतोः कण्ठोष्टम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकानुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्च। आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणोमहाप्राण उदात्तोऽनुदात्तः स्वरतिश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणोऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। -क-ख इति कखाभ्यां प्रगर्धविसर्गसदृशो जिह्वामूलीयः। -प-फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥
न्यासः
मुखनासिकावचनोऽनुनासिकः। , १।१।८

"मुखसहिता नासिका मुखनासिका" इत्यनेन मुखनासिकाशब्दोऽयं तत्पूरुषः, न द्वन्द्व इति दर्शयति। तत्()पुरुषस्तु मयूरव्यंसकादित्वाद्वेदितव्यः। यदि च मुखं च नासिका चेति द्वन्द्व स्यात्, प्राणितूर्यादिसूत्रेण २।४।२ एकवद्भावः स्यात्। ततश्च "स नपुंसकम्" २।४।१७ इति नपुंसकत्वं स्यात्। त()स्मश्च सति "ह्यस्वो नपुंसके प्रातिपदिकस्य"१।२।४७ इति ह्यस्वत्वं प्रसज्येतेति भावः। ननु चोच्यते- अनयेति करणे ल्युटि कृते, तदन्तात् "टिड्()ढाणञ्" ४।१।१५ इत्यादिना ङीपा भवितव्यम्, ततशच् तदन्तेन बहुव्रीहौ "मुखनासिकावचनः" इति निर्देशो नोपपद्यते? नैतदस्ति; वचनशब्दोऽयं "कृत्यल्युटो बहुलम्" ३।३।११३ इति बहुलवचनात् कर्मसाधनः- उच्यत इति वचनो वर्णे वर्तते, न नासिकायाम्। अत एवाह- "तया य उच्चार्यते" इति।" उच्चार्यते" इति कर्मणि लकारः। एवं कृत्वा "मुखनासिकावचनः" इति षष्ठीसमासोऽयं वेदितव्यः, न बहुव्रीहिः। "अनुस्वास्यैव" इति। अनुस्वारे ह्रुच्यमाने नासिकायाश्च व्यापारो न मुखस्य ; तेन तस्यैव स्यात्, न तु स्यात् ञमङणनानाम् ; नापि "अभ्र आँ अपः" (ऋ।५।४८।१) इत्यात्रार्धचन्द्राकृतेर्वर्णस्य; तदुच्चारणे मुखस्यापि व्यापारात्। ततश्च "यरोऽ नुनासिके " ८।४।४४ इत्येतस्मिन् कार्ये कत्र्तव्येऽनुस्वारस्यैव ग्रहणं स्यात्, न तु ङकारादीनामित्यभिप्रायः। ननु च प्रासादवासिन्यायेन तेषामपि भविष्यति? यथा "प्रासादवासिन आनीयन्ताम्" इत्युक्ते ये प्रासाद एव निवसन्ति, तेषामपि ग्रहणं भवति, येऽपि प्रासादे भूमौ च उभयत्र वसन्ति तेषामपि। यथा ह्रभय आनीयन्ते, तथेहापि "नासिकावचनः" इत्येतावत्युच्यमाने नासिकावचनस्यानुस्वारस्य मुखानसिकावचनानां च ङकारादीनां ग्रहणं भविष्यति,ततश्चानुस्वारस्य हि स्यादित्ययुक्तमुक्तम्। एवं तु वक्तव्यम्- अनुस्वारस्यापि हि स्यादिति? नैतदस्ति; इह हि त्रीणि दर्शनानि सम्भवन्ति,-" समस्त एवानुनासिको वर्णओ नासिकावचनो मुखवचनश्च" इत्येकं दर्शनम्; " पूर्वभागस्त्वस्य मुखवचनः" इति तृतीयम्। उभयोरप्यनन्तरयोर्दर्शनयोर्नासिकामुखवचने भागे तथानुरागं करोति यथाऽसावपि नासिकावचनभाग इव लक्ष्यते। तत्र यदेतदनन्तरदर्शन- द्वयम्, तस्यान्यरत् पाणिनेरभिमतम्। न चास्मिन् प्रासादवासिन्याय एकत्राप्यवतरति। यदि हि ङकारादयो नासिकायोऽपि साकल्येनोच्चार्येरन्, मुखेनापि; ततः प्रासादवासि न्यायेन "नासिकावचनः" इत्येतावत्युक्ते तेषामपि ग्रहणं स्यात्। न चैवं भागस्यैव; तेषां नासिकया मुखेन चोच्चारणात्। तदसति मुखग्रहणे तेषां ग्रहणं न स्यात्, तदभावे च सञ्ज्ञा न स्यादिति युक्तमुक्तम्- अनुस्वनारस्यैव हि स्यात्" इति। "कचटतपानां मा भूत्" इति। एते हि ककारादयो मुखेनैवोच्चार्यन्ते, न नासिकया; ततश्चासति नासिका- ग्रहणे तेषामेव स्यात्। एवं च "शक्तः", "सुप्तम्" इत्यत्र "अनुदात्तोपदेशवनति" ६।४।३७ इत्यादिना लोपः प्रसज्येत, "ओदनपक्" इत्यत्र "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इति दीर्घत्वम्। अथ किमर्थं महती सञ्ज्ञा क्रियते? अनु पश्चान्नासिका व्याप्रियते यस्मिन्, अथ वा - अनु पश्चान्नासिकाया व्याप्रियते यस्मिन्, यद्वा- नासिकायाः पश्चात् व्याप्रियते? मुखस्य तु प्रकृतत्वात् तदेव गम्यते। तत्र ये ते द्वे दर्शने, ययोः पाणिनेरन्यतरदभीष्टम्, तयोः पूर्वस्मिन् नासिका मुखात् पश्चात् व्याप्रियते, उत्तरत्र मुखं नासिकायाः। अन्वर्थसञ्ज्ञाकरणं तु पूर्वोक्तयोर्दर्शनयोरन्यतराभ्युपगमसूचनार्थम्। तदभ्युपगमसूचनं तु प्रासादवासिन्यायमाश्रित्य मुखग्रहणं ये प्रत्य- चक्षीरन्, तेषां निराकरणार्थम्।
बाल-मनोरमा
मुखनासिकावचनोऽनुनासिकः ११, १।१।८

तदेवमनुनासिका नव अचः, अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याऽच इति स्थितम्। अथाऽनुनासिकसंज्ञामाह--मुखनासिका। मुखसहिता नासिका मुखनासिका। शाकपार्थिवादित्वात्सहितपदस्य लोपः। उच्यते उच्चार्यते इति वचनः। कर्मणि ल्युट्। मुखनासिकया वचन इति "कर्तृकरणे कृता बहुलम्" इति तृतीयासमासः। तदेतदाह--मुखसहितेत्यादिना। मुखं च नासिका चेति द्वन्द्वस्तु न। तथा सति "द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्" इति समाहारद्वन्द्वनियमात् "स नपुंसक"मिति नपुंसकत्वे "ह्यस्वो नपुंसके प्रातिपदिकस्य" इति ह्यस्वत्वे "मुखनासिकवचन" इत्यापत्तेः। ननु अष्टादश भेदाः किं सर्वेषामचामविशिष्टाः(), नेत्याह--तदित्थमिति। इयता प्रबन्धेन यत् अचां भेदप्रपञ्चनं तत्--इत्थं=वक्ष्यमाणप्रकारेण व्यवस्थितं वेदितव्यमित्यर्थः। अष्टादश भेदा इति। अष्टादश प्रकारा इत्यर्थः। दीर्घाभावादिति। तथा च उदात्तलृकारदीर्घः, अनुदात्तलृकारदीर्घः, स्वरितलृकारदीर्घः। ते च अनुनासिकास्त्रयः अननुनासिकास्त्रय इति षड्()भेदानामभावे सति ह्यस्वप्रपञ्चः प्लुतप्रपञ्चश्च ,ड्विध इति लृकारस्य द्वादशविधत्वमेवेति भावः। लृकारस्य दीर्घाऽभावे होतृ लृकार इत्यत्र सवर्णदीर्घे कृते होतृ()कार इति ॠकारस्यैव अकस्सवर्ण इति सूत्रे च भाष्योदाहरणमेव प्रमाणम्। ह्यस्वाभावादिति। यद्येचो ह्यस्वाः स्युस्तर्हि वर्गसमाम्नाये त एव लाघवात् अ इ उ इत्यादिवत् पठ()एरन्, नतु दीर्घाः, गौरवात्। अत एचो ह्यस्वा न सन्तीति विज्ञायते। एवं च ह्यस्वप्रपञ्चषड्भेदाभावाद्द्वादशविधत्वमेवैचामिति भावः।

तत्त्व-बोधिनी
मुखनासिकावचनोऽनुनासिकः ११, १।१।८

मुखनासिका। मुखं च नासिका चेति विग्रहे प्राण्यङ्गत्वादेकवद्भावे मुखनासिकमिति स्यादत आह-मुखसहितेति। नासिकयोच्चार्येति। फलितार्थकथनमिदम्। उच्यतेऽनेनेति वचनं, मुखनासिका वचनमस्यास्तीति विग्रहः॥


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तुल्यास्यप्रयत्नम् १।१ १० सवर्णम् १।१ १०

समासः॥

आस्ये प्रयत्नः, आस्यप्रयत्नः, सप्तमीतत्पुरुषः। तुल्यः आस्यप्रयत्नः यस्य (येन सह) तत् तुल्यास्यप्रयत्नं, बहुव्रीहिः

अर्थः॥

आस्ये भवं आस्यम्। तुल्यः आस्ये प्रयत्नः येषां, ते वर्णाः पसस्परं सवर्णसंज्ञकाः भवन्ति

उदाहरणम्॥

दण्डाग्रम्, खट्वाग्रम्। यदीदम्, कुमारीशः, भानूदयः, मधूदकम्, कर्त्तृकारः
काशिका-वृत्तिः
तुल्याऽस्यप्रयर्नं सवर्णम् १।१।९

तुल्यशब्दः सदृशपर्यायः। आस्ये भवमास्यं ताल्वादिस्थानम्। प्रयतनं प्रयत्नः स्पऋष्टताऽदिर्वर्णगुणः। तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसंज्ञो भवति। चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायाम् आश्रीयन्ते -- स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता च इति। अ अ अ इति त्रयो ऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदादष्टादशधा भिद्यन्ते। तथा इवर्णः, तथा उवर्णः, तथा ऋवर्णः। ऌवर्णस्य दीर्घा न सन्ति, तं द्वादशभेदम् आचक्षते। सन्ध्यक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादशप्रभेदानि। अन्तःस्था द्विप्रभेदाः, रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च। रेफोष्मणां सवर्णा न सन्ति। वर्ग्यो वर्ग्येण सवर्णः। दण्डाग्रम्। खट्वाग्रम्। आस्यग्रहणं किम्? कचटतपानां भिन्नस्थानानां तुल्यप्रयत्नानां मा भूत्। किं च स्यात्? तर्प्ता, तर्प्तुम् इत्यत्र झरो झरि सवर्णे ८।४।६४ इति पकारस्य तकारे लोपः स्यात्। प्रयत्नग्रहणं किम्? इचुयशानां तुल्यस्थानानां भिन्नजातीयानां मा भूत्। किं च स्यात्? अरुश्च्योतति इत्यत्र झरो झरि सवर्णे ८।४।६४ इति शकारस्य चकारे लोपः स्यात्। ऋकारऌकारयोः सवर्णसंज्ञा वक्तव्या। होतॢकारः। होतृकारः। उभयोः ऋवर्णस्य ऌवर्णस्य च आन्तरतमः सवर्णो दीर्घो नास्ति इति र्कार एव दीर्घो भवति। सवर्णप्रदेशाः अकः सवर्णे दीर्घः ६।१।९७ इत्येवम् आदयः। (
न्यासः
तुल्यास्यप्रयत्नं सवर्णम्। , १।१।९

तुलया सम्मितं तुल्यमिति "नौवयोधर्म" ४।४।९१ इत्यादिना यतमुत्पाद्य तुल्यशब्दो व्युत्पाद्यते। न च प्रयत्नस्य तुलया सम्मितत्वं सम्भवति, ततश्चासम्भवद्विशेषणमिति यश्चोदयेत्, तं प्रत्याह- "तुल्यशब्दः" इत्यादि। एवं मन्यते- व्युत्पत्त्यर्थं तु केवलं तुलोपादमते, न त्वत्र तुलार्थो विद्यते, न वा सम्मितार्थः। सदृषपर्यायो ह्रयं तुल्यशब्दः। तथा हि- "तुल्य" इत्युक्ते "सदृश" इति पर्यायो भवति, न तु तुलया सम्मित इति। आस्यशब्दोऽयं ण्यदन्तोऽप्यस्ति। अस्यते क्षिप्यतेऽन्नमनेनेति "कृत्यल्युटो बहुलम्" ३।३।११३ इति करणे ण्यत्। आस्यम्- मुखम्। तत्पुनः ओष्ठात्प्रभृति प्राक् काकलकात्। काकलकं नाम ग्रीवायामुन्नतप्रदेशः, लोके यः कण्ठमणिः इत्युच्यते। तद्धितान्तोऽप्यास्यशब्दोऽस्ति- आस्ये भवमिति, "शरीरावयवाच्च" ४।३।५५ इति यति कृते, "यस्येति च" ६।४।१४८ इत्यकारलोपे "हलो यमां यमि लोपः" ८।४।६३ इति यलोपे च कृते "आस्यम्" इति। एतच्च मुखान्तर्वर्त्तिनां ताल्वादीनां वाचकम्। तत्र यदि पूर्वस्यास्यशब्दस्येदं ग्रहणं स्यात्, कचटतपानामपि सवर्णसञ्ज्ञा स्यात्, ण्यदन्तस्यास्यशब्दस्य वाच्येऽर्थे तेषां तुल्यत्वात् प्रयत्नविषयस्य। इममतद्धितान्तस्यास्यशब्दस्य ग्रहणे दोषं दृष्ट्वा तद्धितान्तस्येदं ग्रहणमिति दर्शयन्नाह- "आस्ये भवमास्यम" इति। किं पुनस्तदित्याह- "ताल्वादिस्थानम" इति। यस्मिन् वर्णा निष्पाद्यन्ते, तत् स्थानम्। आविशब्देन नासिकादीनां ग्रहणम्। ननु च नासिका मुखाद्वहिर्वृत्तिरास्यं न भवति? नैतदस्ति; न हि मुखाद्बहिर्वर्त्तिनी नासिकेयं विवक्षिता, तस्यां वर्णानामनिष्पत्तेः। का तर्हि? अन्तरास्ये चर्म विततमस्ति पणवचर्मवत्, तत्सम्बद्धा रेखा, यस्यां वायुनाभिहन्यमा-नायां वर्णा निष्पद्यन्ते सेह नासिका विवक्षिता। कथं पुनर्विज्ञायते तद्धितान्तस्यास्यशब्दस्येदं ग्रहणमिति? आस्यग्रहणसाथ्र्यात्। यदि ह्रतद्धितान्तस्य ग्रहणं स्यात्, आस्यग्रहणमनर्थकं स्यात्। सर्वेषामेव हि तद्वाच्य एवार्थे प्रयत्नस्तुल्यः।नास्त्येव हि सः, यस्य व्यवच्छेदार्थमास्यग्रहणं स्यात्। ननु च विसर्जनीयस्य सत्य- सति वा सवर्णत्वे प्रयोजनमस्ति, नापि दोषः।"स्पृष्टतादिः" इति। आदिशब्देन ईषत्स्पृ-ष्टतादीनां ग्रहणम्। "वर्णगुणः" इति। अकारादीनां वर्णानां धर्म इत्यर्थः। "तुल्य आस्ये प्रयत्नो यस्य" इति। एतेन तुल्यास्यप्रयत्नशब्दस्त्रिपदोऽयं बहुव्रीहिरिति दर्शयति। व्याधिकरणानामपि गमकत्वनाद्बहुव्रीहिर्भवत्येव; यथा - "कण्ठेकालः, उरसिलोमा" इति। अथ द्वन्द्वगर्भबहुव्रीहिः कस्मान्नाश्रीयते- आस्यं च प्रयत्नश्च आस्यप्रयत्नौ,तौ तुल्यौ यस्य तत् तुल्यास्यप्रयत्नमिति? एवं मन्यते- द्वन्द्वगर्भबहुव्रीहावाश्रीयमाणे ताल्वादिना स्थानेन प्रयत्नो न विशेषितः स्यात्। ततश्च ककारङकारयोर्मिथः सवर्णसञ्ज्ञा न स्यात्, बाह्रस्य प्रयत्नस्य भिन्नत्वात्। ककारस्य विवृतकण्ठत्वादिर्बाह्रः प्रयत्नः। ङकारस्य संवृतकण्ठत्वादिः। असत्यां च सवर्णसञ्ज्ञायां शङ्कितेत्यत्र "अनुस्वारस्य ययि परसवर्णः" ८।४।५७ इति ङकारो न स्यात्। अथ सत्यपि बाह्रस्य प्रयत्नस्य भेद आभ्यन्तरः स्पृष्टताख्योऽनयोस्तुल्यः प्रयत्नः, तं समाश्रित्यसवर्णसञ्ज्ञा भविष्यति? यद्येवम्, शकारचकारसयोरपि सत्यप्याभ्यन्तरयोर्विवृतास्पृष्टतयोः प्रयत्नयोर्भेदे योऽनयोर्बाह्रः प्रयत्नस्तुल्यो विवृत्कण्ठत्वादिस्तदाश्रया सवर्णसञ्ज्ञा स्यात्। ततश्च "अरुश्च्योतति" इति वक्ष्य-माणं प्रत्युदाहरणं नोपपद्यते।थ त्रिपदे तु बहुव्रीहौ ताल्वादिस्थानेन प्रयत्नो विशिष्यते। तेन बाह्रं प्रयत्नमुत्सृज्याभ्यन्तर एव स्पृष्टतादिर्गृह्रते। स एव हि ताल्वादावास्ये सम्भवति, नेतरः। आभ्यन्तरस्य प्रयत्नस्य ग्रहणे सति सत्यपि बाह्र- प्रयत्नभेदे भतत्येव ककार ङकारयोः सवर्णसञ्ज्ञा; आभ्यन्तरप्रयत्नस्य तुल्यत्वात्, तस्यैव चेह ग्रहणात्। न च चकारशकारयोः सत्यपि बाह्रस्य प्रयत्नस्य तुल्यत्वे सवर्णसञ्ज्ञा प्रसजति; तस्येहाग्रहणात्, यस्य च ग्रहणं तस्य चासमानत्वात्। तस्यात् त्रिपद एव बहुव्रीहिराश्रयितुं युक्तः; न द्वन्द्वगर्भ इति। यदि तर्हि त्रिपदो बहु- व्रीहिराश्रीयते, भिन्नविभक्तिकत्वादप्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं भवति, ततश्च भिन्नस्थानानामपि सवर्णसञ्ज्ञा प्राप्नोति? नैष दोषः। यदाधेयं प्रति यदधिकरणमुपदीयते, तदाधेयतुल्ययैव तत् तुल्यमिति विज्ञायते। तथा हि- "देवदत्तयज्ञदत्तयोस्तुल्यं कांस्यपात्र्यां भोजनम्" इत्युक्ते कांस्यपात्र्यपि तयोस्तुल्येति गम्यते। यं प्रति यस्तुल्यास्यप्रयत्नः, स तमेव प्रति सवर्णसञ्ज्ञो भवतीत्येषोऽ- र्थो यतो वचनाल्लभ्यत इह तन्नास्ति। ततश्च यो यं प्रति तुल्यास्यप्रयत्नः, स ततोऽ- न्यमपि प्रति सवर्णसञ्ज्ञः स्यादिति चोद्यमाशङ्क्याह- "समानजातीयं प्रति" इति। समानजातीयो यं प्रति यस्तुल्यास्यप्रयत्नः, तं प्रति स सवर्णसञ्ज्ञो भवति, न ततोऽन्यम्। एतच्च तुल्यास्यप्रयत्नशब्दस्य सवर्णशब्दस्य च सम्बन्धिशब्दत्वाल्लभ्यते। सम्बन्धिशब्दो ह्रन्तेरणापि शब्दान्तरसन्निधिः नियमेव सम्बन्धिनमुपस्थापयति, यथा- "पितरि शुश्रूषितव्यम्" इति। नोच्यते स्वस्मिन्निति, सम्बन्धाच्चैतदवगम्यते, "यो यस्य पिता" इति। तथेहापि। यद्यपि यो यस्य तुल्यास्यप्रयत्नः, स तं प्रति सवर्णसञ्ज्ञो भवतीति,न चोच्यते, तथापि सम्बन्धात् तुल्यास्यप्रयत्नः समानजातीयमेव प्रति सवर्णसञ्ज्ञो भवतीति गम्यते। अथ वा समानो वर्णः "सवर्णः" इत्यन्वर्थसञ्ज्ञेयम्। तेनतुल्यजातीयमेव प्रति सवर्णसञ्ज्ञो भवति। एवं हि समानोऽस्य वर्णो भवति, यदि तमेव प्रति सवर्णसञ्ज्ञो भवति, न विजातीयं प्रति। "चत्वारः" इत्यादि। द्विविधाः प्रयत्नाः, आभ्यन्तराः, बाह्राश्च। तत्राभ्य-न्तराः चत्वारो वृत्तरौ दर्शिताः। बाह्रास्त्वेकादशष। के पुनस्ते? "विवारः, संवारः,()आआसः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितश्च" इति। तत्र नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नाम ऊध्र्वमात्रामन्नुरः प्रभृतीनामन्यतमस्मिन् स्ताने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावण्र्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावण्र्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरण-प्रयत्नाः परस्परं स्पृशन्ति, तदा सा "स्पृष्टता"। ईषद्यदा स्पृशन्ति, तदा सा ईष- स्पृष्टता; सामीप्येन यदा स्पृशन्ति, सा संवृतता; दूरेण यदा स्पृशन्ति, सा विवृतता-एते चत्वार आभ्यन्तराः प्रयत्नाः। आभ्यन्तरत्वं पुनरेषां स्थानकरणप्रयत्न- व्यापारेणोत्पत्तिकाल एव सम्भवात्। तत्र स्पृष्टकरणाः स्पर्शाः। कादयो मावसानाः स्पर्शाः, स्पष्टता गुणः। करणं कृतिरुच्चारणप्रकारः। स्पृष्टतानुगतं करणं येषां ते स्पृष्टकरणाः। एवमन्यत्रापि वेदितव्यम्। ईषत्स्पृष्टकरणा अन्तः स्थाः। अन्तः स्था यरलवाः। विवृतं करणमूष्मणाम्, स्वराणां च। स्वराः सर्व एवाचः। उष्ममाणः शषसहाः। अथ बाह्राः प्रयत्नाः किंलक्षणाः? स एव प्राणो नाम वायुपरूध्र्वमाक्रामन् मु()ध्न प्रतिहतो निवृतो यदा कोष्ठमभिहन्ति तदा कोष्ठेऽभिहन्यमाने गलबिलस्य संवृतत्वात् संवारो नाम वर्णधर्म उपजायते। विवृतत्वाद् विवारः। संवृते गलबिलेऽव्यक्तः शब्दो नादः, विवृते ()आआसः। उपरिवर्तिनौ तौ ()आआसनादावनुप्रदानमिति केचिदाचक्षते। वर्णनिष्पत्तेरनु-पश्चात् प्रदीयत इत्यनुप्रदानम्। अन्ये तु ब्राउवते "अनुप्रदानमनु- स्वानो घष्टानिह्र्यादवत्" यथा- घण्टानिह्र्यादोऽनुस्वनमनुभवति तथा इति। तत्र यदा स्थानाभिघातजे ध्ननौ नादोऽनुप्रदीयते, तदा नादध्वनिसङ्गाद् घोषो जायते, यदा ()आआसोऽनुप्रदीयते, तदा ()आआसध्वनिसङ्गादघोषः, महित वायौ महाप्राणः, अस्पवायावल्प- प्राणः। यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः, कण्ठविवर- स्य च चाणुत्वम्, स्वरस्य च वायोस्तीव्रगतित्वाद् रौक्ष्यं भवति, तमुदात्तमाचक्षते। यदा तु मन्दः प्रयत्नो भवति, तदा गात्रस्य रुआंसनम्, कण्ठबिलस्य महत्त्वम्, स्वरस्य वायोर्मन्दगतित्वात् स्निग्धता भवति, तमनुदात्तमाचक्षते। उदात्तानुदात्तस्वरसन्निकर्षात् स्वरित इत्येवं लक्षणा बाह्राः प्रयत्नाः। बाह्रत्वं पुनरेषां वर्णनिष्पत्तिकालादूध्र्वं, वायुवशेनोत्पत्तेः। तत्र वर्गाणां प्रथम द्वितीयाः शषरविसर्ज-नीयजिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः ()आआसानुप्रदाना अघोषाः।वग्र्ययमानां प्रथमेऽल्पप्राणाः। इतरे सर्वे महाप्राणाः। वर्गाणाञ्च तृतीयचतुर्था अन्तःस्था हकारानुस्वारौ यमौ च तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तः। वग्र्यमानां तृतीया अन्तःस्थाश्च अल्पप्राणाः। इतरे सर्वे महाप्राणाः। यथा तृतीया- स्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः। य एवैते द्विप्रकाराः प्रयत्ना बाह्रा आभ्यन्तराश्चाख्याताः, तेषामिह सवर्णसञ्ज्ञायां पूर्वोक्ता आभ्यन्तराश्चत्वारः स्पृष्टतादय आश्रीयन्ते,न बाह्रा विवारादयः, आस्यग्रहणेन तेषां व्यावर्तितत्वात्। स्पृष्टतादय एव ह्रास्ये भवन्ति, नविवारादयः। यद्येवम्, किमर्थं प्रयत्नग्रहणम्, एतावदस्तु तुल्यास्यमिति, आस्यग्रहणेनैव हि स्पृष्टतादयोऽपि प्रयत्नाः सवर्णसञ्ज्ञायां निमित्तभूतास्ताल्वादिस्थानवल्लभ्यन्त एव, तेषामप्यास्ये भवनात्? सत्यमेतत्, तथाप प्रत्येकं व्यापार- निरासार्थमुभयोरुपादानाम्। इतरथा हि यथैव स्थानं तुल्यं स्थानान्तरनिरपेक्षं सवर्ण सञ्ज्ञायां व्याप्रियते, एवं प्रयत्नोऽपि स्थाननिरपेक्षः, स्थानं च प्रयत्ननिर- पेक्षं व्याप्रियेत; ततश्च भिन्नप्रयत्नानामपि तुल्यस्थानानाम्, भिन्नस्थानानामपि तुल्यप्रयतनानां सवर्णसञ्ज्ञा स्यात्। "अ अ अ" इत्यादिना येषां यावतां च यादृशां च मिथो नित्या सवर्णसञ्ज्ञा, तान् दर्शयति। अकाराणां हि सर्वेषाम् "अकुहविसर्जनीयाः कण्ठ्याः" इति तुल्यं कण्ठस्थानम्। इकाराणामपि "इचुयशास्तालव्याः" इति तालु। उकारा-णामपि "उपूपध्मानीया ओष्ठ्याः" इत्योष्ठः। ऋकाराणामपि "ऋटुरषा मूर्धन्याः" इति मूर्धा। लृकाराणामपि "लृतुलसा दन्त्याः" इत दन्तः। एकाराणामैकाराणां च "एऐ कण्ठ()तालव्यौ" इति कण्ठतालु। ओकाराणामौकाराणां च "ओ ओ कण्ठ्यौष्ठ्यौ" इति कष्ठोष्ठम्। प्रयत्नस्तु सर्वेषामेवैषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। तस्मात् तुल्यस्थान्प्रयत्नत्वात् स्वरेऽकारादयो मिथः सवर्णसञ्ज्ञाः। एवं यावदौकारः। अन्तःस्था द्विप्रभेदाः, सानुनासिका निरनुनासिकाश्च रेफवर्जिताः। तेऽपि समानजातीयानन्तःस्थान् प्रति सवर्णसञ्ज्ञा भवन्ति। "रेफोष्मणां सवर्णा न सन्ति" इति। तेऽभ्योऽन्येऽकारादयो वर्णा विजातीया इत्येषोऽभिप्रायः। तुल्यजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नाः सवर्णाः सन्त्येव। तत्र रेफस्य तावद् ऋटुरषेभ्यो यवलेभ्यश्चान्ये वर्णा भिन्नस्थानत्वाच्च भिन्नप्रयत्नत्वाच्च सवर्णा न भवन्ति। तथा हि- "अकुहविसर्जनीयाः कण्ठ्()याः, इचुयशास्तालव्याः, लृतुलसा दन्त्याः,अपूपध्मानीया ओष्ठ्याः, एऐ कण्ठ()तालव्यौ, ओ औ कण्ठ()ओष्ठयौ" इति वचनादकारादीनां यथायोगं कण्ठादि स्थानम्। रेफस्य त्वृटुरषा मूर्धन्या इति मूर्धा। प्रयत्नोऽप्यनन्तरनिर्दिष्टेष्वकारादिषु ये स्वराः तेषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। ये तु वर्गान्तः पातिनः ककारादयः, तेषां स्पृष्टकरणाः स्पर्शा इति स्पृष्टता। रेफ- स्येषत्स्पृष्टकरणा अन्तःस्था इतीषत्स्पृष्टता। शकारसकारावपि स्थानप्रयत्नभेदाद्() रेफस्य सवर्णौ न भवतः। तौ हि यथाक्रमं तालव्यदन्त्यौ। रेफस्तु मूर्धन्यः। प्रयत्नो ऽपि तयोर्विवृतत्वम्। रेफस्य तु पूर्वोक्त एव। ऋटुषाः प्रयत्नभेदाच्चैव रेफस्य सवर्णा न भवन्ति; न तु स्थानभेदेन; तेषामपि मूर्धन्यत्वात्। प्रयत्नभेदस्तु विद्यतेऋकारषकारयोः पूर्ववद् विवृतत्वम्, रेफस्य तु स एव पूर्वोक्तः। टवर्गस्य स्पृष्टता। यवलास्तु पुनः स्थानभेदादेव सवर्णा न भवन्ति, न तु प्रयत्नभेदात्; तेषामपीषत्स्पृ- ष्टगुणत्वात्। स्थानभेदस्तु विद्यते, यवलानां यथायोगं तालव्यदन्त्योष्ठ()त्वात्। एवं विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वाराः। कुँ खुँ गुँ घुँ इत्येते च यमाश्चातुल्यस्थानप्रयत्नत्वादेव रेफस्य सवर्णा न भवन्ति। विसर्जनीयो हि कण्ठ()ः, जिह्वामूलीयो हि जिह्व्यः; उपध्मानीय ओष्ठ्यः, अनुस्वारयमा नासिक्याः, रेफस्तु मूर्धन्यः। प्रयत्नस्तु यस्तस्य पूर्वोक्तः, स विसर्जनीयादीनां नास्त्येव तदेवं रेफस्य रेफादन्यो नास्ति कश्चित् सवर्तो वर्णः। अनया दिशोष्मणामपि शकारादीनां सावण्र्याभावे वेदितव्यः। "वर्ग्यः" इत्यादि। वर्गे भवो वर्ग्यः। "दिगादित्वाद् यत्" ४।३।५४, "यस्येति च" ६।४।१४८ इत्याकारलोपः। वग्र्यो यो वर्णः, सोऽन्येन वर्ग्येण स्ववर्गान्तःपातिना तुल्यास्यप्रयत्नेन सह सवर्णो भवति,यथा-ककारः खकारेण। एवमन्यत्रापि वेदितव्यम्। "भिन्नस्थानानाम्" इत्यादि। एते हि ककारादयः सर्वे स्पृ ष्टगुणत्वात् तुल्यप्रयत्ना यथाक्रमं कण्ठतालुमूर्धदन्तोष्ठस्थानत्वाद्भिन्नस्थानाः। "तर्प्ता, तर्प्तुम्" इति। "तृप तृन्फ तृप्तौ" (धा।पा।१३०७,१३०८) इत्यस्य तृचि तुमुनि च रूपम्। "भिन्नप्रयत्नानाम्ित्यादि। इकारादयोहि तालव्यत्वात् सर्वे तुल्य- स्थाना विवृतत्वस्पृष्टत्वेषत्स्पृष्टत्वप्रयत्नात् यथायोगं भिन्नप्रयत्नाः। इकार- शकारयोर्यद्यपि प्रयतनोऽप्यभिन्नः,तथापि, तयोः प्रतिषेधं वक्ष्यतीति न भवति सवर्ण- त्वम्। "अरुश्च्योतति"इति "श्च्युतिर् क्षरणे" (धा।पा।४१) इत्यस्य लटि रूपम्। तत्र परत्रावस्थितऽरुस्()शब्दस्य सकारस्य रुत्वम्। तस्य विसर्जनीयः, तस्यापि "वा शरि" ८।३।३६ इति सकारः, तस्यापि श्चुत्वं शकारः। "होतृ()कारः" इति। कथं पुनरत्र ऋकार आदेशो भवति, न हि ऋकारलृकारयोः समुदायस्य स्थानिनः सोऽन्तरतम इत्याह- "उभयोः" इत्यादि। ऋकारो मूर्धन्यः, लृकारस्तु दन्त्यः। तत्र तयोर्यद्येको मूर्धन्यो दन्त्यश्च दीर्घो वर्णोऽन्तरतमः सम्भवेत्, तदा सोऽन्तरतम आदेशो भवेत्। स च न सम्भवतीत्यवयवस्य योऽन्तरतमः, तेन भाव्यम्। तत्रापि यदि लृकारो दीर्घः स्यात्। सोऽपि पर्यायेण स्यात्, स च नास्ति; तस्मात् पारिशेष्यात् समुदायस्यैकादेशस्य योऽन्तरतमः स एव ऋकारो भवति।
बाल-मनोरमा
तुल्यास्यप्रयत्नं सवर्णम् १२, १।१।९

अथ "अणुदित्सवर्णस्य चाप्रत्ययः" इति अ इ उ इत्यादिसंज्ञां वक्ष्यन्सवर्णसंज्ञामाह--तुल्यास्य। आस्यं = मुखम्, तत्साम्यस्य सर्ववर्णेष्वविशिष्टत्वादव्यावर्तकत्वादास्यशब्दोऽत्र न मुखमात्रपरः। किन्तु आस्ये मुखे भवमास्यं = ताल्वादिस्थानम्। "शरीरावयवाद्यत्" इति भवार्थे यत्प्रत्ययः। "यस्येति च" इति प्रकृत्यन्त्यस्य अकारस्य लोपः। प्रकृष्टो यत्नः प्रयत्नः। आस्यं च प्रयत्नश्च-आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्यप्रयत्नं परस्परं सवर्णसंज्ञकं स्यादिति भावः। तदाह--ताल्वादिस्थानमित्यादिना। मिथ इति। परस्परमित्यर्थः। कस्य किं स्थानमित्याकाङ्क्षायां तद्व्यवस्थापकानि पाणिन्यादिशिक्षावचनान्यर्थतः संगृह्णाति--

अकुहेत्यादिना। "अ" इत्यष्टादश भेदा गृह्रन्ते, "कु" इतदि कादिपञ्चकात्मकः कवर्गः। न चाणुदित्सूत्रस्येदानीमप्रवृत्तेः कथमत्र "अ" इत्यष्टादशभेदानां ग्रहणमिति वाच्यम्। लौकिकप्रसिद्धिमाश्रित्यैव एतत्प्रवृत्तेः। एवमग्रेऽपि कथञ्चित्समाधानं बोध्यम्। अश्च कुश्च हश्च विसर्जनीयश्चेति विग्रहः। विसर्जनीयशब्दोऽपि विसर्गपर्यायः।

इचुयशेति। इ इत्यष्टादश भेदाः। चु इति चवर्गः। इश्च चुश्च यश्च शश्चेति विग्रहः। तालु = काकुदम्।

ऋटुरषेति। ऋ इत्यष्टादश भेदाः। टु इति टवर्गः। आ च टुश्च रश्च षश्चेति विग्रहः। ऋ शब्दस्य आ इति प्रथमैकवचनान्तं धाता इति वत्।

लृतुलशेति। लृ इत्यस्य द्वादश भेदाः। तु इति तवर्गः। आ च तुश्च लश्च सश्चेति विग्रहः। लृशब्दस्यापि आ इत्येव प्रथमैकवचनान्तम्। आ अलौ अलः। दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः। अन्यथा भग्नदन्तस्य तदुच्चारणाऽनुपपत्तेः।

उपूपेति। उ इत्यष्टादश भेदाः। पु इति पवर्गः उश्च पुश्च उपध्मानीयश्चेति विग्रहः। उपध्मानीयशब्दमनुपदमेव स्वयं व्याख्यास्यति।

ञमङणनेति। ञश्च मश्च ङश्च णश्च नश्चेति विग्रहः। चकारेण स्वस्ववर्गीयस्थानसमुच्चयः।

एदैतोरिति। एच्च ऐच्च एदैतौ। तपरकरणमसंदेहार्थम्। नतु "तपरस्तत्कालस्य" इति तत्कालमात्रग्रहणार्थम्। तेन प्लुतयोरपि संग्रहः। कण्ठश्च तालु चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवत्त्वं नपुंसकत्वं च।

ओदौतोरिति। ओच्च औच्च ओदौतौ। तपरकरणं पूर्ववदसंदेहार्थमेव। कण्ठश्च ओष्टौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवद्भावो नपुंसकत्वं च।

वकारस्येति। दन्ताश्च ओष्ठौ चेति समाहारद्वन्द्वः। एकवत्त्वं नपुंसकत्वं च

जिह्वामूलीयस्येति। जिह्वामूलीयशब्दमग्रे व्याख्यास्यति। एवमनुस्वारशब्दमपि।

इति स्थानानीति। इति = एवंप्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थः।

ननु किमिह तुल्यास्यसूत्रे य()त्कचित्स्थानसाम्यं विवक्षितम् , उत यावत्स्थानसाम्यम्?। न तावदाद्यः, तथा सति इकारस्य एकारस्य च तालुस्थानकतया सावण्र्यापत्तौ "भवत्येवे"त्यत्र इकारादेकारे परे सवर्णदीर्घापत्तेः। न च एकारस्य वर्णसमाम्नाये पाठसामथ्र्यादिकारेण न सावण्र्यमिति वाच्यम्, एकारपाठस्य अक् इक् उक् इति प्रत्याहारेषु एकारग्रहणनिवृत्त्यर्थत्वसम्भवात्। किं च वकारलकारयोर्दन्तस्थानसाम्येन सावण्र्यापत्तौ "तोर्ल" इत्यत्र लकारेण वकारस्यापि ग्रहणात्तद्वानित्यत्र दकारस्य परसवर्णापत्तिः। "यवलपरे यवला वा" इत्यत्र लकारग्रहणं तु यथासंख्यार्थं भविष्यति। न द्वितीयः, तथा सति कङयोः कण्ठस्थानसाम्येऽपि ङकारस्य नासिकास्थानाधिक्येन सावण्र्याभावापत्तौ "चोः कुः", क्विन्प्रत्ययस्य" इत्यत्र ङकारस्य ग्रहणानापत्त्या प्राङित्यादौ नुमो नकारस्य "क्विन्प्रत्ययस्य" इति कुत्वेन ङकाराऽनापत्तेः। तस्मात्स्थ्ानसाम्यं दुर्निरूपमिति चेत्, अत्र ब्राऊमः--यावत्स्थानसाम्यमेव सावण्र्यप्रयोजकम्। एवं च इकारस्य एकारस्य च तालुस्थानसाम्येऽपि एकारस्य कण्ठस्थानाधिक्यान्न सावण्र्यम्। वलयोश्च न सावण्र्यम्। वकारस्य ओष्ठस्थानाधिक्यात्। एवं च " तद्वानासाम्" "यजुष्येकेषाम्" इत्यादिनिर्देशा उपपन्नाः। ङकारस्य नासिका स्थानाधिक्येऽपि ककारेण सावण्र्यमस्त्येव, आस्यमवस्थानसाम्यस्यैव सावण्र्यप्रयोजकत्वात्, नासिकायाश्च आस्यानन्तर्गतत्वात्। उक्तं च भाष्ये-किं पुनरास्यं(), लोकिकमोष्ठात्प्रभृति प्राक्काकलकात्" इति। "काकलको नाम चुबुकस्याधस्तात् ग्रीवायामुन्नतप्रदेशः" इति कैयटः। तस्मादास्यभवयावत्स्थानसाम्यं सावण्र्यप्रयोजकमिति शब्देन्दुशेखरे विस्तरः।

ननु तुल्यास्यसूत्रे प्रयत्नशब्देन प्रशब्दबलादाभ्यन्तरयत्नो विवक्षित इति स्थितम्। तत्राभ्यन्तरत्वविशेषणं किमर्थम्, व्यावर्त्त्याऽभावादित्यत आह-यत्नो द्विधेति। यत्नानामाभ्यन्तरत्वं बाह्रत्वं च वर्णोत्पत्तेः प्रागूध्र्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम्। आद्य इति। आभ्यन्तयत्न इत्यर्थः। कथं चातुर्विध्यमित्यत आह-स्पृष्टेति।

कस्य कः प्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थापकशिक्षावचनानि पठति--तत्रेति। तेषु मध्य इत्यर्थः। प्रयतनमिति। प्रयत्न इत्यर्थः। स्पर्शादिशब्दानग्रे व्याख्यास्यति। ह्यस्वस्यावर्णस्य संवृतमित्यन्वयः। एतावदेव शिक्षावचनम्। नन्वेवं दण्ड-आढकमित्यत्र अकारस्य च विवृतसंवृतप्रयत्नभेदेन सावण्र्याऽभावात्सवर्णदीर्घो न स्यादित्यत आह-प्रयोग इति। शास्त्रीयप्रक्रियाभिः परिनिष्ठितानां रामः कृष्ण इत्यादिशब्दानां प्रयोगे क्रियमाण एव ह्यस्वस्याऽवर्णस्य संवृतत्वमित्यर्थः। प्रक्रियेति। शास्त्रीयकार्यप्रवृत्तिसमये तु ह्यस्वस्याप्यवर्णस्य विवृतत्वमेवेत्यर्थः। शिक्षावचनसिद्धं स्वाभाविकं ह्यस्वावर्णस्य संवृतत्वं प्रच्याव्य शास्त्रमूलभूते वर्णसमाम्नाये तस्य विवृतत्वेनैवोपदिष्टतया कृत्स्नशास्त्रीयप्रक्रियासमये ह्यस्वस्याप्यवर्णस्य विवृतत्वेन दण्डाठतमिच्यादौ सवर्णदीर्घादिकार्यं निर्बाधकमिति ऐउणिति सूत्रभाष्ये स्पष्टम्। एवंच "ह्यस्वस्याऽवर्णस्य संवृत"मिति शिक्षावचनं परिशेषात्परिनिष्ठतदशायामेव पर्यवस्यतीति न तदानर्थक्यमिति भावः। अयं च शिक्षावचनसङ्कोचः सूत्रकारस्यापि संमत इत्याह-एतच्चेति॥ तदेवोपपादयितुं प्रतिजानीते-तथा हीति। यथा एतज्ज्ञापितं भवति तथा स्पष्टमुपपाद्यत इत्यर्थः।

तत्त्व-बोधिनी
तुल्यास्यप्रयत्नं सवर्णम् १२, १।१।९

तुल्यास्य। आस्ये भवमास्यं "शरीरावयवाद्यत्" इत्यभिप्रेत्याह-ताल्वादीति॥ आभ्यन्तरेति। एतच्च प्रशब्दबलाल्लभ्यते। ओष्ठात्प्रभृति प्राककाकलकादास्यम्। तुल्यास्यं किम्?, तर्प्ता। अत्र पकारस्य तकारे परे "झरो झरि" इति लोपो मा भूत्। प्रयत्नग्रहणं किम्, वाक्श्चोतति। अत्र शस्य लोपो न॥ ञमङणनानामिति। नासिका चेति। चकारेण स्ववर्गानुकूलं ताल्वादि समुच्चीयते॥ एदैतोरित्यादौ तपरत्वमसंदेहार्थं, न तत्कालग्रहणार्थम्। तेन प्लुतस्यापि संग्रहः॥ चतुर्धेति। निष्कर्षपक्षे तु पञ्चधा, ऊष्माणामीषद्विवृतप्रयत्नाभ्युपगमात्॥ स्पृष्टेषत्स्पृष्टेति। एतेषामाभ्यन्तरत्वं, वर्णोत्पत्तिप्राग्भावित्वात्। तथाहि-नाभिप्रदेशात्प्रयत्नप्रेरितो वायुः प्राणो नाम ऊध्र्वमाक्रामन्नुरःप्रभृतीनि स्थानान्याहन्ति, ततो वर्णस्य तदभिव्यञ्जकध्वनेर्षा उत्पत्तिः। तत्रोत्पत्ते प्राग्यदा जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ताल्वादि सम्यक् स्पृशन्ति तदा स्पृष्टता, ईषद्यदा स्पृशन्ति तदा ईषत्स्पृष्टता, समीपावस्थानमात्रे संवृतता, दूरत्वे विवृतता। अत एव इचुयशानां तालव्यत्वाऽविशेषेऽपि तालुस्थानेन सह जिह्वाग्रादीनां चवर्गोच्चारणे कर्तव्ये सम्यक् स्पर्शः, यकारे ईषत्सपर्शः , शकारेकारयोस्तु दूराऽवस्थितिरित्याद्यनुभवं, शिक्षाकारोकिं()त चानुसृत्य विवेचनीयम्। विवारसंवारादयस्तु वर्णोत्पत्तेः पश्चान्मू()ध्न प्रतिहते निवृत्ते प्राणाख्ये वायावुत्पद्यन्त इति बाह्रा इत्युच्यन्ते। गलबलिस्य संकोचात्संवारः, तस्यैव विकासाद्विवारः। एतौ च संवृतविवृतरूपाभ्यामाभ्यन्तराभ्यां भिन्नावेव। तयोः समीपदूरावस्थानात्मकत्वादित्यवधेयम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अज्झलौ १।२ तुल्यास्यप्रयत्नम् १।१ सवर्णम् १।१

समासः॥

अच् च हल् च अज्झलौ, इतरेतरद्वन्द्वः

अर्थः॥

तुल्यास्यप्रयत्नौ अपि अच्-हलौ परस्परम् सवर्णसंज्ञकौ न भवतः।

उदाहरणम्॥

दण्डहस्तः, कुमारी शेते। वैपाशो मत्स्यः, आनुडुहं चर्म।
काशिका-वृत्तिः
न अज्झलौ १।१।१०

अच् च हल् च, अज्झलौ। तुल्याऽस्यप्रयत्नावपि अज्झलौ परस्परं सवर्णसंज्ञौ न भवतः। अवर्णहकारौ दण्डहस्तः, इवर्णशकारौदधि शीतम्, सवर्णदीर्घत्वं न भवति। वैपाशो मत्स्यः, आनडुहं चर्म इति यस्यैति च ६।४।१४८ इति लोपो न भवति।
न्यासः
नाज्झलौ। , १।१।१०

"तुल्यास्यप्रयत्नावपि" इति प्रसङ्गे हेतुमाह, प्रसङ्गपूर्वकत्वात् प्रतिषेधस्य। "दण्डहस्त" इत्यत्राकारहकारयोद्र्वयोरपि कण्ठस्थानत्वात् तुल्यस्थानत्वम्, उभयोर्विवृतकरणत्वात् तुल्यप्रयत्नत्वम्(); "दधि शीतम्" इत्यत्राप्यत एव तुल्युप्रयत्नत्वम्, उभयोस्तालव्यत्वात् तुल्यस्थानत्वम्। "सवर्णदीर्घत्वं न भवति" इति प्रतिषेध- स्य फलं दर्शयति। ननु च अकः सवर्णे दीर्घविधौ ६।१।९७ "अचि"; इति वर्तते, तत्रासत्यपि प्रतिषेधे दीर्घत्वं न भविष्यति, यथा- कुमारी शेते इत्यत्र, तदयुक्तमे-वोदाहरणद्वयम्। स्यादेतत्- "अणुदित् सवर्णस्य चाप्रत्ययः" १।१।६८ इत्यकारेका- राभ्यां सावण्र्येन ग्रहणादच्त्वमस्ति, तथापि हल्षूपदेशाद् हल्त्वमप्यस्तीति न तावद्धकारश्कारवचावेव, अपि तु हलावपीति, सत्यमेतत्। अयं पुनरत्र वृत्तिकारस्याभि प्रायः- अवश्यं तावदन्यार्थं "नाज्झलौ" १।१।१० इत्येतत् कर्तव्यम्, यस्येति लोपा-भावार्थम्। तदन्यार्थं कृतमेतदर्थमपि स्यात्। एवं तह्र्रजनुवृत्तिद्वारेण दीर्घत्वाभावप्रतिपत्तौ साध्यायां यत् प्रतिपत्तिगौरवमापद्यते, तदपास्तं भवतीति। "वैपाशः" इति। विपाशि भव इत्यण्। "यस्येति च" ६।४।१४८ इत्यत्रेवर्ण उपादीयमानः सावण्र्येन शकारमप्युपादत्ते। एवं च तस्य लोपः प्रसज्येत। "आनहुहम्" इति। अनडुहो विकार इति "प्राणिरजतादिभ्योऽञ्" ४।३।१५२,तत्र "यस्येति च" ६।४।१४८ इत्यत्राकारो गृह्रकारो हकारमपि गृह्णीयात्, ततश्च पूर्ववत् तस्य लोपः स्यात्।
बाल-मनोरमा
नाऽ‌ऽज्झलौ १५, १।१।१०

एवं प्राप्ते प्रतिषेधति--नाज्झलौ। आसहितः अच्-आच्। शाकपार्थिवादित्वात्सहितशब्दस्य लोपः। आ च हस्व-आज्झलौ। तुस्यास्यसूत्रात्सवर्णमित्यनुवर्तते। तच्च पुँल्लिङ्गाद्विवचनान्ततया विपरिणम्यते। तदाह--अकारसहितोऽजित्यादिना। ननु किमर्थोऽयं प्रतिषेध इत्यत आह--तेनेत्यादि यणादिकं नेत्यन्तम्। तेन=प्रतिषेधेन। आदिना सवर्णदीर्घसङ्ग्रहः। दधीति इकारस्य हकारे षकारे सकारे च परे "इको यणचि" इति यणादेशः, शीतलमित्यत्र शकारे परे सवर्णदीर्घश्च न भवतीत्यर्थः। नन्वस्त्वकारहकारयोरिकारशकारयोरृकारषकारयोर्लृकारसकारयोश्च सावण्र्यं, तथापि "दधि षष्ठ"मित्यादौ यणादिकं न प्रसक्तम्, अचपरकत्वाऽभावादित्यत आह--अन्यथेत्यादिना। अन्यथा=तेषां सावण्र्याभ्युपगमे, दीर्घादीनामिव हकारादीनामप्यच्त्वं स्यादित्यन्वयः। ननु वर्णसमाम्नाये हकारादीनामकारचकारमध्यगत्वाऽभावात्कथमच्त्वमित्यत आह-ग्रहणकशास्त्रबलादिति। गृह्णन्त्यकारादयः स्वसवर्णान् येन तद्ग्रहणम्। करणे ल्युट्। स्वार्थे कः। अणुदित्सूत्रादित्यर्थः। यद्यप्यच्छब्द०वाच्यत्वं वार्णसमाम्नायिकानामेव वर्णानान्तथापीको यणचीत्यादावच्छब्देनाऽकारादिषूपस्थितेषु तैरणुदित्सूत्रबलेन स्वस्वसवर्णानामाकारादीनामुपस्थितिरस्ति। ततश्चाऽत्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामिव हकारादीनामपि लक्षणया अच्छब्देन ग्रहणं स्यादित्यर्थः। न च इको यणचीत्यादौ शक्यार्थमादायैवोपपत्तेर्न लक्षणासंभवः। अणुदित्सूत्रे तु अस्य च्वावित्यादौ सावकाशमिति वाच्यं, स्वादिभ्य इत्यादिनिर्देशबलेन प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाऽवश्यंभावात्। तथा च "अच्त्वं स्या"दित्यस्य अचपदबोध्यत्वं स्यादित्यर्थः। किं तद्ग्रहणकशास्त्रमित्याकाङ्क्षायां तदुपपादनं प्रतिजानीते-तथा हीति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ ईदूदेद्-द्विवचनम् १।१ प्रगृह्यम् १।१

समासः॥

ईच्च ऊच्च एच्च ईदूदेतः, द्वन्द्वः। ईदूदेतः अन्ते यस्य यस्य ईदूदेदन्तम्, बहुव्रीहिः। ईदूदेदन्तं च तत् द्विवचनं च ईदूदेद्द्विवचनं, कर्मधारयः तत्पुरुषः।

अर्थः॥

ईदाद्यन्तं द्विवचनं शब्दरूपं प्रगृह्यसंज्ञं भवति।

उदाहरणम्॥

अग्नी इति, वायू इति, माले इति। पचेते इति, पचेथे इति। इन्द्राग्नी इमौ, इन्द्रवायू इमे सुताः (ऋ॰ १।२।४)।
काशिका-वृत्तिः
ईदूदेद्द्विवचनं प्रगृह्यम् १।१।११

ईतूतेतित्येवमन्तं द्विवचनं शब्दरूपं प्रग्र्ह्यसंज्ञं भवति। अग्नी इति। वायु इति। माले इति। पचेते इति। ईदूदेतिति किम्? वृक्षावत्र। प्लक्षावत्र। द्विवचनम् इति किम्? कुमार्यत्र। किशोर्यत्र। तपरकरणम् असंदेहार्थम्। प्रगृह्यप्रदेशाः प्लुतप्रगृह्या अचि नित्यम् ६।१।१२१ इत्येवम् आदयः। ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः। मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम। दम्पतीव। जम्पतीव। रोदसीव।
लघु-सिद्धान्त-कौमुदी
ईदूदेद् द्विवचनं प्रगृह्यम् ५१, १।१।११

ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥
न्यासः
ईदूदेद्?द्विवचनं प्रगृह्रम्। , १।१।११

अत्रेदादि यद्()द्विवचनम्,तत् प्रगृह्रमित्येवं वा विज्ञायते? ईदाद्यन्तं यद् द्विवचनम्, तत् प्रगृह्रमिति वा? तत्राद्ये पक्षे "पचेते" इत्यादौ प्रगृह्रसञ्ज्ञा न प्राप्नोति, न ह्रेकारमात्रमत्र द्विवचनम्; अपि तु आतेशब्द इति। इममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह- "ईदूदेदित्येवमन्तम्ित्यादि। नन्वेतस्मिन्नपि पक्षे अग्नी इत्येवमादि न सिध्यति, ईदाद्येव ह्रत्र द्विवचनं न तदन्तम्? "आद्यन्तवदेकस्मिन्" १।१।२० इत्यनेनान्तवद्भावो भवतीत्यदोषः। "अग्नी" इति। " प्रथमयोः पूर्वसवर्णः" ६।१।९८ इति दीर्घत्वम्। अत्र प्रगृह्रसञ्ज्ञायां सत्याम् "प्लुतप्रगृह्रा अचि" ६।१।१२१ इति प्रकृतिभावादितिशब्दे परतः "अकः सवर्णे" दीर्घत्वं ६।१।९७ न भवति। "वायु" इत्यत्रापि "इको यणचि" ६।१।७४ इति यणादेशः। शेषेष्वप्युदाहरणेष्वयादेशः। "खट्वे" इति। "औङ आपः" ७।१।१८ इति शीभावः। " आद्()गुणः" ६।१।८४। "पचेते" इति,"यजेते" इति। स्वरितेत्वादात्मनेपदम्, आताम्, टेरेत्त्वम्, "आतो ङितः" ७।२।८१ इतीयादेशः "लोपो व्योर्वलि" ६।१।६४ इति यलोपः। "वृक्षावत्र, प्लक्षावत्र" इति। भवत्येतद् द्विवचनम्; न त्वीदूदेदन्तम्। तेन प्रकृतिभावाभावादादेशो भवत्येव। "कुमार्यत्र" इति। "वयसि प्रथमे" ४।१।२० इति ङीपिकृते "कुमारी" इत्येतदीकारान्तम्(), न तु द्विवनचान्तम्; तेनासति प्रकृतिभावे भवत्येव यणादेशः। अथ तपरकरणं किमर्थम्?प्लुतनिवृत्त्यर्थमिति चेत्, न; इष्टत्वात् प्लुतस्य। यथा च तपरत्वे क्रियमाणेऽपि प्लुतस्य प्रगृह्रसञ्ज्ञा सिध्यति, तथा भाष्ये "असिद्धः प्लुतः, तस्यासिद्धत्वात् तत्काल एव"(म।भा।१।६६) इत्यादिना प्रतिपादितम्। गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्,न; "अभेदकत्वाच्छास्त्रे गुणानाम्" (सो।प।८०) इत्यत आह- "तपरकरणमसन्देहार्थम्" इति। असति हि तपरकरण ईकारस्योकारस्य च यणादेशः स्यात्। ततश्च सन्देह एव स्यात्()-किमिदं यकारवकारोयग्र्रहणम्, आहोस्विदिकारोकारयोरिति "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यातम्- वक्ष्यमाणं शाकल्यग्रहणमिहोपतिष्ठते सिंहावलोकितन्यायेन , सा च व्यवस्थित- विभाषा; तेन मणीवादीनां प्रतिषेधो भविष्यति, मणीव, दम्पतीव्, रोदसीवेति। मणीवेत्या- दयः शब्दा द्विवचनान्ताः। तत्रासति प्रगृह्रत्वे "अकः सवर्णे दीर्घः" (६।१।९७ एकादेशो भवत्येव।
बाल-मनोरमा
ईदूदेद्द्विचनं प्रगृह्रम् १०१, १।१।११

ईदूदेद्द्विचनम्। ईच्च ऊच्च एच्चेति समाहारद्वन्द्वः। ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधिः। "द्विवचन"मित्यनेन तु प्रत्ययत्वे।ञपि न तदन्तं गृह्रते, "संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती"ति तन्निषेधात्। तदाह--ईदूदेदन्तमित्यादिना। हरी एताविति। अत्र ईकारस्य परादिवत्त्वाश्रयणाद्द्विवचनत्वम्। प्रगृह्रत्वे सति "प्लुतप्रगृह्रा" इति प्रकृतिभावान्न यण्। विष्णू इमावित्यत्राप्येवम्। गङ्गे अमू इत्यत्र त्वयादेशो न भवति। "ईदूदेदन्त"मिति तदन्तविधेः प्रयोजनं दर्शयितुमाह-पचेते इमाविति। तदन्तविध्यबावे ईदूदेदात्मकं द्विवचनं प्रगृह्रमिति लभ्येत। एवं सति "पचेते" इत्यत्र "इते इति द्विवचनस्य एद्रूपत्वाऽभावात्प्रगृह्रत्वं न स्यादिति भावः। "ईदूदेदन्तं यद्द्विचनान्त"मिति व्याख्याने तु कुमार्योरगारं कुमार्यगारमित्यत्रातिप्रसङ्गः स्यात्। "ईदूदेदन्तं द्विवचन"मिति व्याख्याने तु नातिप्रसङ्गः, ओसो द्विवचनस्य ईदूदेदन्तत्वाऽभावात्। ननु "मणीवोष्ट्रस्य सम्बेते प्रियौ वत्सतरौ ममे"ति भारतश्लोके "मणी इवे"ति ईकारस्य प्रगृह्रत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह-मणीवोष्ट्रस्येति। "वं प्रचेतसि जानीयादिवार्थे च तदव्यय"मिति मेदिनी। "व वा यथा तथैवैवं साम्ये"इत्यमरः।

तत्त्व-बोधिनी
ईदूदेद्द्विवचनं प्रगृह्रम् ८१, १।१।११

ईदूदेदन्तमिति। अत्र विशेणेन तदन्तविध्याश्रयणं किम्?। "पचेते इमा"-विति यथा स्यात्। "हरी" "विष्णू" इत्यादिष्वेकादेशस्य परादिवद्भावाश्रयेण ईकारादीनां द्विवचनत्वादीदूदेद्रूपं द्विवचनमित्युक्तेऽपि प्रगृह्रत्वं सिध्यतीति बोध्यम्। द्विवचनमिति। "संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति", "सुप्तिङन्त"-मित्यन्तग्रहणाज्ज्ञापकात्। तेन कुमार्योर्वध्वोश्चागारं कुमार्यगारं वध्वगारमिति सिद्धम्। "द्विवचनान्तं प्रगृह्रं स्या"दिति व्याकुर्वतः प्राचस्तु नेदं सिध्येत्। हरी एताविति। इह ह्यस्वसमुच्चितप्रकृतिभावो न, "प्लुतप्रगृह्राः" इत्यत्र नित्यग्रहणादित्युक्तम्। अत्र वृत्तिकारेण--"मणीवादीनां प्रतिषेधो वक्तव्यः" इति पठित्वा "मणीव" "रोदसीव" "जंपतीवे"त्युदाह्मतम्। तच्च मुनित्रयानुक्तत्वादप्रमाणमिति कैयटादयः। एवं स्थिते "मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ ममे"ति भारतप्रयोगं समर्थयते--इवार्थे इति। वशब्द इत्यादि। "वं प्रचेतसि जानीयादिवार्थे च तदव्यय"मिति मेदिनी। "व वा यथा तथैवैवं साम्ये" इत्यमरः। कादम्बखण्डितदलानि व पङ्कजानी"त्यादिप्रयोगदर्शनाच्चेति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अदसः ६।१ मात् ५।१ ईदूदेत् १।१ ११ प्रगृह्यम् १।१ ११

अर्थः॥

अदसः सम्बन्धः यः मकारः तस्मात् परे य ईदूदेतः तेषां प्रगृह्यसंज्ञा भवति।

उदाहरणम्॥

अमी अत्र, अमी आसते। अमू अत्र, अमू आसाते।
काशिका-वृत्तिः
अदसो मात् १।१।१२

अदसः सम्बधी यो मकारस्तस्मात् परे ईदूदेतः प्रग्र्ह्यसंज्ञा भवन्ति। अमी अत्र। अमी आसते। अमू अत्र। अमू आसाते। एकारस्य उदाहरणं न अस्ति। अदसः इति किम्? शम्यत्र। दाडिम्यत्र। मातिति किम्? अमुके ऽत्र।
लघु-सिद्धान्त-कौमुदी
अदसो मात् ५२, १।१।१२

अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम्? अमुकेऽत्र॥
न्यासः
अदसो मात्। , १।१।१२

"अदसः सम्बन्धी यो मकारः" इति। अवयनवावयविभावलक्षणेन सम्बन्धेन षष्ठी। "अमी अत्र" इति अदस्()शब्दात् परस्य जसः शी ७।१।१७ त्यदाद्यत्वम् ७।१।१०२ , अतो गुणो" ६।१।९४पररूपत्वम्, ईकारेण सह "आद्()गुणः" ६।१।८४ "एत ईद्बहुवचने" ८।२।८१ इतीत्त्वम्, दस्य च मत्वम्, ८।२।८०। अयमद्विवचनार्थ आरम्भः। "अमू आसाते" इति। अदसो द्विवचनमौ। त्यदाद्यत्वम्,"वृद्धिरेचि" ६।१।८५ इति वृद्धिः; "अदसोऽसेर्दादुदो मः" ८।२।८० इत्यौकारस्य दीर्घस्य स्थाने तादृश एवान्तरतम्यादुकरः।अत्राप्यूकारादिकार्यमसिद्धमिति पूर्वेणाप्राप्तिः। अतः "पूर्वात्रासिद्धम्" ८।२।१ इत्यस्य बाधनार्थं आरम्भः। कथं पुनः "पूर्वत्रासिद्धम्"८।२।१ इत्येतच्छक्यं बाधितुम्, वचनसामथ्र्यात्? नैतदस्ति; यत् सिद्धे प्रगृह्रकार्यम् "अणोऽप्रगृह्र- स्यानुनासिकः" ८।४।५६ इति, तदर्थं वचनं स्यात्, नैतदेवम्; न ह्रेकं प्रयोजनं योगारम्भं प्रयोजयति। यदि ह्रेतावत् प्रयोजनं स्यात्, तत्रैवेदं ब्राऊयात्, "अणोऽप्रगृह्रस्यानुनासिकः, अदसो न" इति। "शम्य्तर, दाडिम्यत्र" इति। "षिद् गौरादिभ्यश्च" ४।१।४१इति ङीष्, "यस्येति च" ६।४।१४८ इत्यकारलोपः। भवत्ययं मकारात्पर ईकारः, न त्वदः सम्बन्धीति। "अमुकेऽत्र" इति। "अव्ययसर्वनाम्नाम्"(५।३। ७१) इत्यकच्, "जसः शी" ७।१।१७, "आद्()गुणः" ६।१।८४, पूर्ववदुत्वमत्वे अमुके इति स्थिते परत्र चात्रशब्दे "एङः पदान्तादति" ६।१।१०५ इति पूर्वरूपत्वम्।
बाल-मनोरमा
अदसो मात् १०२, १।१।१२

अदसो मात्। "अदस" इत्यवयवषष्ठी। अदश्शब्दावयवान्मकारादित्यर्थः। "ईदू"दिति "प्रगृह्र"मिति चानुवर्तते। "मा"दिति दिग्योगे पञ्चमी। परसभ्दोऽध्याहार्यः। तदाह--अस्मात्पराविति। अदश्शब्दावयवमकारात्परावित्यर्थः। "ए"दिति नानुवर्तते, अदश्शब्दे मकारात्परस्यैकारस्याऽसंभवात्। "द्विवचन"मित्यपि नानुवर्तते, अदश्शब्दे मकारात्परस्य ईकारस्य "अमी" इति बहुवचनत्वात्, ऊकारस्य च मकारात्परस्य तत्र द्विवचनान्तेष्वेव सत्त्वेन व्यावर्त्त्याऽभावात्। अमी ईशा इति। अदश्शब्दाज्जसि त्यदाद्यत्वं पररूपत्वं। जसश्शी। आद्गुणः। "अदे" इति स्थिते एकारस्य "एत ई"दिति ईत्त्वं, दस्य च मत्त्वम्। तदेवम्-"अमी"#इति रूपम्। अत्र ईकारस्य द्विवचनत्वा।ञभावात्पूर्वसूत्रेण प्रगृह्रसंज्ञा न प्राप्तेत्यनेन सा विधीयते। रामकृष्णावमू इति। पुँल्लिङ्गाददश्शब्दात्प्रथमाद्विवचने औङि, त्यदाद्यत्वं, पररूपत्वं। वृद्धिरेचि। अदौ इति स्थिते, अदसोऽसेरित्यौकारस्य ऊत्वं, दस्य मत्वम्। अमू इति रूपम्। यद्यप्ययमूकारो द्विवचनं भवति, तथापि पूर्वसूत्रेण प्रगृह्रत्वे कर्तव्ये उत्वमत्वयोरसिद्धतया दकारादौकारस्यैव शास्त्रदृष्ट()आ सत्त्वात्पूर्वस#ऊत्रेण तस्य प्रगृह्रत्वं न प्राप्तमित्यनेन विधीयते। "अदसो मा"दिति सूत्रं प्रति तु उत्वमत्वे नासिद्धे, आरम्भसामथ्र्यात्। पूर्वसूत्रस्य तु तत्र न सामथ्र्यं, हरी एतौ, विष्णू इमावित्यादौ चरितार्थत्वात्। "स्त्रियौ फले वा अमू आसाते" इति स्त्रीलिङ्गो नपुंसकलिङ्गश्च अदश्शब्दो नात्रोदाहरणम्। तथाहि स्त्रीलिङ्गददश्शब्दादौङि, त्यदाद्यत्वे, पररूपत्वे, टापि, "ओङ आप" इति शीभावे, आद्गुणे, उत्वमत्वयोरमू इत्येव रूपम्। तथा नपुंसलिङ्गात्तस्मादौङि, त्यदाद्यत्वे, पररूपत्वे, नपुंसकाच्चेति शीभावे, आद्गुणे, उत्वमत्वयोरमू #इत्येव रूपम्। अत्र पूर्वसूत्रेणैव प्रगृह्रत्वं सिद्धम्। उत्वमत्वयोरसिद्धत्वेऽप्येकारस्य द्विवचनस्य सत्त्वात्। अतः पुँल्लिङ्ग एव अदश्शब्दोऽत्रोदाहरणमिति प्रदर्शयितुं "रामकृष्णा" वित्युक्तम्। मात्किमिति। "अदस" इत्येव सूत्रमस्तु, माद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः। अमुकेत्रेति "अव्ययसर्वनाम्नामकच् प्राक्टेः" #इत्यकचि अदकश्शब्दाज्जसि, त्यदाद्यत्वं, पररूपत्वम्, जसश्शी, आद्गुणः उत्वमत्वे। "अमुके" इति रूपम्। अत्र एकारस्य प्रगृह्रत्वनिवृत्त्यर्थं माद्ग्रहणम्। कृते च तस्मिन्नेकारस्य म#आत्परत्वाऽभावान्न प्रगृह्रत्वमिति भावः। नन्वेवमपि माद्ग्रहणं व्यर्थम्, एद्ग्रहणमननुवर्त्त्य ईदूतोरेवाऽत्र प्रगृह्रत्वविधानाब्युपगमेन "अमुके" इत्यत्र प्रगृह्रत्वप्रसक्तेरेवाऽभावादित्यत आह--असतीति। "अदसो मा"दित्यत्र ईदूदेतामेकसमासपदोपात्तानां मध्ये ईदूतोद्र्वयोरनुवृत्तौ एतोऽप्यनुवृत्तिप्रसक्तौ माद्ग्रहणादेतोऽनुवृत्तिः प्रतिबद्धा। माद्ग्रहणाऽभावे तु बाधकाऽभावादेतोऽप्यनुवृत्तिः स्यात्। ततश्च "अमुके" इत्यत्रापि एकारस्य प्रगृह्रत्वप्रसक्तौ तन्निवृत्त्यर्थं माद्ग्रहणम्। कृते तु तस्मिन्नेतोऽनुवृत्तिप्रतिबन्धादमुके इत्यत्र न प्रगृह्रत्वम्। तथाच एकाराननुवृत्तिफलसकं माद्ग्रहणमिति भावः।

तत्त्व-बोधिनी
अदसो मात् ८२, १।१।१२

अदसो मात्। इह एकारो नानुवर्तते, असंभवादित्यभिप्रेत्याह-ईदूताविति। अदसः किम्?। शम्यत्र, वाम्यत्र। ननूकारानुवृत्तिव्र्यर्था, "स्त्रियौ फले वा अमू आसाते" इत्यत्र पूर्वेणैव सिद्धेः। मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वादत आह--रामकृष्णाविति। पुंसि पूर्वेण न सिध्द्यति, औकारान्तत्वादिति भावः। "अदसो मा"दिति सूत्रं प्रति मूत्वमीत्वं च नाऽसिद्धम्, आरम्भसामथ्र्यात्। अमुकेऽत्रेति। स्त्रीलिङ्गद्विवचनस्य तु पूर्वसूत्रेण प्रगृह्रत्वे प्रकृतिभाव एव। अमुकेऽत्र। एकारोऽप्यनुवर्तेतेति। तथाच एकाराननुवृत्तितात्पर्यग्रहफलकं माद्ध्रहणमिति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ शे १।१ प्रगृह्यम् १।१ ११

अर्थः॥

शे इति लुप्तप्रथमान्तः निर्देशः {सुपां सुलुक्॰ (७।१।३९)} इत्यनेन छान्दसः आदेशः गृह्यते। शे इत्यस्य प्रगृह्यसंज्ञा भवति।

उदाहरणम्॥

अस्मे इन्द्राबृहस्पती (ऋ॰ ४।४९।४), युष्मे इति, अस्मे इति॥
काशिका-वृत्तिः
शे १।१।१३

शे इत्येतत् प्रगृह्यसंज्ञं भवति। किमिदं शे इति? सुपाम् आदेशश् छन्दसि। न युष्मे वाजबन्धवः। अस्मे इन्द्राबृहस्पती। युष्मे इति। अस्मे इति। त्वे रायः। मे रायः। त्वे इति। मे इति। छान्दसम् एतदेवैकम् उदाहरणम् अस्मे इन्द्राबृहस्पती इति। तत्र तथा पाठात्। इतरत् तु लौकिकम् अनुकरणम् युश्मे इति, अस्मे इति, त्वे इति, मे इति।
न्यासः
शे। , १।१।१३

"शे" इति। शेश्रुतेरविशिष्टत्वात् काशे कुशे इत्यत्र यः शेशब्दस्तस्यापि ग्रहणं प्राप्नोति, अतो विशेषो वक्तव्य इत्यभिप्रायेणाह- "किमिदं शे" इति। "सुपाम्ित्यादि। यस्तु काशकुशशब्दाभ्यां सप्तम्येकवचने च कृते आद्गुणे ६।१।८४ च शेशब्दः सम्पद्यते, तस्येह ग्रहणं न भवति; लाक्षमिकत्वादिति भावः। "युष्मे, अस्मे" इति। षष्ठीबहुवचनस्य "सुपां सुलुक्" ७।१।३९ इत्यादिना शेशब्दादेशः, "शेषे लोपः"७।२।९० अथ वा- प्रथमाबहुवचनस्यैव शेभावः, छान्दसत्वात् "यूयवयौ जसि" ७।२।९३ इत्येतन्न प्रवर्तते। "त्वे इति, मे इति"। सप्तम्येकवचनस्य पञ्चम्येकवचनस्य च शेभावः। "त्वमा- वेकवचने" ७।२।९७ इति युष्मदस्मदोस्त्वमावादेशौ। "इतरत् तु लौकिकमनुकरणम्" इति। यदा "युष्मे इति" एवमादिकं तदा लौकिकमनुकरणमिति भावः। यदा "युष्मे", "अस्मे" इत्याददीनां वेदवाक्यस्थानामर्थाद्वयवच्छिद्य स्वरूपेऽवस्थानार्थं पदकारैरितिकरणोऽध्या- ह्यियते, तदा "युष्मे इति", "अस्मे इति" एवमादिकमुदाहरणमिति भवति। इतरत् तु लौकिकम नुकरणमित्युक्ते "न युष्मे वाजबन्धवः" (ऋ।८।६९।१९), "त्वे रायः" (तै।सं।१।२।५।२), "मे रायः" (वा।सं।४।२२) इत्येतेष्वपि वेदवाक्येषु यत् "युष्मे" इत्यादिशेशब्दान्तं शब्दरूपम्, तत् स्वरूपेण दर्शयितुमाह- "युष्मे इति, अस्मे इति, त्वे इति, मे इति"। यद्येववं किमर्थं "न युष्मे वाजबन्धवः" )ऋ ८।६९।१९) इत्यादीनामुपन्यासः? एषु वेदवाक्येषु ये "युष्मे" इत्यादयः शब्दाः, तेषामेतान्यनुकरणनीति प्रदर्शनार्थः; अन्यथा हि ज्ञायते कस्यैतान्यतनुकरणनीति॥
बाल-मनोरमा
शे १०३, १।१।१३

शे। एकपदं सूत्रम्। "प्रगृह्र"मित्यनुवर्तते। छन्दसीत्यनुवृत्तौ "सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड()आयाजालः" इति विहितः "शे" इत्येकारान्त आदेशः प्रगृह्रः स्यादित्यर्थः। तदाह--अयमिति। "शे" आदेशे इत्यर्थः। अस्मे इति। अस्मभ्यमित्यर्थः। भ्यसः शे-आदेशः, "लशक्वतद्धिते" इति शकार इत्। "शेषे लोपः"। अस्मे इति रूपम्। अद्विवचनत्वादप्राप्तौ वचनम्। यद्यपि छान्दसमिदं बैदिकप्रक्रियायामेव निबन्ध्यं, तथापि "अस्मे इति" "त्वे इति" इत्याद्यवग्रहे लोकार्थत्वस्यापि सत्त्वादिह तन्निबन्धनम् , पदपाठस्याधुनिकत्वात्।

तत्त्व-बोधिनी
शे ८३, १।१।१३

शे इति। छान्दसमपीदं सन्दर्भशुध्द्यर्थमुक्तामित्याहुः। अस्मे इति। अस्मभ्यमित्यर्थः। "सुपां सुलु"गिति भ्यसः शेआदेशः। "शेषे लोपः"।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ निपातः १।१ १५ एकाच् १।१ अनाङ् १।१ प्रगृह्यम् १।१ ११

समासः॥

एकश्च असौ अच्च एकाच् कर्मधारयसमासः।
न आङ् अनाङ् नञ्तत्पुरुषः

अर्थः॥

एकाच् यः निपातः, तस्य प्रगृह्यसंज्ञा भवति, आङं वर्जयित्वा।

उदाहरणम्॥

अ अपेहि, अ उपक्राम। इ इन्द्रं पश्य। उ उत्तिष्ठ॥
काशिका-वृत्तिः
निपात एकाजनाङ् १।१।१४

एकश्च असावच्च एकाच्, निपातो य एकाचाङ्वर्जितः स प्रगृह्यसंज्ञो भवति। अ अपेहि। इ इन्द्रं पश्य। उ उत्तिश्ठ। आ एवं नु मन्यसे। आ एवं किल तत्। निपातः इति किम्? चकारत्र। जहारात्र। एकाचिति किम्? प्राग्नये वाचमीरय। अनाङिति किम्? आ उदकान्तात्, ओदकान्तात्। ईषदर्थे त्रियायोगे मर्याऽदाभिविधौ च यः। एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित्।
लघु-सिद्धान्त-कौमुदी
निपात एकाजनाङ् ५५, १।१।१४

एकोऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः॥अवाक्यस्मरणयोरङित्; आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम्॥
न्यासः
निपात एकाजनाङ्। , १।१।१४

एकाजिति बहुव्रीहिर्वाऽयं स्यात्,कर्मधारयो वा? यदि बहुव्रीहिः, प्रशब्द- स्यापि प्रगृह्रसञ्ज्ञा स्यात्। ततश्च "प्रोपाभ्याम्" १।३।४२ इति निर्देशो नोपप- द्येत, प्राग्नय इति च प्रत्युदाहरणम्। तस्मात् कर्मधारयोऽयमिति मनसि कृत्वाह- "एकश्चासावच्छेत्येकाच्" इति। "अ अपेहि" इत्यादीनि त्रीणि च्छान्दसान्युदाहरणानि; इतरत् तु लौकिकम्। तत्र "आ एवं नु मन्यसे" इत्यत्राकारो वाक्यापरिपूरणार्थः। "आ एवं किल तत्" इत्यत्र तु स्मरणार्थः। "चकारात्र" इति। करोतेर्लिट्। "परस्मैपदानाम्" ३।४।८२ इत्यादिना तिपो णल्, वृद्धिः, रपरत्वम्। "द्वर्वचनेऽचि" १।१।५८ इति स्थानिवद्भावेन द्विर्वचनम्। उरत्त्वम् ७।४।६६। "कुहोश्चुः" ७।४।६२ इति चुत्वम्। भवत्ययं णलकार एकाच्, न तु निपातः। "प्राग्नये" इति। प्रशब्दो भवति निपातः, न त्वेकाच्। तेन "प्लुतप्रगृह्रा अचि" ६।१।१२१ इति प्रकृतिभावो न भवति। "अकः सवर्णे" ६।१।९७ इति दीर्घत्वं तु भवत्येव। आकारोऽत्र हि ङिद्विशिष्ट उपात्तः, तस्य न ज्ञायते- क्व च ङित्त्वम्, क्व च नेति। अतो ङित्त्वाङित्त्वयोर्विषयविभागप्रदर्शनार्थमाह- "ईषदर्थे" इत्यादि। तत्रेषदर्थे-आ-उष्णम्- ओष्णमिति।ईषदुष्णमित्यर्थः। क्रियायोगे उपसर्गसञ्ज्ञायां ङिद्विशिष्ट एव पठ()ते। प्रपरापसमन्ववनिर्दुव्र्याङन्यधयोऽप्यतिसूदभयश्च। प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र॥ इति। आ इहि- एहि। आ अत्ति= आत्ति। मर्यादाभिविध्योरपि ङिद्विशिष्ट एव पठ()ते, "आह मर्यादाभिविध्योः" (२।११३) इति। मर्यादा= ,सीमा; अवधिः। आ उदकान्तात्= ओदकान्तात् प्रियं प्रोधमनुव्रजेत्। अभिविधिः = अभिव्याप्तिः। आ अहिच्छत्रात्, आहिच्छत्रं वृष्टो देवः। अहिच्छत्रं गृहीत्वा वृष्टो देव इत्यर्थः। ङिद्विशिष्टस्य "अनाङ" इति प्रगृह्रसञ्ज्ञाप्रतिषेधात् स्वरसन्धिर्भवति। अथ "एतमातम्" इत्यत्रैतदः "द्वितोयाटौस्त्वेनः" (२।४।३५) इत्येनादेशः कस्मान्न भवति? "अन्वादेशे" इति तत्रानुवत्र्तते। अस्ति चेहान्वादेश इत्यस्ति प्राप्तिः? यथा न भवति तथा तत्रैव प्रकरणे वृत्तिकारः स्वयमेव वक्ष्यतीति(का।१६२) पुनरिह नोच्यते। "आतम्" इति। आकारे तकारो मुखसुखार्थः। ये तु पुरेतमाङमिति ङकारसहितमाकारं पठन्ति तेषां ङितं विद्यादिति वचनमनर्थकं स्यात्; ङकारसहितस्य पाठादेव ङित्त्वविज्ञानात्। तस्मात् तकारपर एवायमाकारः पठितव्यः। " वाक्यस्मरणयोः" इति। वाक्यशब्देन वाक्यार्थ उक्तः; अबिधेयेऽभिधानोपचारात्। प्रक्रान्तं हि वाक्यार्थं किञ्चिदपेक्ष्येदं प्रयुज्यते- "आ एवं नु मन्यसे" इति। एवमयं वाक्यार्थो विज्ञायत इत्य्रथः। पूर्वप्रक्रान्तवाक्यार्थप्रदर्शनपरोऽयमाकारः प्रयुक्तः। अथ वा- पूर्वप्रक्रान्तवाक्यार्थस्यान्यथाकरणमिदं प्रयुज्यते, "आ एवं नु मन्यसे" इति, नैवं पूर्वममंस्थाः, सम्प्रति त्वेवं मन्यस इति। अथ वा- वाक्याशब्देन वाक्यमेवोच्यते, वाक्यावयवो निरर्थक एवाकारः प्रयुज्यत इति। स्मरणं स्मृतिः, तत्र य आकारो वत्र्तते स्मृतिसूचकः,स ङिन्न भवति। "आ एवं किल तत्", एवमिदं विज्ञातमित्यर्थः। ज्ञातं स्मृतमेव। अथ वा- स्मत्र्तव्यार्थविषयः पूर्वमाकारः प्रयुज्यते। "आ" इति स्मतेरुत्तरकालमर्थ आख्यायते। "आ" इत्येतस्यैवं किल तदिति भवत्ययमर्थ इत्यर्थः। वाक्यस्मरणयोराकारस्य प्रगृह्रसञ्ज्ञास्त्येवेति "प्लुतप्रगृह्रा अचि" ६।१।१२१ इति प्रकृतिभावः। तेन "वृद्धिरेचि" ६।१।८५ इति वृद्धिर्न भवति।
बाल-मनोरमा
निपात एकाजनाङ् १०४, १।१।१४

निपात एकाच्। "प्रगृह्र"मित्यनुवर्तते, पुँल्लिङ्गतया च विपरिणम्यते। एकाश्चासावच्चेति कर्मधारयः। तदाह--एकोऽजित्यादिना। इ विस्मये इति। इ इति चादित्वान्निपातः। स च आश्चर्ये वर्तत इत्यर्थः। इ इन्द्रः। उ उमेशः। इ इति उ इति निपातः। सम्बोधने उभयोरपि एकाच्त्वान्निपातत्वाच्च प्रगृह्रत्वान्न सन्धिः। "अना"ङित्यत्र ङकारानुबन्धस्य प्रयोजनमाह - अनाङित्युक्तेरिति। आ एवमिति। पूर्व प्रक्रान्तवाक्यार्थस्याऽन्यथात्वद्योतकोऽयमाकारः। पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः। आ एवमिति। स्मरणद्योतकोऽयमाकारः। इहोभयत्रापि आकारस्य ङित्त्वाऽभावान्न पर्युदासः। ङित्त्विति। ङित्तु आकारः प्रगृह्रो न भवति, अनाङिति पर्युदासादित्यर्थः। ओष्णमिति। आ-उष्णमित्यत्र आकारस्य ङित्त्वात्प्रगृह्रत्वाऽभावे सति आद्गुणः। ननु प्रयोगदशायां ङकारस्याऽश्रवणाविशेषान्ङिदङिद्विवेकः कथमित्यत आह-वाक्येति। प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे च अङित्। अन्यत्र=ईषदाद्यर्थे गम्ये, ङिदिति विवेकः--भेदोऽवगन्तव्य इत्यर्थः।

तथाच भाष्यम्-"ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातांङितं विद्याद्वाक्यस्मरणयोरङित्॥" इति॥ "एकोऽच् यस्ये"ति बहुव्रीहिस्तु नाश्रितः, तथा सति "प्रेद"मित्यादाबतिप्रसङ्गात्।

तत्त्व-बोधिनी
निपात एकाजनाङ् ८४, १।१।१४

निपात एकाच्। निपातः किम्?। अततेर्डः। अः। "हे अ आगच्छ"। अत्र प्रगृह्रसंज्ञा मा भूत्। एकग्रहणाऽभावे "येन विधि"रिति सूत्रात्तदन्तलाभे "प्रेद"मित्यत्र स्यादत उक्तम्--एक इति। "एका"जिति तु न बहुव्रीहिः, उक्तातिप्रसङ्गतादवस्थ्यात्। अतः "पूर्वकालैके"ति कर्मधारय एव। ननु "निपातोऽना"तित्युक्ते हलन्तस्य सत्यपि प्रगृह्रत्वे प्रयोजनाऽभावादजन्ते प्राप्ते अज्ग्रहणसामथ्र्यादज्रूपस्यैव निपातस्य प्रगृह्रत्वे सिद्धे किमेकग्रहणेन?। न च "पुरोऽस्ती"त्यादौ हलन्तस्य संज्ञायां सत्यां प्रकृतिभावादतो रोरितिरोरुत्वं न स्यादतोऽज्ग्रहणसामथ्र्यमुपक्षीणमित्येकग्रहणमावश्यकमिति वाच्यम्; प्रगृह्रसंज्ञां प्रति रुत्वस्याऽसिद्धतया रेफान्त[स्यैत]स्य प्रगृह्रसंज्ञाऽभावेन दोषाऽप्रसक्तेः। न च सान्तस्य कृता प्रगृह्रसंज्ञा एकदेशविकृतन्यायेन रेफान्तस्यापि स्यादेवेति प्रकृतिभावादुत्वाऽभावप्रसङ्गस्तदवस्थ इति वाच्यम्; प्रगृह्रसंज्ञां प्रतीव प्रकृतिभावं प्रत्यपि रुत्वस्याऽसिद्धत्वात्प्रकृतिभावाऽप्रवृत्तेः। सकारान्तस्य तु न किंचिदपि सिद्धकाण्डस्थं प्रयोजनं प्राप्नोति यत्प्रकृतिभावेन व्यावर्त्त्येत। न चाज्ग्रहणसामथ्र्यादजन्तस्यैव प्र परा अपेत्यादिनिपातस्य प्रगृह्रसंज्ञा स्यान्न त्वज्रूपनिपातस्यैति वैपरीत्यशङ्कानिवारणार्थमेकग्रहणमिति वाच्यम्; अनाङ्ग्रहणवैयथ्र्यापत्तेः , "व्याहरति मृग" इत्यादिनिर्देशविरोधाच्चोक्तशङ्काया अप्रवृत्तेः। किंच "निपातोऽजना"ङित्युक्तेऽप्यनाङिति प्रतिषेधसामथ्र्यान्निपातस्य विशेषणत्वाभ्युपगमे तदन्तविध्यप्रवृत्त्या निपातरूपो योऽच्स प्रगृह्र इत्यर्थलाभादज्रूपस्यैव निपातस्य प्रगृह्रत्वं सिद्धमिति नास्त्येव प्रयोजनमेकग्रहणस्य। नन्वेवमपि समुदायनिवृत्त्यर्थमेकग्रहणमावश्यकमेव। अन्यथा "ऐउ अपेही"त्यत्रैकाज्द्विर्वचनन्यायेन समुदायस्यैव संज्ञा स्यान्नाऽवयवानामिति चरमस्यैव प्रकृतिभावः स्यान्न तु पूर्वयोरिति चेन्न; "अ"जित्येकत्वस्य विवक्षयैव समुदायनिराससंभवात्समुदायसंज्ञयाऽवयवानामननुग्रहेणैकाज्द्विर्वचनन्यायस्याऽप्यप्रवृत्तेः। एकस्मिन्निपाते संज्ञाविधानसंभवेन निपातसमुदायस्य निपातग्रहणेनाऽग्रहणाच्च। अत्राहुर्भाष्यकाराः-"अच्समुदायग्रहणशङ्कनिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति वर्णग्रहणेषु व्यक्तिसङ्ख्या न विवक्ष्यते किंतु जातिरेव निर्दिश्यते" इति। तेन "हलन्ताच्चे"ति सनः कित्त्वात् "दम्भ इच्चे"तीत्त्वे "धिप्सती"त्यादि सिद्धम्। हल्ग्रहणस्य व्यक्तिपरत्वे तु योऽत्रेकः समीपो हल् नकारो, न ततः परः सन्, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात्, ततश्च नलोपो न स्यात्। वस्तुतस्तु अपृक्तसंज्ञायामेकग्रहणमुक्तार्थज्ञापकमित्याश्रित्य प्रकृतसूत्रे एकाज्ग्रहणं त्यक्तुं शक्यम्।?त #एव मनोरमायामनाङिति पर्युदासादेवाऽज्रूषनिपाते लब्धे निपातग्रहणमुत्तरार्थं सत्स्पष्टप्रतिपत्त्यर्थमिहैव कृतमिति निपातग्रहणस्यैव प्रयोजनमुक्तं न त्वेकाज्ग्रहणस्य। अत्र नव्याः--यदुक्तं मनोरमायाम्-"अनाङिति पर्युदासा"दित्यादि, तच्चिन्त्यम्, "ओत्"सूत्रे भाष्यकारैः प्सज्यप्रतिषेधस्यैवाङ्गीकृतत्वात्। नच लभ्यभेदाऽभावात्प्रौढिवादमात्रं भाष्यमिति वाच्यम्;-अस्मादेव भाष्यवचनाल्लक्ष्यभेदोऽप्सतीति सुवचत्वात्। तथाहि-अततेर्डः-अः। "अकारो वासुदेवः स्या"दिति वचनाद्रूढिशब्दो वा। अनेन "अ" शब्देन सह "अङ्भर्यादाभिविध्योः" इति आङोऽव्ययीभावे सवर्णदीर्घे "अव्ययीभावश्चे"ति नपुंसकत्वाद्ध्रस्वत्वे सोरम्यमि पूर्वे च कृते "अ"मिति रूपं भाष्यकृत्संमतम्। तथा इणो निष्ठायामितः, वेञस्तु निष्ठायां संप्रसारणे उतः। अम् इतः-एतः, अम् उतः-ओतः" इत्यासमुद्रक्षिति-वत्समासे रूपं च तत्संमतम्। तत्र पर्युदासपक्षे अमि पूर्वो गुणश्च न सिध्यति। अशब्दस्याङ्()भिन्नत्वात्स्थानिवद्भावेन निपातत्वाच्च प्रगृह्रत्वात्। प्रसज्यप्रतिषेधाश्रये तु सिध्यति, तस्याङ्()त्वेन प्रगृह्रत्वनिषेधात्। न चैतादृशप्रयोगोऽप्रामाणिक इति वक्तुं युक्तम्, प्रकृतभाष्यस्यैव प्रमाणत्वात्। अन्यथा हि भाष्यकारेङ्गितमात्रावलम्बनेन तत्र प्राचां ग्रन्थानामधिक्षेपाय भवतां प्रवृत्तयो व्याहन्योरन्नित्याद्याहुः। आङ्वर्ज इति। प्रतिषेधपक्षे तु प्रगृह्रः स्यादित्येतदुत्तरमिदं द्रष्टम्। वज्र्यत इति वर्जः। वृजेण्र्यन्तात्कर्मणि घञ्। वर्जनीय इत्यर्थः। आङो न भवतीति यावत्। आ एवमिति। पूर्वप्रक्रान्तवाक्यार्थस्य अन्यथात्वद्योतकोऽयमाकारः। पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः। आ एवं किलेति। स्मरणद्योतकोऽयमाकारः। वाक्यस्मरणयोरित्यादि। अत्रायमाशयः-"ईषदर्थे क्रियायोगेमर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्।" इति भाष्यस्याऽङिल्लक्षण एव तात्पर्यं, लाघवात्। अन्यस्य ङित्त्वं त्वर्थसिद्धम्। "ईषदर्थ#ए-"इत्यादिस्त्वेकदेशानुवादः। एवंच "अभ्र आँ अप"इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्त्वात् "आङोऽनुनासिकश्छन्दसी"ति प्रवर्तत इति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ ओत् १।१ १६ निपातः १।१ १४ प्रगृह्यम् १।१ ११

अर्थः॥

ओदन्तः निपातः प्रगृह्यसंज्ञकः भवति।

उदाहरणम्॥

आहो इति, उताहो इति। नो इदानीम्। अथो इति। अहो अधुना।
काशिका-वृत्तिः
ओत् १।१।१५

निपातः इति वर्तते। तस्यौकारेण तदन्तविधिः। ओदन्तो यो निपातः स प्रगृह्यसंज्ञो भवति। आहो इति। उताहो इति।
लघु-सिद्धान्त-कौमुदी
ओत् ५६, १।१।१५

ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥
न्यासः
ओत्। , १।१।१५

बाल-मनोरमा
ओत् १०५, १।१।१५

ओत्। "निपात" इत्यनुवर्तते। "ओ"दिति तस्य विशेषणमतस्तदन्तविधिः। "प्रगृह्र"मित्यनुवर्तते, पुँल्लिङ्गतया च विपरिणम्यते, तदाह--ओदन्त इत्यादिना। अहो ईशा इति। अनेकाच्त्वात्पूर्वसूत्रेणाऽप्राप्तौ वचनम्।

तत्त्व-बोधिनी
ओत् ८५, १।१।१५

ओत्। निपात इति किम्?। देवोऽसि, वायवायाहि।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ सम्बुद्धौ ७।१ ओत् १।१ १५ शाकल्यस्य ६।१ १७ इतौ ७।१ १७ अनार्षे ७।१ १७ प्रगृह्यम् १।१ ११

समासः॥

न आर्षः, अनार्षः, तस्मिन् अनार्षे, नञ्तत्पुरुषसमासः

अर्थः॥

सम्बुद्धि-निमित्तकः यः ओकारः, तस्य प्रगृह्यसंज्ञा भवति, शाकल्यस्य आचार्यस्य मतेन, अनार्षे (अवैदिके) इतौ परतः॥ शाकल्यस्य आचार्यस्य मतेन प्रगृह्यसंज्ञा भविश्यति, अन्येषाम् आचार्याणां मतेन न भविष्यति। तेन शाकल्यग्रहणेन विकल्पः अपि सिध्यति॥

उदाहरणम्॥

(शाकल्यमते) वायो इति, (अन्येषां मते) वायविति। भानो इति, भानविति। अध्वर्यो इति, अध्वर्यविति॥
काशिका-वृत्तिः
सम्बुद्धौ शाकल्यस्यैतावनार्षे १।१।१६

ओतिति वर्तते। सम्बुद्धिनिमित्तो य ओकारः स शाकल्यस्य आचार्यसय् मतेन प्नगृह्यसंज्ञो भवति, इतिशब्दे अनार्षे अवैदिके परतः। वायो इति, वायविति। भानो इति, भानविति। सम्बुद्धौ इति किम्? गवित्ययमाह। अत्र अनुकार्यानुकरणयोः भेदस्य अविवक्षितत्वात्, असत्यर्थवत्त्वे विभक्तिर्न भवति। शाकल्यग्रहणं विभाषाऽर्थम्। इतौ इति किम्? वायो ऽत्र। अनार्षे इति किम्? एता गा ब्रहमबन्ध इत्यब्रवीत्।
लघु-सिद्धान्त-कौमुदी
सम्बुद्धौ शाकल्यस्येतावनार्षे ५७, १।१।१६

सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥
न्यासः
सम्बुद्धौ शाकस्येतावनार्षे। , १।१।१६

"सम्बुद्धिनिमित्तः" इति। सम्बुद्धिर्निमित्तं यस्य स तथोक्तः। एतेन "सम्बुद्धौ" इत्यस्य निमित्तसप्तमीत्वं दर्शयति। परसप्तम्यां त्वस्याम् "हे त्रपो" इत्यत्र न स्यात्, "स्वमोर्नपुंसकात्" ७।१।२३ इति सम्बुद्धेर्लुप्तत्वादिति भावः। "सम्बुद्धौ च" ७।३।१०६ इति वत्र्तमाने "ह्यस्वस्य गुणः" ७।३।१०८ इत्यनेन यो गुणो विधीयते, स सम्बुद्धिनिमित्तः, तस्य सम्बुद्धिनिमित्तत्वमुपादाय विहितत्वात्। "गवित्ययमाह" इति। केनचिद् गौरिति वक्तव्ये शक्तिवैकल्याद् "गो" इत्युक्तम्, तमन्यो यदानुकरोति, तत्रैतत् प्रत्युदाहरणम्। ननु चानुकार्येणार्थेनार्थवत्त्वात् प्रतिपदिकत्वे सति विभक्त्यात्र भवितव्यमित्यत आह- "अत्र" इत्यादि। अत्रानुक्रियमाणस्यानुकरणस्य यदि भेदो विवक्ष्यते, ततोऽर्थवत्तायां सत्यां स्याद्विभक्तिः, स तु न विवक्ष्यत इति कुतस्तस्याः प्रसङ्गः? न हीह शब्दशास्त्रे वस्तुनः सत्तैव शब्- संस्कारस्य प्रधानं कारणम्, किं तर्हि, विवक्षा च। सा चेह नास्ति। "शाकल्यग्रहणं विभाषार्थम्" इति। एतेन पूजार्थताशङ्कां निरस्यति। यदि हि पूजार्थमेव तत् स्यात्, विकल्पो न भवेदिति भावः॥
बाल-मनोरमा
संबुद्धौ शाकल्यस्येतावनार्षे १०६, १।१।१६

संबुद्धौ शाकल्यस्येति। सम्बुद्धाविति निमित्तसप्तमी, ओदित्यनुवृत्तेन सहाऽन्वेति। "प्रगृह्र"मित्यनुवर्तते, स च पुँल्लिङ्गतया विपरिणम्यते। ऋषिः=वेदः। "तदुक्तमृषिणे"त्यादौ तथा दर्शनात्। ऋषौ भवः--आर्षः, न आर्षः-अनार्षः। अवैदिके इतिशब्दे परत इत्यर्थः। शाकल्यग्रहणाद्विकल्पस्तदाह--संबुद्धिनिमित्तक इति। विष्णो इतीति। अत्र ओकारो "ह्यस्वस्य गुण" इति सम्बुद्धिनिमित्तकः। अत्र ओदन्तत्वेऽपि निपातत्वाऽभावादप्राप्ते विभाषेयम्। "विष्ण"वितीति प्रगृह्रत्वाऽभावे रूपम्।

तत्त्व-बोधिनी
संबुद्धौ शाक्ल्यस्यैतावनार्षे ८६, १।१।१६

संबुद्धौ। ऋषिर्वेदः "तदुक्तमृषिणा" इत्यादौ तथा दर्शनादित्याभिप्रेत्याह-अवैदिक इति। संबुद्धौ किम्?। अहो इति। अत्र परत्वाद्विकल्पो मा भूत्। न च "ओ"दिति सूत्रस्य निरवकाशत्वं शङ्क्यम् , "अहो ईशा" इत्यादौ तस्य सावकाशत्वात्। इताविति किम्?। पटोऽत्र।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ उञः ६।१ ऊँ १।१ शाकल्यस्य ६।१ १६ इतौ ७।१ १६ अनार्षे ७।१ १६ प्रगृह्यम् १।१ ११

अर्थः॥

उञः प्रगृह्यसंज्ञा भवति, तस्य स्थाने ऊँ-आदेशः च प्रगृह्यसंज्ञकः भवति, शाकल्यस्य आचार्यस्य मतेन, अनार्षे इतौ परतः।

उदाहरणम्॥

उ इति। विति। ऊँ इति॥
काशिका-वृत्तिः
उञः १।१।१७

शाकल्यस्यैतौ अनार्षे इति वर्तते। उञः प्रगृह्यसंज्ञा भवति इतौ शाकल्यस्य आचार्यस्य मतेन। शाकल्यस्य इति विभाषार्थम्। उ इति, विति।
काशिका-वृत्तिः
ऊं १।१।१८

उञः इति वर्तते। उञः इतावनार्षे ऊं इत्ययमादेशो भवति दीर्घो ऽनुनासिकश्च, शाक्ल्यस्य मतेन प्रगृह्यसंज्ञकश्च। शाकल्यस्य ग्रहणं विभाषाऽर्थम् इह अप्यनुवर्तते। तेन त्रीणि रूपाणि भवन्ति उ इति, विति, ऊं इति।
न्यासः
उञः। , १।१।१७

न्यासः
ऊँ। , १।१।१७

"तेन त्रीणि रूपाणि भवन्ति" इति शाकल्यग्रहणानुवृत्तेः फलं दर्शयति। यदि ह्रत्र शाकल्यग्रहणं नानुवत्र्तेत, तदा पूर्वसूत्रेण यस्मिन् पक्ष उञः प्रगृह्रसंज्ञा न विहिता तस्मिन्ननेनन नित्यम् "ऊँ" आदेशः स्यात्। तत "उ"इति, "ऊँ" इति च द्वे रूपे स्याताम्; न वितीति तृतीयम्। शाकल्यग्रहणानुवृत्तौ तु सत्यां यस्मिन् पक्षे पूर्वसूत्रेण प्रगृह्रसञ्ज्ञा उञो न कृता, तस्मिन्नेन ऊँ आदेशे विभाषा विहिते वितीति तृतीयं रूपं सिध्यति।
न्यासः
ईदूतौ च सप्तम्य्रथे। , १।१।१७

"अध्यस्यां मामकी तनू" इति। एतद् वेदवाक्यं वेदितव्यम्। अत्र "मामकी" "तनू" इति शब्दौ"सूपां सुलुक्" ७।१।३९ इति लुप्तसप्तमीकौ। तत्र यदा अर्थाद्वयव- च्छिद्य स्वरूपे व्यवस्थापनायेतिशब्दः प्रयुज्यते उदाहरणे- "मामकी"इति, "तनू" इति च। तथा स"सोमो गौरी" इत्येतदपि। मामक्यामित्यादेरुपन्यासः सप्तम्यर्थप्रदर्शनार्थः। "डादेशः" इति। सुपां सुलुगित्यादिना ७।१।३९। तत्रेतिशब्दे परतोऽकः सवर्णे दीर्घत्वं ६।१।९७ भवत्येव। "धीती" इत्यादि। "धीतिमतिसुष्टुतिशब्देभ्यः परस्य तृतीयैकवचनस् पूर्वसवर्णदीर्घत्वम्, लुग् वा। इतिशब्दे परतोऽकोऽत्रापि सवर्ण-दीर्घत्वं भवत्येव। धीत्येत्यादिना तृतीयार्थवृत्तितां दर्शयति। "वाप्याम()आः, नद्यामातिः" इति "सञ्ज्ञायाम्" २।१।४३ इति सप्तमीसमासः। अथार्थग्रहणे क्रियमाणेऽपि कस्मादेवात्र न भवति, अस्ति ह्रत्रापि सप्तम्यर्थः? नैतदस्ति, अर्थग्रहणसाम- थ्र्यात्। अर्थग्रहणे सति केवलो योऽसंसृष्टः सप्तम्यर्थः स इह गृह्रते। नैवंविधे समासे सप्तम्यर्थः सम्भवति; संविभिन्नोभयरूपत्वाद् वृत्तौ वर्त्तिपदार्थानाम्। एषोऽजहत्स्वार्थायां वृत्तौ परिहार उक्तः, जहत्स्वार्थायां तु तस्यां वाक्यावस्थायामुपसर्जनीभूतो योऽर्थः, तं शब्दो जहातीति सप्तम्यर्थो नास्त्येव। तेनार्थग्रहणे सति समासे प्रगृह्रसञ्ज्ञा न भवति। अथ तपकरणं किमर्थम्? प्लुतनिवृत्यर्थमिति चेत्, न ; असम्भवात्। न प्लुते हीकारोकारन्तं सतप्यमर्थ रूपं किञ्चिदस्ति, यद्वयावृत्तये तपकरणं क्रियते। गुणान्तरभिन्नानां तुल्यकालानां ग्रहणार्थमिति चेत्, न; अभेदकाच्छास्त्रे गुणानाम् इत्यत आह- "तपरकरणम्" इत्यादि। तपरत्वे ह्रसति यणादेशः स्यात्। ततश्च किमयं दीर्घः, उत ह्यस्व इति सन्देहः स्यात्, स मा भूदिति तपरत्वं क्रियते। "ईदूतौ सप्तमी" इत्यादि। ईदूतौ सप्तमीत्येतावदेव सूत्रमस्तु, किमर्थग्रहणेन? "लुप्तेऽर्थग्रहणाद् भवेत्" इह "सोमो गौरी अधिश्रितः"(ऋ ९।१२।३) इति लुप्ताय- मपि सप्तम्यां प्रगृह्रसञ्ज्ञा यथा स्यादित्येव मर्थग्रहणम्। अत्र हि सप्तम्या अभावात् प्रगृह्रसञ्ज्ञा न स्यात्र्थग्रहणात्? तु भवति, सप्तम्यर्थस्य विद्यमान- त्वात्। "पूर्वस्य चेत्सवर्णोऽसौ" इति। स्यादेतत्()- नैवात्र सप्तम्या लुक् क्रियते,किं तर्हि? "सुपां सुलुक्" ७।१।३९ इत्यादिना पूर्वसवर्णः ईकारः। तत्राकः सवर्णेदीर्घत्वे कृते तस्यान्तवद्भावे सति सप्तमीग्रहणेन ग्रहणादस्त्येव सप्तमी, ततो नार्थोऽर्थग्रहणेनेति। एतच्चायुक्तम्। एवं हि सति आडाम्भावः प्रसज्यते। यद्यत्र पूर्वसवर्णः स्यात्, तदा परत्वादक सवर्णदीर्घत्वं बाधित्वा "आण् नद्याः" ७।३।११२ इत्याटो भाव आपपद्यते, "ङेराम्नद्याम्नीभ्यः" ७।३।११६ इत्यामश्च। भावः प्रादुर्भावः, सत्ता वा। तस्मात् पूर्वल्लुगेव कर्तव्यः,ततश्चासत्यां सप्तम्यां प्रगृह्र- सञ्ज्ञा न स्यात्। तसमादर्थग्रहणं कत्र्तव्यम्? न कत्र्तव्यम्; यस्मात् सर्वत्रैव सप्तम्या लुका भवितव्यमिति न क्वचित् सप्तम्यस्ति। उच्यते चेदं वचनम्- "तत्र वचनसामथ्र्याल्लुप्तायामपि तस्यां भविष्यति"? नैतदस्ति; यथो वचनाद् यत्र दीर्घत्वम्, तत्र भविष्यति; यथा- "दृतिं न शुष्कं सरसी शयानम्" (ऋ।७।१०३।२) इति। अत्र सरः शब्दात् परस्याः सप्तम्या "इयाडियाजीकाराणाम्" (का।वा।८२०) इत्यस्मादुप- सङ्ख्यानात् "व्यत्ययो बहुलम्" ३।१।८५ इत्यतो वा दीर्घ ईकारे कृते सप्तमी श्रयूते; ततश्चात्र वचनस्य सावकाशत्वात् "सोमो गौरी अधिश्रितः"(ऋ।९।१२।३) इत्यत्र न स्यात्। "तत्रापि सरसी यदि" इति। यदि सरसीशब्दोऽस्ति तदात्रापि नैवावकाशः। अस्ति च सरसीशब्दः। तथा हि- गौरादिषु४।१।४१ "पिप्पल्यादयश्च" (ग।सू।४७) इति पाठात् पिप्पल्याद्यन्तःपातिनः सरः शब्दादीकारे कृते सरसीति रूपं सम्पद्यते तथा च दक्षिणापथे महान्ति सरांसि "सरस्य" इत्युच्यन्ते। सरसीशब्दस्य प्रगृह्रसञ्ज्ञायां प्रयोजनम्-तत उत्पनायायः सप्तम्या लुकि कृते इतिशब्दे चाध्याह्मते "सरसी" इत्यत्र स्वरसन्ध्य- भावः। तदेवं सरसीशब्दो विद्यत एवेति। "दृतिं न शुष्कं सरसी शयानम्" (ऋ।७।१०३।२) इत्यत्रापि सरसीशब्दो लुप्तसप्तमीक एव प्रयुक्तः तथा च तदेवावस्थितम्। वचनाद् भवि- ष्यतीति प्रत्याख्यातमर्थग्रहणम्। एवं तर्हि - ज्ञापकं स्यात्तदन्तत्वे "ईदूदेद्()- द्विवचनम्" १।१।११ इत्यत्र चत्वारः पक्षा आश्रीयन्ते। इदादयो हि द्विवचनेन विशिष्यन्ते-ईदादियद् द्विवचनमिति; ईदादिभिर्वा द्विवचनम् इति, ईदाद्यन्तं यद् द्विवचनमिति; द्विवचनप्रकृतिर्वोभाभ्याम्-द्विवचनान्तमीदाद्यन्तं यच् शब्दरूपमिति। इदादीभिर्वा द्विवचनं विशिष्य पश्चात् तेनेदन्तेन द्विवचनेन प्रकृतिः, ईदाद्यन्तं यद् द्विवचनमं शब्दरूपमितीदाद्यन्तं द्विवचनान्तमित्यर्थः। तत्र तृतीये पक्षे दोष उक्तः-"कुमार्योरगारं कुमार्यगारम्, व्दवोरगारं वध्वगारमम्" इत्यत्र प्रगृह्र- सञ्ज्ञा प्राप्नोति; एतदीदाद्यन्तं द्विवचनान्तं च भवति प्रत्ययलक्षणेनेति चतुर्थे पक्षेऽपि दोष उक्तः। अशुक्ले वस्त्रे शुक्ले सम्पद्येतां शुक्ल्यास्तां वस्त्रे इत्यत्र प्राप्नोति। शुक्लशब्दाच्()च्विप्रत्()ययान्तत् "नपुंसकाच्च्" ७।१।१९ इत्यौङः शीभावे कृते "अध्ययादाप्सुपः" २।४।८२ इति लुक्। एतद्धीदाद्यन्तं द्विवचननान्तं भवति प्रत्ययलक्षणेनेति। "तदन्तत्वे" इति अनेन तृतीयचतुर्थपक्षावुपलक्षयति। तदन्तत्वे तदन्तपक्षे तृतीये चतुर्थे च ज्ञापकं भवेदेतदर्थग्रहणम् इति। इह प्रगृह्रप्रकरणे प्रत्ययलोपलक्षणेन प्रगृह्रसञ्ज्ञा न भवतीति। यदि हि स्यादर्थग्रहणमनर्थकं स्यात्।एतावद् वक्तव्यम्- "ईदूतौ च सप्तमी" इति। सप्तम्या लुकि कृते प्रत्ययलक्षणेन सप्तमीसहचरितौ यावीदूतौ सप्तम्यां परतो वा यावीदूतौ तयोः प्रगृह्रसञ्ज्ञा भवेत्ये- तेति नार्थोऽर्थग्रहणेन। अर्थग्रहणाद्विज्ञायते- "प्रत्ययलक्षणेन प्रगृह्रसञ्ज्ञा न भवति" इति। तेन तदन्तपक्षद्वये यो दोषः उक्तः स न भवति। "मा वा पूर्वपदस्य भूत्" इति। पूर्वपदग्रहणे समास उपलक्ष्यते। यस्मात् समासे सत्येतद्भवति पूर्वपदमुत्तरपदमिति। तदेतदुक्तं भवति- वाप्य()आओ नद्यातिरित्यादौ समासे प्रगृह्रसञ्ज्ञा मा भूदित्येवमर्थमर्थग्रहणमिति। यथा च तस्मिन् सति समासे प्रगृह्रसञ्ज्ञा भवति, तथा पूर्वमेव प्रतिपादितम्।
बाल-मनोरमा
उञः १०७, १।१।१७

उञः। एकपदं सूत्रम्। शाकल्यस्य इतौ प्रगृह्रमिति चानुवर्तते। उ इति। ञिदुकारो निपातः। तस्येतिशब्दे परे शाकल्यमते प्रगृह्रसंज्ञा स्यादित्यर्थः। तदाह उञ इतौ वैति। पूर्वोक्तं=प्रगृह्रत्वमित्यर्थः। उ इति। वितीति। "निपात एका"जिति नित्यं प्राप्ते विकल्पोऽयम्। प्रगृह्रत्वपक्षे प्रकृतिभावे प्रथमं रूपम्। तदभावपक्षे यणादेशे द्वितीयं रूपम्।

बाल-मनोरमा
ऊँ १०८, १।१।१७

ऊँ। इदमप्येकपदं सूत्रम्। ऊँ इति दीर्घस्याऽनुनासिकस्य ऊकारस्य लुप्तप्रथमाविभक्तिकस्य निर्देशः। उञ इत्यनुवर्तते, इतौ शाकल्यस्य प्रगृह्रमिति च। तदाह--उञ इताविति। ऊँ ईतीति। उक्तविधे ऊँकारादेशे रूपम्। प्रगृह्रत्वात्प्रकृतिभावः। एतदादेशाऽबावपक्षे पूर्वसूत्रेण प्रगृह्रत्वे सति "उ इती"ति रूपम्। प्रगृह्रत्वस्याप्यभावे सति यणादेशे "विती"ति रूपमिति त्रीणि रूपाणि फलितानि। तदेवमुञ ऊँ इत्येकमेव सूत्रं विभज्य व्याख्यातम्। एकसूत्रत्वे तु उञ इतौ परे "ऊँ" इत्ययं दीर्घोऽनुनासिकः प्रगृह्रश्चादेशः शाकल्यामते स्यात्। तदभावपक्षे तु "निपात एका"जिति नित्यं प्रगृह्रत्वमित्येतावल्लभ्येत। ततश्च "ऊँ इति " "उ इती"ति रूपद्वयमेव स्यात्, "विती"ति रूपं न लभ्येत। अतो विभज्य व्याख्यातम्।

तत्त्व-बोधिनी
उञः ८७, १।१।१७

उञः। "निपात एका"जिति नित्यं प्राप्ते विभाषेयम्। साक्स्यस्येतौ प्रगृह्रमिति चात्रानुवरत्ते, इत्यत आह--इतौ वा प्रागुक्तमिति। इह "उञ ऊँ" इत्येकमेव सूत्रं योगविभागेन व्याख्यातम्। एकसूत्रत्वे तु उञ इतौ ऊँ शाक्लयस्येत्यर्थात् "ऊँइति " इत्येव रूपं शाकल्यमते सिध्यति। अन्येषां तु मते नित्यं प्रगृह्र इति उ-इतीत्येव रूपं सिध्यति, "विती"ति रूपं तु न सिध्यत्येवेति ज्ञेयम्।

तत्त्व-बोधिनी
ऊँ ८८, १।१।१७

ऊँ। अनुनासिक इति। तेनास्मिन् परे "यरोऽनुनासिके-" इति विकल्पः "यदेतनूँ इति पठसि" "यदेतदूँ" इति वा। एतदर्थमेवात्रानुनासिकग्रहणम्। अन्यथा "यरोञम्यनुनासिको वे"त्येवावक्ष्यत्। "यरो ञमि ञम्वे"त्येवावक्ष्यदित्युक्तौ तु यथासङ्क्यप्रवृत्त्या "अम्मयं" "तन्ने"त्यादिसिद्धावपि "चिन्मयं" "एतन्मुरारि"रिति न सिध्येत्। "कृन्मेजन्तः" "ङमुण्नित्य"मित्यादिनिर्देशाश्रयणे तु प्रतिपत्तिगौरवम्। वस्तुस्तु "यरोऽनुनासिके ञम्वे"त्येव सूत्रयितुं युक्तमित्याहुः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ ईदूतौ १।२ सप्तम्यर्थे ७।१ प्रगृह्यम् १।१ ११

समासः॥

सप्तम्याः अर्थः सप्तम्यर्थः, तस्मिन् सप्तम्यर्थे, षष्ठीतत्पुरुषः।

अर्थः॥

सप्तम्यर्थे वर्त्तमानौ, ईकारान्त-ऊकारान्तौ शब्दौ प्रगृह्यसंज्ञकौ भवतः।

उदाहरणम्॥

सोमो गौरी अधिश्रितः। अध्यस्यां मामकी तनू इति।
काशिका-वृत्तिः
ईदूतौ च सप्तम्यर्थे १।१।१९

शाक्ल्यस्यैतावनार्शे इति निवृत्तम्। ईदन्तम् ऊदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यसंज्ञं भवति। अध्यस्यां मामकी तनू। मामक्यां तन्वाम् इति प्राप्ते, मांक्याम् मामकी इति, तन्वाम् तनू इति। सोमो गौरी अधि श्रितः। ईदूतौ इति किम्? प्रियः सूर्ये प्रियो अग्ना भवाति। अग्निशब्दात् परस्याः सप्तम्याः डादेशः। सप्तमीग्रहणं किम्? धीती, मती, सुष्टुती धीत्या, मत्या, सुष्टुत्या इति प्राप्ते। अर्थग्रहणं किम्? वाऽप्यश्वः। नद्यातिः। तपरकरणम् असन्देहार्थं। ईदूतौ सप्तमीइत्येव लुप्ते ऽर्थग्रहणाद् भवेत्। पूर्वस्य चेत् सवर्णो ऽसावाडाम्भावः प्रसज्यते। १। वचनाद्यत्र दीर्घत्वं तत्र अपि सरसी यदि। ज्ञापकं स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत्। २।
बाल-मनोरमा
ईदूतौ च सप्तम्यर्थे ११०, १।१।१८

ईदूतौ च। "प्रगृह्र"मित्यनुवर्तते। तच्च द्विवचनान्ततया विपरिणम्यते। शब्दस्वरूपस्य विशेष्यत्वात्तदन्तविधिः। "ईदूतौ च सप्तम्या"वित्येव सिद्धेऽर्थग्रहणाद्यत्र सप्तम्या लुकि "यः शिष्यते स लुप्यमानार्थाभिधायी" इति न्यायेन प्रकृतेरेव सप्तम्यर्थे पर्यवसानं तथाविधत्वमीदूदन्तयोर्गम्यते। तथाच सप्तम्यर्थे पर्यवसन्नावीदूदन्तौ शब्दौ प्रगृह्रौ स्त इत्यक्षरार्थः। फलितमाह--सप्तम्यर्थ इत्यादिना। सोमो गौरी इति। गौर्यामित्यर्थः। "सुपां सुलु"गिति सप्तम्या लुक्। प्रगृह्रत्वे प्रकृतिभावान्न यण्। वातप्रमीत्यादिसप्तम्यन्तं तु नात्रोदाहरणम्, तत्र सप्तम्या लुप्तत्वाऽभावेन प्रकृतेः सप्तम्यर्थेऽप्रवृत्तेः। मामकी तनू इति। मामक्यां तन्वामित्यर्थः। "सुपां सुलु"गिति सप्तम्यालुक्। प्रगृह्रेभ्यः परत इतिशब्दप्रयोगस्य पदकारैर्नियमितत्वात् पदपाठे "मामकी इति" "तनू इती"त्यत्र प्रगृह्रत्वफलं बोध्यम्। ननु "ईदूतौ च सप्तम्याः" इत्येव सूत्र्यताम्। षट()आ चाऽर्थद्वारा संबन्धो विवक्ष्यतां, ततश्च सप्तम्यर्थे विद्यमानमीदूदन्तमित्यर्थस्यार्थग्रहणं विनैव लाभादर्थग्रहणं किमर्थमिति पृच्छति--अर्थग्रहणं किमिति। कस्म#ऐ प्रयोजनायेत्यर्थः। "कि"मित्यव्ययम्। वृत्ताविति। अर्थग्रहणसामथ्र्याल्लुप्तसप्तम्यर्थमात्रे पर्यवसन्नमित्यर्थो विवक्षितः। ततश्च समासवृत्तौ लुप्तसप्तमीके ईदूदन्तपूर्वपदे सप्तम्यर्थमतिलङ्घ्य उत्तरपदार्थे प्रवृत्ते सति प्रगृह्रसंज्ञा न भवति। मा भूदिति। "माङि लुङ्" सर्वलकारापवादः। वाप्य()आ इति। "वाप्याम्--अ()आ" इति विग्रहे सुप्सुपेति समासे "वाप्य()आ" इति रूपमित्यर्थः। अत्र वाप्यामिति सप्तम्या अधिकरणत्वमवगतं, तच्चाधिकरणकारकं क्रियापेक्षं। तत्र वाप्याम()आओ वर्तत इति क्रियाध्याहारे वर्तमानक्रियायां वाप्या विद्यमानेऽ()ओ लक्षमया प्रवृतिं()त पुरस्कृत्य समासो वक्तव्यः। एवं च समासे लुप्तसप्तमीकस्य वापीशब्दस्य सप्तम्यर्थमतिलङ्घ्य तत्संसृष्टे आधेयभूतेऽ()ओऽपि प्रवृत्तेः सप्तम्यर्थमात्राविश्रान्त्यभावान्न प्रगृह्रत्वमिति भावः।

तत्त्व-बोधिनी
ईदूतौ च सप्तम्यर्थे ९०, १।१।१८

ईदूतौ च। ईदूताविति किम्?। "प्रियः सूर्ये प्रियो अग्ना भवाति"।?ग्निशब्दात्परस्याः सप्तम्याः "सुपां सुलु"गित्यादिना "डा"देशः। पदकारैः प्रगृह्रेषु इतिशब्दुप्रयोगस्य नियमितत्वेन इहापि पदकाले इतिशब्दप्रयोगप्रसङ्गः, स चाऽनिष्ट इति बोध्यम्। सप्तमीग्रहणं किम्?, धीती, मती, सुष्टुती। धीत्या, मत्या, सुष्टुत्या इति प्राप्ते तृतीयैकवचनस्य पूर्वसवर्ण ईकारः। ततः "अकः सवर्णे दीर्घः" इत्येकादेशः। न त्विह "सुपां सुलु"गिति लुक्, ह्यस्वश्रवणापत्तेः। सोमो गौरी इति। "वातप्रमी अत्र" "ययी आसक्त" इत्याद्युदाहरणे सत्यप्यूकारान्तस्य लौकिकोदाहरणाभावादुभयोरपि वेद एवोदाहरणमुक्तम्। मामकी तनू इति। यद्यप्यत्र संहितायां प्रगृह्रप्रयोजनं नास्ति, तथापि "मामकी इति" "तनू इति" पदकाले तदस्त्येव, "स्वायां तनू ॠत्व्येनाधमाना"-मित्यत्र तु संहिताकालेऽप्यस्ति, तथापि "ऋत्यकः" इति पाक्षिकप्रकृतिभावेनाप्येतत्सिद्धं, छन्दसि रूपान्तरस्यापादयितुमशक्यत्वादिति बोध्यम्। सप्तम्या लुगिति। यदि धीत्यादाविव विभक्तेः पूर्वसवर्णे कृते सवर्णदीर्घ एकादेश इति व्याख्यायेत तदा एकादेशं बाधित्वा परत्वादाङ्गत्वात्वाच्च "आण्नद्याः"इत्याट् ङेराम् च स्यादिति भावः। अर्थग्रहणं किमिति। "वाप्य()आ" इत्यत्र यो वापीशब्दः सतु वाप्यधिकरणकद्रव्ये उपसङ्कान्तः। "सोमो गौरी" इत्यत्र गौरीशब्दस्तु सप्तम्यर्थमात्रे पर्यवसन्नः, न तु तदधिकरणकद्रव्ये उपसङ्कान्तः, वृत्त्याभावादिति भेदः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ दाधाः १।३ घु १।१ अदाप् १।१

समासः॥

दाश्च धाश्च इति दाधाः, इतरेतरद्वन्द्वः।
दाप् च दैप् च दाप्, न दाप् अदाप्, नञ्तत्पुरुषः।

अर्थः॥

दारूपाः, धारूपाश्च धातवः घुसंज्ञकाः भवन्ति, दाप्दैपौ वर्जयित्वा। दारूपाः चत्वारः धातवः - डुदाञ् दाने, दाण् दाने, दोऽवखण्डने, देङ् रक्षणे इति। धारूपौ अपि द्वौ धातू - डुधाञ् धारणपोषणयोः, धेट् पाने इति।

उदाहरणम्॥

प्रणिददाति, प्रणिदीयते, प्रणिदाता। प्रणियच्छति। प्रणिद्यति। प्रणिदयते। प्रणिदधाति, प्रणिधीयते, प्रणिधाता। प्रणिधयति। देहि। धेहि।
काशिका-वृत्तिः
दाधा घ्वदाप् १।१।२०

दारूपाश्चत्वारो धातवः, धारूपौ च द्वौ दाब्दैपौ वर्जयित्वा घुसंज्ञका भवन्ति। डुदाञ् प्रणिददाति। दाण् प्रणिदाता। दो प्रणिद्यति। देङ् प्रणिदयते। डुधाञ् प्रणिदधाति। धेट् प्रणिधयति वत्सो मातरम्। अदापिति किम्? दाप् लवने दातं बर्हिः। दैप् शोधने अवदातं मुखम्। घुप्रदेशाः घुमास्थागापाजहातिसां हलि ६।४।६६ इत्येवमादयः।
लघु-सिद्धान्त-कौमुदी
दाधा घ्वदाप् ६२६, १।१।१९

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना। घ्वसोरित्येत्त्वम्। देहि। दत्तम्। अददात्, अदत्त। दद्यात्, ददीत। देयात्, दासीष्ट। अदात्। अदाताम्। अदुः॥
न्यासः
दाधा घ्वदाप्। , १।१।१९

"दाधा" इति। दारूपाणां चतुर्णां कृतैकशेषाणां धारूपयोद्र्वयोश्च कृतै कशेषयोद्र्वन्द्वः। ननु च लक्षण प्रततिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, न तु लाक्षणिकस्य" (व्या।प।३), इत्यनया परिभाषया "दो अवखण्डने" (धा।पा।११४८), "देङ रक्षणे" (धा।पा।९६२), "धेट् पाने" (धा।पा।९०२) इत्येतेषां ग्रहणं न स्यात्? नैतदस्ति; तस्या हि परिभाषायाः "गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इत्यपवादोऽ स्ति, तेन सत्यपि लाक्षणिकत्वेदोदेङौ तावद् गृह्रेते। धेटोऽपि लिङ्गाद् ग्रहणमनुमीयते। तत् पुनर्लिङं दैपः पकारानुबन्धः,स हि "अदाप्" इति दाप्प्रतिषेधसामान्य- ग्रहणार्थः क्रियते। यदि चास्याः परिभाषाया इह व्यापारः स्यात्, दैपः पकारानुबन्धकरणमनर्थकं स्यात्। लाक्षणिकत्वादेव ह्रस्य ग्रहणं न भविष्यतीति किं प्रतिषेधेऽस्य ग्रहणेन? ननु लाक्षणिकमपि दारूपं धारूपं च धेटो नोपपद्यत एव, सानुबन्धकस्य ह्रनेजन्तत्वादात्त्वानुपपत्तेः? नैष दोषः यदयम् "उदीचां माङो व्यतीहारे" ३।४।१९ इति मेङ सानुबन्धकस्यात्त्वभूतस्य निर्देशं करोति , तज्ज्ञापयति- नानुबन्धकृत- मनेजन्तत्वम्"(शा।प।१५) इति। ननु च "माङ माने" (धा।पा।११४२) इत्यस्याप्यसौ निर्देशः स्यात्, तत् कथं ज्ञापकम्? नैतदस्ति। "मेङ प्रणिदाने" (धा।पा। ९६१) इत्ययमेव व्यतीहारे वर्तते, न "माङ माने" (धा।पा।११४२) इति। तस्मान् मेङ एवायं कृतात्त्वस्य निर्देशो ज्ञापनार्थः। "प्रणिददाति" इति। "नेर्गदनदपतपदघुमास्यतिहन्ति" ८।४।१७ इत्यादिना घुसञ्ज्ञायां सत्यामिह णत्वं भवति। "प्रणिदाता" इति। तृजन्तम्। "प्रणिद्यति" इति। "ओतः श्यनि" ७।३।७१ इत्योकारलोपः। अशिद्विषये दारूपोऽयं भवतीत्यत्र घुसञ्ज्ञा प्रवत्र्तत एव। "दातं बर्हिः" इति। घुसञ्ज्ञाया अभावात् "दो दद्()घोः" ७।४।४६ इति ददादेशो न भवति। "अवदातम्" इति। अत्रापि "निष्ठा" ३।२।१०२ इति क्तप्रत्ययः।अत्र "अच उपसर्गात्तः" ७।४।४७ इति तकारादेशो न भवति।
बाल-मनोरमा
दाधाघ्वदाप् २१०, १।१।१९

आशीर्लिङि घुसंज्ञाकार्यं वक्ष्यन्घुसंज्ञां दर्शयति-- दाधाघ्वदाप्। "दे"त्यनेन स्वाभाविकाऽ‌ऽकारान्तयोः "डु दाञ् दाने" "दाण् दाने" इत्यनयोः, कृतात्वयोः "दो अवखण्डने" "देङ् रक्षणे" इत्यनयोर्लाक्षणिकयोश्च, "धे" त्यनेन स्वाभाविकाकारान्तस्य "डु धाञ् धारणपोषणयो"रित्यस्य, लाक्षणिकस्य "धेट् पाने" इत्यस्य च ग्रहणम्। "गामादाग्रहणेष्वविशेषः" इति परिभाषाबलात्तत्र दाग्रहणेन धारूपस्यापि ग्रहणाच्च। अत एव "दो दद्धो"रित्त्र धेण्निवृत्त्यर्थं दाग्रहणमर्थवत्, दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः। तदाह--दारूपा धारूपाश्चेति।

तत्त्व-बोधिनी
दाधा घ्वदाप् १८२, १।१।१९

दाधा घ्वदाप्। इह दारूपाश्चत्वारः-- डुदाञ् दाने। दाण् दाने। दो अवखण्()डने। देङ् रक्षणे। धारुपौ तु द्वौ--- डुधाञ् धारणपोषणयोः। धेट् पाने। अनुबन्धानामनेकान्तत्वात् "आदेच उपदेशे" इत्यात्वेदोदेङ्धेटामनुकरणे दादारूपत्वमस्ति। एवं च दाश्च दाश्च दाश्च दाः। धाश्च धाश्च धौ। दाश्च धौ च दाधा इति विग्रहः। दाप्दैपौ विनेति। दाप् लवने। दैप् शोधने-- एतद्भिन्ना इत्यर्थः। दैपः पित्त्वमिह प्रतिषेधार्थं, न त्वनुदात्तार्थम्, "अनुदात्तौ सुप्पितौ" इति प्रत्ययस्यैव पितोऽनुदात्तत्वात्। न च दैपो लाक्षणिकत्वान्नाऽस्य प्रतिषेध इति शङ्क्यं, पित्करणस्यानर्थक्यप्रसङ्गात्। इदमेव च दैपः पित्त्वं "गामादाग्रहणेष्वविशेषः" इति परिभाषाया ज्ञापकमित्याहुः। अदाबिति किम्?। दातं बर्हिः। लूनमित्यर्थः। इह "दो दद्धो"रिति दद्भावो न। अवदातं मुखम्। शुद्धमित्यर्थः। इह तु "अच उपसर्गा" दिति तादेशो न।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ आद्यन्तवत् एकस्मिन् ७।१

समासः॥

आदिश्च अन्तश्च आद्यन्तौ, इतरेतरद्वन्द्वः। आद्यन्तयोः इव आद्यन्तवत्, षष्ठ्यर्थे वतिप्रत्ययः (५।१।११५)

अर्थः॥

एकस्मिन्नपि आदौ इव, अन्तः इव कार्यं भवति

उदाहरणम्॥

औपगवः, आभ्याम्
काशिका-वृत्तिः
आद्यन्तवदेकस्मिन् १।१।२१

असहायसयाद्यन्तौपदिष्टानि कार्याणि न सिध्यन्ति इति अयमतिदेश आरभ्यते। सप्तम्यर्थे वतिः। आदाविव अन्ते इव एकस्मिन्नपि कार्यं भवति। यथा कर्तव्यम् इत्यत्र प्रत्ययाऽद्युदात्तत्वं भवति, एवम् औपगवम् इत्यत्र अपि यथा स्यात्। यथा वृक्षाभ्याम् इत्यत्र अतो ऽङ्गस्य दीर्घत्वम् एवम् आभ्याम्, इत्यत्र अपि यथा स्यात्। एकस्मिन्निति किम्। सभासन्नयने भवः साभासन्नयनः, आकारम् आश्रित्य वृद्धसंज्ञा न भवति।
लघु-सिद्धान्त-कौमुदी
आद्यन्तवदेकस्मिन् २८०, १।१।२०

एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेति दीर्घः। आभ्याम्॥
न्यासः
आद्यन्तवदेकस्मिन्। , १।१।२०

"असहायस्य" इत्यादिना सूत्रारम्भस्य फलं दर्शयति। इति करणो हेतौ। यस्मादादेरन्तस्य यानि कार्याण्युपदिष्टानि, तान्यविद्यमानसहायस्य न सिध्यन्ति; तस्मादतिदेशोऽयमारभ्यते। द्वितीयादिकं हि सहायमपेक्ष्याद्यन्तशब्दौ प्रवत्र्तते। तथा हि - लोकः सति हि परस्मिन् सहाये पूर्वाभावे चादिरिति व्यपदिशति, सति च पूर्वस्मिन्पराभावे चान्त इति। अतस्तदुभयमसहाये नास्तीति। तत्राद्यन्तप्रतिबद्धानि कार्याणि न स्युः, यद्ययमतिदेशो आरभ्यते। "एकस्मिन्" इति वचनात् "आद्यन्तवत" इत्यत्र सप्तमीसमर्था- द्वतिर्गम्यत इत्याह- "सप्तम्यर्थे वतिः" इति। आद्यन्तयोरिवाद्यन्तवत्, "तत्र तस्येव" ५।१।११५ इति वतिः। "औपगवम्" इत्यत्राप्यादिव्यपदिष्टं कार्यमतिदेशस्य फलम्। प्रत्ययाद्युदात्तत्वं ह्रादेरुपदिष्टम्, "आद्युदात्तश्च" ३।१।३ इति वचनात्। " आभ्याम्" इति। अत्रान्तोपदिष्टं दीर्घत्वं ह्रन्तस्योपदिष्टम्, "अलोऽन्त्यस्य" १।१।५१ इति वचनात्। इदमो भ्याम्, त्यदाद्यत्वम्, ७।२।१०२, "अतो गुणे" ६।१।९४ पररूपत्वम्, "हलि लोपः" ७।२।११३ इतीद्रूपस्य लोपः, "सुपि च" ७।३।१०२ इति दीर्घः।
बाल-मनोरमा
आद्यन्तवदेकस्मिन् , १।१।२०

ननु इदम् भ्यामिति स्थिते त्यदाद्यत्वे पररूपे इदो लोपे च कृते अ-भ्याम् इति स्थिते अङ्गस्याकारात्मकत्वाददन्तत्वाभावात्कथं "सुपि चे"ति दीर्घ इत्यत आह-आद्यन्तवदे। आदित्वान्तत्वयोर्नित्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्राप्तौ तत्पाप्त्यर्थमिदमारभ्यते।एकशब्दोऽसहायवाची। "एके मुख्यान्यकेवलाः" इत्यमरः। सप्तम्यन्ता"त्तत्र तस्येवे"ति वतिः, एकस्मिन्नित्युपमेये सप्तमीदर्शनात्। वतिश्च द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्येकं संबध्यते। तदाह-एकस्मिन्नित्यादि। तदादितदन्तयोः क्रियमाणं कार्यं तदादौ तदन्त इव च असहायेऽपि स्यादित्यर्थः। एकस्मिन्निति किम्?। दरिद्रातेरेरजिति न। आदिवत्त्वफलम्-औपगव इत्यादौ अण्प्रत्ययाद्युदात्तत्वम्। आभ्यामित्यादौ अन्तवत्त्वाद्दीर्घादिर्भवति। भाष्ये तु आद्यन्तवदित्यपनीय व्यपदेशिवदेकस्मिन्निति सूत्रपाठः शिक्षितः। तेन इयायेत्यादौ "एकाचो द्वे प्रथमस्ये"ति द्विर्भावः, धुगित्यत्र व्यपदेशिवत्त्वेन धात्ववयवत्वाद्भष्भावश्च सिध्यति। विशिष्टोऽपदेशो-व्यपदेश=मुख्यो व्यवहारः। सोऽस्यास्तीति व्यपदेशी। मुख्य इति यावत्। एकस्मिन् तदादित्वतदन्तत्वतदवयवत्वादिप्रयुक्तकार्यं स्यादिति फलितम्। ()इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ।२।४।३२।

इदम्--भिसिति स्थिते त्यदाद्यत्वे पररूपे "हलि लोपः" इति इदो लोपे अ-भिस् इति स्थिते "अतो भिस ऐ"सिति प्राप्ते--नेदमदसोरकोः। "अतो भिस ऐ"सित्यतो भिस ऐसित्यनुवर्तते। "अको"रिति षष्ठो। न विद्यते ककारो ययोरिति बहुव्रीहिः। तदाह--अककारयोरित्यादिना। एत्त्वमिति। "बहुवचने झलीत्यनेने"ति शेषः। ङयि विशेषमाह-अत्वमित्यादि। अत्वं ङेः स्मै इत्यन्वयः। इदम् एव इति स्थिते स्मैभावात्परत्वादनादेशे "विप्रतिषेधे यद्बाधितं तद्बाधितमेवे"ति न्यायेन पुनः स्मैभावो न स्यादित्यत आह--नित्यत्वादिति। कृतेऽकृतेऽप्यनादेशे प्रवृत्तियोग्यतया स्मैभावस्य नित्यत्वादनादेशात्प्रागेव स्मैभावे कृतेऽनादेशस्य हलि लोपेन बाध इति भावः। आभ्यामिति। पूर्ववत्। एभ्य इति। त्यदाद्यत्वं, पररूपत्वं, हलि लोपः, "बहुवचने झल्ये"दित्येत्त्वंचेति भावः। अस्मादिति। त्यदाद्यत्वं, पररूपत्वं हलि लोपःस "ङसिङ्योः" इति स्मादिति भावः। अस्येति। त्यदाद्यत्वं, पररूपत्वं, स्यादेशः, हलि लोपश्चेति भावः। अनयोरिति। त्यदाद्यत्वंस पररूपत्वम्, "अनाप्यकः" "ओसि चे"त्येत्त्वम्, अयादेशश्चेति भावः। एषामिति। आमि त्यदाद्यत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः। अस्मिन्निति। अत्वं, पररूपत्वं, स्मिन्, हलि लोपश्चेति भावः। ए()इआति अत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः। ककारयोगे त्विति। "अव्ययसर्वनाम्नामकच् प्राक् टे"रित्यनेन इदंशब्दस्य, अकचि सतीत्यर्थः। अयकमिति। अकचि सति निष्पन्नस्य इदकम्शब्दस्य "तन्मध्यपतिन्यायेन "इदमो मः" इत्यादाविदंग्रहणेन ग्रहणान्मत्वादिकमिति भावः। "अनाप्यकः" इति, "हलि लोपः" इति, "नेदमदसोरको"रिति च नेह प्रवर्तते। ककारयोगे तन्निषेधादित्याशयेनाह--इमकेन इमकाभ्यामिति। इत्यादीति। इमकैः। इमकस्यै। इमकेभ्यः। इमकस्मात्। इमकस्य, इमकयोः २, इमकेषाम्। इमकस्मिन् इमकेषु।

तत्त्व-बोधिनी
आद्यन्तवदेकस्मिन् ३०८, १।१।२०

आद्यन्तवत्। "सत्यन्यस्मिन् यस्य पूर्वो नास्ति स आदिः", "सत्यन्यस्मिन्यस्य परो नास्ति सोऽन्तः"इति लोके प्रसिद्धं, तदुभयमेकस्मिन्नसहाये न संभवतीति तत्राद्यन्तव्यपदिष्टानि कार्याणि नस्युरतोऽयमतिदेश आरभ्यते। नच परत्वात्, "सुपिचे"ति दीर्घे पश्चाद्धिलि लोपे सति आभ्यामित्यादि सिध्यतीति किमत्राद्यन्तवत्सूत्रोपन्यासेनेति शङ्क्यम्, नित्यत्वाद्धलि लोर इत्यस्य दीर्घात्पूर्वमेव प्रवृत्तेः। "एकस्मि"न्नित्युपमेये सप्तमीदर्शनात्सप्तम्यर्थ एव वतिरित्यभिप्रेत्याह--आदाविवान्त इवेति। आदिवत्किम्()। औपगवः। अत्राऽण आद्युदात्तत्वं यथा स्यात्। भाष्ये त्वादियविदित्यपनीय "व्यपदेशिवदेकस्मि"न्निति सूत्रमूहितम्। विशिष्टोऽपदेशो व्यपदेशः---मुख्यो व्यवहारः। सोऽस्यातीति व्यपदेशी, मुख्य इति यावत्। तेन तुल्यमेकस्मिन्नसगायेऽपि कार्यं स्यादित्यर्थः। तेन "इयाय""आरे"त्यादौ"एकाचः"इति द्वित्वं सिध्यति। अन्यथा आद्यन्तापदिष्टत्वाद्धित्वं न स्यादिति दिक्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तरप्तमपौ १।२ घः १।१

समासः॥

तरप् च तमप् च तरप्तमपौ, इतरेतरद्वन्द्वः

अर्थः॥

तरप्तमपौ प्रत्ययौ घसंज्ञकौ भवतः।

उदाहरणम्॥

कुमारितरा, कुमारितमा। ब्राह्मणितरा, ब्राह्मणितमा॥
काशिका-वृत्तिः
तरप्तमपौ घः १।१।२२

तरप् तमपित्येतौ प्रत्ययौ घसंज्ञौ भवतः। कुमारितरा। कुमरितमा। ब्राह्मणितरा। ब्राह्मणितमा। घप्रदेशाः घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्यो ऽनेकाचो ह्रस्वः ६।३।४२ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तरप्तमपौ घः १२२३, १।१।२१

एतौ घसंज्ञौ स्तः॥
न्यासः
तरप्तमपौ घः। , १।१।२१

"कुमारितरा" इति। "द्विवचविभज्योपपदे" ५।३।५७ इत्यादिना तरप्। "कुमारितमा" इति। "अतिशायने" इत्यादिना तमप्। तयोर्घसञ्ज्ञायां सत्यां "घरूपकल्प" ६।३।४२ इत्यादिना ह्यस्वत्वं भवति।
बाल-मनोरमा
तरप्तमपौ घः , १।१।२१

तरप्तमपौ घः। प्रथमस्य प्रथमपादे सूत्रमिदम्। आतिशायनिकप्रत्ययप्रकरणान्ते, "पितौ घः" तादी घः इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति। तस्य आतिशायनिकप्रकरणबहुर्भूतस्य सत्त्वे तत्संग्रहणार्थं प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः। तेन "अल्पाच्तरं" "लोपस्च बलवत्तरः" इत्यादि सिद्धम्।

किमेत्तिङव्यय। "आमु" इति छेदः। उकार उच्चारणार्थः। किम्, एते, तिङ्, अव्यय--एषां चतुर्णां द्वन्द्वः। "किमेत्तिङव्ययप्रकृतिको घः" इति मध्यमपदलोपी समासः। फलितमाह--किम एदन्तादित्यादिना। एभ्य इत्यर्थः। किन्तमामिति अत्यन्तस्वार्थिकोऽयं तमप्, नत्वतिशायने। एषामतिशयेनाढ() इतिवदेषामतिशयेन क इति विग्रहस्याऽसंभवात्। जातिगुणक्रियासंज्ञाभि समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम्। प्राह्णे तमामिति। प्राह्ण=पूर्वाह्णः। "प्राह्णाऽपराह्णमध्याह्नाः त्रिसन्ध्य"मित्यमरः। अतिशयिते पूर्वाह्णे इत्यर्थः। पूर्वावयवगतप्रकर्षादह्नः प्रकर्षो बोध्यः। अत्र अहर्न द्रव्यम्, सूर्योदयादारभ्य सूत्रास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात्। तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः। पचतितमामिति। अतिशयिनता पाकक्रियेत्यर्थः, तिङन्तेषु क्रियाविशेष्यकबोधस्यैव "प्रशंसायां रूप"विति सूत्रभाष्ये प्रपञ्चितत्वात्। अतोऽत्र क्रियाया एवन प्रकर्षो नतु द्रव्यस्येति भावः। उच्चैस्तमामिति। "आशंसती"त्यध्याहार्यम्। अतिशयेन उच्चैराशंशनादिक्रियेत्यर्थः। अत्रापि क्रियाया एव प्रकर्षो न तु द्रव्यस्य। उच्चैस्तमस्तरुरिति। अतिशेन उच्चैस्तरुरित्यर्थः। अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाभ्यनेत्यर्थः। "किंतमा"मित्यादौ "यस्येति चे"ति लोपं परत्वाद्बाधित्वा ह्यस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम्। सति तु तस्मिन् "निरनुबन्धकग्रहणे न सानुबन्धकस्ये"ति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि "आमि सर्वनाम्नः" इति सूत्रभाष्ये प्रपञ्चितम्।

तत्त्व-बोधिनी
तरप्तमपौ घः १४९९, १।१।२१

तरप्तमपौ घः। अस्मिन्नेवाऽ‌ऽतिशायनिकप्रकरणे "तादौ घः" "पितौ घः"इति वा वक्तव्ये प्रकरणान्तरेण गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञायपति। तेन "अल्पाच्तरं", लोपश्च बलवत्तरः" इत्यादि सिद्धम्। अल्पाजेव ह्रल्पाचतरम्। न त्वत्र द्वयोरेकस्यातिशयविवक्षायां तरप्। अन्यथा "शिवकेशवौ"इथ्यादिसिद्धावपि "शङ्खदुन्दुभिवीणाः"इत्यादि न सिध्येदित्याहुः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ बहुगणवतुडति १।१ सङ्ख्या १।१ २४

समासः॥

बहुश्च गणश्च वतुश्च डतिश्च बहुगणवतुडति समाहारद्वन्द्वः

अर्थः॥

बहुगणशब्दौ, वतुडतिप्रत्ययान्तौ च शब्दौ, सङ्ख्यासंज्ञकाः भवन्ति।

उदाहरणम्॥

बहुकृत्वः, बहुधा, बहुकः, बहुशः। गणकृत्वः, गणधा, गणकः, गणशः। तावत्कृत्वः, तावद्धा, तावत्कः, तावच्छः। कतकृत्वः, कतिधा, कतिकः, कतिशः॥
काशिका-वृत्तिः
बहुगणवतुडति सङ्ख्या १।१।२३

बहु गण वतु इत्येत सङ्ख्यासंज्ञा भवन्ति। बहुकृत्वः। बहुधा। बहुकः। बहुशः। गणकृत्वः। गणधा। गणकः। गणशः। तावत्कृत्वः। तावद्धा। तावत्कः। तावच्छः। कतिकृत्वः। कतिधा। कतिकः। कतिशः। बहुगणशब्दयोर् वैपुल्ये सङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, सङ्ख्यावाचिनोरेव। भूर्यादीनां निवृत्त्यर्थं सङ्ख्यासंज्ञा विधीयते। अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासंज्ञो भवति इति वक्तव्यं समासकन् विध्यर्थम्। अर्धपञ्चमशूर्पः। अर्धं पञ्चमं येशाम् इति बहुव्रीहौ कृते अर्धपञ्चमैः शूर्पैः क्रीतः। तद्धितार्थैति समासः। तत्र दिक्सङ्ख्ये संज्ञायाम् २।१।४९ इत्यनुवृत्तेस् ततः सङ्ख्यापूर्वस्य द्विगुसंज्ञायां शूर्पादञन्यतरस्याम् ५।१।२६ इति अञ् ठञ् च। अध्यर्धपूर्वद्विगोर् लुगसंज्ञायाम् ५।१।२८ इति लुक्। अर्धपञ्चमकः। सङ्ख्याप्रदेशाःसङ्ख्या वंश्येन २।१।१८ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
बहुगणवतुडति संख्या १८६, १।१।२२

न्यासः
बहुगणवतुडति संख्या। , १।१।२२

अत्र बहुगणशब्दौ प्रातिपदिके, वतुडती प्रत्ययौ। "बहुकृत्वः" इति- " सख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्" ५।४।१७। "बहुधा" इति- "सख्याया विधार्थे धा" ५।३।४२ "बहुकः" इति- "सख्याया अतिशदन्तायाः कन्" ५।१।२२ "तावत्कृत्वः" इत्यादि- तच्छब्दात् "यत्तदेतेभ्यः परिमाणे वतुप्" ५।२।३९ इति वतुपि कृते "आ सर्वनाम्नः" ६।३।९० इत्यात्त्वे कृते "तावत्" इति भवति; किंशब्दात् किमः संख्यापरिमाणे डतौ कृते टिलोपे च "कति" इति भवति; ताभ्यां पूर्ववदेव कृत्वसुजादयः। "बहुगणशब्दयोः" इत्यादि। बहुशब्दोऽयं संख्यावचनोऽप्यस्ति, वैपुल्यवचनोऽ पि; गणशब्दः संख्यावचनोऽप्यस्ति, सङ्घवचनोऽपि; तत्र यौ वैपुल्य्सङ्घवचनौ,तयोरिह ग्रहणं नास्ति, संख्यावाचिनोरेव तयोस्त्वेषा सङ्ख्यासंज्ञा विधीयते,तत्कथं संख्ये- त्यन्वर्थसंज्ञेयम्- संख्यायतेऽनया संख्या ! न च यो वैपुल्ये बहुशब्दो वत्र्तते, यश्च सङ्घे गणशब्दः, ताभ्यां संख्यायते। तथा हि- "बहुरोदनः" इत्युक्ते वैपुल्यं गम्यते; तथा "महान् भिक्षौउमां गणः" इत्युक्ते सङ्घः,न तु संख्यानम्। तस्मादन्वर्थसंज्ञाकरणाद् यावेकद्विसंख्याव्यवच्छेदेन संख्याविशेषमाहतुः, तयोरेव ग्रहणम्। यद्येवम्,किमर्थं तयोरियं संज्ञा विधीयते, यावता संख्यावाचिनौ तौ लौकिकसंख्यायामन्तर्भूतौ? लौकिकी च संख्या शास्त्रे गृह्रत एव; अन्यथा "संख्याया अतिशदन्तायाः कन्" ५।१।२२ इत्यत्र "अतिशदन्तायाः" इति प्रतिषेधोऽनर्थकः स्यात्(), शास्त्रीयायाः संख्याया अतिशदन्ताया अभावादित्यत् आह- "भूर्यादीनां निवृत्त्यर्थम्" इति। भूरि- प्रभूतमित्येवमादयस्तज्जातीयाः प्रचुरविशेषवाचिनः सन्ति, तेषां मा भूदित्येवमर्थ बहुगणशब्दयोः संख्यासंज्ञा विधीयते। तदेतेन नियमार्थमेतयोः संज्ञाविधानमेतदिति दर्शयति। तुल्यजातीयापेक्षया हि नियमः। अतस्तुल्यजातीयानां भूर्यादीनामेव नियमेन व्यावृत्तिः क्रियते, नान्येषाम्। "अर्धपूर्वपदश्च" इति। अर्धशब्दः पूर्वपदं यस्य पूरणप्रत्ययान्तस् सोऽर्ध- पूर्वपदः, स च संख्यासंज्ञो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थमित्याह- "समासकन्विध्यर्थम्" इति। तत्रेदं व्याख्यानम्- "डति च" १।१।२४ इत्यत्र यश्चकारः, स इह स्वरितत्वमासज्य सिंहावलोकितन्यायेनोपस्थाप्यते। स चानुक्तसमुच्चयार्थः। तेनार्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति। अर्धपञ्चमशूर्पः" इति। अर्धं पञ्चमं येषामिति बहुव्रीहिः। अर्धपञ्चमैः शूर्पैः क्रीतमिति "तद्धितार्थोत्तरपदसमा- हारे च" ५।१।५० इति समासः। "संख्यापूर्वो द्विगुः" २।१।५१ इति द्विगुसंज्ञा। " शूर्पादञन्यतरस्याम्" ५।१।२६ इति विहितस्याञष्ठञो वा "अध्यर्धपूर्वद्विगोर्लुग- संज्ञायाम्" ५।१।२८ इति लुक्। "अर्धपञ्चकः" इति। "संख्याया अतिशदन्तायाः कन्"५।१।२२
बाल-मनोरमा
बहुगणवतुडति सङ्ख्या २५६, १।१।२२

अथ षट्संज्ञाकार्यं वक्ष्यन् षट्संज्ञोपयोगिनीं सङ्ख्यासंज्ञामाह-बहुगण। बहुश्च गणस्च वतुश्च डतिश्चेति समाहारद्वन्द्वः। एतत्सङ्ख्यासंज्ञं स्यादित्यर्थः। फलितमाह-एते इति। बह्वादय इत्यर्थः। बहुगणशब्दाविह त्रित्वादिपरार्धान्तशङ्ख्याव्यापकधर्मविशेषवाचिनौ गृह्रेते। न तु वैपुल्यसङ्घवाचिनौ, सङ्ख्यायतेऽनयेति अन्वयर्थसंज्ञाविज्ञानात्। वतुडती प्रत्ययौ। संज्ञाविधावपीह तदन्तग्रहणं, केवलयोः प्रयोगानर्हत्वात्। वतुरिह "यत्तदेतेभ्यः परिमाणे वतु"विति तद्धितप्रत्ययो गृह्रते, न तु "तेन तुल्यं क्रिया चेद्वति"रिति वतिरपि, उकारानुबन्धात्। डतिरपि "किमः सङ्ख्यापरिमाणे डति च " इति विहिस्ततद्धित एव गृह्रते, वतुना साहचर्यात्। न तु भातेर्डवतुरिति विहितः कृदपि। ननु "सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु"जित्यादिसङ्ख्याप्रदेशेषु बह्वादीनामेव चतुर्णां ग्रहणं स्यात्। न तु लोकप्रसिद्धसङ्ख्यावाचकानामपि, "कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः" इति न्यायात्। ततश्च "पञ्चकृत्वः" इत्यादि न स्यादिति चेन्न, "सङ्ख्याया अतिशदन्तायाः कनि"त्यत्र तिशदन्तपर्युदासबलेन सङ्ख्याप्रदेशेषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तिज्ञापनात्। नहि विंशतितिं()रशदादिशब्दानां कृत्रिमा सङ्ख्यासंज्ञाऽस्ति। नचैवं सति बहुगणग्रहणवैयथ्र्यं शङ्क्यं, तयोर्नियतविषयपरिच्छेदकत्वाऽभावेन लोकसिद्धसङ्ख्यात्वाऽभावात्। अत एव भाष्ये "एतत्सूत्रमतिदेशार्थं यदयमसङ्ख्यां संख्येत्याह" इत्युक्तं सङ्गच्छते इत्यस्तां तावत्।

तत्त्व-बोधिनी
बहुगणवतुडति सङ्ख्या २१७, १।१।२२

बहुगणवतु। बहुगणौ प्रतिपादके सङ्ख्यावाचके गृह्रते न तु सङ्घवैपुल्यवाचके अपि, सङ्ख्यायते अन्येत्यान्वर्थसंज्ञाविज्ञानात्। अत एव डतिरपि "किमः सङ्ख्यापरिमाणे डति चे"ति विहितस्तद्धित एव गृह्रते, "वतु"साहचर्याच्च। न तु "पातेर्डतिः"। यद्यपि संज्ञाविधौ प्रत्यग्रहणे तदन्तग्रहणं नास्ति तथापीह वतुडत्योः केवलयोः संज्ञाविधौ फलाऽभावादन्वर्थताबलाच्च तदन्तयोरेव संज्ञा प्रवर्तते। सानुवन्धनिर्देशस्तु "व्राहृणबद्वसति"रित्यदावतिप्रसङ्गशङ्कां निराकर्तुमित्याहुः। न चैवं सङ्ख्याकार्येषु कृत्वसुजादिषु कृत्रिमसङ्ख्याया एव ग्रहणं स्यान्न त्वकृत्रिमाया इति "पञ्चकृत्व"इत्यादि न सिध्येत्, कृत्रिमाऽकत्रिमयोः कृत्रिमे कार्यसंप्रत्ययादिति वाच्यम्; "सङ्ख्याया अतिशदन्तायाः क"न्नित्यत्रातिशदन्तपर्युदासबलेन सङ्ख्याकार्येषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तेः। नन्वेवं भूरिशब्दात्कृत्वसुच्प्रत्ययप्रसङ्ग इति चेदत्राहुः-"अनियतसङ्ख्यावाचिनां चेत्सङ्ख्याकार्यं स्यात्तर्हि वहुगणयोरेवे"त्येवंभूतनियमफलसङ्ख्याविज्ञानान्नास्त्यतिपर्सङ्ग इति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ ष्णान्ता १।१ षट् १।१ २४ सङ्ख्या १।१ २२

समासः॥

षश्च नश्च ष्णौ, ष्णौ अन्ते यस्याः सा ष्णान्ता, द्वन्द्वगर्भो बहुव्रीहिः।

अर्थः॥

षकारान्ता नकारान्ता च या सङ्ख्या सा षट्संज्ञिका भवति।

उदाहरणम्॥

षकारान्ता - षट् तिष्ठन्ति, षट् पश्य। नकारान्ता - पञ्च सप्त नव दश॥
काशिका-वृत्तिः
ष्णान्ता षट् १।१।२४

स्त्रीलिङ्गनिर्देशात् सङ्ख्य इति सम्बध्यते। षकारान्ता नकारान्ता च या सङ्ख्या सा षट्संज्ञा भवति। षकारान्ता तावत्षट् तिष्ठन्ति। षट् प्श्ये। नकारान्तःपञ्च। सप्त। नव। दस। अन्तग्रहणम् औपदेशिकार्थम्। तेनैह न भवति शतानि, सहस्राणि। अष्टानाम् इत्यत्र नुड् भवति। षट्प्रदेशाःषड्भ्यो लुक् ७।१।२२ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
ष्णान्ता षट् २९९, १।१।२३

षान्ता नान्ता च संख्या षट्संज्ञा स्यात्। पञ्चन्शब्दो नित्यं बहुवचनान्तः। पञ्च। पञ्च। पञ्चभिः। पञ्चभ्यः। पञ्चभ्यःंउट्॥
न्यासः
ष्णान्ता षट्। , १।१।२३

"स्त्रीलिङ्ग निर्देशात्" इत्यादि। ष्णान्तेति स्त्रीलिङ्गनिर्देशः क्रियते, न चेह किञ्चित् स्त्रीलिङ्गं श्रूयते, नापि प्रकृतमन्यत् संख्यायाः। तस्मात् स्त्रीलिङ्गनिर्देशात् संख्यैव "ष्णान्ता" इत्यनेन विशेषणेन विशिष्यते। "षट्" इति चानया संज्ञया सम्बध्यते। यदि ष्णान्तेत्यत्र स्त्रीलिङ्गनिर्देशो न क्रियते, सर्वं ष्णान्तं शब्दरूपं षट्संज्ञं स्यात्। ततः "पामानः" विप्रुषः" इत्यादावपि "ष ड्भ्यो लुक्" ७।१।२२ इति लुक् प्रसज्येत। ननु च संख्येत्यनुवर्त्तिष्यते, तत् कुतोऽतिप्रसङ्गः? सत्यमेतत्; सैवानुवृत्तिः स्त्रीलिङ्गनिर्देशेन स्पष्टीक्रियते। यदि संख्येत्यनुवत्र्तते, सामथ्र्यादेव तदन्ता विज्ञास्यते, न हि षकारमात्रं वा नकारमात्रं वा संख्यास्ति, तदपार्थकमन्तग्रहणम्, नैतदस्ति; उपदेशावस्थायां या ष्णान्ता सा षट्()संज्ञा यथा स्यादित्येवमर्थत्वादन्तग्रहणस्य। असति तस्मिन् शतानि सहरुआआणीति नुमि कृते षट्संज्ञा स्यात्। इह च अष्टानाम्? इत्यष्टन आत्वे कृते षट्संज्ञा न स्यात्। ततश्च "षट्()चतुभ्र्यश्च" ७।१।५५ इति नुण् न भवति।
बाल-मनोरमा
ष्णान्ता षट् , १।१।२३

पञ्चन्शब्दो नित्यं बहुवचनान्तः। तस्य षट्संभाकार्यं लुकं विधास्यन् षट्संज्ञामाह--ष्णान्ता षट्। ष्च नश्च ष्णौ। ष्टुत्वेन णः। ष्णौ अन्तौ यस्याः सा ष्णान्ता। "बहुगणवतुडति सङ्ख्या" इत्यतः सङ्ख्येत्यनुवर्तते। तच्च पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्च षडित्यादिप्रसिद्धसङ्ख्याबोधकशब्दपरमाश्रीयते, बहुगणवतुडतिषु ष्णान्तत्वाऽसम्भवात्। तदाह--षान्तेत्यादिना। षड्भ्यो लुगिति। "अनेन जश्शसोर्लु"गिति शेषः। पञ्च पञ्चेति। जश्शसोर्लुकि नलोप इति भावः। सङ्ख्या किमिति। सङ्ख्याग्रहणानुवृत्तेः किं फलमिति प्रश्नः। विप्रुषः पामान इति विप्रुष्शब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्ख्यावाचकत्वाऽभावेन षट्संज्ञाविरहात्ततः परस्य जसो लुगिति भावः। ननु शतशब्दाज्जश्शसोः शिभावे "नपुंसकस्य झलचः" इति नुमि "सर्वनामस्थाने चे"ति दीर्घे शतानीति रूपम्। एवं सहरुआआणीत्यपि रूपम्। तत्र "अट्कुप्वाङि"ति णत्वं विशेषः। इह "तदागमाः" इति न्यायेन नुमोऽङ्गभक्तत्वाच्छतन्शब्दसहरुआन्शब्दयोर्नान्तसङ्ख्याशब्दत्वात् षट्संज्ञायां सत्यां "षड्भ्यो लु"गिति जश्शसोर्लुक् स्यादत आह--शतानीत्यादि। सर्वनामेति। सर्वनामस्थानं परत्वेन उपजीव्य प्रवृत्तस्य नुमः सन्निपातपरिभाषया सर्वनामस्थानभूतजश्शसोर्लुकं प्रति निमित्तत्वाऽभावादित्यर्थः। पञ्चभिः पञ्चभ्य इति। नलोपे रूपम्।

तत्त्व-बोधिनी
ष्णान्ता षट् ३३०, १।१।२३

ष्णान्ता षट्। स्त्रीलिङ्गनिर्देशः सङ्ख्यां विश्षयितुम्, तत्सामाथ्र्याच्च पूर्वत्र संज्ञापरमपि सङ्ख्याग्रहणमिह संज्ञिपरं संपद्यत इत्यदाशयेनाह--सङ्ख्येति। प्राचा तूपदेशकाले षान्ता नान्ता चेत्युक्तम्, तत् "पञ्चेत्यत्र नलोपे कृतेऽपी"त्यादिवक्ष्यमाणस्वग्रन्थविरुद्धम्। संप्रत्यनान्तत्वेऽप्युपदेशे नान्तत्वमासीदिति किमसिद्धत्वेनेति दिक्। संनिपातेति। तथा चोपदेशकाले इति व्याख्यानं निष्पलमपीति भावः। यत्त्वहुः--परिभाषाया अनित्यत्वाल्लक् स्यादिति, तत्साहसमात्रम्। इष्टस्थलेऽप्यप्रवृत्तौ परिभाषाया अकिञ्चित्करत्वापत्तेः। यदप्याहुः--"उपदेशग्रहणमिह कुतः समागत"मित्याशङ्क्य "ष्णान्ते"त्यन्तग्रहणसामथ्र्यादौपदेशिकत्वं लभ्यत इति। तदपि न। "सङ्क्ये"त्यस्याकर्षणेन संज्ञपरत्वसंपादनेन च सामर्थ्यो पक्षयात्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ डति १।१ षट् १।१ २३ सङ्ख्या १।१ २२

अर्थः॥

डति प्रत्ययान्ता सङ्ख्या षट्-संज्ञिका भवति।

उदाहरणम्॥

कति तिष्ठन्ति, कति पश्य॥
काशिका-वृत्तिः
डति च १।१।२५

डत्यन्ता या सङ्ख्या सा षट्संज्ञा भवति। कति तिष्ठन्ति। कति पश्य।
लघु-सिद्धान्त-कौमुदी
डति च १८७, १।१।२४

डत्यन्ता संख्या षट्संज्ञा स्यात्॥
न्यासः
डति च। , १।१।२४

"डत्यन्ता या संख्या सा षट्संज्ञा भवति" इति। संख्याग्रहणेनेहापि संख्यानुवत्र्तत इति दर्शयति। किमर्थं पुनः सेहानुवत्र्तते? पातेर्डतिः पतय इत्यत्र मा भूत्। अथ संख्यानुवृत्तावपि कस्मादेवात्र न भवति, यावतायमपि संख्यासंज्ञ एव, सामान्येन हि पूर्वं डतेः संख्यासंज्ञा विहिता? नैतदस्ति; वतुना साहचर्यात् तद्धितस्यैव डतेस्तत्र ग्रहणम्, न कृतः; कृच्चायम्।
बाल-मनोरमा
डति च २५७, १।१।२४

डति च। "डती"त्यविभक्तिको निर्देशः। प्रत्ययत्वात्तदन्तग्रहणम्। पूर्वसूत्रा "त्संख्ये"त्यनुवर्तते। "ष्णान्ता षट्" इत्यतः "ष"डिति च। तदाह--डत्यन्तेति। संक्येति किम्। पतिः। अथ षट्संज्ञाकार्यं लुकं वक्ष्यन्नाह-प्रत्ययस्य लुक्। "अदर्शनं लोप" इत्यतोऽदर्शनमित्यनुवर्तते। प्रत्ययस्याऽदर्शनं लुक्श्लुलुप्संज्ञकं स्यादित्यर्थः प्रतीयते। एवं सति एकस्यैव प्रत्ययाऽदर्शनस्य तिरुआओऽपि संज्ञाः स्युः। ततश्च "हन्ती"त्यत्र शब्लुकि "श्लौ" इति द्वित्वं स्यात्। "जुहोती"त्यत्र श्लौ सति "उतो वृद्धिर्लुकि हली"ति वृद्धिः स्यात्।

तत्त्व-बोधिनी
डति च २१८, १।१।२४

डति च। "ष्णान्ता ष"डित्यतः "ष"डित्यनुवर्तते। "सङ्ख्ये"ति पर्कृतं, "डती"त्यनेन विशेष्यते तदाह--डत्यन्ता सङ्ख्येति। सङ्ख्येति किम्? पतयः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ क्त-क्तवतू १।२ निष्ठा १।१

समासः॥

क्तश्च क्तवतुश्च क्त-क्तवतू, इतरेतरद्वन्द्वः

अर्थः॥

क्त-क्तवतू प्रत्ययौ निष्ठासंज्ञकौ भवतः

उदाहरणम्॥

पठितः, पठितवान्। चितः चितवान्। स्तुतः, स्तुतवान्। भिन्नः, भिन्नवान्। पक्वः, पक्ववान्॥
काशिका-वृत्तिः
क्तक्तवतू निष्ठा १।१।२६

क्तश्च क्तवतुश्च क्तक्तवतू प्रत्ययौ निश्ठासंज्ञौ भवतः। कृतः। कृतवान्। भुक्तः। भुक्तवान्। ककारः कित्कार्यार्थः। उकारः उगित्कार्यार्थः। निष्ठाप्रदेशाः श्वीदितो निष्ठायाम् ७।२।१४ इत्येवमादयः।
लघु-सिद्धान्त-कौमुदी
क्तक्तवतू निष्ठा ८१७, १।१।२५

एतौ निष्ठासंज्ञौ स्तः॥
न्यासः
क्वक्तवतू निष्ठा। , १।१।२५

"भुक्तवान्" इति। "चोः कुः" ८।२।३० इत कुत्वम्। "अत्वसन्तस् चाधातोः" ६।४।१४ इति दीर्घः। अथ केन विहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते? अनयैव संज्ञया। वक्ष्यति तृतीये "निष्ठा" ३।२।१०२ इति। यद्येवम्, निष्ठासंज्ञया क्तक्तवतू भाव्येते, तावेवाश्रित्य निष्ठासंज्ञेति; इतरेतराश्रयो दोषो भवति, "इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते, (व्या।२८) नैष दोषः; भाविनी हि संज्ञा विज्ञास्यते, यथा- "अस्य सूत्रस्य शटकं वय" इति। तौ भूते काले भवतः, ययोर्विहित- र्निष्ठेत्येषा संज्ञा भवतीति।
बाल-मनोरमा
क्तक्तवतू निष्ठा ८२२, १।१।२५

क्तक्तवतू निष्ठा। क्त, क्तवतु अनयोद्र्वन्द्वः। निष्ठेति प्रत्येकाभिप्रायमेकवचनम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ सर्वादीनि १।३ ३१ सर्वनामानि १।३ ३५

समासः॥

सर्वः आदिः येषां तानि इमानि, सर्वादीनि, बहुव्रीहिसमासः
सर्वेषां नामानि सर्वनामानि, षष्ठीतत्पुरुषः

अर्थः॥

सर्वादिशब्दानां सर्वनामसंज्ञा भवति

उदाहरणम्॥

सर्वे, सर्वस्मै, सर्वस्मात्, सर्वस्मिन्, सर्वेषाम्, सर्वकः। विश्वे, विश्वस्मै, विश्वस्मात्, विश्वस्मिन्, विश्वेषाम्, विश्वकः॥
काशिका-वृत्तिः
सर्वाऽदीनि सर्वनामानि १।१।२७

सर्वशब्दः आदिर् येषां तानीमानि सर्वादीनि सर्वनामसंज्ञानि भवन्ति। सर्वः, सर्वौ, सर्वे। सर्वस्मै। सर्वस्मात्। सर्वेषाम्। सर्वस्मिन्। सर्वकः। विश्वः, विश्वौ, विस्वे। विश्वस्मै। विश्वस्मात्। विश्वेषाम्। विश्वस्मिन्। विश्वकः। उभ। उभय। उभशब्दस्य सर्वनामत्वे प्रयोजनम् सर्वनाम्नस्तृतीय च २।३।२७ इति। उभाभ्यां हेतुभ्यां वसति, उभयोः हेत्वोः वसति। उभये। उभयस्मै। उभयस्मात्। उभ्येषाम्। उभयस्मिन्। डतर, डतम। कतर, कतम। कतरस्मै, कतमस्मै। इतर। अन्य। अन्यतर। इतरस्मै। अन्यस्मै। अन्यतरसमै। त्वशब्दो ऽन्यवाची स्वरभेदाद् द्विः पठितः। एकः उदात्तः। द्वितीयो ऽनुदात्तः। केचित् तकारान्तमेकं पठन्ति। त्व त्वतिति द्वावपि च अनुदाताउ इति स्मरन्ति। नेमनेमस्मै। वक्ष्यमाणेन जसि विभाषा भवति। नेमे, नेमाः इति। समसमस्मै। कथं यथासङ्ख्यम् अनुदेशः समानाम् १।३।१०, समे देशे यजेत इति। समस्य सर्वशब्दपर्यायस्य सर्वनामस्ंज्ञा इष्य्ते, न सर्वत्र। सिमसिमस्मै। पूर्वपरावरदक्षिणौत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् १।१।३३। स्वम् अंज्ञातिधनाऽख्याम् १।१।३४। अन्तरं बहिर्योगोप्संव्यानयोः १।१।३५। त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम्। सर्वादिः। सर्वनामप्रदेशाः सर्वनाम्नः स्मै ७।१।१४ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
सर्वादीनि सर्वनामानि १५१, १।१।२६

सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरं बहिर्योगोपसंव्यानयोः। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम्॥
न्यासः
सर्वादीनि सर्वनामानि। , १।१।२६

"सर्वशब्द आदिर्येषां तानीमानि सर्वादीनि" इति। एष तद्()गुणसंविज्ञानो बहुव्रीहिः; इतरथा ह्रुपलक्षणार्थत्वात् सर्वशब्दस्य संज्ञा न स्यात्। न ह्रुपलक्षणस्योपसर्जनी-भूतस्य कार्येण सम्बन्धो भवति। तथा हि- "चित्रगुरानीयताम्" इत्युक्ते न गवा- मप्यानयनं भवति। तद्गुणसंविज्ञानस्य बहुव्रीहेर्लिङ्गम्- "अदः सर्वेषाम्" ७।३।१०० इति निर्देशः। सर्वशब्दस्य सुट् सर्वनाम्नः कार्यम्; अन्यथा हि तन्नोपपद्यते। " सर्वः, सर्वौ सर्वे" इति। इदमत्रोदाहरणं "सर्वे" इति। अत्र हि सर्वनामसंज्ञायाम् " जसः शी" ७।१।१७ इति शीभावः कार्यः। पूर्वयोस्तु तत्साहचर्येण "सर्वे" इत्येतस्य पुँल्लिङ्गतां श्रूयमाणविभक्तितां च दर्शयितुमुपन्यासः; अन्यथा "सर्वे" इत्येता- वत्युच्यमाने स्त्रीलिङ्गस्य लुप्तसम्बृद्धेरयं प्रयोग इति। कस्यचिद् भ्रान्तिः स्यात्। "सर्वस्मै" इति। "सर्वनाम्नः स्मै" ७।१।१४। "सर्वस्मात्, सर्वस्मिन्" इति। "ङसिङयोः स्मात्स्मिनौ" ७।१।१४। "सर्वस्मात्, सर्वस्मिन्" इति। "ङसिङयोः स्मात्स्मिनौ" ७।१।१५ इति। "सर्वकः" इति- "अव्ययसर्वनाम्नामकच् प्राक् टेः" ५।३।७१ इति। उभशब्दोऽयं द्विवचनटाब्विषय एव प्रयुज्यते-"उभौ उभे"इति। न च तत् किञ्चित् सर्वनामकार्यं सम्भवति; स्मैप्रभृतीनां यतायोगमेकवचनबहुवचनविषयत्वात्। अकजपि नैवं सर्वनामसंज्ञां प्रयोजयति; विशेषाभावात्। नहि तस्मादकचि, कप्रत्यये वा विहिते रूपभेदो वा भवति। तत् किमर्थस्तस्येह पाठः? इत्याह- "उभशब्दस्थ" इत्यादि। "सर्व-नाम्नस्तृतीय च" २।३।२७ इत्यनेन उभाभ्यां हेतुभ्याम्, उभोयर्हेत्वोरिति तृतीया-षष्ठ्यौ यथा स्यातामित्येवमर्थ्सतस्येह पाठ इति दर्शयति। "डतरतम" इति। "किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्" ५।३।९२ "वा बहुनां जातिपरिप्रश्ने डतमच्" ५।३।९३ इत्येतयोः प्रत्ययोग्र्रहणम्। "वक्ष्यमाणेन" इति। "प्रथमचरम" १।१।३२ इत्यादिना। "कथम्" इत्यादि। समशब्दस्य सर्वनामसंज्ञायां सत्यां "आमि सर्वनाम्नः सुट्" ७।१।५२ इति सुटि "समेषाम्" इति भवितव्यम्, तत् कथं सामानामिति भवति? ततश्च सप्तम्येकवचनस्य स्मिन्भावे कृते समस्मिन्निति भवितव्यम्, तत् कथं "समे देशे यजेत्" इति प्रयोग उपपद्यते ! इत्यभिप्रायः। "न सर्वत्र" इति। न सर्वत्रार्थे वत्र्तमान- स्येत्यर्थः। एतच्च "सर्वेषां नामानि सर्वनामानि" इत्यन्वर्थसंज्ञाकरणाल्लभ्यते। स एव हि समशब्दः सर्वेषां नाम भवति यः सर्वशब्दपर्यायः, न चान्योः प्रयोगयोः समशब्दः सर्वपर्यायः। तथा हि "समानाम्" इत्यत्र समशब्दस्तुल्यार्थे वत्र्तते। "समे देशे" इत्यत्राप्यविषमे- निम्नोन्नतादिरहिते। अत एव चान्वर्थसंज्ञाकरणात् संज्ञोपसर्जनीभूतानां संज्ञा न भवति। यथा- सर्वो नाम कश्चित्, तस्मै सर्वाय देहि। अतिक्रान्तः रुआर्वमतिसर्वः, तस्मा अतिसर्वाय देहीति। न ह्रेवंप्रकाराणि सर्वेषां नामानि; विशिष्टव्सतु विषयत्वात्। "सर्वनामानि" इत्यत्र"पूर्वपदात् संज्ञायाम्" ८।४।३ इतिणत्वं तु न भवति, अत एव निपातनात्।
बाल-मनोरमा
सर्वादीनि सर्वनामानि २११, १।१।२६

नपुंसकवशात् "शब्दरूपाणी"ति विशेष्यमद्याहार्यं, तदाह--सर्वादीनीति। ननु बहुव्रीहेरन्यपदार्थप्रधानत्वात्सर्वंशब्दस्य च समासवर्तिपदार्थत्वादन्यपदार्थत्वाबावाद्वि()आआदिशब्दानामेव सर्वादिशब्देन बहुव्रीहिणावगमात्सर्वनामसंज्ञा स्यान्न तु सर्वशब्दस्यापीति चेत्, उच्यते--सर्व आदिर्यस्य समुदायस्येति विग्रहः। सर्वशब्दघटितः समुदायः समासार्थः। समुदाये च प्रवर्तमाना सर्वनामसंज्ञा क्वचिदप्यप्रयुज्यमाने तस्मिन् वैयथ्र्यादानर्थक्यात्तदङ्गेष्विति न्यायेनावयवेष्ववतरन्ती अविशेषात्सर्वशब्देऽपि भवति। एवंचात्र सर्वशब्दस्य स्वरूपेण वर्तिपदार्थता, समुदायरूपेण त्वन्यपदार्थप्रवेशः। नच समुदायस्यान्यपदार्थत्वे सर्वादीनीति बहुवचनानुपपत्तिः शङ्क्याः, सर्वशब्दघटितस्य विवक्षितावयवसङ्ख्यस्य समूहस्यान्यपदार्थत्वात्। "अद्भूतावयवभेदः समुदायः समासार्थ" इति कैयटोक्तेरप्ययमेवार्थः। अतो न बहुवचनस्यानुपपत्तिः तदेवं व्याख्याने "हलि सर्वेषा"मित्यादिनिर्देशः प्रमाणम्। सर्वशब्दस्य सर्वनामत्वाऽभावे तु सर्वेषामित्यादौ सर्वनामकार्याणि सुडादीनि न स्युः। तथाच सर्वादीनीति तद्गुणसंविज्ञानो बहुव्रीहिः। तस्य=अन्यपदार्थस्य, गुण#आ#ः=विशेषणानि वर्तिपदार्थरूपाणि, तेषां संविज्ञानं=क्रियान्वयितया विज्ञानं यत्र स तद्गुणसंविज्ञान इति व्यत्पत्तिः। यत्र संयोगसमवायान्यतरसंबन्धेनान्यपदार्थे वर्तिपदार्थान्वयस्तत्र प्रायेण तद्गुणसंविज्ञानो बहुव्रीहिः। यथा-"द्विवासा देवदत्तो भुङ्क्ते", "लम्बकर्णं भोजये"त्यादौ। तत्पर हि वाससोः कर्णयोश्च भुजिक्रियान्वयाऽभावेऽपि संनिहितत्वमात्रेण तद्गुणसंविज्ञानत्वम्। प्रकृते च समुदाये।ञन्यपदार्थे सर्वशब्दस्य समवायान्तर्गतारोपितावयवावयविभावसंबन्धसत्त्वात्तद्गुणसंविज्ञानत्वम्। स्वस्वामिभावादिसम्बन्धेनान्यपदार्थे वर्तिपदार्थान्वये त्वतद्गुणसंविज्ञानो बहुव्रीहिः। यथा--"चित्रगुमानये"त्यादावित्यलम्।

ननु सर्व वि()ओत्येवं सर्वादिशब्दानां केवलानामेव सर्वादिगणे पाठात्परमसर्वादिशब्दानां कथं सर्वनामतेत्यत आह--तदन्तस्यापीति। द्वन्द्वे चेतीति। "द्वन्द्वे चे"त्यनेन सर्वादिशब्दान्तद्वन्द्वस्य सर्वनामसंज्ञा प्रतिषिध्यते--वर्णाश्रमेतराणामित्यादौ। यदि केवलानामेव सर्वादिगणपठितानां केवलानामेव सर्वादिशब्दानामस्तु सर्वनामता, मास्तु तदन्तानामपि, "सर्वनाम्नः स्मै" इत्यादिसर्वनामकार्याणामङ्गाधिकारस्थत्वेन "पदाङ्गाधिकारे तस्य च तदन्तस्य चे"ति परिभाषया "परमसर्वस्मै" इत्यादिषु। सिद्धेरित्यत आह--तेनेति। तदन्तस्यापि संज्ञाबलेनेत्यर्थः। सिध्यतीत्यर्थः। चकारात्पञ्चम्यास्तसिलिति तसिल् च। नचावयवगतसर्वनामत्वेन तत्सिद्धिरिति वाच्यं , कुत्सित #इति सूत्रस्थभाष्यरीत्या सह्ख्याकारकाभ्यां पूर्णार्थस्येतरान्वयेन सुबन्तादेव तद्धितोत्पत्त्यवगमेन सर्वनामप्रकृतिकसुबन्तार्थगतकुत्सादिविवक्षायां सर्वनामावयवटेः प्रागकजित्यर्थपर्यवसानात्तदन्तसंज्ञाऽभावे तदसिद्धेरिति भावः।

तत्त्व-बोधिनी
सर्वादीनि सर्वनामानि १७८, १।१।२६

सर्वादीनीति। तद्गुणसंविज्ञानो बहुव्रीहिरयम्। "अदः सर्वेषा"मिति लिङ्गम्। आदिशब्दोऽत्रावयववाची। सर्व आदिराद्यावययो येषां तानीति विग्रहः। उद्भूतावयवभेदः समुदायः समासार्थं इति बहुवचनम्। तस्य समुदायस्य युगपल्लक्ष्ये प्रयोगाभावात् "आनर्थक्यात्तदङ्गेषु" इति न्यायेन तदवयवेषु प्रवर्तमाना सर्वनामसंज्ञाऽविशेषात्सर्वशब्देऽपि प्रवर्तत इति युक्तं तद्गुणसंविज्ञानत्वम्। तस्यान्यपदार्थस्य गुणा वर्तिपदार्थरूपाणि विशेषणानि तेषा कार्यान्वयितया संविज्ञानं यत्र स तद्गुणसंविज्ञान इत्यक्षरार्थः। लोकवेदयोरपि संयोगसमवायान्यतरसम्बन्धे "लोहितोष्णीषाऋत्विजश्चरन्ति,""लम्बकर्णमानये"त्यादौ तद्गुणसंविज्ञानत्वमेव। स्वस्वामिभावसंबन्धे त्वतद्गुणसंविज्ञानत्वं "चित्रगुमानये"त्यादौ। ननु "सर्वनामानी"त्यत्र "पूर्वपदात्संज्ञाया"मिति णत्वं कस्मान्न भवति?। सौत्रत्वान्नेति चेत्,लोके सर्वनामशब्दस्याऽसाधुत्वापत्त्या "सर्वनामसंज्ञानि स्यु"रित्युत्तरग्रन्थस्याऽसाधुत्वापत्तेरिति चेन्मैवम्। "निपातनाण्णत्वं ने"ति भाष्योक्तव्याख्याश्रयणादिष्टसिद्धेः। अत्र भाष्यानुसाराद्बाधकान्येव निपातनानि भवन्तीति पक्ष आश्रितः। "अब#आधकान्यपि निपातनानि भवन्ती"त् पक्षस्तु "विभाषा फाल्गुनी"ति सूत्रे श्रवणाशब्दे निपातितेऽपि "श्रावणी"ति प्रयोगोऽपि साधुरित्येवमर्थमाश्रयिष्यते। विशेषणानुगुणं विशेष्यमध्याहरति-शब्दस्वरूपाणीति। द्वन्द्वे चेति। स हि निषेधः समुदायस्यैव न त्ववयवानामिति वक्ष्यति, न च तदन्तविधिं विना समुदाये संज्ञाप्रसक्तिरस्तीति भावः। नन्वङ्गाधिरकारे तदन्तविधिं विनैव "परमसर्वस्मै" इत्यादौ स्मायादिसिद्धेस्तदन्तसंज्ञायाः किं फलमित्यत आह--तेनेति। न चेहापि "प्रातिपदिका"दित्यनुवृत्ते सर्वनाम्नस्तद्विशेषणत्वे तदन्तविधिर्भविष्यतीति वाच्यं, "समासप्रत्ययविधौ प्रतिषेधः" इत्युक्तत्वादिति भावः। अकच्चेति चकारात्परमसर्वत इत्यत्र तसिल्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ विभाषा १।१ दिक्समासे ७।१ बहुव्रीहौ ७।१ सर्वादीनि १।३ २६ सर्वनामानि १।३ २६

समासः॥

दिशां समासः, दिक्समासः, तस्मिन् दिक्समासे, षष्ठीतत्पुरुषः

अर्थः॥

दिक्समासे बहुव्रीहौ सर्वादीनि सर्वनामसंज्ञकानि विभाषा भवन्ति।

उदाहरणम्॥

उत्तरपूर्वस्यै, उत्तरपूर्वायै। दक्षिणपूर्वस्यै, दक्षिणपूर्वायै। उत्तरपूर्वस्याः, उत्तरपूर्वायाः। दक्षिणपूर्वस्याः, दक्षिणपूर्वायाः।
काशिका-वृत्तिः
विभाषा दिक्षमासे बहुव्रीहौ १।१।२८

न बहुव्रीहौ १।१।२८ इति प्रतिषेधं वक्ष्यति। तस्मिन् नित्ये प्रतिषेधे प्राप्ते विभाषेयम् आरभ्यते। दिशां समासः दिक्षमासः। दिगुपदिष्टे समासे बहुव्रीहौ विभाषा सर्वादीनि सर्वनामसंज्ञानि भवन्ति। उत्तरपूर्वस्यै, उत्तरपूर्वायै। दिक्षिणपूर्वस्यै, दक्षिणपूर्वायै। दिग्ग्रहणं किम्? न बहुव्रीहौ १।१।२८ इति प्रतिषेधं वक्ष्यति, तत्र न ज्ञायते क्व विभाषा, क्व प्रतिषेधः इति। दिग्ग्रहणे पुनः क्रियमाणे ज्ञायते दिगुपदिष्टसमासे विभाषा, अन्यत्र प्रतिषेधः इति। समासग्रहणं किम्? समास एव यो बहुव्रीहिः, तत्र विभाषा यथा स्यात्। बहुव्रीहिवद् भावेन यो बहुव्रीहिः, तत्र मा भूत्। दक्षिणदक्षिणस्यै देहि। बहुव्रीहौ इति किम्? द्वन्द्वे विभाषा मा भूत्। दक्षिणौत्तरपूर्वाणाम् इति द्वन्द्वे च १।१।३१ इत् नित्यं प्रतिषेधो भवति।
लघु-सिद्धान्त-कौमुदी
विभाषा दिक्समासे बहुव्रीहौ २२२, १।१।२७

सर्वनामता वा। उत्तरपूर्वस्यै, उत्तरपूर्वायै। तीयस्येति वा सर्वनामसंज्ञा। द्वितीयस्यै, द्वितीयायै॥ एवं तृतीया॥ अम्बार्थेति ह्रस्वः। हे अम्ब। हे अक्क। हे अल्ल॥ जरा। जरसौ इत्यादि। पक्षे रमावत्॥ गोपाः, विश्वपावत्॥ मतीः। मत्या॥
न्यासः
विभाषा दिक्समासे बहुव्रीहौ। , १।१।२७

"दिगुपदिष्टे" इति। दिशामुपदिष्ट उक्तो दिगुपदिष्टः। स पुनः "दिङनामान्यन्तराले" २।२।२६ इति यः समासस्तस्यात्र ग्रहणम्। स पुनर्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते। प्रतिपदोक्तसमासाश्रयणं तु या पूर्वा दिक् सोत्तराऽस्योन्मु- ग्धस्य, "अस्मै पूर्वोत्तराय देहि" इत्यत्रा मा भूत्। "उत्तरपूर्वस्मै" इति। उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालमिति पूर्वोक्तेन सूत्रेण बहुव्रीहिः, "सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः" (जै।प।वृ।१०३) इति पूर्वपदस्य पुंवद्भावः, चतुर्थ्येकवचनम्, "सर्वनाम्नः स्याड्()ढ्रस्वश्च" ७।३।११४ इति याट्, "आटश्च" ६।१।८७ इति वृद्धिः। "समासग्रहणं किम्" इति। यावता न बहुव्रीहिः समासत्वं व्यभिचरत्येव, ततोऽ पार्थकं विसेषणमित्यभिप्रायः। "समास एव यो बहुव्रीहि" इति। यस्यातिदेशेन बहुव्रीहिवद्भावो न विधीयते स वेदितव्यः समास एव बहुव्रीहिरिति। स पुनर्यः समासाधिकारे विहितः। "बहुव्रीहिवद्भावेन" इति। यस्यातिदेशिकं बहुव्रीहित्वं स बहुव्रीहिवद्भावेन बहुव्रीहिः। "दक्षिणदक्षिणस्यै" इति। "एकं बहुव्रीहिवत्" ७।१।९ इत्यतो बहुव्रीहिवदिति वत्र्तमाने "आबाधे च" ८।१।१० इति दक्षिणाशब्दस्य द्विर्वचनम्। बहुव्रीहि- वद्भावाच्च सुब्लुक्। अयं बहुव्रीहिवद्भावेन बहुव्रीहिरिति विभाषा न प्रवत्र्तते। योऽपि "न बहुव्रीहौ" १।१।२८ इति वक्ष्यमाणः प्रतिषेधः सोऽपीह न भवति; तत्रापि समासाधिकारात। "दक्षिणोत्तरपूर्वाणाम्" इति। अत्र "द्वन्द्वे च" १।१।३० इति नित्य एव प्रतिषेधो भवति, तेन पक्षे सुण्न भवति। यद्येवम्, "सर्वनाम्नो वृत्तिमात्रे" ( जै।प।वृ१०३) इति पुंवद्भावोऽत्र न स्यात्; नैतदस्ति; अवयवस्याद्वन्द्वत्वात्। ननु विनाऽपि बहुव्रीहिग्रहणेनात्र "द्वन्द्वे च"१।१।३० इति प्रतिषेधेन भाव्यमेव; तदपार्थकं बहुव्रीहिग्रहणम्, नैतदस्ति; यो हि दिग्द्वन्द्वो न भवति स तस्य विषयः स्यात्। दिग्द्वन्द्वे त्वसति बहुव्रीहिग्रहणे एषैव विभाषा स्यात्। तस्माद्बहुव्री- हिग्रहणं कत्र्तव्यम्? न कत्र्तव्यम्। कस्मान्न भवति? "दक्षिणोत्तरपूर्वाणाम्" इत्यत्र प्रतिपदोक्तसमासस्येह ग्रहणात्। एवं तर्ह्रुत्तरार्थं बहुव्रीहिग्रहणम्। "न वहुव्रीहौ" १।१।२८ इत्यत्रास्य प्रयोजनं वक्ष्यति। वृत्तिकारस्य त्वेषोऽभिप्रायः- "उत्तरार्थमवश्यकत्र्तव्यम्, तदुत्तरार्थं कृतमिहापि स्पष्टार्थं भविष्यति" इति।
बाल-मनोरमा
विभाषा दिक्समासे बहुव्रीहौ २९०, १।१।२७

तत्र विशेषं दर्शयितुमाह--विभाषा दिक्समासे। "सर्वादीनी"त्यतः "सर्वनाम"ग्रहणमनुवर्तते। तदाह--अत्रेति। दिक्समासे इत्यर्थः। "न बहुव्रीहौ" इत्यलौकिकविग्रहवाक्ये नित्यनिषेधे प्राप्ते विकल्पार्थमिति केचित्। गौणत्वादप्राप्ते विभाषेयमित्यन्ये। सर्वनामत्वपक्षे उदाहरति--उत्तरपूर्वस्यै इति। स्याड्ढ्रस्वौ। उत्तरपूर्वायै इति। सर्वनामत्वाऽभावपक्षे याट्। उत्तरपूर्वायाः-उत्तरपूर्वस्याः। उत्तरपूर्वासाम्--उत्त्रपूर्वाणाम्। उत्तरपूर्वस्याम्--उत्तरपूर्वायाम्। "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" इति मात्रग्रहणात्संप्रत्यसर्वनामत्वेऽपि पूर्वपदस्य पुंवत्त्वम्। ननूत्तरा दिगिति गत्वा मोहवशात्पूर्वा दिक् यस्याः सा उत्तरपूर्वा। "अनेकमन्यपदार्थ" इति बहुव्रीहिः। अत्रापि दिक्शब्दघटितसमासत्वात्सर्वनामताविकल्पे उत्तरपूर्वस्यै--उत्तरपूर्वायै इति रूपद्वयं स्यात्। स्याडागमस्तु नेष्यते। तत्राह--दिङ्नामानीति। "दिङ्नामान्यन्तराले" इति बहुव्रीहिः प्रतिपदोक्तो दिक्समासः, दिक्शब्दमुच्चार्यं विहितत्वात्। नतु "अनेकमन्यपदार्थे " इति बहुव्रीहिरपि। ततश्च लक्षणप्रतिपदोक्तपरिभाषया न तस्येह ग्रहणमित्यर्थः। योत्तरेति। उत्तराशब्दस्य पूर्वाशब्दस्य च सामानाधिकरण्यं द्योतयितुं यत्तच्छब्दौ। सामानाधिकरण्याऽभावे "अनेकमन्यपदार्थे" इति बुहुव्रीहेरसंभवात्, "बहुव्रीहिः समानाधिकरणानां वक्तव्य)" इति वचनात्। उन्मुग्धाया इति। तेन पूर्वोत्तरयोर्विरोधात्कथं सामानादिकरण्यमिति शङ्का निरस्ता। ननु "विभाषा दिक्समासे" इत्येवास्तु, बहुव्रीहिग्रहणं न कर्तव्यं, प्रतिपदोक्तत्वेन "दिङ्नामानी"ति बहुव्रीहेरेव ग्रहणसिद्धेरित्यत आह--बहुव्रीहिग्रहणं स्पष्टार्थंमिति। बाह्रायै इत्यर्थ इति। "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये। छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि चे"ति कोशात्। अर्थान्तरपरत्वेन तु सर्वनामत्वाऽभावान्न स्यादिति भावः। अपुरीत्युक्तेरिति। "अन्तरं बहिर्योगेति गणसूत्रे" इति शेषः।

तत्त्व-बोधिनी
बिभाषा दिक्समासे बहुर्वीहौ २५२, १।१।२७

वभाषा दिक्समासे। गौणत्वादप्राप्ते विभाषेयं, न तु "न बहुव्रीहा"विति निषेधे प्राप्ते इति भ्रमितव्यम्। तंस्याऽलौकिकप्रक्रियावाक्यान्तर्गतसर्वादिविषयत्वादस्य च समासविषयत्वात्। स्पष्टार्थमिति। प्रतिपदोक्समासविधायके "दिङामानी"ति सूत्रे "शेषो बहुव्रीहि"रित्यतो "बहुव्रीहि"रित्यधिकारादिति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ ३१ बहुव्रीहौ ७।१ सर्वादीनि १।३ २६ सर्वनामानि १।३ २६

अर्थः॥

बहुव्रीहौ समासे सर्वादीनि सर्वनामसंज्ञकानि न भवन्ति।

उदाहरणम्॥

प्रियविश्वाय, प्रियोभयाय, द्व्यन्याय, त्र्यन्याय।
काशिका-वृत्तिः
न बहुव्रीहौ १।१।२९

सर्वनामसंज्ञायां तदन्तविधेरभ्युपगमाद् बहुव्रीहेरपि सर्वाऽद्यन्तसय् संज्ञा स्यातिति प्रतिषेध आरभ्यते। बहुव्रीहौ समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। प्रियविश्वाय। प्रियोभ्याय। द्व्यन्याय। त्र्यन्याय। इह च, त्वत्कपितृकः, मत्कपितृकः इत्यकज् न भवति। बहुव्रीहौ इति वर्तमाने पुनर्बहुव्रीहिग्रहणं भूतपूर्वमात्रे ऽपि प्रतिषेधो यथा स्यात्, वस्त्रान्तरवसनान्तराः इति।
न्यासः
न बहुव्रीहौ। , १।१।२८

"सर्वनामसंज्ञायाम्" इत्यादि। कथं पुरेतदवगतम्- अभ्युपगतस्तदन्तविधिरिति? अत एव प्रतिषेधात्, अन्यथा हि निष्फलः प्रतिषेधः स्यात्। तदन्तविध्यभ्युपगमे हि "परमसर्वस्मै उत्तमसर्वस्मै" इत्यत्रापि संज्ञा यथा स्यात्। "इह च" इत्यादि। अस्य "प्रतिषेध आरभ्यते" इत्यनेन सम्बन्धः। "त्वं पिताऽस्य, अहं पिताऽस्य" इति विगृह्र बहुव्रीहौ कृतेऽज्ञाताद्यर्थविवक्षायाम् असति प्रतिषेधे। "अव्ययसर्वनाम्नामकच् प्राक् टेः" ५।३।७१ इत्यत्राकच् प्रसज्येत। ततश्च "त्वकत्पित-कः, मकत्पितृकः" इत्यनिष्टं रूपं स्यात्। तस्मादकज् मा भूदिति प्रतिषेद आरभ्यते। तेन "प्रागिवात् कः" ५।३।७० इति क एव भवति। तत्र परतः "प्रत्ययोत्तरपदयोश्च" ७।२।९८ इति मपर्यन्त-र्योर्युष्मदस्मदोस्त्वमयोः कृतयोः "नद्यृतश्च" ५।४।१५३ इति समासान्ते कपि च "त्वत्कपितृकः, मत्कपितृकः" इति सिद्ध्यति। ननु चान्वर्थसंज्ञाकरणादेव संज्ञानिरासे कृतेऽकज् न भविष्यति-न ह्रत्र सर्वार्थता सम्भवति, विशेषविषयत्वात्, नैतदस्ति; समुदायो हि विशेषे वत्र्तते, पूर्वपदं तु सर्वार्थताया अनपेतमेव। भवत्वनयोरनन्तरयो-रुदाहरणयोरेतत्सूत्रविषयता, "प्रियि()आआय" इत्यादिस्तु नपपद्यते; न हि प्रियवि()आआदयः शब्दाः सर्वेषां नामानि नापि तदवयवभूतानां वि()आआदिशब्दानां किञ्चित् सर्वनामका- र्यममुपपद्यते; स्मैप्रभृतीनामङ्गकार्यत्वात्, वि()आआदिशब्दानां चानङ्गत्वात्? एवं मन्यते- "त्वत्कपितृकः, कत्कपितृकः" इत्यत्राकज् मा भूदिति, एतदर्थं तावदेतदार- ब्धव्यम्, "प्रियवि()आआय" इत्येवमादावपि विस्पष्टार्थं भविष्यतीति। अथ "बहुव्रीहौ" इति वत्र्तमाने किमर्थं पुनर्बहुव्रीहग्रहणमित्याह- "बहुव्रीहौ" इत्यादि। "वस्त्रान्तरवसनान्तराः" इति। वस्त्रमन्तरं येषामिति बहुव्रीहि कृत्वा वस्त्रान्तराश्च वसनान्तराश्चेति द्वन्द्वः कृतऋ। अत्र वत्र्तमा- नत्वाद् द्वन्द्वस्य "द्वन्द्वे च" १।१।६०, "विभाषा जसि" १।१।३१ इति द्वन्द्वा- श्रितो विभाषाप्रतिषेधः स्यात्, न नित्यो बहुव्रीह्राश्रितः। पुनर्बहुव्रीहिग्रहणा-त्तु भूतपूर्वस्यापि बहुव्रीहेराश्रयमात् तदाश्रयो नित्यः प्रतिषेधो भवति। वसनशब्द- श्चात्र वसत्यस्मिन्नित्यधिकरणसाधनो गृहे वत्र्तते, न वस्त्रे; अन्यथा वस्त्रान्तरवसनान्तरशब्दयोः पर्यायत्वाद् द्वन्द्वो न स्यात्, "तुल्यार्थाञ्च विरुपाणामेकशेषः" इत्येकशेषविधानात्।
बाल-मनोरमा
न बहुव्रीहौ २२०, १।१।२८

तत्रेदमारभ्यते--"न बहुव्रीहौ"। "सर्वादीनि सर्वनामानी"त्यनुवर्तते। बहुव्रीहौ सर्वादीनि सर्वनामानि न स्युरित्यर्थः प्रतीयते। एवं सति सूत्रमिदं व्यर्थं, "प्रियसर्वाये"त्यादीनां बहुव्रीहिवर्तिनां सर्वादीनां स्वार्थोपसङ्क्रान्तार्थान्तप्रधानकतयोपसर्जनत्वादेव सर्वनामत्वनिषेधसिद्धेः, "संज्ञोपसर्जनीभूतास्तु न सर्वादयः" इति वक्ष्यटमाणत्वात्। अतो व्याचष्टे -- चिकीर्षित इति। बहुव्रीहाविति विषयसप्तम्याश्रयणादयमर्थो लभ्यते। तथाच बहुव्रीहौ प्रसक्ते सति ततः प्रागेव विग्रहवाक्येऽयं निषेधोर्थवान्। एकार्थीभावात्मकसामथ्र्यस्य समासदशायामेव सत्त्वेन विग्रहवाक्ये तदभावेन तदानीमुक्तोपसर्जनत्वस्याऽभावादिति भावः। अथ लौकिकविग्रहवाक्यं दर्शयल्लँक्ष्यभूतं बहुव्रीहिं दर्शयति--त्वकं पितेत्यादिना। सर्वनामत्वाऽभावात्कप्रत्यये "प्रत्ययोत्तरपदयोश्चे"ति त्वमादेशे त्वत्को मत्क इति च रूपम्। ननु बहुव्रीहिप्रवृत्तेः प्रागलौकिकविग्रहवाक्ये सर्वनामत्वनिषेधात्त्वं पितेति कथं लोकिकविग्रहवाक्यप्रदर्शनमित्यत आह--इहेति। "न बहुव्रीहा"वित्यस्मिन्सूत्र इत्यर्थः। प्रक्रियावाक्य इति। युष्मद् स्-पितृ स्, अस्मद् स्-पित#ऋ स्--इत्यलौकिकविग्रहवाक्य एवेत्यर्थः। लोकिकविग्रहवाक्ये तु नायं निषेधः, बहुव्रीहिवत्तस्य स्वार्थे परिनिष्ठितत्वेन स्वतन्त्रप्रयोगाह्र्मतया बहुव्रीहेस्तत्र चिकीर्षितत्वाऽभावादलौकिकविग्रहात्मके प्रक्रियावाक्य एव तस्य चिकीर्षितत्वात्। यथा चैतत्तथा समासनिरूपणे वक्ष्यते नन्वलौकिकविग्रहवाक्ये मास्तु सर्वनामतानिषेधः, को दोषः()। तत्राह-अन्यथेति। न बहुव्रीहावित्यलौकिकविग्रहवाक्ये निषेधाऽभावे सतीत्यर्थः। तत्रापीति। अलौकिकविग्रहवाक्येऽपीत्यर्थः।

नन्वलौकिकविग्रहवाक्ये भवत्कच्। सत्यप्यकचि तस्य प्रयोगानर्हत्वेन बाधकाऽभावादित्यत आह--स चेति अलौकिकविग्रहवाक्ये श्रुतस्य लौकिकविग्रहवाक्ये समासे च श्रवणनियमादिति भावः। उभयत्रापि तन्नियमे दृष्टान्तद्वयमाह--अतिक्रान्तो भवकन्तमित्यादि। भवच्छबन्दस्य सर्वादिगणे पाठात्सर्वनामत्वादलौकिकविग्रहदशायामकच्। ततश्च भवकत् अम् अति इत्यलौकिकविग्रहवाक्यं संपद्यते। तत्र "अत्यादयः क्रान्ताद्यर्थे द्वितीयये"ति समासे सति "सुपो धातुप्रातिपदिकयो"रिति सुब्लुकि अतिभवकच्छब्दात्प्रथमैकवचने।ञतिभवकानिति रूपम्। समासाऽभावपक्षे तु भवकन्तमतिक्रान्त इति लौकिकविग्रहवाक्यं भवति। तत्र समासदशायां भवच्छब्दार्थस्य स्वोपसङ्कान्तार्थान्तरप्रधानतयोपसर्जनत्वे।ञप्यलौकिकविग्रहदशायां भवच्छब्दस्यानुपसर्जनत्वात्सर्वनामत्वे सति प्रवृत्तोऽकच् अतिक्रान्तो भवकन्तमिति लौकिकविग्रहवाक्येऽभवकानिति समासे चानुवर्तते, लौकिकविग्रहदसायां भवच्छब्दस्योक्तरीत्याऽनुपसर्जनत्वात्। समासे तस्योपसर्जनत्वेऽपि योनिभूताऽलौकिकविग्रहदशायां प्रवृत्तस्याऽकचो निवर्तकाऽभावात्।

नच भवत् अम् इत्यलौकिकविग्रहदशायां सतोऽप्यनुपसर्जनत्वस्य समासदशायां विनाशं प्राप्स्यमानतया विनाशोन्मुखत्वादकृतव्यूहपरिभाषयाऽलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावादकज्दुर्लभः। ततश्चाऽतिक्रान्तो भवकन्तमिति लोकिकविग्रहवाक्येऽतिभवकानिति समासे च कथमकच्प्रसक्त इति दृष्टान्तऽसिद्धिरिति वाच्यम्। एवञ्जातीयकाऽलौकिकविग्रहवाक्ये सर्वनामत्वप्रवृत्तावकृतव्यूहपरिभाषाया अनित्यत्वेनाऽनाप्रवृत्तेः। तदनित्यत्वे च न बहुव्रीहाविति सूत्रमेव ज्ञापकम्। तथा हि--यद्यकृतव्यूहपरिभाषा सार्वत्रिकी स्यात्, तर्हि बहुव्रीहिविषयेऽपि युष्मद् स् पितृस् इत्याद्यलौकिकविग्रहवाक्येऽनुपसर्जनत्वस्य बहुव्रीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याऽप्रसक्तत्वात् "न बहुव्रीहा"विति नारभ्येत। अकृतव्यूहपरिभाषायास्तत्र प्रवृत्तेर्भविष्यद्बहुव्रीहिकालिकविनाशोन्मुखमनुपसर्जनत्वं पुरस्कृत्य तदलौकिकविग्रहवाक्ये सर्वनामत्वस्याऽप्रसक्तत्वान्न तन्निषेधाय न बहुव्रीहावित्यर्थवत्। नचोदाह्मतबहुव्रीहिविषयाऽसोकिकविग्रवाक्येऽकृतव्यूहपरिभाषामाश्रित्यैव सर्वनामत्वाऽभाव आश्रीयतां, किं न बहुव्रीहाविति सूत्रेणेति वाच्यम्। एवं सत्यतिक्रान्तो भवकन्तमतिभवकनित्यादि न सिध्येत्। अकृतव्यूहपरिभाषया तदलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावेनाकचः प्रवृत्त्यभावे तस्यातिक्रान्तो भवकन्तमित्यादिलौकिकविग्रहवाक्येऽतिभवकानिति समासेऽपि च श्रवणं न स्यात्। एवञ्च बहुव्रीहिविषयेऽलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्यसिद्धवत्कृत्य सर्वनामत्वनिषेधात्तदितरसमासविषयेऽप्यलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्या सर्वनामत्वं विज्ञायते। एतदर्थमेव न बहुव्रीहाविति सूत्रमित्यन्यत्र विस्तरः। प्रत्याचख्याविति। निराकृतवानित्यर्थः। सूत्रभाष्ययोरुभयोरपि स्मृतित्वाऽविशेषाद्विकल्पमाशङ्कयाह--यथोत्तरमिति। सूत्रकाराद्वार्तिककारस्य, उभाभ्यामपि भाष्यकृत इत्येवं मुनीनामुत्तरोत्तरस्य ग्रन्थस्य प्रामाण्यं, पूर्वपूर्वस्याऽप्रामाण्यमिति वैयाकरणसमय इति भावः। न चाऽकृतव्यूहपरिभाषाया उक्तरीत्या अनित्यत्वज्ञापनार्थमेतत्सूत्रमिति वाच्यम्, अकृतव्यूहपरिभाषाया निमूर्लत्वस्य निष्फलत्वस्य च हलन्तादिकारे सेदिवस्शब्दनिरूपणे, "समर्थानां प्रथमाद्रे"त्यत्र च वक्ष्यमाणत्वात्। संज्ञोपसर्जनीभूता इति। आधुनिकसङ्केतः संज्ञा। अन्यविशेषणत्वेन स्वार्थोपस्थापकम्--उपसर्जनम्। न सर्वादय इति। सर्वादिगणे पठिता न भवन्तीत्यर्थः।

महासंज्ञेति। टिघुभादिवदेकाक्षरसंज्ञामकृत्वा सर्वेषां नामानीत्यन्वर्थसंज्ञाकरणबलेन प्राधान्येनोपस्थितस्वीयसर्वार्थवाचकत्वस्य सर्वनामशब्दप्रवृत्तिनिमित्तत्वमित्यवगततया तथाविधानामेव सर्वादिगणे पाठानुमानादित्यर्थः। "प्राधान्येनोपस्थिते"त्यनेन उपसर्जनव्यावृत्तिः। "प्राधान्येनोपस्थितसर्वार्थवाचकत्व"मित्युक्ते पूर्वादिशब्देष्वव्याप्तिरतः-"स्वीये"ति। सर्वार्थे"त्यनेन संज्ञाशब्दव्यावृत्तिः, संज्ञाशब्दानामेकैकव्यक्तिविषयकत्वात्। संज्ञाकार्यमिति। सर्वनामसंज्ञाकार्यं शीस्मायादिकमित्यर्थः। अन्तर्गणेति। सर्वादिगणेऽन्तर्गतो गणः-अन्तर्गणः। तदीयं कार्यम् ="अद्ड्डतरादिभ्यः" त्यदादीनामः" इत्यादिकमित्यर्थः। सर्वाय देहीति। संज्ञाशब्दत्वात्समायादेशो न।

अतिकतरमिति। कतरमतिक्रान्तं कुलम् अतिकतरमित्यत्र कतरशब्दस्य उपसर्जनत्वान्नाऽद्डादेशः। अतितदिति। तमतिक्रान्तो ब्राआहृणोऽतितदित्यत्र त्यदाद्यत्वं, "तदोः सः सौ" इति च न भवति।

तत्त्व-बोधिनी
न बहुव्रीहौ १८५, १।१।२८

न बहुव्रीहौ। कृते बहुव्रीहौ निषेधो व्यर्थः, "उपसर्जनीभूतास्तु न सर्वादयः" इति वक्ष्यमाणत्वात्। अत आहचिकीर्षित इति। "बहुव्रीहा"वित्यत्र विषयसप्तम्याश्रयणादयमर्थो लभ्यते। त्वकमिति। अज्ञाते कुत्सिते वा "अव्ययसर्वनाम्ना"मित्यकच्। एवमहकमित्यत्रापि। प्रक्रियावाक्ये इति। अलोकिकविग्रहवाक्ये इत्यर्थः। तच्च "युष्मद् सु पितृ सु" इत्याद्याकारकम्। ननु तत्राऽकच् प्रवर्ततां को दोष इत्यत आह--स चेति। न च निमित्तस्यानुपसर्जनत्वस्य विनाशोन्मुखत्वादकृतव्यूहपरिभाषया समासात्प्रागपि सर्वनामता न भविष्यतीति वाच्यं, तस्या अनित्यत्वात्। तत्र चूतत्सूत्रस्यैव ज्ञापकत्वात्। अतिभवकानिति। इदमेव ज्ञापनफलमिति भावः। "अत्यादयः क्रान्ताद्यर्थे द्वितीयये"ति प्रादिसमासः। प्रत्याचख्याविति। "छ्वोः शू"डिति सतुग्ग्रहणं, प्रकृतिप्रत्यापत्तिवचनं वा अनित्यत्वे ज्ञापकं, लक्ष्यानुरोधाच्च व्यवस्थेति भावः। यथोत्तरमिति। तथाच सम्प्रति भाष्यकारोतयैव व्यवस्थेति भावः। गणेसंनिवेशादिति। एतेन "पूर्वपरावरे"ति गणसूत्रे "असंज्ञाया"मिति ग्रहणं मन्दप्रयोजनमिति ध्वनितम्। संज्ञायां यानि पूर्वादीनि तेषां गणे संनिवेशाऽभावात्। एवमष्टाध्यायीस्थे "पूर्वपरावरे"ति सूत्रेऽपि "असंज्ञाया"मित्येतत्त्युक्तुं शक्यम्। न च तदभावे जसि परतः संज्ञायाम् "उत्तराः कुरव" इत्यत्राऽप्राप्तविकल्पः स्यांदिति वाच्यं, सर्वनामसंज्ञाया अन्वर्थत्वेन संज्ञायामप्राप्तविधेरसंभवादसंज्ञायामेव पूर्वेण प्राप्ता संज्ञा जसि वा स्यादिति वक्तुमुचितत्वात्। संज्ञाकार्यमिति। सर्वनामसंज्ञाप्रयुक्तं स्मायादिकमित्यर्थः। अन्तर्गणकार्यमिति। "अद्ड्डतरादिभ्यः,""त्यादादीनामः", "तदोः सः सौ" इत्यादिकमित्यर्थः। अतिकतरमिति। अत्राऽद्डादेशो न। "अतित"दित्यत्र तु त्यदाद्यत्वं, "तदो सः सौ" इति सत्वं च नेति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तृतीयासमासे ७।१ २८ सर्वादीनि १।३ २६ सर्वनामानि १।३ २६

समासः॥

तृतीयया समासः तृतीयासमासः, तस्मिन् तृतीयासमासे, तृतीयातत्पुरुषः

अर्थः॥

तृतीयासमासे सर्वादीनि सर्वनामसंज्ञकानि न भवन्ति।

उदाहरणम्॥

मासपूर्वाय, संवत्सरपूर्वाय। द्व्यहपूर्वाय, त्र्यहपूर्वाय।
काशिका-वृत्तिः
तृतीयासमासे १।१।३०

तृतीयासमासे सर्वाऽदीनि सर्वनामसंज्ञानि न भवन्ति। मासपूर्वाय। संवत्सरपूर्वाय। द्व्यहपूर्वाय। त्र्यहपूर्वाय। समासे इति वर्तमाने पुनः सम्मसग्रहणं तृतीयासमासार्थवाक्ये ऽपि प्रतिषेधो यथा स्यात्। मासेन पूर्वाय। पूर्वसदृशसमौउनार्थकलहनिपुणमिश्रश्लक्ष्णैः २।१।३० इति तृतीयासमासं प्रतिपदं वक्ष्यति, तस्यैदं ग्रहणम्। न यस्य कस्यचित् तृतीयासमासस्य। कर्तृ करणे कृता बहुलम् २।१।३१ इतित्वयका खृतम्, मयका कृतम्।
न्यासः
तृतीयासमासे। , १।१।२९

ननु च "विभाषा दिक्समासे" १।१।२७ इत्यत समासग्रहणमनुवत्र्तत एव, तत् किमर्थं पुनः समासग्रहणमित्यत आह- "समास इत्यनुवत्र्तमाने" इत्यादि। अस्त्येव तृतीयासमासो मुख्यः, यस्मिन् सत्यैकपद्यमैकस्वर्यमेकविभ्कतिकत्वं च भवति। अस्ति च गौणः, य()स्मस्तादथ्र्यादतस्मिन्नपि ताच्छबद्यं भवति। स पुनस्तृतीयासमासार्थं वाक्यम्। तत्रासति पुनः समासग्रहणे "गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः" (व्या।प।४) इति मुख्य एव प्रतिषेधः स्यात्। नेतरत्र। तस्मात् तत्रापि प्रतिषेधो यथा स्यादित्येवमर्थं पुनः समासग्रहणम्। यदि तर्हि तृतीयासमासार्थेऽपि वाक्ये प्रतिषेधो भवति,यावान् कश्चित् तृतीयासमासः, तदर्थे वाक्ये सर्वत्र प्रतिषेधः स्यात्; ततश्च "त्वयका कृतम्, मयका कृतम्ित्यत्राकज् न स्यात्। भवति ह्रेतत् "कर्तृकरणे कृता बहुलम्" २।१।३१ इत्यनेन यः समासस्तदर्थं वाक्यम्;तत्र कप्रत्यये कृते "त्वत्केन कृतम्, मत्केन कृतम्" इति रूपं स्यादित्यत आह- "पूर्वसदृश" इत्यादि। एतच्च लक्षमप्रतिपदोक्तपरिभाषया लभ्यते। "त्वयका, मयका" इति। पूर्ववत् त्वमावादेशौ, सुबन्तादकच्। क्वचित् त्वकया, मकया इति पाठः स त्वयुक्तः। प्रातिपदिकात् त्वकजुत्पत्तौ त्वकया मकयेति भवति, न चात्र प्रातिपदिकादकजुत्पत्तिरिष्यते; अपि तु सुबन्तात्। तथा ह्रकज्विधौ वक्ष्यति-"प्रातिपिदकात्" सुपः" इति च द्वयमपीहानुवत्र्तते। तत्राभिधानतो व्यवस्था- क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। "युष्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवयकयोः" इत्यत्र प्रातिपदिकस्य। त्वयका, मयका, त्वयकि,मयकि" इत्यत्र सुबन्तस्य" इति।
बाल-मनोरमा
तृतीयासमासे २२१, १।१।२९

तृतीयासमासे। "सर्वादीनी"त्यतः सर्वनामग्रहणम् , "न "बहिव्रीहा"वित्यतो नेति चानुवर्तते इत्यभिप्रेत्याह--इहेति। मासूपार्वायेति। मासेन पूर्व इति विग्रहः। हेतौ तृतीया। "पूर्वसदृशे"ति तृतीयातत्पुरुषसमासः। मासात्पूर्वभावीत्यर्थः। "विभाषा दिक्समासे बहुव्रीहा"वित्यतः समासग्रहणे अनुवर्तमाने पुनः समासग्रहणं तृतीयासमासीयलौकिकविग्रहवाक्यरूपगौणसमासस्यापि परिग्रहार्थम्। ततश्च फलितमाह--तृतीयासमासार्थेति। द्वन्द्वे च। सर्वादीनीत्यतः सर्वनामग्रहणं, न बहुव्रीहावित्यतो नेति चानुवर्तते।

तत्त्व-बोधिनी
तृतीयासमासे १८६, १।१।२९

तृतीयासमासे। अत्र "विभाषा दिक्समासे" इत्यतः समास इत्यनुवर्तमाने पुनः समासग्रहणं गौणार्थस्यापि सङ्ग्रहार्थमित्यभिप्रेत्याह--तृतीयासमासार्थेति। इह "पूर्वसदृशे"ति विहितः समासो गृह्रते, प्रतिपदोक्तत्वात्। न तु "कर्तृकरणे" इति समासः, तेन त्वयका कृत"मित्यत्र निषेधो न भवति। "ओकारसकारभकारादौ सुपी"ति व्यवस्थापयिष्यमाणत्वादिह सुपष्टेः प्रागकच्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ द्वन्द्वे ७।१ ३१ २८ सर्वादीनि १।३ २६ सर्वनामानि १।३ २६

अर्थः॥

द्वन्द्वे समासे सर्वादीनि सर्वनामसंज्ञकानि न भवन्ति।

उदाहरणम्॥

पूर्वापराणाम्। दक्षिणोत्तरपूर्वाणाम्। कतरकतमानाम्।
काशिका-वृत्तिः
द्वन्द्वे च १।१।३१

द्वन्द्वे च समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। पूर्वापराणाम्। कतरकतमानाम्।
न्यासः
द्वन्द्वे च। , १।१।३०

बाल-मनोरमा
द्वन्द्वे च २२२, १।१।३०

तदाह--द्वन्द्वे उक्तेति। सर्वनामसंज्ञा नेत्यर्थः। वर्णाश्रमेतराणामिति। "वर्णाश्रमेतराणां नो ब्राऊहि धर्मानशेषतः" इति याज्ञवल्क्यस्मृतिः। वर्णाश्चाअश्रमाश्च इतरे चेति द्वन्द्वः। अत्र सर्वनामत्वाऽभावादामि सर्वनाम्न इति न सुट्। समुदायस्यैवेति। द्वन्द्वे विद्यमानानि यानि सर्वादीनि तानि सर्वनामानि न स्युरिति नाऽर्थः, विद्यतिक्रियाध्याहारे गौरवात्। किन्तु द्वन्द्वे सर्वनामसंज्ञा न भवतीति प्रधानभूतया निषेध्यवनक्रिययैव द्वन्द्वस्याधारतयाऽन्वयः। द्वन्द्वाधारा सर्वनामसंज्ञा न भवतीत्यक्षरार्थः। द्वन्द्वस्य सर्वनामसंज्ञा नेति फलितम्। वर्णाश्रमतरेत्यादिसमुदायस्यैव द्वन्द्वता नतु तदवयवानाम्। एवंच वर्णाश्रमेतरेत्यादिसमुदायस्यैव सर्वनामत्वनिषेधो नतु तदवयवानामिति वस्तुस्तितिकथनम्। ननु द्वन्दावयवानां सर्वनामत्वनिषेधाऽभावे वर्णाश्रमेतरशब्दे इतरशब्दस्य सर्वनामतया ततः परस्यामः सुटि वर्णाश्रमेतरेषामिति स्यात्। नच अवर्णान्तात्सर्वनाम्नोऽह्गात्परस्यामः सुड्विधीयते। ततश्च वर्णाश्रमेतरशब्दस्य समुदायस्य द्वन्द्वतया सर्वनामत्वनिषेधेऽपि तदवयवस्य इतरशब्दस्य सर्वनामतया तदन्ताङ्गात्परत्वादामः स#उट् स्यात्। न चैवं सति द्वन्द्वस्य तन्निषेधात्। इतरशब्दस्तु सर्वनामसंज्ञकः,न ततो विहित आम्, आमः समुदायादेव विधानात्। अतो न सुडिति भावः। "अवर्णान्तादङ्गात्सर्वनाम्नो विहितस्यामः सु"डिति व्याख्याने तु येषां तेषामित्यत्राऽव्याप्तिः। अतोऽवर्णान्तादङ्गात्परस्य सर्वनाम्नो विहितस्यामः सुडित्येव व्याख्येयम्।

तत्त्व-बोधिनी
द्वन्द्वे च १८७, १।१।३०

द्वन्द्वे च। समुदायस्येति। तत्रैव द्वन्द्वशब्दस्य मुख्यत्वात्। न च "द्वन्द्वे यानि सर्वादीनी"ति संबन्धः, कारकाणां क्रिययैवान्वयात्। न च "द्वन्द्वे विद्यमानानि यानी"ति संबन्धः, विद्यतिक्रियाध्याहारे गौरवात्, निषेध्याया भवतिक्रियाया एव प्राधान्येन तदन्वयस्यैव न्याय्यत्वाच्चेति भावः।

सुट्प्रसङ्ग इति। न च "द्वन्द्वे चे"ति निषेधसामथ्र्यात् "वर्णाश्रमेतराणा"मित्यादौ सुण्न प्रसज्यत इति वाच्यम्, अनङ्गस्य त्रतसिलादेव्र्यावृत्त्या तत्सामथ्र्यस्योपक्षीणत्वात्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ विभाषा १।१ ३५ जसि ७।१ ३५ द्वन्द्वे ७।१ ३० २८ सर्वादीनि १।३ २६ सर्वनामानि १।३ २६

अर्थः॥

द्वन्द्वे समासे जसि सर्वादीनि सर्वनामसंज्ञकानि विभाषा न भवन्ति।

उदाहरणम्॥

कतरकतमे, कतरकतमाः। दक्षिणपूर्वे, पक्षिणपूर्वाः।
काशिका-वृत्तिः
विभाषा जसि १।१।३२

पूर्वेण नित्ये प्रतिषेधे प्राप्ते जसि विभाषा आरब्यते। द्वन्द्वे समासे जसि विभाषा सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। कतरकतमे, कतरकतमाः। जसः कार्यं प्रति विभाषा, अकज् हि न भवति कतरकतमकाः।
न्यासः
विभाषा जसि , १।१।३१

"जसः कार्यं प्रति" इत्यादि। एतच्च् व्यवस्थितविभाषात्वादस्या विभाषाया लभ्यते। अथ वा जसीति कार्यापेक्षया आधारसप्तमीयम्, न तु सर्वाद्यपेक्षया परसप्तमी; तेन जसि यत् कार्यम्= जसाधारं यत् कार्यं जसः शीभावः तत्र विभाषा भवति, नान्यत्र । किं कारणमेवं व्याख्यायत इत्यत आह-"अकज् हि न भवति" इति हि शब्दो हेतौ।एवं व्याख्यायमाने सति "कतरकतमकाः" इत्यत्राकज् न भवति; पूर्वसूत्रेण संज्ञाप्रतिषेधात् अन्यथा हि यदि जसि परतः संज्ञा विकल्प्यते,तदा पक्षेऽकज् भवेदेव। तथा च तस्य तन्मध्यपतित्वात् तद्ग्रहणेन ग्रहणात् पाक्षिकः शीभावः प्रसज्येत। कप्रत्यये तु सति तेन व्यवधानादेवैष दोषो न भवति।
बाल-मनोरमा
विभाषा जसि २२३, १।१।३१

विभाषा जसि। सर्वनामग्रहणमनुवर्तते, द्वन्द्व इति च। "जसी"त्यविभक्तिको निर्देशः। जस इः जशिः। आर्षः सप्तम्या लुक्। "इ"शब्द इवर्णपरः सन् "शी"तीकारमाचष्टे। ततश्च जसादेशे शीभावे कर्तव्ये इति फलितम्। तदाह --जसाधारमिति। जस् आधारो यस्येति बहुव्रीहिः। जस्स्थानकमित्यर्थः। ननु "जसि परतो द्वन्द्वे सर्वानामसंज्ञा वा स्या"दित्येव कुतो न व्याख्यायत इत्यत आह--शीभावं प्रत्येवेत्यादिना। यदि त्वकच्स्यात्तर्हि तस्याऽव्यवधायकत्वाच्छीभावः प्रसज्येत। कप्रत्यये तु सति तेन व्यवधानान्नोक्तदोष इत्याह--वर्णाश्रमेतरका इति। नचाऽकचि कर्तव्ये विकल्पाऽभावे।ञपि सर्वादीनी"ति नित्या सर्वनाम संज्ञा कुतोऽत्र न स्यादिति वाच्यं, "द्वन्द्वे चे"ति तस्या नित्यानिषेधात्। नच "द्वन्द्वे"चेति निषेधस्योक्तरीत्याऽवयवेषु प्रवृत्त्यभावाद्वर्णाश्रमेतरशब्दे समुदाये इतरशब्दस्याऽवयवस्य सर्वनामत्वाऽनपायादकज्दुर्वार इति वाच्यं, द्वन्द्वावयवमात्रे सुन्दरादिविशेषणान्वयाऽबाववत्कुत्सादिविवक्षाया अभावात्। समुदाये तद्विवक्षायां समुदायोत्तरप्रत्ययेनाऽवयवगतकुत्सादेरपि बोधेनोक्तार्थत्वादवयवेभ्यः पृथक् तदनुत्पत्तेः। अन्यथा अवयवेभ्यः प्रत्येकं कप्रत्ययापत्तेः। एतदेवाभिप्रेत्योक्तं भाष्ये--"वर्णाश्रमेतरशब्दे अकच् न भवती"ति। एवंच यदा इतरशब्देन द्वन्द्वं कृत्वा कुत्सिता वर्णाश्रमेतरा इति कुत्सायोगः क्रियते तदा कप्रत्यये सति "वर्णाश्रमेतरका" इत्येव रूपम्। यदा तु कुत्सित इतरः-इतरक इत्यकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते, तदा शीभावविकल्पः स्यादेव॥

तत्त्व-बोधिनी
विभाषा जसि १८८, १।१।३१

जसाधारमिति। शीभावेन जस्यपह्मतेऽप्यौपचारिकमाधारत्वमत्र बोध्यम्। यद्वा जस इर्जसिः,तस्मिन्। सौत्रः सप्तम्या लुगित्यर्थतो व्याचष्टे-जसाधारमिति। अन्यथा सत्यकचि "जसः शी" त्यस्य प्रवृत्तौ "वर्णाश्रमेतरके" इत्यपि रूपं स्यादिति भावः। यदा अज्ञातः कुत्सितो वा इतरः इतरक इत्यकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते तदा रूपद्वयं स्यादेव। परं तु इतरशब्देन द्वन्द्वं कृत्वा अज्ञाता वर्णाश्रमेतरा इत्यज्ञाताद्यर्थयोगो यदा क्रियते तदा "वर्णाश्रमेतरका" इत्येकमेव रूपं साध्विति बोध्यम्।

ननु द्वन्द्वावयवस्येतरशब्दस्याप्यकच् दुर्वारः, अवयवस्य सर्वनामताऽनपायात्। "द्वन्द्वे चे"त्यनेन हि समुदायस्य निषेधो न त्ववयवानामिति चेत् ; अत्राहुः--सिद्धान्ते हि "जहत्स्वार्था वृत्ति"रिति पक्षो मुख्यस्त()स्मस्तु पक्षेऽवयवानां निरर्थकत्वादज्ञाताद्यर्थयोगाऽभावेनाऽकचः प्राप्तिरेव नास्ति। यैस्तु "द्वन्द्वे चे"ति चकारेणावयवेष्वपि संज्ञा निषिध्यत इत्युच्यते, तेषामजहत्स्वार्थावृत्तिपक्षाभ्युपगमेऽपि न दोष इति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ प्रथम-चरम-तयाल्पार्ध-कतिपय-नेमाः १।३ विभाषा १।१ ३१ जसि ७।१ ३१ सर्वनामानि १।३ २६

समासः॥

प्रथमश्च चरमश्च तयश्च अल्पश्च अर्धश्च कतिपयश्च नेमश्च प्रथम॰नेमाः, इतरेतरद्वन्द्वः।

अर्थः॥

प्रथम, चरम, तयप्प्रत्ययान्तश्च, अल्प, अर्ध, कतिपय, नेम इत्येते शब्दाः जसि विभाषा सर्वनामसंज्ञकाः भवन्ति।

उदाहरणम्॥

प्रथमे, प्रथमाः। चरमे चरमाः। द्वितये द्वितयाः। अल्पे अल्पाः। अर्धे अर्धाः। कतिपये कतिपयाः। नेमे नेमाः॥
काशिका-वृत्तिः
प्रथमचरमतयाल्पार्धकतिपयनेमाश् च १।१।३३

विभाषा जसि १।१।३१ इति वर्तते। द्वन्द्वे इति निवृत्तम्। प्रथम चरम तय अल्प अर्ध कतिपय नेम इत्येते जसि विभाषा सर्वनामसंज्ञा भवन्ति। प्रथमे, प्रथमाः। चरमे, चरमाः। द्वितये, द्वितयाः। अल्पे, अल्पाः। अर्धे, अर्धाः। कतिपये, कतिपयः। नेमे, नेमाः। तय इति तयप् प्रत्ययः। शिष्टानि प्रातिपदिकानि। तत्र नेम इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभषा, अन्येषाम् अप्राप्ते। उभयशब्दस्य तयप्प्रत्ययान्तस्य गने पाठान् नित्या सर्वनामसंज्ञा इह अपि जस्कार्यं प्रति विभाषा। काकचोर्यथायोगं वृत्तिः।
लघु-सिद्धान्त-कौमुदी
प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च १६०, १।१।३२

एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥ तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥ नेमे, नेमाः। शेषं सर्ववत्॥ (तीयस्य ङित्सु वा)। द्वितीयस्मै, द्वितीयायेत्यादि। एवं तृतीयः॥ निर्जरः॥
न्यासः
प्रथमचरमतयाल्पार्धकतिपयनेमाश्च। , १।१।३२

उभयशब्दस्य तयप्प्रत्ययान्तस्य" इति। "संख्याया अवयवे तयप्" ५।२।४२ इत्युभशब्दाद्विहितस्य तयपो यद्यपि"उभादुदात्तो नित्यम्" ५।२।४४ इत्ययजादेशो विधीयते, तथापि स्थानिवद्भावात् तद्ग्रहणेन गृह्रत इत्युभयशब्दस्तयप्प्रत्ययान्तो भवति। "तस्य गणे पाठान्नित्या सर्वनामसञ्ज्ञा"इति। न त्वनेन योगेन परेणापि पाक्षिकी। एतच्च व्यवस्थितविभाषात्वाल्लभ्यते। "काकचोर्यथायोगं वृत्तिः"इति। तेनोभय- नेम-शब्दयोः सर्वादित्वान्नित्यमकचो वृत्तिः, प्रथमादिभ्यस्तु कप्रत्ययस्य- इत्येष यथा- योगार्थः॥
बाल-मनोरमा
प्रथमचरमतयाल्पार्धकतिपयनेमाश्च २२४, १।१।३२

प्रथमचरम। "विभाषा जसी"त्यनुवर्तते, "सर्वनामानी"ति च। तदाह--एते इति। प्रतमादय इत्यर्थः। उक्तसंज्ञा इति। सर्वनामसंज्ञका इत्यर्थः। तत्र नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पाठान्नित्या प्राप्ता। तद्विकल्पोऽत्र विधीयते। नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां तु गणे पाठाऽभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते। अतो नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामकार्यमित्याह-शेषं रामवदिति।

"तय" शब्दो न प्रातिपदिकमित्याह--तयप्प्रत्यय इति। "संख्याया अवयवे तयबिति विहित" इति शेषः। तत इति। तस्मात् प्रत्ययत्वाद्धेतोः प्रत्ययग्रहणपरिभाषया, तदन्ताः=तयबन्ता ग्राह्रा इत्यर्थः। द्वितये द्वितया इति। द्ववयववावस्येत्यर्थे तयप्। यद्यप्यवयवसमुदायोऽवयवी तयवर्थः, तस्य चैकत्वादेकवचनमेव युक्तन्तथापि यदोध्भूतावयवभेदः समुदायस्तयबर्थः, उद्भूतत्वं च विवक्षितसङ्ख्याकत्वं, तदाऽवयवबहुत्वाभिप्रायमवयविनोऽवयवाऽभेदाभिप्रायं वा बहु वचनमिति न दोषः। अत्र च तयब्ग्रहणमेव प्रमाणम्। अन्यथा तयबन्ताज्जस एवाऽभावा()त्कतेन()। चरमे चरमाः। अल्पे अल्पाः। अर्धे अर्धाः। कतिपये कतिपयाः-इत्यपि प्रथमशब्दवदुदाहार्यम्। अर्धशब्दस्त्वेकदेशवाची पुंलिङ्गः। समांशवाची तु नपुंसकलिङ्गः। "वा पुंस्यर्धोऽर्धं समेंऽशके" इति कोशात्। शेषं सर्ववदिति। नेमशब्दस्य सर्वादिगणे पाठादिति भावः।

विभाषाप्रकरण इति। "विभाषा जसी"त्यधिकारे तीयान्तस्य ङे-ङसि-ङस्#Hङि-इत्येतेषु ङित्सु परेषु सर्वनामसंज्ञावचनं कर्तव्यमित्यर्थः। द्वितीयस्मै द्वितीयायेति। द्वयोः पूरणो द्वितीयः। "द्वेस्तीय" इति पूरणे तीयप्रत्ययः। इत्यादीति। द्वितीयस्मात्, द्वितीयात्। द्वितीयस्मिन्, द्वितीये इत्यादिशब्दार्थः। एवं तृतीय इति। "ङित्सूदाहार्य" इति शेषः। "त्रेः संप्रसारणं चे"ति पूरणे तीयप्रत्ययः। रेफस्य संप्रसारणमृकारः। "संप्रसारणाच्चे"ति पूर्वरूपम्। ननु "प्रकारवचने जातीयर्" इति पटुशब्दाज्जातीयरि "पटुजातीय"शब्दः, तस्यापि तीयान्तत्वान्ङित्सु सर्वनामत्वविकल्पः स्यादित्यत आह--अर्थवदिति। "अर्थवद्ग्रहणे नानर्थकस्ये"ति परिभाषयाऽर्थवानेन तीयोऽत्र गृह्रते। जातीयरि तु समुदायस्यैवार्थवत्त्वं न तु तदेकदेशस्येति भावः। निष्क्रान्तो जराया निर्जरः। "निरादयः क्रान्ताद्यर्थे" इति समासः "गोस्त्रियोः" इति ह्यस्वत्वम्। निर्जरा जरा यस्मादिति बहुव्रीहिर्वा।

तत्त्व-बोधिनी
प्रथमचरमतयाल्पार्धकतिपयनेमाश्च १८९, १।१।३२

प्रथमचरम। नेमशब्दस्य नित्यं प्राप्तेऽन्येषामप्राप्ते चायमारम्भः। तयः प्रत्यय इति। "सङ्ख्याया अवयवे तय"बिति विहितः। तीयस्येति। "द्वेस्तीयः", "त्रेः सम्प्रसारणं चेतिविहितस्य।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ पूर्व-परावर-दक्षिणोत्तरापराधराणि १।३ व्यवस्थायाम् ७।१ असंज्ञायाम् ७।१ विभाषा १।१ ३१ जसि ७।१ ३१ सर्वनामानि १।३ २६

समासः॥

पूर्वश्च, परश्च, अवरश्च, दक्षिणश्च, उत्तरश्च, अपरश्च, अधरञ्च, पूर्वपरावर॰धराणि, इतरेतरद्वन्द्वः
न संज्ञा असंज्ञा, तस्याम् असंज्ञायाम्, नञ्तत्पुरुषः

अर्थः॥

पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, इत्येतानि जसि विभाषा सर्वनामसंज्ञकानि भवन्ति संज्ञाभिन्नव्यवस्थायाम्

उदाहरणम्॥

पूर्वे पूर्वाः, परे पराः, अवरे अवराः, दक्षिणे, दक्षिणाः, उत्तरे, उत्तराः, अपरे, अपराः, अधरे, अधराः।
काशिका-वृत्तिः
पूर्वपरावरदक्षिणौत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् १।१।३४

पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्येषां गणे पाठात् पूर्वेण नित्यायां सर्वनामसंज्ञायां प्राप्तायां जसि विभाषा आरभ्यते। पूर्वादीनि विभषा जसि सर्वनामसंज्ञानि भवन्ति व्यवस्थायाम् असंज्ञायाम्। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। पूर्वे, पूर्वाः। परे, पराः। अवरे, अवराः। दक्ष्णे, दक्ष्णाः। उत्तरे, उत्तराः। अपरे, अपराः। अधरे, अधरः। व्यवस्थायाम् इति किं? दक्षिणा इमे गाथकाः। प्रवीणाः इत्यर्थः। असंज्ञायाम् इति किम्? उत्तराः कुरवः। सत्याम् एव व्यवस्थायाम् इयं तेषां संज्ञा।
लघु-सिद्धान्त-कौमुदी
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् १५६, १।१।३३

एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम्? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम्? दक्षिणा गाथकाः, कुशला इत्यर्थः॥
न्यासः
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। , १।१।३३

"असंज्ञायाम्" इति। संज्ञायामसत्याम् पूर्वादयश्चेत् संज्ञारूपा न भवन्ती- त्यर्थः। "स्वाभिधेयापेक्ष" इत्यादि अवधिर्मर्यादा,तस्य नियमोऽवश्यम्भावः; अवधिभा- वादभ्रंशः।किंविशिष्टोऽवधिनियमः? स्वाभिधेयापेक्षः ह्रर्थानाम्- पूर्वादिशब्दाभिधयानां यत् पूर्वादित्वम्, तन्नियोगतः कञ्चनावधिमपक्ष्य सम्पद्यते, न त्ववधिनिरपेक्षम्; यथा- पूर्वदेशस्य यत् पूर्वत्वम्,तत्परं देशमपेक्ष्य भवति; परस्यापि यत् परत्वम्, तत् पूर्वदेशम्; तस्मात् पूर्वादिशब्दवाच्यापेक्षेणावश्यं केनचिदवधिना भाव्यम्। तत्र तस्यैवावधेः यः पूर्वादिशब्दार्थापेक्षोऽवधिभाव ऐकान्तिकः, स नियमो व्यवस्था, तस्यां गम्यमानायां पूर्वादीनां शब्दानां स्वाभिधेय एव वत्र्तमानानामियं संज्ञा भवति; न तु वाच्यायाम्। यो हि पूर्वादिशब्दाभिधेयादन्यस्यार्थस्यावधिभूतस्य नियमः, स कतं पूर्वादिशब्दवाच्यो भविष्यति! "पूर्वे,पर्वाः" इति। अत्र परसमादेवावधेरिति गम्यते। "परे,पराः"इति। पूर्व- स्मादेवावदेरिति गम्यते। "प्रवीणाः" इति। कुशला इत्यर्थः। अत्र प्रावीण्यमात्रेण निमित्तेनावधिनिरपेक्ष एव दक्षिणशब्दो वत्र्तत इति व्यवस्था न गम्यते। "सत्यामेव" इत्यादि। जम्बूद्वीपं वावधिमपेक्ष्य तत्रोत्तरशब्दो वत्र्तत इति विद्यत एव व्यवस्था।
बाल-मनोरमा
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् २१६, १।१।३३

अथ सर्वादिगणान्तर्गततिसूत्रीसमानाकारामष्टाध्यायीपठितां पूर्वपरेत्यादित्रिसूत्रीं पुनरुक्तिशङ्कां व्युदस्यन् व्याचष्टे--पूर्वपरा। "सर्वानामानी"ति"विभाषा जसी"ति चानुवर्तते। तदाह--एतेषामिति। पूर्वादिसप्तानामित्यर्थः। गण इति। सर्वादिगण इत्यर्थः। या प्राप्तेति। "सर्वादीनि"त्यनेन नित्या संज्ञाया प्राप्तेत्यर्थः। अनेन पूर्वपरेति सूत्रं गणपठितं जसोऽन्यत्र नित्यतया सर्वनामसंज्ञार्थम्। अष्टाध्यायीपठितं तु जसि तद्विकल्पार्थमिति न पौनरुक्त्यमिति सूचितम्। स्वाभिधेयेति। अपेक्ष्यत इत्यपेक्षः। कर्मणि घ()?। स्वस्य=ततश्चनियमेनावधिसापेक्षार्थे वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति। व्यवस्थायां किमिति। पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः। दक्षिणा गाथका इति। अत्र दक्षिणशब्दो नावध्यपेक्ष इति भावः। दक्षिणपार्(ावर्तिनो गाथका इत्यत्र कस्मादित्यवध्यपेक्षा अस्त्येवेत्यत आह--कुशला इत्यर्थ इति। यद्यपि प्रावीण्यमपि कस्मादित्यवध्यपेक्षमेव, तथापि "उत्तरे प्रत्युत्तरे च शक्त" इत्यादि प्रत्युदाहरणं बोध्यमित्याहुः। असंज्ञायां किमिति। "संज्ञोपसर्जनीभूतास्तु न सर्वादयः" इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याऽप्रसक्तेरिति प्रश्नः। उत्तराः कुरव इति। कुरुशब्दो दोशविशेषे नित्यं बहुवचनान्तः। सुमेरमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था। किं तु संज्ञाशब्दत्वान्नास्य सर्वनामता। पूर्वादिशब्दानां तु दिक्षु अनादिस्सङ्केत इति न ते संज्ञाशब्दाः। कुरुष तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्ययं संज्ञाशब्द इति मन्यते। केचित्त्वसंज्ञायामित्यस्या।ञभावे संज्ञायामेव पूर्वादिशब्दानामप्राप्तविभाषा स्यादित्याहुः।

तत्त्व-बोधिनी
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् १८१, १।१।३३

पूर्वपरावरेत्यादिना। स्वाभिधेयेति। स्वस्य पूर्वादिशब्दस्याऽभिधेयेनापेक्ष्यमाणस्यावधेर्नियम इत्यर्थः। अपेक्ष्यते इत्यपेक्षः। कर्मणि घञ्। कथं तर्हि "दिशः सपत्नी भव दक्षिणस्या" इति?। अत्राहुः-अस्त्येवात्रापि व्यवस्था, प्रसिद्धत्वान्नावधिवाची शब्दः प्रयुज्यते। न च संज्ञात्वान्निषेधः। आधुनिकसङ्केतो हि संज्ञा, न च दिक्षु साऽस्तीति। "दिक्षु चिरन्तनः, कुरुष त्वाधुनिकः सङ्केत" इत्यत्र तु व्यख्यातृवचनमेव प्रमाणम्। एतेन "वि()ओषां देवाना"मिति व्याख्यातम्, वेदे प्रसिद्धत्वाद्देवगणविशेषे वि()आशब्दस्याधुनिकसङ्केताऽभावात्। दक्षिणा गाथका इति। "गस्थक"निति शिल्पिनि थकन्। इहामुकस्मात्कुशला इत्यवध्यन्वयसंभवेऽपि तन्नियमो नास्तीति भावः। एवम"धरे ताम्बूलरागः, "उत्तरे प्रत्यत्तरे च शक्तः" इत्यपि प्रत्युदाहर्तव्यम्। उत्तराः कुरव इति। सुमेरुमवधिमपेक्ष्य कुरुषु उत्तरशब्दो वर्तते इत्यस्तीह व्यवस्था, किं त्वाधुनिकसङ्केतोऽयमित्याहुः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ स्वम् १।१ अज्ञातिधनाख्यायाम् ७।१ विभाषा १।१ ३१ जसि ७।१ ३१ सर्वनामानि १।३ २६

समासः॥

ज्ञातिश्च धनं च ज्ञातिधने, ज्ञातिधनयोः आख्या ज्ञातिधनाख्या, द्वन्द्वगर्भषष्ठीतत्पुरुषः। न ज्ञातिधनाख्या अज्ञातिधनाख्या, तस्यां अज्ञातिधनाख्यायाम्, नञ्तत्पुरुषः।

अर्थः॥

अनेकार्थः अयं स्व-शब्दः। ज्ञति-धन-आत्मीयवाची च, तत्र ज्ञातिधनाभिधायकं स्वशब्दं वर्जयित्वा अन्यत्र स्वशब्दस्य जसि विभाषा सर्वनामसंज्ञा भवति।

उदाहरणम्॥

स्वे पुत्राः, स्वाः पुत्राः। स्वे गावः, स्वाः गावः। आत्मीयाः इत्यर्थः।
काशिका-वृत्तिः
स्वम् अज्ञातिधनाऽख्यायाम् १।१।३५

अत्र अपि नित्या सर्वनामसंज्ञा प्राप्ता जसि विभाष्यते। स्वम् इत्येतच्छब्दरूपं जसि विभाषा सर्वनामसंज्ञं भवति , न चेज् ज्ञातिधनयोः संज्ञारूपेण वर्तते। स्वे पुत्राः, स्वाः पुत्राः। स्वे गावः, स्वा गावः। आत्मीयाः इत्यर्थः। ज्ञातिप्रतिषेधः इति किम्? धूमायन्त इव अश्लिष्टाः प्रज्वलन्ति इव संहताः। उल्मुकानि इव मे ऽमी स्वा ज्ञातयो भरतर् षभ। अधनाख्यायाम् इति किम्? प्रभूताः स्वा न दीयन्ते, प्रभूतः स्वा न भुज्यन्ते। प्रभूतानि धनानि इत्यर्थः।
लघु-सिद्धान्त-कौमुदी
स्वमज्ञातिधनाख्यायाम् १५७, १।१।३४

ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः; आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः; ज्ञातयोर्ऽथा वा॥
न्यासः
स्वमज्ञातिधनाख्यायाम्। , १।१।३४

"अत्रापि नित्या सर्वनामसंज्ञा प्राप्ता" इति। गणपाठात्। एवमुत्तरत्रापि वेदतव्यम्। "न चेत्" इत्यादिना ज्ञातिधनाख्याशब्दस्यार्थमाचष्टे। यत्र च शब्दान्तर- निरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे, तत्रासौ संज्ञारूपेण तयोर्वत्र्तते। "आत्मीया इत्यर्थः" इति। कथं पुनरयमर्थः, यावता "स्वे पुत्त्राः" इति ज्ञात्यर्थो गम्यते, "स्वे गावः" इति धनार्थः? नैतदस्ति; पुत्त्रगोशब्दसान्निध्यादतदुभयं गम्यते। स्वशभ्देनात्मीयत्वमात्रं गम्यते- "स्वा ज्ञातयः" इति। प्रभूता स्वा इति चोभयत्र शब्दान्तरमनपेक्ष्य ज्ञातिधने स्वरूपेणैव स्वशब्देनाभिधीयेते। यद्येवम्, ज्ञातय इत्यनुप्रयोगो नोपपद्यते; पर्यायत्वात्, यथा- वृक्षशब्दप्रयोगे सति तरुशब्द- शब्दस्यानुप्रयोगो विरुध्यते, नैष दोषः; पर्यायशब्दस्य हि यत्रानेकार्थो भवति सन्दिग्धार्थो वा, तत्र तदर्थस्यैव व्यक्तीकरणार्थः पर्यायान्तरस्यानुप्रयोगो न विरुध्यते; यथा- मेघाद्यनेकार्थवृत्तेर्वराहकशब्दस्य प्रयोगे शूकरशब्दस्य प्रयोगः। तथा सन्दिग्धार्थस्य पिकशब्दस्य प्रयोगे कोकिलशब्दस्य ! स्वशब्दश्चायमनेकार्थः, तत्रासत्यनुप्रयोगे किंविषयोऽयं प्रयुक्तः- इति सन्देह स्यात्।
बाल-मनोरमा
स्वमज्ञातिधनाख्यायाम् २१७, १।१।३४

स्वमज्ञाति। अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते। ज्ञातिश्च धनं च ज्ञातिधने, तयोराख्या-ज्ञातिधनाख्या, न ज्ञातिधनाख्या अज्ञातिधनाख्या, तस्याम्--अज्ञातिधनाख्यायाम्। "स्व"मिति शब्दस्वरूपापेक्षया नपुंसकत्वम्। तदाह--ज्ञातिधनान्येति। स्वेस्वा इति। सर्वनामत्वे शीभावः, तदभावे तदभाव इति भावः। आत्मा आत्मीयं ज्ञातिः धनं चेति स्वशब्दस्य चत्वारोऽर्थाः। "स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने" इत्यमरः। अत्र "स्वो ज्ञातावात्मनी"त्येकं वाक्यम्। ज्ञातावात्मनि च स्वशब्दः पुँल्लिङ्ग इत्यर्थः। "स्वं त्रिष्वात्मीये"इति द्वितीयं वाक्यम्। आत्मीये स्वशब्दो विशेष्यनिघ्न इत्यर्थः। "स्वोऽस्त्रियां धने" इति तृतीयं वाक्यम्। धने स्वशब्दः पुंनपुंसक इत्यर्थः। "स्वः स्यात्पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीये।ञस्त्रियां धने" इति मेदनीकोशः। तत्र ज्ञातिधनयोः पर्युदासादात्मनि आत्मीये च सर्वनामता जसि विकल्प्यत इत्यबिप्रेत्य व्याचष्टे--आत्मीया इत्यर्थः। आत्मान इति वेति। ज्ञातिधनपर्युदासस्य प्रयोजनमाह--ज्ञातिधनवाचिनस्त्विति। ज्ञातिवाचिनो धनवाचिनश्च सर्वनामत्वपर्युदासाज्जसि "स्वाः" इत्येव रूपमित्यर्थः। नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्वं न स्यादिति वाच्यम्, आख्याग्रहणबलेन ज्ञातित्वधनेत्वपुरस्कार एव पर्युदासप्रवृत्तेः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अन्तरम् १।१ बहिर्योगोपसंव्यानयोः ७।२ विभाषा १।१ ३१ जसि ७।१ ३१ सर्वनामानि १।३ २६

समासः॥

बहिर्योगश्च उपसंव्यानं च, बहिर्योगोपसंव्याने, तयोः बहिर्योगोपसंव्यानयोः, इतरेतरद्वन्द्वः

अर्थः॥

बहिः इत्यनेन योगः, बहिर्योगः, संव्यानस्य समीपम् उपसंव्यानम्। बहिर्योगे, उपसंव्याने च गम्यमाने अन्तरशब्दस्य जसि विभाषा सर्वनामसंज्ञा भवति।

उदाहरणम्॥

बहिर्योगे - अन्तरे गृहाः, अन्तराः गृहाः। उपसंव्याने - अन्तरे शाटकाः, अन्तराः शाटकाः।
काशिका-वृत्तिः
अन्तरं बहिर्योगौपसंव्यानयोः १।१।३६

अत्र अपि पूर्वेण नित्या सर्वनामसंज्ञा प्राप्ता सा जसि विभाष्यते। अन्तरम् इत्येतच्छब्दरूपं विभाषा जसि सर्वनामसंज्ञं भवति बहिर्योगे उपसंव्याने च गम्यमाने। अन्तरे गृहाः, अन्तराः गृहाः। नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते। उपस्ंव्यानेअन्तरे शाटकाः, अन्तराः शाटकाः। उपसंव्यानं परिधानीयम् उच्यते, न प्रावरणीयम्। बहिर्योगौपसंव्यानयोः इति किम्? अनयोः ग्रामयोरन्तरे तापसः प्रतिवसति। तस्मिन्नन्तरे शीतान्युदकानि। मध्यप्रदेशवचनो ऽन्तरशब्दः। गणसूत्रस्य चैदं प्रत्युदाहरणम्। अपुरि इति वक्तव्यम्। अन्तरायां पुरि वसति। विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसंज्ञा इत्युपसंख्यानम्। द्वितीयस्मै, द्वितीयाय। तृतीयस्मै, तृतीयाय।
न्यासः
अन्तरं बहिर्योगोपसंव्यानयोः। , १।१।३५

"बर्हिर्योगे" इति। बहिरित्यनेनानावृतदेश उच्यते। तेन योगो बर्हिर्योगः। स चानावृतस्य बाह्रस्य वस्तुनो भवति। "उपसंव्याने च" इति। उपसंवीयते परिधीयते यत् तदुपसंव्यानम्- "कृत्यल्युटो बहुलम्" ३।३।११३ इति कर्मणै ल्युट्। अथ वा, संवीयते पिधीयतेऽनेनेति संव्यानम्- "करणाधिकरणयोश्च" ३।३।११७ इति ल्युट्। संव्यानस्य समीपमुपसंख्यानम्। अबहिर्योगे सामथ्र्यात् तदेव वेदितव्यम्। "नगरबाह्राः" इति। अनेन बहिर्योगं दर्शयति- "परिधानीयमुच्यते" इति। उपसंव्यान्सयेदमुदाहरणमुपन्यस्तम्। वस्त्रान्तरावृतवस्तु वस्त्वन्तरेणापिहितमुच्यते। अविशेषाभिधानऽपि यद्वस्त्रान्तरेणावृतम्, सामथ्र्यात् तदेवोपसंव्यानमुच्यते, नेतरत्। "न प्रावरणीयम्" इति। प्राव्रियतेऽपिधीयते-नेनेति प्रावरणीयम्, तन्नभिधीयते। तदभिधाने तस्य बहिर्योगत्वात् बहिर्योग एवेदमुदाहरणं स्यादित्याभिप्रायः। "अन्तरे तापसः प्रतिवसति" इति। अत्र संज्ञाया अभावात् सप्तम्याः स्मिन्नादेशो न भवति। ननु च जसीत्यनुवत्र्ते, तत् कस्मात् सप्तम्यन्तं प्रत्युदाह्मतमित्यत आह-"गुणसूत्रस्य च" इत्यादि। "अपुरीति वक्तव्यम्" इति अनन्तरं "गणसूत्रस्य च" इत्यभिधानाद् गणसूत्रमेवैतद् वक्तव्यमिति गम्यते। यद्यपि गणसूत्रेऽन्तरशब्द पठ()ते,तथापि "प्रतिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्" (व्या।प।२९) इति प्राकाराद्ब-हिर्वर्त्तिनी या पूस्तस्या अपि बहिर्योगोऽस्तीति तत्र वत्र्तमानस्य टाबन्तस्याप्यन्तराशब्दस्य सर्वनामसंज्ञा प्राप्नोति, तेनापुरीति वक्तव्यम्। तेनान्तरायामित्यत्र स्याण् न भवति। "विभाषाप्रकरणे" इत्यादि। उपसंख्यानशब्दस्येह प्रतिपादनमर्थः। अस्मिन् विभाषाप्रकरणे तीयप्रत्ययान्तस्य सर्वनामसंज्ञायाः प्रतिपादनं कत्र्तव्यमि- त्यर्थः। तत्रेदं प्रतिपादनम् "विभाषा जसि" १।१।३१ इत्यत्र "विभाषा" इति योग- विभागः क्रियते, तत्र च "सर्वादीनि" "द्वन्द्वे" इति च निवृत्तम्, तेन तीयस्य विभाषा सर्वनामसंज्ञा भविष्यतीति। न चैवं सत्यतिप्रसङ्गः; योगविभागदिष्टसिद्धेः नापि "विभाषा द्वितीयतृतीयाभ्याम्" ७।३।११५ इत्यस्य वैयथ्र्यापत्तिः; प्रपञ्चार्तत्वात्। ततः "जसि" द्वितीयो योगः। अत्र विभाषाग्रहणम्, सर्वादिग्रहणम्, द्वन्द्व ग्रहणं चानुवत्र्तते।
बाल-मनोरमा
अन्तरं बहिर्योगोपसंव्यानयोः २१८, १।१।३५

अन्तरम्। अत्रापि "सर्वनामानी"ति "विभाषा जसी"ति चानुवर्तते। बहिः=अनावृतप्रदेशः, तेन योगः=सम्बन्धः यस्य स बहिर्योगः=बहिर्विद्यमानोऽर्थ इति यावत्। उपसंवीयते=परधीयते इति उपसंव्यानम्न्तरीयं वस्त्रम्। तदाह--बाह्रा इत्यादिना।

तत्त्व-बोधिनी
स्वमज्ञातिधनाख्यायाम् १८२, १।१।३५

स्वमज्ञाति। आत्माऽ‌ऽत्मीयज्ञातिधनवाची स्वशब्दः, तत्र ज्ञातिधनयोः पर्युदासादात्मात्मीयौ परिशिष्टावित्याशयेन व्याचष्टे--आत्मीया इत्यर्थः। आत्मान इति वेति। यत्वाहुः - आत्मनि स्वशब्दो नपुंसकः, ते "स्वे" "स्वा" इत्युदाहरणं तत्राऽयुक्तमिति। तद्रभसात्। "स्वो ज्ञातावात्मनि, स्वं त्रिष्वात्मीये, स्वोऽस्त्रियां धने" इत्यमरसिंहोक्तेरात्मन्यपि स्वशब्दस्य पुंस्त्वात्। न च "स्वौ ज्ञातौ" इत्यमरकोशे "आत्मनी"त्यस्य "स्व"मित्युत्तरेणान्वयादात्मवाची स्वशब्दो नपुंसक एवेति वाच्यम्, "स्वः स्य्तापुंस्यात्मनि ज्ञातौ त्रिष्वात्मीयेऽस्त्रियां धने" इति मेदिनीकोशविरोधेनात्मनीति पूर्वान्वयि, न तूत्तरान्वयीति व्याख्यातुमुचितत्वात्। किंच "विभाषा जसी"ति प्रकरणे "स्वमात्मीये" इत्येव वक्तव्ये गुरुनिर्देशं कुर्वन्सूत्रकारोऽप्यात्मवाचिस्वशब्दस्य पुंस्त्वे प्रमाणम्। तस्मात् "स्वे" "स्वा" इत्यस्य आत्मान इति विवरणं सम्यगेवेति स्थितम्। ज्ञातिधनवाचिनस्त्विति। ताच्छीस्येन णिनिना ज्ञातिधनयोरप्यात्मीयत्वं पुरस्कृत्य प्रवृत्तौ सर्वनामताऽस्त्येवेति ध्वनयति। एतदर्थमेव हि सूत्रे आख्याग्रहणं कृतम्। "स्वमात्मात्मीयाख्याया"मिति वक्तव्ये ज्ञातिधनयोः पर्युदासाश्रयणं मात्रालाघवाय। न च "स्वमात्मात्मीययोः" इत्युच्यमाने आख्याग्रहणं नापेक्षितिमिति वाच्यम्; वस्तुतस्तु आत्मीयस्यापि ज्ञातित्वेन धनत्वेन विवक्षायां सर्वनामता मा भू"दिति तस्यावश्यकत्वात्।

तत्त्व-बोधिनी
अन्तरं बहिर्योगोपसंव्यानयोः १८३, १।१।३५

अन्तरं बहिर्योगोपसंव्यानयोः। "बहि"रित्यनावृतो देशो, बाह्रं चोच्यते। तत्राद्यमर्थं गृहीत्वाह--बाह्रा इत्यर्थ इति। द्वितीये त्वाभ्यन्तरा इत्यर्थो बोध्यः। बाह्रेन ह्रभ्यन्तरस्य योगोऽस्ति। अर्थद्वयमप्याकरे स्थितम्। इदमेवार्थद्वयं मनसि निधाय "अन्तरायां पुरी"त्यत्र प्राकाराद्बाह्रायां तदन्तर्वर्तिन्यां वेति व्याख्यातम्। "उपसंव्यान" शब्दोऽपि करणव्युत्पत्त्या उत्तरीयपरः, कर्मव्युत्पत्त्यात्वन्तरीयपरः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ स्वरादिनिपातम् १।१ अव्ययम् १।१ ४०

समासः॥

स्वर् आदिः येषां ते स्वरादयः, स्वरादयश्च निपाताश्च स्वरादिनिपातम्, बहुव्रीहिगर्भः समाहारद्वन्द्वसमासः

अर्थः॥

स्वरादिशब्दरूपाणि निपाताश्च अव्ययसंज्ञकानि भवन्ति। {प्राग्रीश्वरान्निपाताः (१।४।५३)} इत्यतः {अधिरीश्वरे (१।४।९६)} इति यावत् निपातसंज्ञां वक्ष्यति, तेषां निपातानाम् अत्र अव्ययसंज्ञा वेदितव्या।

उदाहरणम्॥

स्वरादीः - स्वर् प्रातर्। निपाताः - च, वा, ह।
काशिका-वृत्तिः
स्वरादिनिपातम् अव्ययम् १।१।३७

स्वरादीनि शब्दरूपाणि निपाताश्च अव्ययसंज्ञानि भवन्ति। स्वर्, अन्तर्, प्रातर्, एते अन्तौदात्ताः पठ्यन्ते। पुनराद्युदात्तः। सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, आरात्, ऋते, युगपत्, पृथक्, एते ऽपि सनुतर्प्रभृतयो ऽन्तोदात्ताः पठ्यन्ते। ह्यस्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, आविस्, अवस्, अधस्, समया, निकषा, स्वयम्, मृषा, नक्तम्, नञ्, हेतौ, अद्धा, इद्धा, सामि, एते ऽपि ह्यस्प्रभृतयो ऽन्तोदात्ताः पठ्यन्ते। वत्वदन्तम् अव्ययसंज्ञं भवति। ब्राह्मणवत्। क्षत्रियवत्। सन्, सनात्, सनत्, तिरस्, एते आद्युदात्ताः पठ्यन्ते। अन्तराऽयमन्तोदात्तः। अन्तरेण, ज्योक्, कम्, शम्, सना, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मुधा, मिथ्या। क्त्वातोसुङ्कसुनः, कृन्मकारान्तः, सन्ध्यक्षरान्तः, अव्ययीभावश्च। पुरा, मिथो, मिथस्, प्रबाहुकम्, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, समम, नमस्, हिरुक्, तसिलादिः तद्धित एधाच्पर्यन्तः, शस्तसी, कृत्वसुच्, सुच्, आस्थालौ, च्व्यर्थाश्च, अम्, आम्, प्रतान्, प्रषान्, स्वरादिः। निपाता वक्ष्यन्तेप्राग्रीश्वरान्निपाताः १।४।५६ इति। च, वा, ह, अह, एव, एवम् इत्यादयः। अव्ययप्रदेशाः अव्ययादाप्सुपः २।४।८२ इत्येवम् आदयः। अव्ययम् इत्यन्वर्थसंज्ञा। सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्।
लघु-सिद्धान्त-कौमुदी
स्वरादिनिपातमव्ययम् ३६९, १।१।३६

स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः। स्वर्। अन्तर्। प्रातर्। पुनर्। सनुतर्। उच्चैस्। नीचैस्। शनैस्। ऋधक्। ऋते। युगपत्। आरात्। पृथक्। ह्यस्। श्वस्। दिवा। रात्रौ। सायम्। चिरम्। मनाक्। ईषत्। जोषम्। तूष्णीम्। बहिस्। अवस्। समया। निकषा। स्वयम्। वृथा। नक्तम्। नञ्। हेतौ। इद्धा। अद्धा। सामि। वत्। ब्राह्मणवत्। क्षत्रियवत्॥ सना। सनत्। सनात्। उपधा। तिरस्। अन्तरा। अन्तरेण। ज्योक्। कम्। षम्। सहसा। विना। नाना। स्वस्ति। स्वधा। अलम्। वषट्। श्रौषट्। वौषट्। अन्यत्। अस्ति। उपांशु। क्षमा। विहायसा। दोषा। मृषा। मिथ्या। मुधा। पुरा। मिथो। मिथस्। प्रायस्। मुहुस्। प्रवाहुकम्, प्रवाहिका। आर्यहलम्। अभीक्ष्णम्। साकम्। सार्धम्। नमस्। हिरुक्। धिक्। अथ। अम्। आम्। प्रताम्। प्रशान्। प्रतान्। मा। माङ्। आकृतिगणोऽयम्॥च। वा। ह। अह। एव। एवम्। नूनम्। शश्वत्। युगपत्। भूयस्। कूपत्। कुवित्। नेत्। चेत्। चण्। कच्चित्। यत्र। नह। हन्त। माकिः। माकिम्। नकिः। नकिम्। माङ्। नञ्। यावत्। तावत्। त्वे। द्वै। त्वै। रै। श्रौषट्। वौषट्। स्वाहा। स्वधा। वषट्। तुम्। तथाहि। खलु। किल। अथो। अथ। सुष्ठु। स्म। आदह। (उपसर्गविभक्तिस्वरप्रतिरूपकाश्च)। अवदत्तम्। अहंयुः। अस्तिक्षीरा। अ। आ। इ। ई। उ। ऊ। ए। ऐ। ओ। औ। पशु। शुकम्। यथाकथाच। पाट्। प्याट्। अङ्ग। है। हे। भोः। अये। द्य। विषु। एकपदे। युत्। आतः। चादिरप्याकृतिगणः॥तसिलादयः प्राक् पाशपः। शस्प्रभृतयः प्राक् समासान्तेभ्यः। अम्। आम्। कृत्वोर्थाः। तसिवती। नानाञौ। एतदन्तमप्यव्ययम्॥
न्यासः
स्वरादिनिपातमव्ययम्। , १।१।३६

स्वरादिषु स्वस्तिशब्दोऽस्तिशब्दश्च पठ()ते। तत्र स्वस्तिशब्दस्य किमर्थः पाठः? यावतास्तिशब्दपाठादेव तदन्तविधिना स्वस्तिशब्दस्यापि भविष्यति। "ग्रहणवता प्रातिपदिकेन " (व्या।प।८९) इति तदन्तविधि प्रतिषेधान्न सिध्यतीत्येतत् तु नाशङ्कनीयम्, "अव्ययम्" इति महती संज्ञा क्रियते, अन्वर्थसंज्ञा यथा विज्ञायेतलिङ्गकारकसंक्याविशेषानुपादान्न व्येति= विविधत्वं न गच्छतीत्यव्ययम्। तस्याश्चोपसर्जनप्रतिषेधः, तदन्तविधिश्च प्रयोजनम्। तस्मादन्वर्थसंज्ञकरणादेव तदन्तस्यापि भविष्यति, स्वस्तिशब्दोऽपि न व्येत्येव, सत्यमेतत्ेवं त्वन्वर्थसंज्ञाकरणाल्लब्धस्तदन्तविधिरननोपद- र्शितः। विस्पष्टार्थमुदाहरणमेतत्। "तसिलादिस्तद्धित एधाच्()पर्यन्तः" इति। "पञ्च- म्यास्तसिल्" ५।३।७ इत्यत प्रभृति"एधाच्च" ५।३।४६ इत्येतत्पर्यन्तः।"शस्तसी" इति। "बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्" ५।४।४२ "प्रतियोगे पञ्चम्यास्तसिः" ५।४।४४ "कृत्वसुच्" इति। "संख्यायः क्रियाभ्यावृत्तिगणने कृत्वसुच्" ५।४।१७इति। "द्वित्रिचतुभ्र्यः सुच्" ५।४।१८। "आस्थालौ" इति। "इण आसिः" (द।उ।९।८१) इत्युणा- दिसूत्रेण इणो धातोरासिप्रत्ययः। "अयाः" इत्युदाहरणम्। "प्रत्नपूर्ववि()ओमात्थाल् छन्दसि" ५।३।१११ इति। "च्व्यर्थाश्च" इति। अभूततद्भावे "कृभ्यस्तियोगे सम्पद्य- कत्र्तरि च्विः" ५।४।५० "विभाषा साति कात्र्स्न्ये" ५।४।५२। "आम्" इति। "किमे- त्तिङव्ययधादाम्वद्रव्यप्रकर्षे" ५।४।११। "निपाता वक्ष्यन्ते" इति। अथ कस्मात् ते स्वरादिषु न पठ()न्ते? कः पुरेवं गुणो भवति? अवययसंज्ञायां निपातग्रहणं तथा हि क्रियायोगे दृश्यते-"स्वः पश्यन्ति, स्वरारोहन्ति" इति। तत्र यदि चादयो निपाताः पठ()एरन्, तेषां सत्त्वेऽपि वत्र्तमानानामव्ययसंज्ञा प्रसज्येत। "अव्ययम्" इत्यन्वर्थसंज्ञेयम्" इति दर्शयितुमाह- "सदृशम्" इति। त्रिषु लिङ्गेषु स्त्रीपुंनपुंसकेषु सदृशं तुल्यम्, लिङ्गविशेषापरिग्रहाल्लिङ्गसामान्योपा- दानाच्च। "सर्वासु च विभक्तिषु" इति। विभक्तिनिमित्तत्वाद् विभक्तिः। विभज्यते वा प्रातिपदिकार्थ आभिरिति कर्मादीनि कारकाणि शक्तिरूपाणि विभक्तिशब्देनोच्यन्ते। "वच- नेषु च" इति। वचनान्येकवचनद्विवचनबहुवचनानि। इहाभिधेयेऽभिधानोचाराद् एकाधिका संख्या गृह्रते "यस्मान्न व्येति लिङ्गादिसंख्याविशेषानुपादानाद् विविधं नानात्वं न गच्छति तस्माद् अव्ययम्" इत्यन्वर्थता प्रतिपादिता भवति। प्रयोजनं पुनरुपसर्जनप्र- तिषेधः, तदन्तविधिश्चेत्युक्तम्। तत्रोपसरजनप्रतिषेधः- "अत्युच्चैः, अत्युच्चैसौ, अत्युच्चैसः"। न ह्रत्र यथोपदर्शितार्थानुगमः सम्भवति। यत्र तु सम्भवति, तत्र तदन्तस्याव्ययसंज्ञा भवत्येव; यथा- "परमस्वः, उत्तमस्वः" इति। अत्र हि स्वर्? शब्द- स्य प्राधान्याल्लिङ्गादिविशेस्यासम्भवः। पूर्वत्र तूच्चैः शब्दस्य विपर्ययाद्वि- पर्ययः।
तत्त्व-बोधिनी
स्वरादिनिपातमव्ययम् ३९८, १।१।३६

स्वरादिनिपातमव्ययम्। स्वरादयश्च निपाताश्चेतिसमाहारद्वन्द्वः। ननु चादिष्वेव स्वरादीन्पठित्वाप्रकृतसूत्रं परित्यज्य "तद्धितश्चासर्वे"त्यादि सूत्रचतुष्टयमपि "चादयोऽसत्त्वे"इत्यास्मादूध्र्वं कृत्वाऽव्ययप्रदेशेषु निपातशब्देनैव व्यवह्यियतामिति चेन्न, "स्वस्ति वाचयति""स्वः पश्यति""स्वः पतती"त्यादौ कर्मादिकारकयोगेन सत्त्ववाचकत्वात्तेषां निपातसंज्ञाऽनापत्तेः। चादीनां ह्रसत्त्ववाचिनामेव निपातसंज्ञा, न तु सत्त्ववाचिनाम्। स्वरादीनां तु सत्त्ववाचिनामसत्तववाचिनां चाऽव्ययसंज्ञेष्यत इति व्यवस्थाऽनापत्तेश्च। अथ "प्राग्री()आरान्निपाताः""स्वरादीनि""चादयोऽसत्त्वे"इति सूत्र्यतां, तथा हि सति स्वरादीनां सत्त्ववचनानामपि निपातसंज्ञा सेत्स्यतीति चेन्नः, एवं हि सति "निपात एकाजना"ङिति प्रगृह्रसंज्ञा स्वरादीनामप्येकाचां प्रसज्येत। स्तो हि स्वरादिषु "किमोऽत्""दक्षिणदाच्ित्यादावेकाचौ तद्धितौ। केन्प्रभृतय एकाचः कृत्प्रत्ययाश्च सन्ति। "तसिलादिस्तद्धित एधाच्पर्यन्तः"इति सूत्रस्य, "कृन्मकारसन्ध्यक्षरान्तः"इति सूत्रस्य च स्वरादिगणपपठित्वात्। यद्यप्यत्र मूले स्वरादिषु गणसूत्रद्वयमिदं न पठितं, तथापि प्राचां पाठ#ए त्वस्तीत्यनुपदमेव स्फुटीकरिष्यते। स्वरादीनुदाहरति---स्वरित्यादिना। स्वरिति स्वर्गे परलोके च। अन्तरिति मध्ये। प्रातरिति प्रत्यृषे। पुनरित्यपर्थमे विशेषे च। सनुतरित्यन्तर्धाने।स्वराद्याः पञ्चः रेफान्ताः। तेन स्वर्याति प्रातरत्रेत्यादावुत्वं न भवति। सान्तत्वे हि स्यादेव हि स्यादे दोषः। उच्चैस्--महतिः। नीचैस्---अल्पे। शनैस्--क्रियामान्द्ये। ऋधक्--सत्येऽपि। वियोगशीध्रसामीप्यलाघवेष्वित्यन्ये। ऋते--वर्जने। युगपदित्येककाले। आराद्()दूरसमीपयोः। पृथक्--भिन्ने। ह्रस्य--अतीतेऽह्नि। ()आस्--अनागतेऽह्नि। दिवा दिवसे। रात्राविति निशि :सायमिति निशामिखे। चिरमिति बहुकाले। मनाक्, ईषत्--इमावल्पे। जोषं--सुखे मौने।तूष्णीमिति मौने। बहिस् अवस् इमौ बाह्रे। समयेति समीपे मध्ये च। निकषेत्यन्तिके। स्वयमिति आत्मनेत्यर्थे। वृथेति व्यर्थे। नक्तमिति रात्रौ। नञिति निषेधे। हेताविति निमित्ते। इद्धेति प्रकाश्ये। अद्धेति स्फुटावधारणयोः। तत्त्वातिशयोरित्यन्ये। सामीत्यर्धजुगुप्सितयोः। वत्। "तेन तुल्य" मित्यादिभिर्विहतो यो वतिप्रत्ययः स इह गृह्रते। तदाह--ब्राआहृआणवत्। क्षत्रियवदिति। प्रत्ययमात्रस्य संज्ञाप्रयोजनाऽभावाप्रत्ययान्तमुदाह्मतम्। यस्तु"उपसर्गाच्छन्दसि धात्वर्थे" इति विहितः, स इह न गृह्रते। यदुद्वतो निवतो यासी"त्यत्र सत्त्वधर्मस्य लिङ्गसङ्ख्यान्वयस्य दर्शनात्। अत्र वदन्ति--"तद्धितश्चासर्वविभक्ति"रित्यत्र "तसिवती"इति वतिप्रत्ययोऽपि परिगण्यते, तच्च न कर्तव्यं, स्वरादिपाठेनैव गतार्थत्वात्। स्वरादिषु वा वदिति न पठनीयमितिष सना, सनत्, सनात्,--एते नित्ये। उपधेति भेदे। तिरस्--अन्तर्धौ तिर्यगर्थे परिभावे च। अन्तरेति मध्ये विनार्थे च। अन्तरेणेति वर्जने। ज्योगिति कालभूयस्त्वे प्रश्ने शीघ्रार्थे संप्रत्यर्थे च। कमिति वारिमूर्धनिन्दासुखेषु। शमिति सुखेष सहसेत्याकस्मिकाऽविमर्शयोः। विनेति वर्जने। नानेत्यनेकविनार्थयोः। स्वस्तीति मङ्गले। स्वधा पितृदाने। अलं--भूषणपर्याप्तिशक्तिवारणनिषेधेषु। वषट्, श्रौषट्, वौषट्,--एते हविर्दाने। अन्यदित्यन्यार्थे। अस्तीति सत्तायाम्। उपांशु--इत्यप्रकाशोच्चारणरहस्ययोः। क्षणेति क्षान्तौ। बिहायसेतचि वियदर्थे। दोषेति रात्रौष मृषा, मिथ्येत्येतौ वितथे। मुधेति व्यर्थे। इत ऊध्र्वं "क्त्वातोसुन्कसुनः""कृन्मकारसन्ध्यक्षरान्तः" "अव्ययीभावश्च"इति गणसूत्रत्रयमष्टाध्यायीस्थत्रिसूत्र्या समानार्थकमिह न पठितं चेदपि प्राचीनगणपाठे तदस्तीति बोध्यम्। वैयथ्र्यं तु परिहरिष्यते। पुरेत्यविरते चिरातीते भविष्यदासन्ने च। मिथो, मिथस्--एतौ रहः सहार्थयोःष प्रायसिति बाहुल्ये। मुहुसिति पुनरर्थे। प्रबाहुकमिति समानकाले ऊध्र्वार्थे च। प्रवाहिकेति पाठान्तरम्। आर्यहलमिति बलात्कारे। शाकटायनस्तु--आर्येति प्रतिबन्धे। हलमिति प्रतिषेधविवादयोरित्याह। अभीक्ष्णमिति पौनः पुन्ये। साकं, सार्धमेतौ साहार्थे। नमस्--नतौ। हिरुग्वर्जने। धिक्--निन्दाभत्र्सनयोः। इत उध्र्वं "तसिलादयस्तद्धिता एधाच्पर्यन्ताः""शस्तसी""कृत्वसुच्""सुच्"ास्थालौ""च्व्यर्थाश्चे"ति प्राचीनगणपाठेऽस्तीति बोध्यम्। तसिलादीत्यादेरयमर्थः,--"पञ्चम्यास्त सिः""तेनैकदिक्""तसिश्चे"त्ययमपि तसिः। "क्रियाभ्यावृत्तिगणने कृत्वसुच्"। "द्वित्रिचतुभ्र्यः सुच्"। "इण आसिः"इत्युणादिसूत्रेण विहित "आसिः"। "प्रत्नपूर्ववि()ओमात्थल्छन्दसि"। "संपद्यकर्तरि च्विः"। "विभाषा साति कार्त्स्न्ये""देये त्रा च"इत्येतदन्ता अपि ग्राह्रा इति। अम्--शैध्येऽल्पे च। आम्--अङ्गीकारे। "अमु च छन्दसि""किमेत्तिङव्यय--"इति "कास्प्रत्ययात्--"इत्यादिभिश्च विहितावपि अमामौ गृह्रते इत्येके। प्रतं नय प्रतरं। ययाचतरां। कारयामास। प्रताम्---ग्लानौ। प्रशान्--समानार्थे। प्रतान्--विस्तारे। मा, माङ् एतौ निषेधाशङ्कयोः। आकृतिगण इति। तेनान्येऽपि ज्ञेयाः। तथा हि--कामम्--स्वाच्छन्द्ये। प्रकाममित्यतिशये। भूय इति पुनरर्थे। साम्प्रतमिति न्याय्ये। परमिति किन्त्वर्थे। साक्षात्--प्रत्यक्षे। साचीति तिर्यगर्थे। सत्यमित्यर्धाङ्गीकारे। मङ्क्षु, आशु--एतौ शैध्ये। संबत् वर्षे। अवश्यं निश्चये। उषेति रात्रौ। ओमित्यङ्गीकारे ब्राहृणि च। भूरिति पृथिव्याम्। भुवरित्यन्तरिक्षे। झटिति, झगिति, तरसा--एते शैन्ध्ये। सुष्ठु प्रशंसायाम्। दुष्ठु निकृष्टे। सु पूजायाम्। कु इति कुत्सितेषदर्थयोः। अञ्जसेति तत्त्वशीघ्रार्थयोः। मिथु इति द्वावित्यर्थे। अस्तमिति विनाशे। स्थाने इति युक्ते। वरमिति ईषदुत्कर्षे। सुदि शुक्लपक्षे। वदि कृष्णपक्षे इत्यादि। चादीनुदाहरति--चेत्यादिना। चेति समुच्चयान्वाचयेतरेतयोगसमाहारेषु। "वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये"। हेति प्रसिद्धौ। अहेति पूजायाम्। एवेत्यवधारणेऽनवक्लृप्तौ च। एवमित्युक्तपरामर्शे। नूनमिति निश्चये तर्के च। श()आदति पौनः पुन्ये सहार्थे च। युगपदित्येककाले। भूयसे--पुनरर्थे आधिक्ये च। कूपदिति प्रश्ने प्रशंसायां च। कुविदिति भूर्यर्थे प्रशंसायां च। नेदिति शङ्कायां प्रतिषेधविचारसमुच्चयेषु च। चेदिति यद्यर्थे। चण्--अयं चेदर्थे। णानुबन्धस्तु "निपातैर्यद्यदिहन्तकुविच्चेच्चण्--"इति विसेषणार्थः। समुच्चयादौ त्वननुबन्धकः। कच्चिदितीष्टप्रश्ने। यत्रेति अनवक्लृप्त्यमर्षगर्हाश्चर्येषु।"नावकल्पयामि न मर्षये, गर्हा आश्चर्यं वा यत्र भवान् वृषलं याजयेत्"। नहेति प्रत्यारम्भे। हन्तेति हर्षे विषादेऽनुकम्पायां वाक्यारम्भे च। माकिः, माकिं, नकिरिति त्रयोऽपि वर्जने। माङ्नञौ स्वरादिषूक्तौ। इह पाठस्तु निपातत्वार्थः, तेनाद्युदात्तत्वं फलं सिध्यतीति केचित्। तदसत्। फिट्स्वरेणाऽपीष्टसिद्धेः। अन्ये त्वाहुः--सत्त्ववचनानामप्यव्ययसंज्ञार्थं स्वरादिपाठ इति। तदप्यसत्। लक्ष्मीवाचकस्यापि माशब्दस्याऽव्ययत्वापत्तेः। तस्मादुभयत्र पाठश्चिन्त्यप्रयोजनः। यावत्तावदेतौ साकल्याऽवधिमानावधारणेषु। साकल्ये--यावत्कार्यं तावत्कृतम्। अवधौ--यावद्गन्तव्यं तावत्तिष्ठ। माने---यावद्दत्तं तावद्भुक्तम्। अवधारणे--यावदमत्रं तावद्ब्राआहृणानामन्त्रयस्व। त्वै--विशेषवितर्कयोः। द्वै--वितर्के। न्वै--इति। पाठान्तरम्। रै दाने अनादरे च। रै करोति। ददातीत्यर्थः। त्वं रै किं करिष्यसि। श्रौषट्, वोषट्--एतौ हविर्दाने। स्वाहा देवताभ्यो दाने। स्वधेति पितृभ्यः। श्रौषडादीनामनेकाचामुभयत्र पाठः स्वरभेदार्थः। तुमिति तुङ्कारे। "गुरु तुङ्कृत्य हुङ्कृत्य"। तथाहीति निदर्शने। खलु इति निषेधवाक्यालङ्कारनिश्चयेषु। किलेति वार्तायामलीके च। अथो अथेति मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्याधिकारप्रतिज्ञासमुच्चयेषु। अयं स्वरादावपि। तेन मङ्गलवाचकस्य सत्त्वार्थत्वेऽप्यव्ययत्वं सिध्यति। अतएव श्रीहर्षः--उदस्य कुम्भरथ शातकुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरि। यथाकुलाचारमथाऽवनीन्द्रजां पुरन्ध्रविर्गः स्नपयाम्बभूव ताम्िति। अत्र हि "अथ स्नपयांबभूवे"त्यस्य मङ्गलस्नपनं चकारेत्यर्थः। निपातस्तु स्वरूपेणैवः मङ्गलं मृदङ्गध्वनिवत्। सुष्ठु--स्वरभेदार्थपाठः। स्मेत्यतीते पाजपूरणे च। आदहेत्युपक्रमहिंसाकुत्सनेषु। "आदह स्वधामन्नि"त्यत्र तु पदकारा "आ"दिति पृथक् पदं पठन्ति। अवदत्तमिति। इह अवस्यानुपसर्गत्वात् "अच उपसर्गात्तः"इति न भवति। अहमिति सुबन्तप्रतिरूपकमहङ्कारे। एवं "गेये केन विनीतौ वा"मिति। युवामित्यर्थः। सुबन्तप्रतिरूपकमव्ययम्। अस्तीति तु तिङन्तप्रतिरूपकम्। एवं "त्वामस्मि वाच्मी"त्यत्राऽस्मीत्यहमर्थे तिङन्तप्रतिरूपकम्। आहेत्युवाचेत्यर्थे। आसेति बभूवएत्यर्थे। ---इत्यादि बोध्यम्। अहंयुरिति। "अहंशुभमोर्युस्"। यदि तु "त्वाहौ सौ"इति मपर्यन्तस्याऽहादेशे शेषलोपे च कृते निष्पन्नो योऽहंशब्दस्तस्माद्यस्प्रत्ययः क्रियते तर्हि सुपो लुकि अस्मद्युसिति स्थिते मदीय इत्यत्रेव मपर्यन्तस्य मादेशे सति "मद्यु"रिति स्यादिति भावः। अस्तिक्षीरेति। तिङन्तत्वे तु बहुव्रीहिसमासो[ऽयं]नोपपद्यत इत् भावः। अ इति संबोधनेऽधिक्षेपे निषेधे च। आ इति वाक्यस्मरणयोः। "इ"संबोधनजुगुप्साविस्मयेषु। ई उ ऊ ए ऐ ओ औ संबोधने। पशु सम्यगर्थे। "पशु मन्यमानाः"। शुकं---शैध्ये। यथाकथाचेत्यानादरे। पाट्प्रभृतयः सप्त संबोधने। द्येति हिंसाप्रतिलोभ्यपादपुरणेषु। विषु--नानार्थे। एकपदे---इत्यकस्मादित्यर्थे। युत्--कुत्सायाम्। आत इति---इतोऽपीत्यर्थे। आकृतिगण इति। तद्यथा--यत्तदिति हेतौ। आहोस्विद्विकल्पे। सीम---सर्वतोभावे। शुकम्--अतिशये। अनुकं वितर्के। शम्बट्--अन्तःकरणे आभिमुख्ये च। व पादपूरणे इवार्थे च। दिष्ट()एत्यानन्दे। चटु चाटु प्रियवाक्ये। हुमिति भत्र्सने। इवेति सादृश्ये। अद्यत्वे इति इदानीमित्यर्थे इत्यादि। अत्र स्वरादिचाद्योराकृतिगणत्वाऽविशेषेऽपि येषां निपातस्वर इष्टस्ते चादिषु, अन्ये तु स्वरादिषु, स्वरद्वयभाजस्तूङयत्रबोध्यः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तद्धितः १।१ असर्वविभक्तिः १।१ अव्ययम् १।१ ३६

समासः॥

नोत्पद्यते सर्वाः विभक्तीः यस्मात् सः असर्वविभक्तिः तद्धितः, बहुव्रीहिः

अर्थः॥

असर्वविभक्तिः तद्धितप्रत्ययान्तः शब्दः अव्ययसंज्ञकः भवति।

उदाहरणम्॥

ततः, यतः, यत्र, तत्र, तदा, यदा, सर्वदा, सदा, विना, नाना।
काशिका-वृत्तिः
तद्धितश् च असर्वविभक्तिः १।१।३८

तद्धितान्तः शब्दो ऽसर्वविभक्तिः अव्ययसंज्ञो भवति। यस्मात् न सर्वविभक्तेरुत्पत्तिः सो ऽसर्वविभक्तिः। ततः, यतः, तत्र, यत्र, तदा, यदा, सर्वदा, सदा। तद्धितः इति किम्? एकः, द्वौ, बहवः। असर्वविभक्तिः इति किम्? औपगवः, औपगवौ, औपगवाः।
न्यासः
तद्धितश्चासर्वविभक्तिः। , १।१।३७

प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणं भवतीत तद्धितान्त स्य संज्ञा विज्ञायत इत्याह "तद्धितान्तः शब्दः"इति। "यस्मान्न सर्व" इत्यादि। अत्रावयवकात्र्स्न्यवृत्तिः सर्वशब्दः। सर्वा निरवशेषा येषां त्रयाणां वचनानां विभ- क्तिरिति संज्ञा कृता। तानि सर्वाणि यतो नोपत्पद्यन्त इत्यर्थः। "ततः,यतः" इति। तद्- यच्छपब्दात् पञ्चमीसमर्थात् "पञ्चम्यास्तसिल्" ५।३।७इति तसिल्, "सुपो धातुप्रा तिपदिकयोः" २।४।७१ इति सुब्लुक्;"प्राग्दिशो विभक्तिः" ५।३।१ इति विभक्तित्वात् त्यदाद्यत्वम्; "अतो गुणे" ६।१।९४, पररूपत्वम्। "तत्र यत्र "इति। "सप्तम्यास्त्रल्" (५।३।१०० इति त्रल्। "तदा, यदा, सर्वदा" इति। "सर्वैकान्यकिंयत्तदः काले दा" ५।३।१५। सर्वे एते-ततः प्रभृतयः विभक्त्यर्थप्रधानाः। स च विभक्तयर्थः प्रातिपदिकार्थः सम्पन्न इति प्रातिपदिकार्थे प्रथमैव भवति। सापि संख्याविशेषाभावान्न सर्वा। किं तर्हि? एकवचनमेव; तस्योत्सर्गत्वात्। तथा चोक्तम्- "एकवचनमुत्सर्गतः करिष्यते" इति। तस्य "अव्ययादाप्सुपः" २।४।८२ लुक्। "एकः" इति। अत्रासर्वविभक्तिकत्वमस्ति; एकत्वे द्वित्वायोगात्। अतद्धितत्वान्न भवति। "औपगवः" इति। अत्र तद्धितान्तस्य सर्वविभक्तियोगान्न भवति॥
बाल-मनोरमा
तद्धितश्चाऽसर्वविभक्तिः ४४२, १।१।३७

अथ स्वरादिचादिभिन्नान्यव्ययान्याह--तद्धितश्चासर्व। असर्वविभक्तिरिति बहुर्वीहिः। तत्र सर्वा विभक्तयो यस्मान्न भवन्तीति बहुवचनान्तविग्रहो न संभवति, अव्ययेभ्यः सप्तानां विभक्तीनामुत्पत्त्यभ्युपगमात्। तथाहि "तद्धितश्चे"ति प्रकृतसूत्रे भाष्ये तावत् "द्व्येकयोर्द्विवचनैकवचने" "बहुषु बहुवचन"मिति सूत्रविन्यासं भङ्क्त्वा "एकवचनं" "द्वयोर्द्विवचने""बहुषु बहुवचन"मिति सूत्रन्यासं कृत्वा एकवचनमुत्सर्गतः करिष्यते, द्विबह्वोरर्थयोस्तस्य द्विवचनबहुवचने बाधके इत्यादि स्थितम्। ततश्च एकवचन"मित्यनेन ङ्याप्प्रातिपदिकादेकवचनं भवतीति सामान्यविधिना द्वित्वबहुत्वाऽभावे एकवचनमिति लभ्यते। एवं च द्विबहुत्वाऽभावे सति एकत्वे तदभावे च एकवचनमिति फलति। तत्र द्वित्वबहुत्वयोर्द्विवचनबहुवचनोक्त्यैव ततोऽन्यत्र एकवचनस्य सिद्धत्वात् "एकवचनम्" इति सूत्रं कर्मत्वाद्यभावेऽपि प्रापणार्थं संपद्यते। तथाच अलिङ्गसंख्येभ्योऽव्ययेभ्य एकवचनं प्रवर्तमानं विनिगमनाविरहात्सर्वविभक्त्येकवचनं भवति। अत एव "अव्ययादाप्सुपः" इत्यत्र प्रत्याहारग्रहणमर्थवत्। तस्मात्सर्वा विभक्तियो यस्मादिति न विग्रहः, किन्तु सर्वशब्दोऽत्र सर्व पटो दग्ध इतिवदवयवकार्त्स्न्ये वर्तते। एवंच सर्वा वचनत्रयात्मिका विभक्तिर्यस्मान्नोत्पद्यते। किन्त्वेकवचनान्येवोत्पद्यन्ते, स तद्धितान्तोऽव्ययसंज्ञः स्यादिति फलतीत्यभिप्रेत्याह--यस्मादिति। सर्वेति। वचनत्रयात्मिकेत्यर्थः। नोत्पद्यत इति। "किन्त्वेकवचनान्येवोत्पद्यन्ते" इति शेषः। स्यादेतत्-तिङ्श्चे-त्यनुवृत्तौ "प्रशंसायां रूप"मिति रूपप्प्रत्यये "ईषदसमाप्तौ कल्प"बिति कल्पप्प्रत्यये च पचतिरूपं पचतिकल्पमिति रूपम्। प्रशस्तं पचति, ईषत् पचतीत्यर्थः। अत्राप्यव्ययत्वं स्यात्, अरुआवविभक्तितद्धितान्तत्वात्। किञ्च उभयशब्देऽतिव्याप्तिः, तस्याप्यसर्वविभक्तितद्धितान्तत्वादित्यत आह-परिगणनमिति। वार्तिकमेतत्। तसिलादय इति। "पञ्चम्यास्तसिल्" इत्यारभ्य "द्वित्र्योश्च धमु"ञित्यर्थः। शस्प्रभृतय इति। "बह्वल्पार्था"दित्यरभ्य "अव्यक्तानुकरणा"दिति डाजन्ता इत्यर्थः। अम् आमिति। "अमु च च्छन्दसी"त्यम्, "किमेत्तिङव्यये"त्यमा च गृह्रते। कृत्वोऽर्था इति। "सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्", "द्वित्रिचतुभ्र्यःसुच्", "विभाषा बहोर्थे"ति त्रय इत्यर्थः। तसिवती इति। "तेनैकदिक्", "तसिश्च" इति तसि#ः "तेन तुल्यम्" इत्यादिविहितो वतिश्च गृह्रते। "प्रतियोगे पञ्चम्यास्तसिः" इत्यस्य तु शस्प्रभृतित्वादेव सिद्धम्। एवं च स्वरादिषु वदित्यस्य प्रयोजने चिन्त्यम्। नानाञाविति। "निनञ्भ्यां नानाञौ न सहे"ति विहातौ नानाञौ। इति परिगणनंकर्तव्यमित्यन्वयः। परिगणनेनैव सिद्धे "तद्धितश्चे"ति सूत्रं न कर्तव्यमिति भावः।

तत्त्व-बोधिनी
तद्धितश्चाऽसर्वविभक्तिः ३९९, १।१।३७

तद्धितश्चासर्वविभक्तिः। सर्वेति। वचनत्रयात्मिकेत्यर्थः। नोत्पद्यत इति। किं त्वेकवचनमेवोत्पद्यत इति भावः। तद्धितः किम्(), एकः। द्वौ। त्रयः। असर्वेत्यादि किम्()। औपगवः। ननु पञ्चालाः गदौ वरणा इत्यादावतिप्रसङ्गः। न च "लुब्योगाप्रख्याना"दितचि वदता नैषां तद्धितान्तत्वमङ्गीकृतमिति [नातिप्रसङ्ग इति] वाच्यम्, एवमपि "पचतिकल्पं""पचतिरूप"मित्यादावतिव्याप्तेर्दुर्वारत्वादित्याशङ्क्याह--परिगणनं कर्तव्यमिति। तसिलादय इति। "पञ्चम्यास्तसि"लिति विहितो यस्तसिल् तदादयो "याप्ये पाश"बिति विहितपाशप्प्रत्ययपर्यन्ताइत्यर्थः। शस्प्रभृतय इति।"बह्वल्पार्थात्--"इति विहितो यः शस्, तदादयः "समासान्ताः"इति सूत्रपर्यन्ताः। कृत्वोर्था इति। "सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु"जिति विहिताः कृत्वसुजादयस्त्रयः। तसिवती इति। न च तसेः परिगणनं व्यर्थं, शस्प्रभृतित्वादेव "प्रतियोगे पञ्चम्यास्तसिः"इत्यस्य लाभादिति वाच्यम्, तेनैकदिक्" "तसिश्चे"त्येतदर्थतया तस्यावश्यकत्वात्। "तेन तुल्य"मिति वतिः। नानाञाविति। "विनञ्भ्यां नानाञौ न सहे"ति विहितौ। पचतिकल्पमिति। अव्ययसंज्ञायां हि सत्यां सुपो लुक् स्यादिति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ कृत् १।१ मेजन्तः १।१ अव्ययम् १।१ ३६

समासः॥

मश्च एच्च मेचौ, मेचौ अन्तौ अस्य सः मेजन्तः, बहुव्रीहिः

अर्थः॥

कृत् यः मकारान्तः एजन्तश्च, तदन्तं शब्दरूपम् अव्ययसंज्ञकं भवति

उदाहरणम्॥

अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्क्ते = स्वादुङ्कारं भुङ्क्ते। सम्पन्नंकारं भुङ्क्ते। लवणंकारं भुङ्क्ते। उदरपूरं भुङ्क्ते। एजन्तः - वक्षे रायः। ता वामेषे रथानाम्। क्रत्वे दक्षाय जीवसे। ज्योक् च सूर्यं दृशे। म्लेच्छितवै॥
काशिका-वृत्तिः
कृन्मेजन्तः १।१।३९

कृद् यो मकारान्तः, एजन्तश्च तदन्तं शब्दरूपम् अव्ययसंज्ञं भवति। स्वादुङ्कारं भुङ्क्ते। सम्पन्नङ्कारं भुङ्क्ते। लवणङ्कारं भुङ्क्ते। एजन्तःवक्षे रायः। ता वामेषे रथानाम्। ऋत्वे दक्षाय जीवसे। ज्योक् च सूर्यं दृशे। वक्षे इति वचेः तुमर्थे सेसेनसे ३।४।९ इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम्। एषे इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम्। जीवसे इति जीवेः असे प्रत्यये रूपम्। दृशे इति दृशेः केन्प्रत्ययो निपात्यते दृशे विख्ये च ३।४।११ इति। अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थम्। इह मा भूत् आधये, चिकीर्षवे, कुम्भकारेभ्यः इति।
लघु-सिद्धान्त-कौमुदी
कृन्मेजन्तः ३७०, १।१।३८

कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्। स्मारं स्मारम्। जीवसे। पिबध्यै॥
न्यासः
कृन्मेजन्तः। , १।१।३८

"स्वादुङ्कारं भुङ्क्ते" इति। "स्वादुमि णमुल्" ३।४।२६। "स्वादुमि" इत्यत एव निर्देशादुपपदस्य मकारान्तत्वं निपात्यते। स्वादुमिति चार्थग्रहणम्। तेन सम्पन्नादावप्युपपदे णमुल् भवति। "वक्षे" इति। "वच परिभाषणे" (धा।पा।१०६३), "ब्राउवो वचिः" २।४।५६इति ब्राऊञादेशो वा। "चोः कुः" ८।२।३० इति कुत्वम्। "अन्तग्रहणम्" इत्यादि। "औपदेशिकप्रतिपत्त्यर्थम्" इति। नित्ययोगे बहुव्रीहिविज्ञानादौपदेशिकप्रतिपत्तिः। उपदेशे भवमौपदेशिकम्।तस्य प्रतिपत्तिज्र्ञानम् प्रयोजनं यस्य तत् तथा। एवं मन्यते- विनाप्यन्तग्रहणेन "येन विधिस्तदन्तस्य" १।१।७१ इति सामथ्र्याद्वा कृतस्तदन्तविधौ सिद्धे यदन्तग्रहणं क्रियते तस्यैतत् प्रयोजनम् नियोगतो यस्यैजन्तत्वमुपदेशावस्थायामेव भवति तस्यैव प्रतीतिर्यथा स्यादिति। "आधये" इति। दधातेराङ्पूर्वात् "उपसर्गे घोः किः" ३।३।९२ इति किः, "आतो लोप इटि च" ६।४।३४ इत्याकारलोपः, चतुर्थ्येकवचने "घेर्ङिति" ७।३।१११ इति गुणः। "चिकीर्षदः" इति। करोतेः सन्, "अज्झनगमां सनि" ६।४।१६ इति दीर्घः; "सनाशंसभिक्ष उः" ३।२।१६८ इत्युप्रत्ययः; अतो लोपः, शेषं पूर्ववत्। "कुम्भकारेभ्यः" इति। "कर्मण्यण्" ३।२।१ "उपपदमतिङ"२।२।१९ इति समासः; "बहुवचने झल्येत्" ७।३।१०३ इत्येत्त्वम्। ननु च लक्षमप्रतिपदोक्तपरिभाषयैव वा "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इत्येव वात्र संज्ञा न भविष्यति- विभक्तिप्रत्ययं ह्राश्रित्य विधीयमानत्वाद् गुणादिकार्यं बहिरङ्गम्, अव्ययसंज्ञा त्वन्तरङ्गम्, बाह्रस्य निमित्तस्यानाश्रयणात्, सत्यमेतत्; एवं त्वर्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्। अतस्तत्परिहारार्थमन्तग्रहणं कृतम्॥
बाल-मनोरमा
कृन्मेजन्तः ४४३, १।१।३८

कृन्मेजन्तः। कृत्-मेजन्त इति छेदः। म् च एच्च मेचौ , तौ अन्ते यस्येति बहुव्रीहिः। तदाह--कृद्योमान्त इति। तदन्तमिति। केवलस्य कृतः प्रयोगाऽनर्हत्वात्संज्ञाविधावपि तदन्तविधिरिति भावः। स्मारं स्मारमिति। "आभीक्ष्ण्ये णमुल्चे"ति स्मृधातोर्णमुल्, "अचो ञ्णिती ति वृद्धिः, रपरत्वम्, "नित्यवीप्सयो"रिति द्वित्वं, मान्तकृदन्तत्वादव्ययत्वम्। जीवसे इति। "तुमर्थे सेसेनसे" इत्यादिनाऽसेप्रत्ययः। पिबध्यै इति। "तुमर्थे से" इत्यादिना शध्यैप्रत्ययः। शित्त्वात्सार्वधातुकत्वम्। "पाघ्राध्मे"ति पिबादेश इति भावः। शप्तु न, कत्र्रर्थे सार्वधातुके तद्विधेः, "अव्ययकृतो भावे" इति सिद्धान्तादित्याहुः।

तत्त्व-बोधिनी
कृन्मेजन्तः ४००, १।१।३८

कृन्मेजन्तः। अत्र "मेजन्त"इत्येतच्छ()तत्वात्कृत एव विशेषणं नतु कृदन्तस्याऽश्रुतस्य। अन्यथा "प्रतामौ" "प्रतामः"। लवमाचष्टे णौ क्विपि णिलोपे वस्योठि वद्धौ च "लौः"---अत्रापि प्रसज्यतेति भावः। भवति ह्रेतत्प्रत्ययलक्षणेन कृदन्तम्, एजन्तं च श्रूयते इति, तदाह--कृद्यो मान्त एजन्त इति। स्मारं स्मारमिति। स्मरतेः"आभीक्ष्ण्ये णमुल्"। वृद्धिः। रपरत्वम्। "नित्यवूप्सयोः"इति द्वित्वम्। जीवसे इति। "तुमर्थे सेसेन्ित्यसेप्रत्ययः। पिबध्यै इति। "तुमर्थे" इत्यनेनैव "शध्यै"प्रत्ययः। "पाघ्रे"ति पिबादेशः। "येन विधिस्तदन्तस्ये"त्यनेनैव सिद्धे सूत्रेऽन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थं, तेनेह न---आधये। चिकीर्षवे। लक्षणप्रतिपदोक्त--संनिपातपरिभाषाभ्यां सिद्धे तयोरनित्यत्वज्ञापनायेदमिति मनोरमायां स्थितम्। एतच्च "अव्ययादाप्सुप"इत्यत्राव्ययात्परस्य सुपो लु"गिति यथाश्रुतव्याख्यानमभिप्रेत्योक्तम्। "अव्ययाद्विहिकस्ये"ति व्याख्याने त्वाधये इत्यादौ अव्ययसंज्ञामनिष्टान्तरमूह्रम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ क्त्वातोसुन्कसुनः १।३ अव्ययम् १।१ ३६

समासः॥

क्त्वा च तोसुंश्च कसुंश्च क्त्वातोसुन्कसुनः, इतरेतरद्वन्द्वः

अर्थः॥

क्त्वा तोसुन् कसुन् इत्येवम् अन्ताः शब्दाः अव्ययसंज्ञकाः भवन्ति।

उदाहरणम्॥

क्त्वा - पठित्वा, चित्वा, जित्वा, कृत्वा, हृत्वा। तोसुन् - पुरा सूर्यस्योदेतोराधेयः (का॰ सं॰ ८।३)। कसुन् - पुरा क्रूरस्य विसृपो विरप्शिन् (य॰ १।२८)॥
काशिका-वृत्तिः
क्त्वातोसुन्कसुनः १।१।४०

क्त्वा, तोसुन्, कसुन्, इत्येवम् अन्तं शब्दरूपम् अव्ययसंज्ञं भवति। कृत्वा। हृत्वा। तोसुन् व्युष्टायां पुरा सूर्यस्योदेतो राधेयः। पुरा वत्सानामपाकर्त्तोः। भावलक्षणे स्थाइण्कृञ्वदि ३।४।१६ इति इणः, कृञश्च तोसुन् प्रत्ययः। कसुन् सृपितृदोः कसुन् ३।४।१७। पुरा क्रूरस्य विसृपो विरप्शिन्। पुरा जत्रुभ्य आतृदः।
लघु-सिद्धान्त-कौमुदी
क्त्वातोसुन्कसुनः ३७१, १।१।३९

एतदन्तमव्ययम्। कृत्वा। उदेतोः। विसृपः॥
न्यासः
क्त्वातोसुन्कसुनः। , १।१।३९

"कृत्वा,ह्मत्वा" इति। "समानुकर्तृकयोः पूर्वकाले" ३।४।२१ इति क्त्वा। " उदेतोः" इति। "इण् गतौ" (धा।१०४५) "सार्वधातुक" ७।३।८४ इति गुणः। "अपाकर्त्तोः" इति। कृञः। "विसृपः"इति।"गम्लृ" (धा।९४२) "सृप्लृ" (धा।९८३) इतौ। "आतृदः" इति। "तृदिर् हिंसानारदयोः" (धा।१४४७)
बाल-मनोरमा
क्त्वातोसुन्कसुनः ४४४, १।१।३९

क्त्वातोसुन्। कृत्वेति। "समानकर्तृकयोः" इति क्त्वा। उदेतोरिति। उत्पूर्वादिणो "भावलक्षणे" इत्यादिना तोसुन्। विसृप इति। "सुपितृदोः कसुन्"।

तत्त्व-बोधिनी
क्त्वतोसुन्कसुनः ४०१, १।१।३९

क्त्वातोसुन्कसुनः। कृत्वेति। "समानकर्तृकयोः"इत्यादिना क्त्वा। उदेतोरिति। उत्पूर्वादिणो "भावलक्षणे स्थे"णित्यादिना "तोसुन्"। विसृप इति। "सृपितृदोः कसुन्"।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अव्ययीभावः १।१ अव्ययम् १।१ ३६

अर्थः॥

अव्ययीभावसमासः अव्ययसंज्ञकः भवति।

उदाहरणम्॥

उपाग्नि, प्रत्यग्नि, अधिस्त्रि।
काशिका-वृत्तिः
अव्ययीभावश् च १।१।४१

अव्ययीभावसमासो ऽव्ययसंज्ञो भवति। किं प्रयोजनम्? लुङ्मुखस्वरौपचाराः। लुक् उपाग्नि, प्रत्यग्नि शलभाः पतन्ति। मुखस्वरः उपाग्निमुखः, प्रत्यग्निमुखः। मुखं स्वाङ्गम् ६।२।१६६ इत्युत्तरपदान्तौदात्तत्वं प्राप्तम्, नाव्ययदिक्शब्द ६।२।१६७ इति प्रतिषिध्यते। तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर एव भवति। उपचारः उपपयःकारः, उपपयःकामः। विसर्जनीयस्थानिकस्य सकारस्य उपचारः इति संज्ञा। तत्र अव्ययीभावस्य अव्ययत्वे अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ८।३।४६ इति पर्युदासः सिद्धो भवति। सर्वम् इदं काण्डं स्वरादावपि पठ्यते। पुनर् वचनम् अनित्यत्वज्ञापनार्थम्। तेन अयं कार्यनियमः सिद्धो भवति। इह च पुरा सूर्यस्योदेतोराधेयः, पुरा क्रूरस्य विसृपो विरप्शिनिति न लौउकाव्ययनिष्ठाखलर्थतृनाम् २।३।६९ इति षष्ठीप्रतिषेधो न भवति।
लघु-सिद्धान्त-कौमुदी
अव्ययीभावश्च ३७२, १।१।४०

अधिहरि॥
न्यासः
अव्ययीभावश्च। , १।१।४०

"उपाग्नि" इति। "अव्ययं विभक्ति" २।१।६ इत्यादिना सामीप्येऽव्ययीभावः। "अव्ययात्" २।४।८२ इत लुक्। अग्नेः समीपे उपाग्नीति। उपाग्नि मुखं यस्येत्यव्ययी-भावगर्भो बहुव्रीहिः।तत्र "मुखं स्वाङ्गम्" ६।२।१६६ इत्युत्तरपदान्तोदात्तत्वे प्राप्ते"नाव्यय" ६।२।१६७ इति प्रतिषिद्धम्। "तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वरः" इति। "बहुव्रीहौ प्रकृत्या" ६।२।१ इत्यादिना तत् पुनरन्तोदात्तत्वम्ुपाग्निशब्दस्य समासस्वरेणान्तोदात्तत्वात्। "उपपयःकारः"इति। "कर्मण्यण्" ३।२।१ एवम्, "उपपयः कामः" इत्यत्रापि। उपपयः कामो यस्येति बहुव्रीहिर्वायम्। काम्यत इति कामः, "अकत्र्तरि च कारके संज्ञायाम्" ३।३।१९ इति कर्मण्यपि घञ्। "अनव्ययस्य" (वा।९३९) इति सत्त्वे प्रतिषिद्धे "कुप्वो क पौ च"८।३।३७ जिह्वामूलीयो भवति, विसर्जनीयो वा। अत्र मुखस्वरोपचारौ निर्वत्र्यमानौ प्रयोजनम्, न तु विधीयमानौ; लुक् पुनर्विधीयमानः। ननु चावययनिबन्धनमकजादिकार्यमस्त्येव,तत् कुतोऽयं कार्यनियमो लभ्यत इत्याह- "सर्वम्" इत्यादि। "इदम्" इति। "तद्धितश्चासर्वविभक्तिः" १।१।३७इत्यादिकम्। किञ्चित् स्वरूपेणैव पठ()ते, कस्यचित् पर्यायान्तरेणार्थः। स त्वभिधेयधर्मेणोपचारा-दित्युच्यते। तत्र "कृम्भकारसन्ध्यरान्तः" इति "कृन्मेजन्तः" १।१।३८ इत्यस्यार्थःपठ()ते। क्त्वातोसुन्कसुनोऽव्ययीभावश्चेति स्वरूपेणैव। तसिलादिस्तद्धित एधाच्पर्य- न्त इति यावत्। च्व्यर्थाश्चेति। असिमौणादिकं वर्जयित्वा। तद्धितश्चासर्वविभक्तिरि- त्यस्यार्थः। "अनित्यत्वज्ञापनार्थम्" इति। प्रकृतत्वात् "संज्ञायाः" इति लभ्यते। तेनाकजादौ कत्र्तव्ये संज्ञा न भवतीति। अज्ञाताद्यर्थविवक्षायामुपाग्निकमित्यत्रा- कज् न भवति, क एव तु भवति। इह च उपकुम्भमात्मानं मन्यत उपकुम्भम्मन्यः, "आत्ममाने खश्च" ३।२।८३ इत खशि कृते "खित्यनव्ययस्य" ६।३।६५ इत्यनुवत्र्तमाने "अरुर्द्विषदजन्तस्य मुम्" ६।३।६६ इति मुमः प्रतिषेधो न भवति। "इह च" इत्यादिना "अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः" इति यद्वक्ष्यति तस्यात्रावक्तव्यतां दर्शयति। सूर्यस्येत्यत्र "कर्तृकर्मणोः कृति" २।३।६५ इति षष्ठी॥
बाल-मनोरमा
अव्ययीभावश्च ४४५, १।१।४०

अव्ययीभावश्च। "अव्ययसंज्ञः स्या"दिति शेषः। अधिहरीति। विभक्तयर्थेऽव्ययीभावः। हरावित्यर्थः।

तत्त्व-बोधिनी
अव्ययीभावश्च ४०२, १।१।४०

अव्ययीभावश्च। अव्ययसंज्ञः स्यात्। इह "लुकि मुखस्वरोपचारयोर्निवृत्तौचे"ति परिगणनं कर्तव्यम्। लुक्युदाहरमम्---उपग्नि। "अव्यया"दिति सुपो लिक्। मुखस्वरनिवृत्तौ उदाहरणम्---उपग्निमुखः। प्रत्यग्निमुखः। "मुखं स्वाङ्ग"मित्युत्तरपदान्तोदात्तत्वे प्राप्ते "नाव्ययदिक्शब्दे"त्यदिना प्रतिषेधः। तथाच "बहुव्रीहौ प्रकृत्ये"ति पूर्वशब्दप्रकृतिस्वर एव भवति, पूर्वपदं च समासस्वरेणाऽन्तोदात्तम्। विसर्गस्थानिकस्य सकारस्य "उपचार"इति प्राचां संज्ञा, तन्निवृत्तावुदाहरणम्---उपपयःकारः।उपपयःकामः। इह "अतः कृकमी"ति प्राप्तं सत्वम् "अनव्ययस्ये"ति पर्युदस्यते। परिगणनं किम्()। उपागन्धीयान। इह "सुबामन्त्रिते"इति पराङ्गवद्भावेन याने"त्यादौ मा भूदिति। तथा "उपाग्निक"मित्यादौ अव्ययसर्वनाम्ना"मित्यकच्[च]न। उपकुम्भंमन्यः। "खित्यनव्ययस्ये"ति वर्तमाने "अरुर्द्विषदजन्तस्येति विहितो यो मुस्तस्येह प्रतिषेधो न। उपकुम्भीभूतः। इह "अस्य च्वौ" इतीत्त्वस्य"प्रतिषेधो न। ईस्वविधौ हि "अव्ययस्य च्वावितीत्वं ने"ति प्रतिषे उच्यते, दोषाभूतमाहः दिवाभूता रात्रिरित्यत्र मा भूदिति। स्यादेतत्--स्वारादित्वेनैव सिद्धत्वात्। "तद्धितश्चे"त्यादि चतुःसूत्री व्यर्था। तत्र हि "तसिलादिस्तद्धित एदाच्पर्यन्तः"इत्यादिना "च्व्यर्थाश्चे"त्यन्तेनाऽ‌ऽसिप्रत्ययमौणादिकं वर्जयित्वा "तद्धितश्चासर्वविभक्तिः" इत्यस्याऽर्थः सङ्गृह्रते। "कृन्मकारसन्ध्यक्षरान्तः"इत्यनेन "कृन्मेजन्तः"इत्यस्यार्थः सङ्गृह्रते। "त्त्कातोसुन्कसुनः""अव्ययीभावश्चे"ति सूत्रद्वयं तु स्वरूपेणैव पट()त इति। अत्राहुः--पुनर्वचनमनित्यत्वज्ञापनार्थम्। तेन प्रागुक्तं "लुङ्मुखस्वरोपचाराः"इति परिगणनं लभ्यते। "पुरा सूर्यस्()योदेतोराधेयः"। "पुरा क्रूरस्य विसृपो विरप्श"न्नित्यासिद्धये "न लोकाव्यये"त्यत्र "अव्ययप्रतिषेधे तोसुन्कसुनोरप्रितषेधः"इति वक्ष्यते तदप्यनेनैव लभ्यत इति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ शि १।१ सर्वनामस्थानम् १।१ ४२

अर्थः॥

शि {जश्शसोः शि (७।१।२०)} इत्यनेन यः शि-आदेशः, तस्य सर्वनामसंज्ञा भवति।

उदाहरणम्॥

कुण्डानि, वनानि। दधीनि, मधूनि। त्रपूणि जतूनि।
काशिका-वृत्तिः
शि सर्वनामस्थानम् १।१।४२

शि इत्येतत् सर्वनामस्थानसंज्ञं भवति। किम् इदं शि इति? जश्शसोः षिः ७।१।२० इति शिः आदेशः। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। सर्वनामस्थानप्रदेशाः सर्वनामस्थाने च असम्बुद्धौ ६।४।८ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
शि सर्वनामस्थानम् २३९, १।१।४१

शि इत्येतदुक्तसंज्ञं स्यात्॥
न्यासः
शि सर्वनामस्थानम्। , १।१।४१

"कुण्डानि" इत्यादि। "जश्शसोः शिः" ७।१।२० इति शिः, तस्य सर्वनामस्थान त्वे सति "नंपुसकस्य" स्थानम्" इति। पूर्वाचार्यैरेवेयं प्रयोजनमन्तरेणापि महती संज्ञा प्रणिता। तस्या इह यत् समाश्रयणम् तत् तत्कृतस्य शब्दानुशासनस्य दोषवत्त्वसूचनार्थम्। तत् पुनः स्वशास्त्रस्य पुनरुक्ततादोषपरिहारार्थम्। यदि हि तद्दोषवद्भवत्येवमस्य प्रणयनं युज्यते, नान्यथा।
बाल-मनोरमा
शि सर्वनामस्थानम् ३११, १।१।४१

शिसर्वनामस्थानम्। उक्तसंज्ञामिति। सर्वनामस्थानसंज्ञकमित्यर्थः। अनपुंसकस्येति पर्युदासाच्छीत्यस्य सर्वनामस्थानत्वेऽप्राप्ते वचनम्।

तत्त्व-बोधिनी
शि सर्वनामस्थानम् २७३, १।१।४१

शि सर्वनामस्थानम्। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ सुट् १।१ अनपुंसकस्य ६।१ सर्वनामस्थानम् १।१ ४१

समासः॥

न नपुंसकम् अनपुंसकम्, तस्य अनपुंसकस्य, नञ्तत्पुरुषः

अर्थः॥

नपुंसकभिन्नः यः सुट् तस्य सर्वनामस्थान-संज्ञा भवति। सुट् इत्यनेन सु इत्यारभ्य औट्-पर्यन्तं प्रत्याहारः गृह्यते। तत्र च, सु औ जस् अम् औट् इति पञ्च प्रत्ययाः समाविष्टाः सन्ति।

उदाहरणम्॥

राजा राजानौ राजानः राजानम् राजानौ
काशिका-वृत्तिः
सुडनपुंसकस्य १।१।४३

सुटिति पञ्च वचनानि सर्वनामस्थानसंज्ञानि भवन्ति नपुंसकादन्यत्र। नपुंसके न विधिः, न प्रतिषेधः। तेन जसः शेः सर्वनामस्थानसंज्ञा पूर्वेण भवत्येव। राजा, राजानौ, राजानः। राजानम्, राजानौ। सुटिति किम्? राज्ञः पश्य। अनपुंसकस्य इति किम्? सामनी, वेमनी।
लघु-सिद्धान्त-कौमुदी
सुडनपुंसकस्य १६३, १।१।४२

स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥
न्यासः
सुजनपुंसकस्य। , १।१।४२

सु()इति प्रत्याहाररग्रहणम्- सुशब्दादारभ्य आ औटष्टकारात्। तत्र पञ्चैव वचनानयन्तर्भवन्तीत्याह -"सुडिति पञ्च वचनानि" इत्यादि। "नपुंसकादन्यत्र" इत्यादि। अनेनानपुंसकशब्दस्य पर्युदासतां दर्शयति। प्रसज्यप्रतिषेधे हि प्रतिषेधप्रधानमिदं वाक्यं स्यात् - नपुंसकस्य न भवतीति। ततश्च यावती काचित् सुटः सर्वनामस्थानसंज्ञा- प्राप्तिः, तस्याः सर्वस्याः प्रतिषेधः स्यात्। एवं हि "कुण्डानि तिष्ठन्ति" इत्यत्र पूर्वेणापि संज्ञा न स्यात्। तस्यास्तु शसः शिरादेशोऽवकाशः। यद्यपि "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या।प।त१९) इत्येतत्समाश्रयेण प्रसज्यप्रतिषेधे ऽप्येष दोष- शक्यते परिहर्तुम्, तथापि प्रतिपत्तिगौरवदोषः स्यात्। तथा हि- विधिप्रतिषेधयोर्विरोधादेकेन वाक्येन तावच्छक्यो न विधातुमिति वाक्यभेदः कत्र्तव्यः- "सुट् सर्वनामस्थानसंज्ञो भवति। नपुंसकस्य च न भवति" इति। ततश्चासम्बद्धं प्रतिषेधवचन- मिति पूर्वस्या अपि प्राप्तेरयं प्रतिषेधः सम्भाव्येत। ततस्तत्परिहारेणाभीष्टार्थ प्रतिपत्तौ साध्यायां नियतभावी गौरवदोषः प्रसज्येत। तस्मात् सुखावबोधार्थं - पर्युदास एवाश्रितः। नपुंसके न विधिः" इति। स्त्रीपुंसम्बन्धिनः सुट उपादानात्। "न प्रतिषेधः" इति। विधिप्रधानत्वात् प्रयुदासस्य। एतेन नपुंसकेऽस्य योगस्याव्यापारं दर्शयति- "तेन" इत्यादि। यत एव नुपंसके नास्य विधौ प्रतिषेधे वा व्यापारः, तेन जसो यः शिरादेशस्तस्य तेन पूर्वयोगेन संज्ञा भवत्येव; अप्रतिषिद्धत्वात्। "राजा" इति। पूर्वद्दीर्घः। हल्ङ्यादिलोपः। "सामनी,वमनी"इति। "नपुंसकाच्च" ७।१।१९ इति औङः शीभावः। तत्र संज्ञाया अभावाद्दीर्घत्वं न भवति।
बाल-मनोरमा
सुडनपुंसकस्य २२७, १।१।४२

तत्र किं सर्वनामस्थानमित्यत आह--सुडनपुंसकस्य। "शि सर्वनामस्थान"मित्यतः "सर्वानामस्थान"मित्यनुवर्तते। अक्लीबं=नपुंसकभिन्नप्रातिपदिकं, तस्य सुट् सर्वनामस्थानसंज्ञं स्यादित्यर्थः। तत्र सुट्शब्दमप्रसिद्धार्थत्वाद्व्याचष्टे--सुडिति प्रत्याहार इति। "सु"इत्यत्र औटष्टकारेणे"ति शेषः। नतु टाटकारेण, प्रथमातिक्रमणे कारणाऽभावात्।

तत्त्व-बोधिनी
सुडनपुंसकस्य १९२, १।१।४२

सुडनपुंसकस्य। "सुट् स्त्रीपुंसयो"रिति वक्तव्येऽनपुंसकस्येति वचनं ज्ञापकं "प्रसज्यप्रतिषेधेऽपि नञ्समासोऽस्ती"ति कैयटः। तेन "असूर्यंपश्यानि मुखानी"त्यादि सिद्धम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ वा इति विभाषा १।१

अर्थः॥

न इति निषेधार्थः, वा इति विकल्पार्थः, अनयोः निषेध-विकल्पार्थयोः विभाषा-संज्ञा भवति।

उदाहरणम्॥

शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। दक्षिणपूर्वस्यै, दक्षिणपूर्वायै।
काशिका-वृत्तिः
न वाइति विभाषा १।१।४४

न इति प्रतिषेधः, वा इति विकल्पः। तयोः प्रतिषेधविकल्पयोः विभाषा इति संज्ञा भवति। इतिकरणो ऽर्थनिर्देशार्थः। विभाषाप्रदेशेषु प्रतिषेधविकल्पावुपतिष्ठेते। तत्र प्रतिषेधेन समीकृते विषये पश्चाद् विकल्पः प्रवर्तते। उभयत्रविभाषाः प्रयोजयन्ति। विभाषा श्वेः ६।१।३० शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। विभाषाप्रदेशाः विभाषा श्वेः ६।१।३० इत्येवम् आदयः।
न्यासः
न वेति विभाषा। , १।१।४३

नवेति शब्दोऽयमेको निपातोऽप्यस्ति प्रतिषेधवाची, यथा-"नवा वक्तव्यं भुक्तार्थत्वात्" इत्यादौ भाष्यवाक्ये। तस्येह यदि ग्रहणं स्यात् "विभाषा दिक्समासे बहुव्रीहौ" १।१।२७ इत्युक्त्वा "न बहुव्रीहौ" १।१।२८ इत्यत्र तु पुनः प्रति- षेधोपादानमनर्थकं स्यात्। तस्मान्न निपातसमुदायोऽयमिति दर्शयन्नाह- "नेति प्रतिषे- धः" इत्यादि। ननु चान्यत्र संज्ञासंज्ञिसम्बन्धप्रक्रियाया हि शास्त्रे शब्दस्यैव ग्रहणं प्रसिद्धम्, यथा तरप्तमपौ घः" १।१।२१ "दाधा घ्वदाप्" १।१।१९ इति, तथेहापि नवाशब्दयोरेव ग्रहणं युक्तम्। तत् कथं तदर्थयोः संज्ञा लभ्यत इत्याह-"इतिकरणः" इत्यादि। क्रियत इति करणः, इतश्चासौ करणश्चेतीतिकरणः, सोऽर्थस्य संज्ञिनो निर्देशो यथा स्यादित्येवमर्थः। इतिशब्दो हि विपर्यासकृत्। यथा गवित्यर्थमाहेति गोशब्दात् परतः प्रयुज्यमान इतशब्दस्तमर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वे व्यवस्थापयति, तथा "नवा" शब्दाभ्यां परः इति शब्दः प्रयुज्यमानः, तौ स्वरूपपदार्थक- त्वात्प्रच्याव्यार्थपदार्थकत्वे व्यवस्थापयति। तस्मादर्थनिर्देशार्थ एवेतिशब्दः कृत इति नवेति यावर्थौ प्रतीयेते प्रतिषेधविकल्पौ, तयोरेवेयं संज्ञा भवति; न नवाशब्द- योः। "तत्र प्रतिषेधेन" इत्यादिना प्रतिषेधविकल्पयोः प्रवृत्तिक्रमं व्यापारबेदं च दर्शयति। "समीकृते" इति। तुल्यतामापादिते। "विकल्पः प्रवत्र्तते" इति। पक्षे कार्यसम्पादनाय। ननु च वाशब्द एव विकल्पार्थत्वेन लोके प्रसिद्धः, प्रदेशेष्वयमुपादीयमानो विकल्पेन कार्यं सम्पादयिषयति। तथा हि प्राप्ते वा कार्ये विकल्पः क्रियताम्? यदि प्राप्ते? तत्र प्राप्तिरस्त्येवेति प्रतिषेध एव पक्षे कत्र्तव्यः। अथाप्राप्ते? तत्र प्राप्तिपूर्वकत्वात् प्रतिषेधस्य तामन्तरेण स न युज्यत इति विधिरेव पक्षे कत्र्तव्यः, न प्रतिषेधः। एतच्चोभयं वाशब्द एव शक्तः प्रयुज्यमानः सम्पादयितुम्। तत् किमर्थमियं संज्ञा क्रियत इत्याह- "उभयत्र विभाषाः प्रयोजन्ति" इति। प्रकृतत्वात् संज्ञामिति गम्यते। "विभाषा श्वेः" (६।१।३०) इत्यत्र प्रतिषेधमुखेन वाशब्दस्य प्रवृत्तिः स्यात्? विधिमुखेन वा? तत्र यदि प्रतिषेधमुखेन वा न भवतीत्येवं प्रवृत्तिः? प्राप्तिपूर्वकत्वात् प्रतिषेधस्य यत्र स एव तस्य विषय इति कित्स्वेव विकल्पेन प्रतिषेधायेदं प्रवत्र्तते। तत्र "वचिस्वपि" ६।१।१५ इत्यादिना ()आयतेः सम्प्रसारणस्य विहितत्वात्, न पित्सु; तत्र तस्य न केनचिद्विहितत्वात्। एकत्वच्चा- स्य वाक्यस्य कित्सु च प्रतिषेधसम्पादन एव चरितार्थत्वात् नोपपद्यते पुनर्विधिमुखेन प्रवृत्तिः। अथ विधिमुखेन वा भवतीत्येवं प्रवृत्तिः स्यात्? यत्र प्राप्तिर्ना- स्ति स एव विधिविषय इति पित्स्वेव विकल्पेन विध्यर्थः प्रवत्र्तते;तत्र चरितार्थ- त्वात् न कित्सु। संज्ञाविधाने तु न दोषः; तस्यां हि सत्यां प्रतिषेधः प्रवत्र्त- मानो योऽसौ सम्प्रसारणनिमित्तानिमित्तभेदाद्विषय आसीत् तं समीकरोति। सर्वस्याः सम्प्रसारणनिमित्ततया तुल्यतामापादयति।तस्मिन् समीकृते किति च पिति च विकल्पः प्रव- त्र्तमानो विधिमुकेन सर्वत्र पाक्षिकं कार्यं सम्पादयति, सम्प्रसारणं पक्षे भवतीति। अप्राप्तिस्तु पक्षे स्थितैवेति सर्वमिष्टं सिध्यति। तस्मादुभयत्र प्राप्तावप्रा- प्तौ विभाषार्थमियं संज्ञा विधीयते। शुशावेति। "टुओ()इआगतिवृद्ध्योः" (धा।पा।१०१०), लिट्(), णल्, संप्रसारणे कृते वृद्ध्यावादेशौ। "शुशुवतुः,शि()इआयतुः" इति। "अचि श्नुधातु" ६।४।७७ इत्यादिना इयङुवङौ॥
बाल-मनोरमा
न वेति विभाषा २६, १।१।४३

न वेति विभाषा। "मेध्यः पशुरनड्वान्विभाषितः" इत्यादियाज्ञिकप्रयोगे विभाषाशब्दः केवलविकल्पे दृष्टः। इह तु शास्त्रे निषेधो विकल्पश्चेति द्वयं मिलितं विभाषाशब्दार्थ इति बोधयितुमिदमारभ्यते। इतिशब्दाभावे, स्वं रूपं शब्दस्येति नवाशब्दयो स्वरूपपरत्वान्नवाशब्दयोर्विभाषासंज्ञेत्यर्थः स्यात्। ततश्च "विभाषा ()ओ" रित्यादौ नवाशब्दा४वादेशौ स्याताम्। इतिकरणे तु नायं दोषः। इतिर्हि प्रत्येकं संबध्यते। ततश्च "न" इति शब्देन योऽर्थो गम्यते निषेधः, "वा" इति शब्देन योऽर्थो गम्यते विकल्पस्तदुभयस्य मिलितस्य विभाषासंज्ञा स्यादित्यर्थः फलति। एवंच नवाशब्दार्थयोरेव संज्ञित्वं लभ्यते, न तु नवाशब्दस्वरूपयोरिति नोक्तदोषः। तदाह-निषेधविकल्पयोरित्यादि। उभयत्रविभाषार्थमिदं सूत्रम्। तथाहि--(प्राप्तविभाषा अप्राप्तविभाषा उभयत्रविभाषेति) त्रिविधा विभाषा। प्राप्तविभाषा यथा-विभाषा जसीति। वर्णाश्रमेतरे वर्णाश्रमेतरा इत्यत्र हि द्वन्द्वे चेति नित्यतया सर्वनामसंज्ञानिषेधे प्राप्ते विभाषेयम्। अप्राप्तविभाषा यथा--तीयस्य ङित्सु विभाषेति। द्वितीयस्मै द्वितीयायेत्यादौ तीयप्रत्ययस्य सर्वादिगणे पाठाऽभावादप्राप्ताया#ं सर्वनामसंज्ञायां विभाषेयम्। उभयत्रविभाषा यथा--विभाषा ()ओरिति। ()आयतेर्लिटि यङि च संप्रसारणविभाषेयम्। तत्र लिटि शुशाव, शि()आआय, शुशुवतुःशि()आयतुरित्याद्युदाहरणम्। यङि तु शोशूयते इति। अत्र यङंशेऽप्राप्तविभाषैवेयम्। लिटि तु द्विवचनबहुवचनेष्वपित्सु "वचिस्वपियजादीनां किति" इति नित्यतया सम्प्रसारणं प्राप्तम्, पित्सु त्वेकवचनेषु सम्प्रसारणं न प्राप्तमेव। "असंयोगाल्लिट् कित्" इति कित्त्वस्य अपित्स्वेव प्रवृत्तेः। एवं च प्राप्तेऽप्राप्ते चारम्भात् "विभाषा ()ओ"रित्युभयत्रविभाषेति स्तितिः। तत्र यदि "नवेति विभाषा" इति सूत्रं नारभ्येत, तर्हि "अनड्वान्विभाषितः" इत्यादियाज्ञिकप्रयोग इव विभाषा ()ओरित्यत्रापि केवलविकल्पः प्रतीयेत। भावोऽभावश्चेति द्वयं तावद्विकल्पः। ततश्च विभाषाश्रुतौ प्रवृत्तिस्दभावश्चेति द्वयमपि विधेयमिति लभ्यते। तत्र यदि "विभाषा श्वेः"इति विकल्पो विधिमुखः--"लिटि ()आयतेः सम्प्रसारणं भवति न भवती-ति तर्हि पित्स्वेव विकल्पस्य प्रवृत्तिः स्यात्। तत्र हि सम्प्रसारणस्य वचिस्वपीति किति विहितस्य अप्राप्तत्वेन प्रथमं भवनांशो विधेयः, तस्य पाक्षिकत्वाय न भवतीत्यपि विधयम्। कित्सु तु प्रवृत्तिर्न स्यात्। तेषु हि वचिस्व पियजादीनां कितीति प्राप्तत्वात् प्रथमं भवनांशो न विधेयः। न भवतीत्यंश एव विधेयः। एवं च उभयांशविधेयत्वाऽलाभात्तत्र विकल्पविधिरयं न प्रवर्तेत, तत्र नित्यमेव सम्प्रसारणं स्यात्। यदि तु विकल्पो निषेधमुखः --लिटि ()आयतेः सम्प्रसारणं न भवति भवती"ति, तर्हि कित्स्वेव प्रवृत्तिः स्यात्। तत्र हि वचिस्वपीति प्राप्तत्वान्न भवतीति प्रथमं विधेयम्। अभवनस्य पाक्षिकत्वलाभाय भवतीत्यपि विधेयम्। पित्सु तु प्रवृत्तिर्न स्यात्। तत्र सम्प्रसारणस्याऽप्राप्ततया न भवतीत्यंशस्य प्रथमं विध्यनर्हत्वात्। न च पित्सु विधिमुखः कित्सु निषेधमुख इत्युभयथापि प्रवृत्तिरिति वाच्यम्। सकृच्छ()तस्य विभाषाशब्दस्य क्वचिद्विधिमुखविकल्पबोधने क्वचिन्निषेधमुखविकल्पबोधने च असामथ्र्यात्। आवृत्त्या तद्बोधने तु स एव दोषः। "नवेति विभाषे"त्यारम्भे तु श्रुतक्रमानुरोधेन बोधान्नेत्यंशेन कित्सु पूर्वं निषेधः प्रवर्तते। ततः किदकिद्रूपे सर्वस्मिन् लिटि निःसम्प्रसारणतया ऐकरूप्यं प्रापिते सति, भवति न भवतीत्येकरूपेण विधिमुख एव विकल्पः प्रवर्तते। तदेवमुभयत्रविभाषार्थमिदं सूत्रम्। प्राप्तविभाषायां तु नास्योपयोगः, तत्र भवनांशस्य प्राप्तत्वेन विध्यनर्हत्वात्। अप्राप्तविभाषायामपि न तस्योपयोगः, तत्र अभवनांशस्य सिद्धत्वेन विध्यनर्हत्वात्। नचैवमपि "उणादयो बहुलं""ह्मकोरन्यतरस्याम्""छन्दस्युभयथा" "अनुपसर्गाद्वा" इत्यादिविधिषु विभाषाशब्दाऽभावात् केवलविकल्पविधौ वैरूप्यं दुर्वारमिति वाच्यम्, विभाषाशब्दस्याऽत्र सूत्रे विकल्पवाचकशब्दोपलक्षणत्वात्। एवं च लोके ये विकल्पपर्यायाः शब्दास्ते सर्वेऽस्मिन् शास्त्रे निषेधविकल्पयोः प्रत्यायका इति सूत्रार्थपर्यवसानं बोध्यम्। भाष्ये तु विभाषादिशब्दानां लोकवदेव केवलविकल्पपरत्वेऽपि लक्ष्यानुरोधेनैव क्वचिद्विधिमुखेन क्वचिन्निषेधमुखेन विकल्पस्य प्रवृत्युपपत्तेरेतत्सूत्रं प्रत्याख्यातमित्यलं बहुना।

तत्त्व-बोधिनी
न वेति विभाषा २३, १।१।४३

न वेति विभाषा। "ने"ति प्रतिषेधो "वे"ति विकल्पस्तदाह-निषेधविकल्पयोरिति। "विभाषाश्वेः" इत्यादिषु प्रतिषेधविकल्पावुपतिष्ठेते, तत्र प्रतिषेधेन समीकृते विषये पश्चाद्विकल्पः प्रवर्तते। शुशाव शि()आआयेत्यत्राऽप्राप्तौ विकल्पः, शुशुवतुः शि()इआयतुरित्यादौ तु "वचिस्वपी"ति नित्यप्राप्ताविति विवेकः। अत्रेदं बोध्यम्-"इति" शब्दः काकाक्षिन्यायेनेभाभ्यां सम्बध्यते। स च पदार्थविपर्यासकृत्। तेन निषेधो विकल्पश्च नवाशब्दार्थः संज्ञी। विभाषाशब्दार्थो विकल्पः संज्ञा। उभयत्रविभाषार्थं चेदं सूत्रम्। प्राप्तविभाषायामप्राप्तविभाषायां च नास्योपयोगः। प्राप्तविभाषायां भावांऽशस्य सिद्धत्वेन विभाषाश्रुत्या "पक्षे भवती"ति भावांषमनूद्य "पक्षे न भवती"त्यभावांशमनूद्य "पक्षे भवती"ति भावांशमात्रकरणात्। "विभाषा श्वेः" इत्युभयत्रविभाषायां तु यदि विधिमुखेन प्रवृत्तिस्तर्हि पित्स्वेव सम्प्रसारणविकल्पः स्यात् , कित्सु तु यजादित्वात् "वचिस्वपि-" इति नित्यमेव स्यात्। अथ प्रतिषेधमुखेन प्रवृत्तिस्तर्हि कित्स्वेव प्रवृत्तिः-स्यान्न तु पित्सु। नच पित्सु विधिमुखेन कित्सु तु निषेधमुखेनेत्युभयथापि प्रवृत्तिरस्त्विति वाच्यम्, वैरूप्यलक्षणवाक्यबेदप्रसङ्गात्। संज्ञाकरणे तु श्रुतक्रमानुरोधेन "ने"ति प्रतिषेधः प्रथमं कित्सु प्रवत्र्तते, ततः किदकिद्रूप सर्वस्मिल्लिटि एकरूपं प्रापिते सति "पक्षे भवती"त्यकरूपेण विधिमुखेनैव प्रवर्तते। इतीति किम्? घुसंज्ञावत् "स्वं रूप"मिति वचनाच्छब्दस्य संज्ञा मा भूत्। तथाहि सति "विभाषा श्वेः" इत्यस्य नवाशब्दः ()आयतेरादेश इत्यर्थः स्यात्। इतिशब्दे तु सति अर्थः संज्ञीति लभ्यते। तथाहि-लोके ह्रर्थप्रधानः शब्दः। "गौरित्ययमाहे"त्यादौ तु शब्दस्वरूपपरः संपद्यते। व्याकरणे तु "स्वं रूप"मिति परिभाषाणात्स्वरूपपरत्वमौत्सर्गिकम्। इतिशब्दसमभिव्याहारे त्वर्थपरतेति विशेषः। इदमेवोतिशब्दस्य पदार्थविपर्यासकत्वं नाम। संज्ञात्वमर्थस्यैव नतु विभाषाशब्दस्येति व्याख्यानस्य "ह्मक्रोरन्यतरस्या"-मित्यादौ वैरूप्योद्धारः फलम्। उभयत्रविभांषा हि तत्सूत्रम्, अभ्यवपूर्वस्य हरतेर्भक्षणार्थत्वाद्विकारार्थस्य करोतेरकर्मकत्वाच्च "गतिबुद्धी"त्यादिना अणौ कर्तुर्णौ कर्मत्वे प्राप्ते अर्थान्तरे चाऽप्राप्ते तदारम्भात्। उदाह्मतं च भाष्ये-"प्राप्ते तावत्-अभ्यवहारयति सैन्धवान्, अभ्यवहारयति सैन्धवैः। विकारयत#इ सैन्धवान्, विकारयति सैन्धवैः। अप्राप्ते तु-हरति भारं देवदत्तः, हारयति भारं देवदत्तम्, हारयति भारं देवदत्तेन। करोति कटं देवदत्तः, कारयति कटं देवदत्तम् , कारयति कटं देवदत्तेने"ति दिक्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ इक् १।१ यणः ६।१ सम्प्रसारणम् १।१

अर्थः॥

यणः (य् व् र् ल्) स्थाने यः इक् (इ उ ऋ ऌ) (भूतः भावी वा) तस्य सम्प्रसारणसंज्ञा भवति।

उदाहरणम्॥

उक्तः, उक्तवान्। सुप्तः, सप्तवान्॥ इष्टः, इष्टवान्। गृहीतः, गृहीतवान्।
काशिका-वृत्तिः
इग्यणः सम्प्रसारणम् १।१।४५

इक् यो यणः स्थाने भूतो भावी वा तस्य संप्रसारणम् इत्येषा संज्ञा भवति। यजि ष्टम्। वप् उप्तम्। ग्रह गृहीतम्। केचिदुभयथा सूत्रम् इदं व्याचक्षते वाक्यार्थः संज्ञी, वर्णश्च इति। इग्यणः यो वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणः स सम्प्रसारणसंज्ञो भवति, यण्स्थानिक इग्वर्णः स सम्प्रसारणसंज्ञो भवति इति। तत्र विधौ वाक्यार्थ उपतिष्ठते ष्यङः सम्प्रसारणं पुत्रपत्योस् तत्पुरुषे ६।१।१३ वसोः सम्प्रसारणम् ६।४।१३१ इति। अनुवादे वर्णः सम्प्रसारणाच् च ६।१।१०४ इति। सङ्ख्यातानुदेशादिह न भवति अधितराम् इति। द्युभ्याम् इत्यत्र दिव उत् ६।१।१२७ इति तपरकरणाद् दीर्घो न भवति। सम्प्रसारणप्रदेशाः वसोः सम्प्रसारणम् ६।४।१३१ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
इग्यणः संप्रसारणम् २५७, १।१।४४

यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात्॥
न्यासः
इग्यणः सम्प्रसारणम्। , १।१।४४

"भूतः"इति। यत्र शास्त्रान्तरेण विहितो भूतविभक्त्या कार्यान्तरार्थमनूद्य-ते, यथा- "सम्प्रसारणस्य" ६।१।१३४ "सप्रसारणाच्च" ६।१।१०४इति, तत्र भूतः। "भावी वा" इति। यत्र भाव्यमानविभक्त्या विधानार्थं निर्दिश्यते, यथा "ष्यङः सम्प्रसारणम्" ६।१।१३ "वसोः सम्प्रसारणम्" ६।४।१३१ इति, तत्र भावी। अत्र हि ष्यङः स्थानिको वसुस्थानिकश्चेङः नास्ति यस्य संज्ञा सूत्रस्य शाटकं वय" इति। स इग् यणः स्थाने भवति, यस्य भूतस्य सम्प्रसारणमित्येषा संज्ञा भवतीति। "इष्टम्, उप्तम्" इति। "वचिस्वपियजादीनां किति" ६।१।१५ इत सम्प्रसारणम्। "गृहीतम्ित्यत्रापि "ग्रहिज्यावयि"६।१।१६ इत्यादिना सम्प्रसारणम्। "ग्रहोऽलिटि दीर्घः" ७।२।३७। "केचित्" इत्यादिना ये भाविनीं संज्ञां नाश्रयन्ति तन्मतं दर्शयति। कथं पुनरेकस्य सूत्रस्यैतदर्थद्वयमेकेन वाक्येन लभ्यते? तन्त्रेण, आवृत्त्या वा। ननु च संज्ञाविधौशब्दस्यैव ग्रहणं प्रसिध्दमित्युक्तम्, ततो युक्तं वर्णस्यैव संज्ञित्वम्, अर्थस्यततु कथम्? यथा "नवेति विभाषा" (१॥४४) इति सूत्र इति चेत्? न युक्तम्; तत्रेतिकरण- स्यार्थनिर्देशार्थस्य प्रयोगात्, इह तु स नास्तीत्ययुक्तम्। इहापि तन्त्रस्यावृ- त्तेर्वा न्यायस्याश्रितत्वाद् युक्तमेव। अस्य च सूत्रार्थद्वयस्य विभक्तिविशेषनि-र्देशो लिङ्गम्। यदयं "ष्यडः सम्प्रसारणम्" (६ १।१३) इत्यादौ विधिवाक्ये भाष्यमानविभक्()त्या निर्देशं करोति ततो ज्ञायते-"वाक्यार्थः संज्ञी" इति। यतश्च "सम्प्रसारणस्य" ६।३।१३८ इत्यादौ भूतविभक्()त्या निर्देशं करोति ततोऽवसीयते- "वर्ण" इति। तस्माद् युक्तं वाक्यार्थस्यापि संज्ञित्वम्। किरूपोऽसौ वाक्यार्थः? इत्याह-"स्थान्यदेशः" इत्यादि। तत्रेत्यादिना अनन्तरयोः सूत्रार्थयोर्विषयविभागं दर्शयति--विधौ वर्णो न सम्भवतीति। "ष्यडः सम्प्रसारणम्" (६ १।१३) इत्यादौ विधिवाक्ये प्रथमः सूत्रार्थ उपतिष्ठते। अनवादे तु "सम्प्रसारणस्य"६।३।१३८ इत्यादौ विहितत्वाद्विधेयस्य प्रथमोऽकिञ्चित्कर इति द्वितीयः। "अदुहितराम्" इति। अत्र यणः स्थानिकत्वादिकः सम्प्रसारणसंज्ञया भाष्यम्। तस्यां च सत्यां "हलः" ६।४।२ इति दीर्घत्वं प्रसज्येतीति चोद्यमपाकर्त्तुमाह-"संख्ययातानुदेशात्ित्यादीह स्थानिनो यणश्चत्वारः इकोऽप्यादेशाश्चत्वार एव, तेन संख्यातानुदेशेन भवितव्यम् "यथासंख्यमनुदेशः" १।३।१० इत्यादिना। ततश्च यकारस्य स्थाने य इवर्णस्तस्यैव सम्प्रसारमसंज्ञा भवति। न चेह यकारस्य स्थान इवर्णः। किं तर्हि? लकारस्य। तत् कुतस्तस्याः प्रसङ्गः? "द्रुह प्रपूरणे" (धा। पा। १०१४), लङ, "कर्मवत् कर्मणा तुल्यक्रियः" ३।१।८७ इत्यतिदेशे कर्मकर्तयस्मिनेपदम्, इट्। "न दुहस्नुनमां यक्चिणौ" ३।१।८९ इति यकि प्रतिषिद्धे शप्। तस्यादादित्वाल्लुक्। अदुहि इति स्थिते "तिङश्च" ५।३।५६ इति तरप्। "किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे"(५ ४।११) इत्याम्। तरप इहोपन्यासोऽङ्गसंज्ञार्थः।
बाल-मनोरमा
इग्यणः संप्रसारणम् , १।१।४४

वि()आवागम्, वि()आवाहौ इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादावचि संप्रसारणकार्यं वक्ष्यन् संप्रसरणसंज्ञा दर्शयति--इग्यणः यणः स्थाने इति। व्याख्यानात्स्थानार्थलाभः। "षष्ठी स्थानेयोगे"ति तु नेह भवति, अनुवादे परिभाषामनुपस्थितेः। षष्ठीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसंभवात् "षष्ठीस्थानेयोगा" इत्येत"न्निर्दिश्यमानस्यादेशा भवन्ती"त्येतदर्थमिति भाष्ये सिद्धान्तितत्वाच्च। संप्रसारणसंज्ञ इति। ततश्च "वसोः संप्रसारणं" "वचिस्वपियजादीना"मित्यादौ संप्रसारणश्रुतौ यण्()स्थानिक इगुपस्थितो भवति। तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफस्य ऋकारः लस्य लृकार इति ज्ञेयम्।

तत्त्व-बोधिनी
इग्यणः संप्रसारणम् २८८, १।१।४४

इग्यणः। यणः स्थाने इति। विधिप्रदेशेषु सूत्रसाटकवद्भाविसंज्ञाश्रयणान्नान्योन्याश्रयः। ननु यण्स्थानिकस्येकः संप्रसारणत्वे "अदुहितचरा"मित्यत्र लङो लकारस्य स्थाने उत्तमपुरुषैकवचनमिट्, तस्य यण्स्थानिकत्वेन संप्रसारणसंज्ञायां सत्यां "हलः"इति दीर्घः स्यात्, तरपं प्रति लङ्न्तस्याऽङ्गत्वादिति चेत्। अत्र कैयटः---यथासङ्ख्यसम्बन्धात्सम्प्रसारणसञ्ज्ञाऽत्र न भवतीति। नन्वनुवादे परिभाषाणामनुपस्थानात्कथमिह यथासङ्ख्यत्वलाभः। नचैवं स्थानेयोगोऽपि न लभ्येतेति वाच्यम्, "षष्ठी स्थानेयोगे"त्यत्रैतत्सूत्रमनुवत्र्तय व्याख्यायां तल्लभात्। अत्राहुः--तन्त्रावृत्त्याद्याश्रयणेन "सम्प्रसारणस्ये"ति सूत्रे तद्भावितग्रहणाददुहिकरामित्यत्र "हलः"इति लङः स्थामिकस्येटः संप्रसारणस्य दीर्घो न भवति, लङ्स्थानिकस्येटः संप्रसारणशब्देनाऽभावितत्वात्ष। नन्वेवमप्यक्षद्युवौ अक्षद्युव इत्यादावूठः संप्रसारणसंज्ञायां "संप्रसारणाच्चे"ति पूर्वरूपं स्यादिति चेन्न, "संप्रसारणपूर्वत्वे समानाङ्गग्रहणं कर्तव्य"मिति वार्तिककृतोक्तत्वाद्वार्णादाङ्गस्य बलीयस्त्वाद्वा उवङेव स्यात्। अत्र नव्याः--"ष्यङः संप्रसारण"मित्यादिविधिप्रदेशेष्वेव "यण् इ"गिति पठित्वा संप्रसारणसंज्ञासूत्रं त्युक्तं शक्यमित्याहुः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ आद्यन्तौ १।२ टकितौ १।२

समासः॥

आदिश्च अन्तश्च आद्यन्तौ, इतरेतरद्वन्द्वः
टश्च कश्च, टकौ इतौ ययोः इति टकितौ, द्वन्द्वगर्भी बहुवॄहिः

अर्थः॥

षष्ठी-निर्दिष्टस्य {टित्} आगमः आदौ भवति, {कित्} आगमः अन्ते भवति।

उदाहरणम्॥

टित् - पठिता, भविता। कित् - त्रापुषम्, जातुषम्। जटिलः भीषयते, मुन्डो भीषयते।
काशिका-वृत्तिः
आद्यन्तौ टकितौ १।१।४६

आदिः टित् भवति, अन्तः कित् भवति षस्ठीनिर्दिष्टस्य। लविता। मुण्डो भीषयते। टित्प्रदेशाः आर्धधातुकस्य इड् वलादेः ७।२।३५ इत्येवम् आदयः। कित्प्रदेशाः भियो हेतुभये शुक् ७।३।४० इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
आद्यन्तौ टकितौ ८४, १।१।४५

टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥
न्यासः
आद्यतन्तौ टकितौ। , १।१।४५

"षष्ठी स्थानेयोगा" १।१।४८ इत्यस्याः परिभाषाया अयमपवादः। तेन तत्सम्बन्धादस्यापि परिभाषात्वं विज्ञायते। यदि तह्र्रादिष्टिद् भवत्यन्तः किद्भवति, तदा "चरेष्टः" ३।२।१६ "आतोऽनुपसर्गे कः" ३।२।३ इत्यादयोऽपि प्रत्यया आद्यन्तभूताः स्युओः। न च टितः प्रत्ययस्यादित्वे "टिड्ढाणञ्" ४।१।१५ इति टितो विधीयमानो ङीब् निरवकाश इत्याशङ्कनीयम्। यत्र हि प्रकृतेरेव सिद्धं टित्त्वं न प्रत्ययस्य, नदड् भष()डित्येवमादौ, स तस्यावकाशो भविष्यतीति। टितश्च प्रत्ययस्या- दित्वे सति कुरुचर इत्येवमादिरूपमेव सिध्येत्। कितस्त्वन्त्यत्वे आध्योः, विध्योरि- त्यत्र "उपसर्गे घोः किः" ३।३।९२ इति किप्रत्ययस्य प्रकृत्यन्तः-पातित्वाद्धातु- ग्रहणेन ग्रहणे सति "उदात्तयणो हल्पूर्वात्" ६।१।१६८ इत्येष स्वरो न स्यात्। "नोङ धात्वोः" ६।१।१६९ इति प्रतिषेधादित्यत आह- "षष्ठीग्रहणस्य सिंहावलोकितन्यायेनोप-स्थानात्। नन्वेवमपि "गापोष्टक्" ३।२।८ "व्रीहिशाल्योर्ढक्" ५।२।२ इत्येतावाद्य न्तौ प्राप्नुतः, नैष दोषः, "पुरस्तादपवादा अनन्तरात् विधीन् बाधन्ते नोत्तरान्" (व्या।प।९) इति स्थानेयोगत्वस्यैवायमपवादो भविष्यति, न प्रत्ययपरत्वस्य। अपर आह- आद्यन्तावयवौ, अवयवश्चावयविनमन्तरेण न सम्भवतीत्यवयविनमाक्षिप्य तौ वत्र्तेते। ततश्चावयवावयविसम्बन्धे यलस्यादिरन्तो वावयवो विधीयते, सोऽवयवो षष्ठ()आ निर्देष्ट- व्य इति सामथ्र्यादवयवषष्ठ()आ निर्दिष्टस्येति ज्ञायते। न चैवम्। "गापोष्टक्" ३।२।८ "व्रीहिशाल्योर्ढक्" ५।२।२ इत्येतौ प्रत्ययावाद्यन्तौ प्राप्नुतः, यस्मादिह प्रकृतयोऽवयवषष्ठ()आ निर्दिष्टाः, किं तर्हि? सुपां सुपो भवन्तीति पञ्चम्यर्थे या षष्ठी तयेति। "भीषयते" इति। "ञिभी भये"(धा।पा।१०८४) हेतुमण्णिच्, "भियो हेतुभये षुक्" ७।३।४० "भीस्म्योर्हेतुभये" १।३।६८ इत्यात्मनेपदम्।
बाल-मनोरमा
आद्यन्तौ टकितौ ३८, १।१।४५

आद्यन्तौ टकितौ। आदिश्च अन्तश्च आद्यन्तौ, टश्च कच् टकौ। टकारादकार उच्चारणार्थः। टकौ इतौ ययोस्तौ टकितौ। द्वन्द्वान्त इच्छब्दः प्रत्येकं संबध्यते। टित्कितावाद्यन्तावयवौ स्तः। कस्येत्याकाङ्क्षायां यस्य तौ विहितौ तयोरित्यर्थाल्लभ्यते। तदाह--टित्कितावित्यादिना। क्रमादिति यथासङ्ख्य सूत्रलभ्यम्। टित् आद्यवयवः, किदन्तावयव इत्यर्थः। नचैवं सति मिलितयोरेकत्रान्वयाऽभावात्कथमिह द्वन्द्व इति वाच्यम्, प्रथमतः समुदायरूपेण परस्परं युगलयोरन्वयबोधमादाय द्वन्द्वप्रवृत्तौ सत्यां यथासंख्यसूत्रपर्यालोचनया पुनः प्रत्येकान्वयोपपत्तेः। "एचोऽयवायावः" इत्यादावप्येषैव गतिः। लोके त्वेवंजातीयकप्रयोगोऽसाधुरेवेति भाष्यादिषु स्पष्टम्। अत्रैव यथासङ्ख्यसूत्रोमन्यासो युक्तः। "आर्धधातुकस्येड्वलादेः" भविता। "ङ्णोः कुक् टुक् शरि", प्राङ्()क्?षष्ट इत्याद्युदाहरणम्। "पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान्" इति "षष्ठी स्थानेयोगे"त्यस्यानन्तरस्यैवायमपवादः। "प्रत्ययः" परश्चेत्यनेन तु परत्वादिदं बाध्यते। तेन चरेष्टः गापोष्टगित्यादयः परा एव भवन्ति।

तत्त्व-बोधिनी
आद्यन्तौ टकितौ ३२, १।१।४५

आद्यन्तौ टकिता। भविता,-"आर्धधातुकस्येट्"। पाययाति-"शाच्छासाह्वे"त्यादिनात्युक्। पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यायमपवादः। "प्रत्ययः" "परश्चेट"त्यनेन तु परत्वादयं बाध्यते। तेन "चरेष्टः" "गापोष्टा" गित्यादयः परा एव भवन्ति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ मित् १।१ अचः ६।१ अन्त्यात् ५।१ परः १।१

समासः॥

म् इत् यस्य सः मित्, बहुव्रीहिः
अन्ते भवं अन्त्यम्, तस्मात् अन्त्यात्

अर्थः॥

अचां सन्निविष्टानां यः अन्त्यः अच्, तस्मात् परः मित् भवति।

उदाहरणम्॥

भिनत्ति, छिनत्ति। रुणद्धि। मुञ्चन्ति। वन्दे मातरम्। कूण्डानि, वनानि। यशांसि, पयांसि।
काशिका-वृत्तिः
मिदचो ऽन्त्यात् परः १।१।४७

अचः इति निर्धारणे षष्ठी। जातौ च इदम् एकवचनम्। अचां संनिविष्टानाम् अन्त्यादचः परो मित् भवति। स्थानेयोग प्रत्यय परत्वस्य अयम् अपवादः। विरुणद्धि। मुञ्चति। पयांसि। मित्प्रदेशाः रुदादिभ्यः श्नम् ३।१।७८ इत्येवम् आदयः। मस्जेरन्त्यात् पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगाऽदिलोपार्थम्। मग्नः। मग्नवान्। मङ्क्ता। मङ्क्तुम्।
लघु-सिद्धान्त-कौमुदी
मिदचोऽन्त्यात्परः २४१, १।१।४६

अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्। उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं पुंवत्॥ एवं धन वन फलादयः॥
न्यासः
मिदचोऽन्त्यात्परः। , १।१।४६

अत्र यदि "अचः" ४।३।३१ इत्येषा पञ्चमी स्यात्, अन्त्यादित्यनया पञ्चम्या समानाधिकरणत्वं स्यात्। ततः "नपुंसकस्य झलचः" ७।१।५२ इति नुमीहैवा- न्त्यादचः परः स्यात्- "कुण्डानि" इति; अस्ति ह्रत्र नपुंसकस्यान्त्योऽचः; पयांसी- त्यत्र तु न स्यात्, "अलोऽन्त्यस्य " १।१।५१ इति सकारस्यैव तु स्थाने स्यात्। ह्रत्राजन्त्यः, किं तर्हि? सकारः। तस्मान्निर्धारणे षष्ठीयमिति दर्शयन्नाह-"अचाम्ित्यादि। जातौ बहुवचम्। सूत्रेऽप्यच इत्येकवचनं जातावेव। यदि तर्हि निर्धारणषष्ठीयम्, अन्त्यस्याविशेषितत्वादविशेषेण यतः कुतश्चिदन्त्यात् परो मित् स्यात्; न हि द्वीतीयमज्ग्रहणमस्ति, येनान्त्यो दिशेष्यते, नैष दोषः; समानजातीयस्यैव हि लोके निर्धारणप्रतीतिर्भवति। तथा हि "कृष्णा गवां सम्पन्नश्रीरतमा" इत्युक्ते गौरेव प्रतीयते; नाजा, नाप्य()आआ। तसस्मादिहाप्यचां मध्येऽन्त्यादचोऽवधेरित्यन्त्यत्वेन निर्धार्यमाणः समानजातीयोऽजेव। प्रतीयते। तेनाच एवान्त्यात् परो भविष्यति। स्थानेयोगित्वप्रत्ययपरत्वापवादार्थञ्चेदमारब्धम्। तत्र स्थानेयोगित्वापवादार्थम्-"शेमुचादीनाम्" ७।१।५९ नुम् भवति, मुञ्चति। "नपुंकस् झलचः" (७॥७२)पयांसि। प्रत्ययपरत्वापवादार्थम्()- "रुधादिभ्यः श्नम्" ३।१।७८,रुणद्धि। ननु च "पुरस्ताद-पवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् (व्या।प।९) इति स्थानेयोगित्वस्यैवापवादो युज्यते, न तु प्रत्ययपरत्वस्य, नैतदस्ति; एवं हि श्नमो मित्करणमनवकाशत्वादनर्थकं स्यात्। श्रवणार्थत्वान्नानर्थकमिति चेत्? नः; "तृणह इम्"७।३।९२ इति निर्देशात्। श्रवणार्थे ह्रेतस्मिन् "तृणम् ह इम्" इति निर्देशः स्यात्। तस्मात् प्रत्ययपरत्व- स्यापवादो युक्तः। यद्येवं "तन्मध्यपतितस्तद्()ग्रहणेन गृह्रते" (व्या।प।२१) इति प्रकृत्यन्तः पातिनस्तद्()ग्रहणेन ग्रहणादपरत्वाच्च श्नमः प्रत्ययसंज्ञा न स्यात्, तथा च "लशक्वतद्धिते" १।३।८ इति प्रत्ययादेः शकारस्य विधीयमानेत्संज्ञा न स्यात्, नैष दोषः; प्रत्ययाधिकारे विधीयमानत्वात् प्रत्ययसंज्ञा भविष्यति- सत्यप्यपरत्वे, सत्यपि प्रकृत्यन्तः पातित्वे; यथा-बहुजकचोरन्तोदात्तत्वम्। "बहुपटवः, उच्चकैः" इत्यनयोरसति परत्वे सत्यं प्रत्ययसंज्ञायां "चितः" ६।१।१५७ इत्यन्तोदात्तत्वं भवत्येव। "मस्जेः" इत्यादि। नकारस्योपधाया "अनुषङ्गः" इति पूर्वाचार्येः संज्ञा कृता। "टुमस्जो शुद्धौ" (धा।पा।१४१६) इत्यस्य "मस्जिनशोर्झलि" ७।१।६०इति नुमं वक्ष्यति। स च यद्यचोऽन्त्यात् परः स्यात् "स्कोः संयोगाद्योः" ८।२।२९ इति सकार- स्य "अनिदिताम्" ६।४।२४ इति नकारस्य च लोपो न स्यात्; यथाक्रममनादित्वादनु- धत्वाच्च। तस्मादन्त्याज्जकारात् पूर्वो जकारसकारयोर्मध्ये नुम् कत्र्तव्यः। यथा चान्त्यात् पूर्वो लभ्यते,तथा सप्तमे वक्ष्यते। "मग्नः" इति। "ओदितश्च" ८।२।४५इति निष्ठानत्वम्, तस्यासिद्धत्वत् "चोः कुः" ८।२।३० इति कुत्वं जकारस्य गकारः। "मङ्क्ता" इति अत्र पूर्ववद् गकारे कृते तस्य "खरि च" ८।४।५४ इति चर्त्वं ककारः। "नश्चापदान्तस्य झलि" ८।३।२४ इत्यनुस्वारः। "अनुस्वारस्य ययि परसवर्णः" ८।४।५७ ङकारः। पूर्वभक्तश्चायं मिद् वेदितव्यः; अन्यथा "वहाभ्रे लिहः" ३।२।३२ इति लिहः खशि कृते "अरुर्द्विषदजन्तस्य" ६।३।६६ इति मुमि कृते वहंलिह् इत्यत्र "मोऽनुस्वारः" ८।३।२३ इति पदान्तस्य विधीयमानोऽनुस्वारो न स्यात्, अपदान्तत्वात्।
बाल-मनोरमा
मिदचोऽन्त्यात्परः ३९, १।१।४६

मिदचोऽन्त्यात्परः। मकार इत् यस्य स मित् अन्त्यादचः परो भवतीत्यर्थे "शेमुचादीनाम्" इत्यादाविदं न प्रवर्तेत,तत्रान्त्यस्याचोऽभावादत आह--अच इति षष्ठ()न्तमिति। "यतश्च निर्धारणमित्यनेने"ति शेषः। "अच" इत्येकत्वमविवक्षितं, तदाह--अचां मध्य इत्यादिना। अन्तावयव इति। एतच्च आद्यान्तावित्यतोऽन्तग्रहणानुवृत्त्या लभ्यते, आद्यन्तशब्दैकदेशस्यान्तशब्दस्य तन्मात्रे स्वरितत्वप्रतिज्ञाबलेनाऽनुवृत्तिसंभवात्। आदिग्रहणमनुवत्र्य परादित्वाभ्युपगमे तु वारीणीति बहुवचने सर्वनामस्थाने चासंम्बुद्धौ "इति नान्ताङ्गस्य विहितो दीर्घो न सिध्येत्। अभक्तत्वे तु वहंलिह इत्यत्र "वहाभ्रे लिहः" इति खशि, "अरुर्द्विष"दिति मुमि तस्य "मोऽनुस्वारः" इति मान्तस्य पदस्य विहितोऽनुस्वारो न स्यात्। वस्तुतस्तु यस्य समुदायस्य मिद्विहितस्तस्याऽचां मध्ये योऽन्त्यस्तस्य समुदायस्याऽन्तावयवय इति व्याख्येयम्। अत एव "समुदायभक्तो मित्" इति भाष्यं सङ्गच्छते। समासाश्रयविधौ मूकारश्च वक्ष्यति--"अङ्गस्य नुम्विधानात्तद्भक्तो हि नु"मिति।

तत्त्व-बोधिनी
मिदचोऽन्त्यात्परः ३३, १।१।४६

मिदचोऽन्त्यात्परः। स्थानेयोगत्वस्य "प्रत्ययः"-परश्चे"ति परत्वस्य चायमपवादः। यशांसि वनानि। "नपुंसकस्य "झलचः" इति नुम्। रुणद्धि। "रुधादिभ्यः श्नम्"। ननु पूर्वयोगवदयमपि पुरस्तादपवादन्यायेन स्थानेयोगमात्रस्यापवादोऽस्त्विति चेन्नः, बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वं बाध्यते इतीहाभ्युपगमात्, अन्यथा श्नमो मित्करणं व्यर्थं स्यात्। नच श्रवणार्थ एव मकारः स्यादिति वाच्यम्, "तृणह इ"मिति निर्देशात्। अचां मध्य इति। सूत्रे जात्यभिप्रायेण "अचः" इत्येकवचनमिति भावः। अचां मध्य इति किम्?, मुञ्चति लुम्पति। "अन्त्यादचः परो मित्स्या"दिति प्राचो व्याख्यायां नैतत्सिध्येत्। "शे मुचादीना"मित्यत्रान्त्यस्याचोऽसंभवेन मित्परिभाषाया अपनुस्थितिप्रसङ्गात्। अन्ये त्वचोऽन्त्यात्परो मित्स्यादिति व्यत्यासेन योजयित्वा प्राचो व्याख्यानमपि कथंचित्समर्थयन्ते। पूर्वसूत्रादन्त इत्यनुवत्र्तते, एकदेशे स्वरितत्वप्रतिज्ञानात्। अतो व्याचष्टे-अन्तावयव इति। तेन "वारीणी"त्यादावङ्गस्य नान्तत्वेन दीर्घः सिद्धः। परादित्वे स न सिध्येत्। अभक्तत्वे तु "वहंलिह" इत्यत्र "वहाभ्रे लिहः" इति खशि "अरुर्द्विष"दिति मुमि मोऽनुस्वारो न स्यात्, अपदान्तत्वादिति भावः। यत्तु कैश्चिदुक्तमभक्तत्वे "वारिणी"ति दीर्घो न स्यादिति, तत् "तदादिग्रहणं स्यादिनुमर्थ"मित्यङ्गसंज्ञासूत्रस्थवार्तिकेनैव दूषितप्रायम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ एचः ६।१ एक् १।१ ह्रस्वादेशे ७।१

समासः॥

ह्रस्वस्य आदेशः ह्रस्वादेशः, षष्ठीतत्पुरूषः

अर्थः॥

एचः स्थाने ह्रस्वादेशे कर्त्तव्ये इक् एव भवति नान्यः।

उदाहरणम्॥

अतिरि कुलम्। अतिनु कुलम्। अपगु।
काशिका-वृत्तिः
एच इग्घ्रस्वाऽदेशे १।१।४८

एचो ह्रस्वाऽदेशे कर्तव्ये इकेव ह्रस्वो भवति, न अन्यः। रैअतिरि। नौअतिनु। गोउप गु। एचः इति किम्? अतिखट्वः। अतिमालः। ह्रस्वाऽदेशे इति किम्? दे३वदत्त। देवद३त्त।
लघु-सिद्धान्त-कौमुदी
एच इग्घ्रस्वादेशे २५१, १।१।४७

आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात्। प्रद्यु। प्रद्युनी। प्रद्यूनि। प्रद्युनेत्यादि॥ प्ररि। प्ररिणी। प्ररीणि। प्ररिणा। एकदेशविकृतमनन्यवत्। प्रराभ्याम्। प्ररीणाम्॥ सुनु। सुनुनी। सुनूनि। सुनुनेत्यादि॥
लघु-सिद्धान्त-कौमुदी
इत्यजन्तनपुंसकलिङ्गाः। २५१, १।१।४७

लघु-सिद्धान्त-कौमुदी
अथ हलन्त पुंल्लिङ्गाः २५१, १।१।४७

न्यासः
एच इग्घ्रस्वादेशे। , १।१।४७

परिभाषेयमादेशनियमार्था "ह्यस्वो नपुंसके प्रातिपदिकस्य"१।२।४७ इत्यादावु-पतिष्ठते। इहेम् एचोऽवयवसमाहारवर्णाः। तत्र "ए ऐ" इत्येतयोः पूर्वो भागो वर्णसमा- नाकृतिर्मात्रात्मैव तालव्यः। अत एव "ए ऐ कण्ठ()तालव्यौ" (आ।शि। १७) इति शिक्षाकाराः पठन्ति; तदवयवोः कण्ठ()तालव्यत्वात्। "ओऔ" इत्येतयोः पूर्वो भागस्तादृश एव, यादृश एकारैकारयोः। उत्तरस्तूवर्णसमानाकृतिर्मात्रिक ओष्ठ्यः। अत एव "ओ औ कण्ठ()ओष्ठ्यौ" (आ।शि।१८) इति शिक्षाकाराः पठन्ति; तदवयवोः कण्ठ()ओष्ठ()त्वात्। तत्र समुदायात्मनामेचां समुदायान्तरतमो ह्यस्वो नास्तीति तदवयवस्य योऽन्तरतमः, तनैव युक्तं भवितुम्। स पुनरकारा इकार उकारो वा। तत्र एकारैकारयोह्र्यस्वो विधीयमानः कदाचिदकारः स्यात्,कदाचिदिकारः। ओकारौकारयोरपि कदाचिकारः स्यात्, कदाचिदुकारः। इकारोकारावेव यथायोगं यथा स्याताम्, कदाचिदप्यकारो मा भूदित्येवमर्थमिदमारभ्यते। अत्र यद्यप्येचामिकां साम्यम्, तथापि संख्यातानुदेशो न भवति, यस्मादन्नेदं विधायकम्, किं तर्हि? नियामकम्। प्राप्तिपूर्वकश्च नियम इति ये प्राप्ता अन्तरतमा इक एचो ह्यस्वास्तेषामनेन नियमः क्रियते। न च प्राप्तावृकारलृकाराविति कुतो यथासंख्य- त्वम्? यद्येवम्, इण्णित्येव वक्तव्यम्, न त्वगिति, सत्यमेतत्; किन्त्वेवमुच्यमाने सन्देहः स्यात्- किं पूर्वेण णकारेण प्रत्याहारः? उत परेण? इति; तस्मादसन्देहार्थमिगित्युक्तम्। "अतिरि, अतिनु" इति। रायमतिक्रान्तं, नावमतिक्रान्तं ब्राआहृणकुलम् "अत्यादयः क्रान्ताद्यर्थे द्वितीयया" (वा।९१) इति "कुगति" २।२।१८ इत्या- दिना समासः, "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" २।४।२६ इति पुंल्लिङ्गे स्त्रीलिङ्गे च प्राप्ते "द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु तल्लिङ्गमेव भवति। "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इति ह्यस्वः। इक् कण्ठतालव्यस्यैकारस्य तालव्य इकारो भवति। कण्ठ()ओष्ठ()स्यौकारस्यौष्ठ() उकारः। "उपगु" इति। गोः समीपमिति। "अव्ययं विभक्ति" २।१।६ इत्यादिना सामीप्येऽव्ययीभावः। "गोस्त्रियोरुपसर्जनस्य" १।२।४८ इति ह्यस्वः। कण्ठ()ओष्ठ()ओकार्सयौष्ठ() उकारः। एकारस्य तूदाहरणम्- हे इतीमं शब्दमतिक्रान्तं ब्राआहृणकुलमतिहि। "अततिखट्वः" इति। पूर्ववत् प्रादिसमासे कृते "गोस्त्रिरुपसर्जनस्क" १।२।४८ इत्येवमादिना ह्यस्वोऽकार एव भवत्यन्तरतमः। "दे३वदत्त" इति। अत्रामन्त्रित्सयादेरुदात्तादेशे कत्र्तव्ये "देवद३त्त" इत्यत्र च "गुरोरनृतोऽन्त्यस्य" ८।२।८६ इत्यादिना प्लुतादेशे कत्र्तव्य इङ न भवति॥
न्यासः
उपान्वध्याङ्वसः , १।१।४७

लुग्विकरणालुग्विकरणपरिभाषया (व्या।प।५०) "वस निवासे" (धा।पा।१००५) इत्यस्य भौवादिकस्य ग्रहणम्, न "वस आच्छादने" (धा।पा।१०२३) इत्यस्यादादिकस्य। "वसेरश्यर्थस्य" इत्यादि। "उपोष्य रजनीमेकाम्" इति, त्रिरात्रमुपवसतीत्यत्र च "कालाध्वनोः" २।३।५ इति द्वितीया। अथ वा "कालभावाध्वगन्तव्याः" (वा; म।भा।१।३३६) इति कर्मत्वे। अत्रार्थशब्दो निवृत्तिवचन इति भोजननिवृत्तिवाचिन इत्यर्थ-। "वक्तव्यम्" इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- इहाप्यन्यतरस्याग्रहणनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते; तेन वसेरश्यर्थस्य प्रतिषेधो भविष्यति॥
बाल-मनोरमा
एच इग्घ्रस्वादेशे ९४२, १।१।४७

अथ ओदन्ताः। प्रकृष्टा द्यौर्यस्येति बहुव्रीहौ प्रद्योशब्दस्य "ह्यस्वो नपुंसके" इति ह्यस्वः प्राप्नुवन्नेचो ह्यस्वाऽभावात्तेषां द्विस्थानत्वेन अ, इ, उ, ऋ, लृ, इत्येतेषां ह्यस्वानामन्तरतमत्वाऽभावादन्तरस्थानसाम्याश्रयेण अवर्णादिषु यस्य कस्यचिदनियमेन पर्यायेण वा प्राप्ताविदमारभ्यते--एच इक्। आदिश्यते इत्यादेशः। कर्मणि घञ्। तस्य ह्यस्वपदेन सह कर्मधारयः विशेष्यस्यार्षः पूर्वनिपातः। आदेश इति निर्धारणसप्तमी। सौत्रमेकवचनम्। तदाह--आदिश्यमानेष्वित्यादिना। "मध्ये" इत्यपपाठः, तद्योगे षष्ठ()आ एवौचित्यात्। इगेवेति। तेन अकारव्यावृत्तिः फलतीति भावः। यद्यपीकश्चत्वारः, एचोऽप्येवं, तथापि स्थान्यादेशानां यथासङ्ख्यं न भवति। न ह्रयमपूर्वविधिः, किन्तु नियमविधिः। यताप्राप्तमेव नियम्यते। एचां हि पूर्वभागोऽवर्णसदृशः। उत्तरभागस्तु इवर्णोवर्णसदृशः। तत्पर पूर्वभागसादृश्यमवर्णस्यास्ति। तस्य च इग्ग्रहणेन निवृत्तौ इवर्णसादृश्यमात्रमादाय एकारस्य ऐकारस्य च इवर्णः, उवर्णसादृस्यादोकारस्य औकारस्य च उवर्ण इति व्यवस्था न्यायप्राप्ता। यताप्राप्तमेव च नियम्यत इति न यतासङ्ख्यम्। ततश्च प्रद्योशब्दे ओकारस्य उकारो ह्यस्व इत्यभिप्रेत्योदाहरति--प्रद्यु इत्यादि। ननुं पुंनपुंसकयोः प्रकृष्टस्वर्गवत्त्वमेकमेव प्रवृत्तिनिमित्तमिति टादौ पुंवत्त्वविकल्पः कुतो नेत्यत आह--इह न पुंवदिति। कुत इत्यत आह--यदिगन्तमिति। प्रद्योशब्द ओदन्तः पुंसि। प्रद्युशब्दस्तु उदन्तो नपुंसके। तथाच पुंसि प्रद्योशब्दस्य भाषितपुंस्कत्वेऽपि नपुंसके प्रद्युशब्दस्य तदपेक्षया भिन्नत्वेन भाषितपुंस्कत्वाऽभावान्न पुंवत्वमित्यर्थः। केचित्तु पुंसि यः प्रद्योशब्द ओदन्तः स एवेदानीं नपुंसकः, तस्य ह्यस्वान्तत्वेऽपि एकदेशविकृतस्याऽनन्यत्वात्, अतः पुंवत्वविकल्पोऽस्त्येवेत्याहुः। एवमग्रेऽपीति। प्ररि, सूवु इत्यादावपीत्यर्थः। इत्योदन्ताः। अथ ऐदन्ताः। एकारान्तस्योदाहरणं तु स्मृत इः कामो येन स स्मृतेः। सु=शोभनः स्मृतेर्यस्य तत् "सुस्मृति" इत्यादि बोध्यम्। प्ररीति। प्रकृष्टो रा=धनं यस्य इति बहुव्रीहौ प्ररैशब्दः। तस्य नपुंसकह्यस्वत्वेन इकारः। सुटि वारिवत्। सोर्लुप्तत्वात् "रायो हली"त्यात्वं न, टादावचि पुंवत्त्वविकल्पः प्रद्युशब्दवत्। भ्यामादौ हलि विशेषमाह--रायो हलीत्यात्वमिति। ननु रैशब्दस्य ऐदन्तस्य बिहितमात्वं कथमिदन्तस्येत्यत आह--एकदेशविकृकतस्यानन्यत्वादिति। आमि विशेषमाह--नुमचिरेति। नुटि "रायो हली"त्यात्वे प्रराणामित्यन्वयः। ननु प्ररि-आमिति स्थिते नुटं बाधित्वा परत्वान्नुमि तस्याङ्गभक्तत्वाद्धलादिविभक्त्यभावात्कथमात्वमित्यत आह--नुमचिरेति। पूर्वविप्रतिषेधान्नुमं बाधित्वा नुठ()आत्वं निर्बाधमिति भावः। संनिपातेति। ह्यस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमात्वं प्रति निमित्तत्वाऽसंभवादिति भावः। ननु तर्हि ह्यस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकं "नामी"ति दीर्घं प्रति कथं निमित्तत्वमित्यत आह--नामीति दीर्घस्त्विति। इत्युक्तमिति। "रामशब्दाधिकारे" इति शेषः। इत्यैदन्ताः। अथ औदन्ताः। सु=शोभना नौर्यस्येति विग्रहे बहुव्रीहौ "ह्यस्वो नपुंसके" इति ह्यस्व उकार इति मत्वाह--सुनु इति। इत्यौदन्ताः॥

*****इति बालमनोरमायामजन्ता नपुंसकलिङ्गाः*****

अथाऽलुक्समासप्रकरणम्।

------------------

तत्त्व-बोधिनी
एच इग्घ्रस्वादेशे ८१५, १।१।४७

एचः। आदिश्यत इत्यादेशः, ह्यस्वाश्चसावादेशश्च ह्यस्वादेशः। निर्धरणे सप्तमी, जातबेकवचनमतो व्यचष्टे-----आदिश्यमानेषु ह्यस्वेष्विति। एचां पूर्वभागोऽकारसदृशः, उत्तरस्तु इवर्णोवर्णसदृशः, तत्रोभयान्तरतमस्य ह्यस्वस्याऽभावात्पर्यायेण अकारः स्यादिकारोकारौ च स्याताम्, तथाच मा कदाप्यकारो भूदिति नियमार्थेयं परिभाषेत्यभिप्रेत्याह---इगेव स्यादिति। आन्तरतम्यादेकारोकारयोरिकारः। ओकारौकारयोस्तूकारः। एकान्तस्योदाहरणं तु हः स्मृतो येन स स्मृतेः। शोभनः स्मृतेर्यस्य तत् "सुस्मृती"त्यादि। एतच्च परिभाषासूत्रमपार्थकम्। तथाच वार्तिककृतोक्तं--"सिद्धमेडः सस्थानत्वात्," ऐचोश्चोत्तरभूयस्त्वा"दिति। अस्यार्थः--शब्दपरविप्रतिषेधेन एङौत्तरभादान्तरतमौ इउवर्णावेवेति सिद्धम्। "एचोश्चे"ति चकारो भिन्नक्रमः "उत्तरभूयस्त्वाच्चे"ति हेतोरन्तरं बोध्यः। अर्धमात्रा, अवर्णस्य, अध्यर्धमात्रा इवर्णोवर्णयोरित्युत्तरभागाधिक्यान्मल्लग्रामातदिवद्भूयसा व्यपदेशेनाऽपि इकारोकारौ भविष्यत इति। प्रद्युनेति। ननु प्रकृष्टस्वर्गवत्त्वादिकं यत्प्रवृत्तिनिमित्तं तत्पुंनपुंसकयोः समानमिति भाषितपुंस्कत्वात्पक्षे पुंवद्भावोऽत्र स्यादेवेत्याशङ्कायाम#आह----यदिगन्तमिति। एतच्च "रा दाने"इति धातौ "अत्र् ब्राआहृआणकुल"मिति प्रकम्यमाधवेन स्पष्टीकृतम्। कथं तर्हि प्राचा "प्रद्यवा""प्रराया""सुनावे"त्युदाह्मतमिति चेदत्राहुः--प्रकृष्टम्वर्गवत्त्वादिप्रवृत्तिनिमित्तैक्यात्सुद्योशब्दो भाषितपुंस्कः, स एवेदानीमिगन्तः। तथाच प्रद्युशब्दोऽपि भाषितपुंस्क एव, एकदेशविकृतस्यानन्यन्यत्वात्, अतः पुंवद्भावो भवतीति। इत्थं च पुंवद्भाव एजन्तेषु क्लीबेषु माधवमते नास्ति, मतान्तरे त्वस्तीति बोध्यम्। प्ररीति। प्रकृष्टो रा यस्य तत् "प्ररि"इति। शोभमा नौर्यस्य तत्--"सुनु"। इति तत्त्वबोधिन्याम् अजन्ता नपुंसकलिङ्गाः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ षष्ठी १।१ ५४ (स्थाने)योगा १।१ ५०

समासः॥

स्थाने योगः अस्याः सा इयं स्थानेयोगा, बहुव्रीहिः। अत्र निपातनात् सप्तम्याः अलुक् भवति।

अर्थः॥

अनियत-योगा अनियतसम्बन्धा षष्ठी स्थानेयोगा मन्तव्या। केवलं स्थाने इत्यस्य अनुवृत्तिः १।१।४० पर्त्यन्तं भवति।

उदाहरणम्॥

भविता, मध्वत्र, पित्रर्थम्, लाकृतिः
काशिका-वृत्तिः
षष्ठी स्थानेयोगा १।१।४९

परिभाशा इयं योगनियमार्था। इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते, सा स्थानेयोगाइव भवति, नान्ययोगा। स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या। स्थानशब्दश्च प्रसङ्गवाची। यथादर्भाणां स्थाने शरैः प्रस्तरितव्यम् इति दर्भाणां प्रसङ्गे इति गम्यते। एवम् इह अपि अस्तेः स्थाने प्रसङ्गे भूर् भवति। भविता। भवितुम्। भवितव्यम्। ब्रुवः प्रसङ्गे वचिर्भवति। वक्ता। वक्तुम्। वक्तव्यम्। प्रसङ्गे सम्बन्धस्य निमित्तभूते ब्रुव इति षस्ठी। बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः। तत्र यावन्तः शब्दे सम्भवन्ति तेषु सर्वेषु प्रप्तेषु नियमः क्रियते षष्ठी स्थानेयोगा इति। स्थाने योगो ऽस्याः इति व्यधिकरणो बहुव्रीहिः। अत एव निपातनाच् च सप्तम्या अलुक्।
न्यासः
षष्ठी स्थानेयोगा॥ , १।१।४८

"योगनियमार्था" इति। योगनियमः सम्बन्धनियमः, सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता। यदि योगनियमार्थयम्- शास्त्रे या षष्ठी, सा स्थानेयोगैव् भवति, नान्ययोगे- ति। एवं सति "ऊदुपधाया गोहः" ६।४।८९ इत्येषापि षष्ठी स्थानेयोगैव स्यात्, नावयवादयविसम्बन्धयोगा। ततश्च "अलोऽन्त्यस्य" १।१।५१ इति स्थानषष्ठ()आ अन्त्येऽप्युपसंहाराद् गोहश्चान्तस्य हकारस्य ऊकारः स्यात्। "उपधायाश्च" ७।१।१०१ इति वचनादुपधा-मात्रस्य चेत्यत आह-"इह शास्त्रे या षष्ठ()नियतयोगा" इत्यादि। अनियमप्रसङ्गे नियमोऽनया क्रियते। क्व चानियमप्रसङ्गः? यत्र सन्देहः; यथा-"अस्तेर्भूः" २।४।५२इति। अत्र हि किमस्तेः स्थाने? आहोस्विदनन्तरे? इति सन्देहः, पूर्वत्र तूपधाया अवयवलक्षणस्य स्थानिनो विशिष्टावयविनो व्यवच्छिन्नत्वादवयवष्ठ()एवेयमिति निश्चितम्; ततो नात्रास्या व्यापारः। "स्थानेयोगैव" इति। स्थान इति निमित्तसप्तमी, योगः सम्बन्धः। तेनेदमुक्तं भवति-स्थाननिमित्तकसम्बन्धैवेति। एतदेव विस्पष्टीकुर्वन्नाह-"स्थाने योगस्य निमित्ते" इत्यादि। स्थानेयोगस् निमित्तभूते निमित्तत्वं प्राप्ते सति सा वेदितव्या। भूतशब्दो ह्रत्र प्राप्तशब्दे वर्तते; यथा- "देवभूतः" इत्यत्र देवत्वं प्राप्त इत्यर्थः। निमित्तग्रहणं कुर्वन् सूत्रे स्थानेयोगेति निमित्तसप्त- मीयमिति दर्शयति। योगः पुनरिह स्थान्यादेशभावलक्षणः। कुत एतत्? तस्यैव स्थानि- हेतुत्वात्। स्थानशब्दोभावसाधनः, स्थितिः स्थानम्। तत् पुनस्त्रिधा- "अपकर्षः, निवृत्तिः,प्रसङ्गश्च" इति। गोस्थानेऽ()आओ बध्यतामित्यपकर्षः स्थानशब्दस्यास्थेयः। "श्लेष्मणः स्थाने कटुकमौषधम्" इत्यत्र निवृत्तिः। "दर्भाणां स्थाने शरैरास्तकरित- व्यम्" इति प्रसङ्गः। तत्राद्यावर्थाविह न सम्भवतः; नित्यत्वाच्छब्दार्थसम्बन्धस्य प्रथमो न सम्भवति; सामान्येनास्तेरुपदेशान्न द्वितीयः। तस्मात् तृतीय एवार्थ इति मत्वाह-"स्तानशब्दश्च" इति। प्रसङ्गस्त्वर्थक्रियानिमित्तभूतस्य कालस्यावसरः। " अस्तेस्थाने प्रसङ्गे" इति। अस्तेर्या क्रिया स्वार्थप्रतिपादनलक्षणा, तस्या निमित्तभूतस्य कालस्यावसरः प्राप्त इत्यर्थः। प्रसङ्गे सम्बन्धस्य निमित्तभूत इत्यादिना सूत्रार्थस्योदाहरणे सम्भवं दर्शयति। "ब्राउवः" इति चोपलक्षणमात्रम्। अस्तेरि- त्यादेरपि हि षष्ठी प्रसङ्ग एव सम्बन्धस्य निमित्तभाव उत्पन्ना। के पुनर्बहवः षष्ठ()र्थाः, यतः सम्बन्धान्तरविषयव्यवच्छेदनार्थं षष्ठ()आ इदमुच्यते? इत्याह-"बहवो हि" इत्यादि। शब्दे हि समीपानन्तरविकारावयवादिनिमित्ताः सम्बन्धाः सन्ति। न त्वपत्यापत्यवत्प्रभृतय इत्यतो "यावन्तः शब्दे सम्भवन्ति" इत्याह। अथ स्थानेयोग इत किमसमासः? अथ समासः? यद्यसमासः? तदा योगशब्दस्य पुंल्लिङ्गत्वात् स्त्रीलिङ्गेन निर्देशः, षष्ठीशब्देन च सामानाधिकरण्यं न प्राप्नोति; योगस्याषष्ठीत्वात्। अतः समासः किं तत्पुरुषः? आहोस्विद् बहुव्रीहिः? यदि तत्पुरुषः? तौ च पूर्वोक्तौ दोषौ स्याताम्, सप्तम्या लुकप्रसङ्गश्च। अथ बहुव्रीहिः? एवमपि लुक्प्रसङ्गोऽत्रानिवार्य एवेत्यत आह-"षष्ठी स्थानेयोगा" इत्यादि। गतार्थम्।
बाल-मनोरमा
षष्ठी स्थानेयोग ४०, १।१।४८

षष्ठी स्थानेयोगा। स्थानं प्रसङ्ग इति वक्ष्यति। तस्मिन् वाचकतया योगो यस्याः सा स्थानेयोगा। निपातनात्सप्तम्या अलुक्। स्थानेन योगो यस्या इति वा विग्रहः। निपातनादेत्वम्। "इको यणची"त्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थः। लोके तावदेकशतं षष्ट()र्था आर्था यौना मौखाः रुआऔवाश्च। शब्दस्य शब्देन त्रय एव संबन्धाः--आनन्तर्यं सामीप्यं प्रसङ्गश्चेति। तत्रान्यतमार्थनिर्धारणार्थमिदं सूत्रमिति भाष्यम्। ततश्च"इको यणची"त्यादौ "इक" इति षष्ट()आ स्थानमुच्यते। तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति। अचि परत इकः प्रसङ्गे यण्? स्यादिति। विवरणवाक्ये त्वस्मिन् "इक" इति षष्ठी निरूपकतायामिति न पुनरुक्तिः शङ्काः। यता--"देवदत्तस्यावयवः पाणि"रिति। "ऊदुपधाया गोहः" इत्यत्र तु "गोह" इति षष्ठी न स्थानार्थिका, उपपधापदसमभिव्याहारेणाऽवयवषष्ठीत्वनिर्धारणात्, परिभाषाणां चाऽनियमे नियमनार्थमेव प्रवृत्तेः। तदेतदाह-अनिर्धारितेत्यादिना। अनिर्धारितः सम्बन्धविशेषो यस्या इति विग्रहः। तदेवमुदाह्मतप्रकृतभाष्यरीत्या"इको यणची"त्यादौ षष्ठी स्थानरूपसंबन्धविशेषार्थिकेति स्थितम्।ष मतुप्सूत्रभाष्ये त्वनन्तरादयो न षष्ठ()र्था इति स्थितम्। एवं सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम्। षष्ठीश्रुतौ "स्थाने" इति सप्तम्यन्तं पदमुपतिष्ठत इति फलति। स्थानेन स्थानपदार्थेन योगो यस्या इति तृतीयान्तविग्रहे त्वध्याह्मतस्थानपदार्थनिरूपितसंबन्धार्थिकेत्यर्थः। "अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति" इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे इत्यध्याह्मतानन्तरादिपदार्थनिरूपितसम्बन्धे षष्ठीत्येवार्थः। अनन्तरादीनां षष्ठ()र्थत्वं तु नास्त्येवेति प्रौढमनोरमायां हलन्त्यमिति सूत्रे स्थितम्। तद्व्याख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपञ्चितम्। अनिर्धारितेति किम्()। ऊदुपधाया" इत्यत्र "गोह" इति षष्ठ्याः स्थानार्थकत्वं मा भूत्। सति तु तत्रापि स्थानार्थकत्वे, गोहोऽन्त्यस्य उपधामात्रस्य च ऊत् स्यात्। ननु स्थानशब्द आधारवाची लोके प्रसिद्धः। यथा शिवस्थानं कैलासः, विष्णुस्थानं वैकुण्ठमित्यादौ। एवं च इको यणचीत्यादौ षष्ठ्याः स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेऽभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यादिति इगधिकरणको यण् स्यादिति वाऽर्थः स्यात्। तत इको निवृत्तिर्न स्यादित्यत आह--स्थानं च प्रसङ्ग इति। क्वचिदाभिचारेष्टौ "दर्भाणां स्थाने शरैःप्रस्तरितव्य"मित्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भावः। एवं च तत्र यथा शरैर्दर्भा निवत्र्यन्ते, तद्वदिको यणचीत्यादावपि यणादिभिरिगादयो निवत्र्यन्ते। तत्र च यः प्रसक्तो निवर्तते स स्थानीति व्यवह्यियते, यो निवर्तयति स आदेश इति।

तत्त्व-बोधिनी
षष्ठी स्थानेयोगा ३४, १।१।४८

षष्ठी स्थानेयोगा। स्थानेन योगोऽस्या इति विग्रहः। निपातनादेत्वम्। षष्ट()आः संबन्धमात्रवाचित्वेऽपीह शास्त्रे या षष्ठी सा स्थानेयोगा बोध्या। किमविशेषेण?, नेत्याह-अनिर्धारितसंबन्धविशेषेति। अनिर्धारितेति किम्?, "ऊदुपधाया गोहः", "शास इदङ्ह्मलो"रित्यादावुपधासंनिधानेनावयवषष्ठीत्वे निर्णीते "गोहः" "शास" इत्यादौ मा भूत्। सति हि तत्रापि स्थानेयोगत्वे गोहिशासिस्थाने धातुमात्रस्योपधायाश्च स्थाने ऊदितौ स्यातामिति दिक्। स्थानं च प्रसङ्ग इति। न चास्य प्रसङ्गार्थकत्वे विवदितव्यम्, "दर्भाणां स्थाने शरैः प्रस्तरितव्य"मित्युक्ते दर्भाणां प्रसङ्ग इति प्रतीतेः। एवं च "इको यणची"-त्यादाविगुच्चारणप्रसक्तौ यगुच्चारणीय इत्याद्यर्थः संपद्यते।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ स्थाने ७।१ अन्तरतमः १।१ स्थाने ७।१ ४८

अर्थः॥

सर्वे इमे अन्तराः, अयम् एषाम् अतिशयेन अन्तरः = अन्तरतमः, सदृशतमः, {अतिशयने तमबिष्ठनौ (५।४।५५)} इति तमप् प्रत्ययः॥
स्थाने प्राप्यमाणानाम् अन्तरत्मः=सदृशतमः आदेशः भवति॥ आन्तर्यं चतुर्विधं भवति -- स्थानकृतम्, अर्थकृतम्, प्रमाणकृतम्, गुणकृतं चेति॥

उदाहरणम्॥

स्थानकृतम् - दण्डाग्रम्, दधीदम्, भानूदयः॥ अर्थकृतम् - अभवताम्, वातण्ड्ययुवतिः॥ प्रमाणकृतम् - अमुष्मै, अमूभ्याम्॥ गुणकृतम् - भागः, यागः, त्यागः॥
काशिका-वृत्तिः
स्थाने ऽन्तरतमः १।१।५०

स्थाने प्राप्यमाणानाम् अन्तरतम् आदेशो भवति सदृशतमः। कुतश्च शब्दस्य अन्तर्यम्? स्थानार्थगुणप्रमाणतः। स्थानतः अकः सवर्णे दीर्घः ६।१।९७। दण्डाग्रम्। यूपाग्रम्। द्वयोरकारयोः कण्ठ्य एव दीर्घ आकारो भवति। अर्थतः वतण्डी च असौ युवतिश्च वातण्ड्ययुवतिः। पुंवद्भावेन अन्तरतमः पुंशब्दो ऽतिदिश्यते। गुणतःपाकः। त्यागः। रागः। चजोः कु घिण्यतोः ७।३।५२ इति चकारस्य अल्पप्राणस्य अघोषस्य तादृश एव ककारो भवति। जकारस्य घोषवतो ऽल्पप्राणस्य तादृश एव गकारः। प्रमाणतः अनुष्मै। अमूभ्याम्। अदसो ऽसेर् दादु दो मः ८।२।८० इति ह्रस्वस्य ह्रस्वः, दीर्घस्य दीर्घः। स्थाने इति वर्तमाने पुनः स्थाने ग्रहणं किम्? यत्र अनेकम् आन्तर्यं सम्भवति तत्र स्थानत एव आन्तर्यं बलीयो यथा स्यात्। चेता, स्तोता। प्रमाणतो ऽकारो गुणः प्राप्तः, तत्र स्थानत आन्तर्यादेकारौकारौ भवतः। तम्ब्ग्रहणं किम्? वाग् घसति। त्रिष्टुब् भसति। झयो हो ऽन्यतरस्याम् ८।४।६१ इति हकारस्य पूर्वसवर्णे क्रियमाणे सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः, नादवतो नादवन्तः इति तृतीयाः, तमब्ग्रहणाद् ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः।
लघु-सिद्धान्त-कौमुदी
स्थानेऽन्तरतमः १७, १।१।४९

प्रसङ्गे सति सदृशतम आदेशः स्यात्। सुध्य् उपास्य इति जाते॥
न्यासः
स्थानेऽन्तरतमः। , १।१।४९

परिभाषेयमादेशनियमार्था।"स्थाने प्राप्यमाणानाम्" इति। एतेन नेदं विधायकं वाक्यम्, किं तर्हि? लक्षणान्तरेण प्राप्तानामनन्तरतमानामितरेषां च योऽन्तरतमः, स एव भवतीति नियमार्थमिति दर्शयति। विधायकत्वे हि "दधि मधु" इतादावपि प्रसज्यते। किं पुनरत्रानिष्टम्? यावतान्तरतम्याद् दधिमधुशब्दयोस्तावेवादेशौ भविष्यतः, तयोरप्यादेशयोरन्यौ दधिमधुशब्दौ यावादेशौ स्याताम्, तयोरप्यन्यावित्येवमपरिसमाप्तादेशपर- म्पराविधानादनवस्था स्यात्। ततश्चार्थप्रत्यायनं प्रति शब्दानां विनियोगो न स्यात्न्वाख्यायकस्य शास्त्रस्य प्रवृत्त्यनुपरमात्। शास्त्रोपरतौ ह्रन्वाख्यातास्ते प्रयुज्यते, नान्यथेत्यनिष्टम्। ननु च सकृत्प्रवृत्तौ लक्षणस्य चरितार्तत्वात् पुनः प्रवृत्तिर्न भविष्यति, नैतदस्तिच यत्र हि प्रयोजनार्था प्रवृत्तिस्तत्रैतदुक्तम्, इह पुनरकस्मादन्तरतमो विधीयत इत्यनुपरतैवास्य प्रवृत्तिः। नियमाकत्वेऽप्यस्य यदीदं विहितानां नियमं कुर्यात् ! अनर्थकमेव वचनं स्यात्। यो हि भुक्तवन्तं ब्राउयात्- "मा भुङ्क्ष्य" इति,किं तस्य तेन कृतं स्यात् ! तस्मात् प्राप्यमाणावस्थायामेव वाक्यान्तरः सह संहत्यानन कार्यं निर्वत्र्यते; तदेकदेशभूत्वादस्य। "सदृशतमः" इति।? अन्तरतमशब्दस्यार्थ कथयति। "अर्थतः" इत्यादि। वतण्डशब्दात् स्त्रियामपत्यार्थे "वतण्डाच्च" ४।१।१०८ इति यञ्,तस्य "लुक् स्त्रियाम्"६।४।१४ इत्यकारलोपः, वतण्डी चासौ युवतिश्चेति "पोटायुवति" २।१।६४ इत्यादिना समासः। तत्रानेन "पुंवत कर्मधारयः" ६।३।४१ इत्यादिना पुंवद्भावे कर्तव्ये सर्वः पुंशब्दः प्रसक्तः। तत्रानेन वतण्डापत्यार्थ- स्य वतण्डी शब्दस्यार्थतोऽन्तरतमो वतण्डापत्यार्थ एव वातण्ड()शब्दो भवति। "पाकः" इत्यादौ भावे घञ्। "चकारस्य" इत्यादि। "वर्गाणां प्रथमा अल्पप्राणाः" (आपि।शि। ४।३।) इति चकारककारावल्पप्राणौ। "वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीय- जिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः ()आआसानुप्रदाना अघोषाः" (आपि।शि।४।२।) इत्यघोषौ। "जकारस्य" इत्यादि। "वर्गाणां तृतीयचतुर्था अन्तःस्था हकारानुस्वारौ यमौ च द्वितीयचतुर्थौ नासिक्याश्च संवृकण्ठा नादानुप्रदाना घोषवन्तः"महाप्राणाः" इत्यल्पप्राणौ। "अमुष्मै, अमूभ्याम्" इति। अदसश्चतुर्थ्येकवचने भ्यामि च परतस्त्यदाद्यत्वम्,तो गुणे" ६।१।९४ पररूपत्वम्, "सर्वनाम्नः स्मैः" ७।१।४ इति स्मैभावः। भ्यामि "सुपि च" ७।३।१०२ इति दीर्घः, ततो ह्यस्वस्य ह्यस्व उकारो भवति, दीर्घस्य दीर्घः। "स्थाने इति वत्र्तमाने" इति। प्रकृतो हि स्थानशब्दः प्रसङ्गवाची। तदनुवृ- त्तौ स्थाने प्राप्यमाणानामन्तरतमो भवति" इत्येषोऽर्थो लभ्यते। ननु च यत्रानेकमा- न्तर्यं तत्र ताल्वादिस्थानत एवान्तर्यस्य बलीयस्त्वम्, तस्मात् तद् यथा स्यादिति पुनस्ताल्वादिस्थानवाचिनः स्थानशब्दस्योपादानं क्रियते। यद्येवम्,स्थानकृतमेवेहान्तर्यं विशिष्टमुपात्तमिति प्रमाणादिकृतं परित्यक्तं स्यात्? नैष दोषः, वाक्यभेदं हि कृत्वा तत्र सम्बन्धः क्रियते, स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति। "स्थाने च भवति" इति पूर्वत्र वाक्ये प्रसङ्गवाची स्थाशब्दः, उत्तरत्र ताल्वादिस्थानवाची। एवं वाक्यभेदेन सम्बन्धे सति, पूर्वस्मिन् वाक्ये स्थानादिकृतानामान्तर्याणां - परिग्रहः प्रतीयते। द्वितीये तु तेषामेव बलाबलवत्त्वम्। "स्थाने" इति च निमित्तसप्तमी। तेनेदमुक्तं भवति- यत्रानेकमान्तर्यं तत्र स्थानेन निमित्तेन योऽन्तरतमः, स एव भवति। वाक्यभेदस्य च तमब्ग्रहणं लिङ्गम्। सादृश्ये प्रकर्षो हि तेन प्रतिपादयितुमिष्टः। स चानेकस्मिन् सादृश्ये सति सादृश्यान्तरापेक्षया भवति। एकवाक्यतायां च स्थानग्रहणेन सादृश्यान्तरे निरस्ते किमपेक्षया सादृश्यप्रकर्षः स्यात् ! तस्मात् तम- ब्ग्रहणाद् वाक्यभेदोऽनुमीयते, अन्यथा हि तस्य वैयथ्र्यं स्यात्। "चेता" इति। अत्रेकारस्य तालव्यत्वादेकारस्य कष्ठतालव्यत्वात् स्थानत आन्तर्यम्; इकाराकारयोस्तु प्रमाणयोरपि मात्रिकत्वात्। "स्तोता" इति। अत्राप्युकार-स्यौष्ठ()त्वादोकारस्य कण्ठ्यौष्ठ()त्वात् स्थानत आन्तर्यम्। उकाराकायोस्तु प्रमाणतः पूर्ववत्। तत्रासति पुनः स्थानग्रहणे, प्रमाणत आन्तर्यात् कदाचिदकारो गुणः स्यात्, स्थानत आन्तर्यात् कदाचिदेकारौ। पुनः स्थानग्रहणात् तु स्थानकृतस्यान्तर्यस्य बलीयस्त्वादेकारौकारौ एव भवतः, न कदाचिदकारः। "सोष्मणः, सोष्माण इति " इत्यादि। इतिकरणो हेतौ; यस्मात् सोष्माणो द्वितीयस्तस्मात् सोष्मणो हकारस्य द्वितीयाः प्रसक्ता इत्यर्थः। एवं "नादवतो नादवन्तः" इत्यादौ वाक्ये हेत्वर्थो योज्यः। "शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः" इति शिक्षा (आ।शि।१।४। द्वितीयाः" इत्यनेन तु वर्गद्वितीयानां खकारादीनाम्। "हकारेण चतुर्थाः" इत्यनेनापि वर्गचतुर्थानां धकारादीनाम्। समानं स्थानं यस्य स सस्थानः। "सस्थानेन" इति। इत्थ- म्भूतलक्षणे तृतीया। सस्थानेन द्वितीया ऊष्मतया लक्ष्यन्ते। एतदुक्तं भवति- "यथा सस्थान एवेषामूष्मा, एवमेतेऽपि वर्गाणां द्वितीया ऊष्माणः" इति। अथ वा - तुल्यार्थयोग एषा तृतीया, तुल्यशब्दस्त्वध्याहार्यः, तुल्यत्वमूष्मतया वेदितव्यम्। तत्र खकारस्य सस्थानो हकारः, छकारस्य शकारः, ठकारस्य षकारः, थकारस्य सकारः। फकारस्य सस्थान ऊष्मा नास्ति। तस्मात् तस्यापि विशेषेणोष्मत्वं लक्ष्यन्ते, तत्सदृशत्वात्। तेन यथा हकार ऊष्मा एवं तेऽपीत्यर्थः। "नादवतः" इत्यादि। "वर्गाणां तृतीयचतुर्थाः" इत्यादिना पूर्वोक्तेन ग्रन्थेन तृतीयानां हकारस्य नादवत्त्वमुक्तम्। ये सोष्माणो "नादवन्तश्च" इति। सोष्मत्वं हकारस्य "शादय ऊष्माणः" (आ।शि।१।४।८) इत्यनेनाख्यातम्,चतुर्थानां तु "हकारेण चतुर्थाः" (आ।शि। १।४।१) इत्यनेन नादवत्त्वम्, उभयेषां वर्गाणां तृतीयचतुर्था इत्यादिनैव पूर्वोक्तेन।
बाल-मनोरमा
स्थानेऽन्तरतमः ४१, १।१।४९

स्थानेऽन्तरतमः। "स्थानं प्रसङ्ग" इत्युक्तम्। अन्तरशब्दोऽत्र सदृशपर्यायः, अतिशयतोऽन्तरोऽन्तरतमः। तदाह--प्रसङ्गे सतीत्यादिना। एकस्य स्थानिनोऽनेकादेशप्रसङ्गे सति यः स्थानार्थगुणप्रमाणतः स्थानिना सदृशतमः स एवादेशो भवतीत्यर्थः। अत्र स्थानशब्देन ताल्वादिस्थानं विवक्षितम्। गुणशब्देन प्रयत्नः। प्रमाणशब्देन एकद्विमात्रादिपरिमाणम्। तत्र स्थानतो यथा--दध्यत्र। तालुस्थानकस्य इकारस्य तालुस्थानको यकारः। अर्थतो यथा--तृज्वत्क्रोष्टुरिति क्रोष्टुशब्दस्य उकारान्तस्य तृजन्त आदेशो भवन्नर्थसाम्यात् क्रोष्टृशब्द एव तृजन्त आदेशो भवति। गुणतो यथा--वाग्घरिः। अत्र हकारः स्थानी घोषनादसंवारमहाप्राणप्रयत्नवान्। तस्य गकारसवर्णो भवंश्चतुर्थो घकारो भवति, तस्य हकारेण स्थानिना घोषनादसंवारमहाप्राणप्रयत्नसाम्यात्। ककारस्तु न भवति, तस्य ()आआसाऽघोषविवाराल्पप्राणप्रयत्नकत्वात्। तथा खकारोऽपि द्वितीयो न भवति, तस्य महाप्राणप्रयत्नसाम्येऽपि ()आआसाऽघोषविवारप्रयत्नभेदात्। तथा तृतीयो।ञपि गकारो न भवति, तस्य घोषनादसंवारप्रयत्नसाम्येऽपि निना हकारेण ()आआसाऽघोषविवारप्रयत्नबेदे सत्यपि महाप्राणप्रयत्नसाम्यसत्त्वात् , तथा तृतीयो वा गकारः कुतो न स्यात्, तस्य स्थानिना हकारेण अल्पप्राणप्रयत्नभेदेऽपि घोषनादसंवारप्रयत्नसाम्यसत्त्वात्। अत एव ङकारो वा कुतो न स्यादिति चेन्न ,तमब्ग्रहणेन उक्तातिप्रसङ्गनिरासात्। अतिशयितो ह्रन्तरोऽन्तरतमः। अतिशयितं च प्रयत्नतः सादृश्यं हकारेण घकारस्यैव, उभयोरपि घोषनादसंवारमहाप्राणात्मकप्रयत्नचतुष्टयसाम्येन सादृश्यातिशयसत्त्वात्। खकारस्य महाप्राणप्रयत्नसाम्येऽपि घोषनादसंवारप्रयत्नविरहात्। गङयोः घोषनादसंवारप्रयत्नसाम्येऽपि महाप्राणप्रयत्नविरहात्। प्रमाणतो यथा--"अदसोऽसोर्दादुदोमः" इति। ह्यस्वस्य उकारो दीर्घस्य ऊकारः। नन्वेवमपि चेता स्तोतेत्यत्र इकारस्य उकारस्य च सार्वाधातुकार्धधातुकयोरिति गुणो भवन् प्रमाणत आन्तर्यवानकारः कुतो न स्यादित्यत आह--यत्रेति। तेन इकारस्य एकार उकारस्य ओकारश्च गुणो भवति, स्थानसाम्यात्, न त्वकारः, स्थानभेदात्। नच इकारेण एकारस्य, उकारेण ओकारस्य कथं स्थानसाम्यम्। एकारस्य ओकारस्य च कण्ठस्थानाधिक्यादिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्यपरीक्षायां कथञ्चित्स्थानसाम्यस्यैव प्रयोजकत्वात्। अत्र सूत्रे पूर्वसूत्रात्स्थानेग्रहणमनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात्। तृतीयान्तं च विपरिणम्यते। अनुवर्त्त्यमानस्चायं "स्थान"शब्दः पूर्वंसूत्रे प्रसङ्गपरोऽप्यत्र ताल्वाद्यन्तयतमस्थानपरः, शब्दाधिकाराश्रयणात्। "अन्तरतम" इत्यपि तेन संबध्यते। ततश्च "स्थानेनाऽन्तरतम" इति वाक्यान्तरं संपद्यते। सति संभवे ताल्वादिस्थानत एवान्तरतमो भवतीत्यर्थः। ततश्च "यत्रानेकविधमान्तर्यं तत्र स्थानत एवान्तर्यं बलीय" इति (सिद्धं) भवति।

तत्त्व-बोधिनी
स्थानेऽन्तरतमः ३५, १।१।४९

स्थाने। सदृशतम इति। अर्थात्प्राप्यमाणानां मध्ये एव। अत एव "गङ्गोदक"मित्यत्र त्रिमात्र ओकारो न। इह "स्थाने" इत्यनुवर्तमाने पुनःस्थाने ग्रहणादन्योऽपि वाक्यार्थः संमतः, "ताल्वादिरूपे स्थाने योऽन्तरतमः, तत्प्रयुक्तान्तर्यवानिति यावत्। स तु प्राप्यमाणानां मध्ये स्या"दिति।

तदेतदाह-यत्रानेकविधमिति। स्थानार्थगुणप्रमाणतश्चतुर्विधमित्यर्थः। स्थानतो यथा-दध्यत्र। तालुस्थानस्येकारस्य तालुस्थानो यकारः। अर्थतो यथा-वातण्ड()युवतिः। वतण्डशब्दात् "वतण्डाच्चे"ति गोत्रापत्ये यञ्। तस्य "लुक् स्त्रिया"मिति लुक्। शाङ्र्गरवादित्वान्ङीन्। वतण्डी चासौ युवतिश्चेति विग्रहे "पोटायुवती"त्यादिना समासः। "पुंवत्कर्मधारयेत्यतिदिश्यमानःपुंशब्दो वतण्डापत्यवाचिनो वतण्डीशब्दस्य तदपत्यवाचीवातण्ड()शब्दो भवति, न तु वतण्डादिः। गुणतो यथा वाग्घरिः। घोषवतो नादवतो महाप्राणस्य तादृश एव घकारः। प्रमाणतो यथा-अमुम् अमू अमून्। "अदसोऽसे"-रित्यनेन ह्यस्वस्य ह्यस्वो दीर्घस्य दीर्घ उकारः। तमब्ग्रहणं किम्? "वाग्घरि"रित्यत्र "झयो होऽन्यतरस्या"मिति पूर्वसवर्णे क्रियमाणे महाप्राणत्वसाम्येन द्वितीयो, नादवत्त्वसाम्येन तृतीयश्च मा भूत्। किंतु महाप्राणाश्चतुर्थो घ एव यथा स्यादिति। बलीय इति। तेन "चेता" "स्तोते"त्यत्र प्रमाणत आन्तर्यवानकारो नेति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ उः ६।१ अण् १।१ रपरः १।१ स्थाने ७।१ ४८

समासः॥

र परः यस्मात् सः रपरः, बहुव्रीहिः

अर्थः॥

ऋवर्णस्य स्थाने अण् (अ‌इ‌उ) प्रसज्यमानः एव रपरः भवति

उदाहरणम्॥

कर्ता, हर्ता, कारकः, हारकः। किरति, गिरति। द्वैमातुरः, त्रैमातुरः
काशिका-वृत्तिः
उरण् रपरः १।१।५१

उः स्थाने अण् प्रसज्यमान एव रपरो वेदितव्यः। कर्ता। हर्ता। किरति। गिरति। द्वैमातुरः। त्रैमातुरः। उः इति किम्? खेयम्। गेयम्। अन्ग्रहणं किम्? सुधातुरकङ् च ४।१।९७ सौधातकिः।
लघु-सिद्धान्त-कौमुदी
उरण् रपरः २९, १।१।५०

ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥
न्यासः
उरण् रपरः। , १।१।५०

अत्र त्रयः पक्षाः सम्भवन्ति- "उः स्थानेऽण् रपरत्वं चानेनोभयं विधीयते" इत्येकः पक्षः। "लक्षणान्तरेण विहितस्याण उः स्थाने पश्चादनेन रपरत्वमात्रं क्रियते" इति द्वितीयः पक्षः। "उः स्थाने लक्षणान्तरेण विधीयमानोऽण विधानकाल एव तेन लक्षणान्तरेण सह संहत्य रपरत्वविशिष्टोऽनेन भाव्यते" इति तृतीयः। तत्र यद्याद्यः पक्ष आश्रीयते, ऋकारस्य स्थान उदात्तादयो न स्युः, अनेन बाधित्वात्; "कृति" इत्यत्र "ञ्नित्यादिनित्यम्" ६।१।१९१ इत्याद्युदात्तो न स्यात्, "प्रकृतम्" इत्यत्र पूर्वपद्सयाद्युदात्तस्य "गतिरनन्तरः" ६।२।४९इति प्रकृतिस्वरे कृते "अनुदात्तं पदमेकवर्जम्" ६।१।१९२ इत्यनुदात्तो न स्यात्, "उदात्तानुदात्तस्य स्वरितः" ८।४।६५इति स्वरितश्च। यद्यचः स्थाने उदात्तादयो विधीयन्ते, तथापि तेषामन्योऽजवकाश इति ऋवर्णस्थाने प्रतिपदोक्तोऽणेव रपरः स्यात्। ये चाप्यन्य ऋवर्णस्थाने प्रतिपदमादेशा उच्यन्ते, "ऋत इद्धातोः" ७।१।१०० इत्येवमादिभिर्लक्षणान्तरैस्तेषु रपरत्वं न स्यात्; ततश्च "किरति" इत्यादि न सिध्येत्। अथ द्वितीयः पक्ष आश्रीयते, तरतेस्तृजादौ गुणो विधीयमानः प्रमाणत आन्तरतम्याद् दीर्घस्य दीर्घ एव स्यात्, तथा च "तरिता" इत्यादि न सिध्येत्। किं च- ण्वुलादौ वृद्धौ विधीयमानामृकारस्य केनचिद् वृद्धिसंज्ञकेनान्तरतम्यविशेषो नास्तीति सर्वे वृद्धिसंज्ञकाः पर्यायेण प्रसज्येरन्। तथा च पक्षे "नायकः, स्तावकः" इत्या- द्यप्यनिष्टं रूपं स्यात्। इत्येवमाद्ययोः पक्षयोर्दोषवत्तां दृष्ट्वा, तृतीयं पक्षमाश्रित्याह- "उः स्थानेऽण् प्रसज्यमान एव"इत्यादि। एतेन लक्षणान्तरेण विधीयमान- स्याणो विधानकाल एव तेन सह संहत्य रपरत्वविशिष्टस् विधावियं परिभाषा व्याप्रियत इति दर्शयति। एतच्च स्थानद्वयग्रहणस्यात्रानुवृत्तेर्लभ्यन्ते। पूर्वकेण हि स्थानग्रह- णेनेहानुवृत्तौ "उः स्थाने" इत्यतदर्थरूपं लभ्यते। द्वितीयेन तु प्रसज्यमान इत्येतत्। तथा हि- स्थानग्रहणं सप्तम्यन्तं प्रकृतमनुवत्र्तमाने तत्सामथ्र्यात् प्रथमान्तं सम्पद्यते, स्थानशपब्दश्चायं प्रसङ्गवाची। ततश्च यदा स्थानेनाण् विशिष्यते-"अण् स्थानम्" इति, तदा "अण् प्रसज्यमान एव" इत्येषोऽर्थो जायते। "प्रसज्यमानः" इति। प्रसङ्गेनाभिसम्बध्यमान इति यावत्। "एव" इति। अवधारणं पुनरत्र व्यवच्छेद फलत्वेन सर्ववाक्यानां सावधारणत्वाल्लभ्यते। कथं पुनरण् स्थानं भवति? नैव हि स स्थानं भवति, तद्योगात्तु तत्र स्थानव्यपदेशो भवति, यथा-"यष्टीः प्रवेशय" इत यष्टियोगात् पुरुषाणां व्यपदेश-। ननु च "स्थानेऽन्तरतमः" लभ्यते? नैष दोषः, स्वरितत्वचिह्नाद्धि यो यत्रोपष्ठते, स तत्र सामथ्र्यात् तत्कार्ययोग्यस्यै-वार्थस्याभिधाता सन्नुपतिष्ठते। तेन यद्यपि पूर्वसूत्रे स्थानशब्दस्तवादिस्थानवचनः, तथापीहोपतिष्ठमानः प्रसङ्गवचन एवोपतिष्ठते। तेदवं यस्मान्नेदं स्वतन्त्रमणो रपरत्वविशिष्टस्य च विधायकम्। तस्मादाद्ये पक्षे यो दोषः स इह न भवति ततश्च लक्षणान्तरेण विहितस्याणः पश्चादनेन रपरत्वं न विधीयते, किं तर्हि? प्रसज्यमान एवाण् लक्षणान्तरेण तत्सहायं प्रतिपद्य रपरो भाव्यते। तेन द्वितीये पक्षे यो दोषः, सोऽप्यस्मिन्न भवत्येव। प्रसज्यमानस्यैव हि रपरत्वविधौ यथा ऋवर्णो रश्रुतिमान्(), एवमादेशोऽपि रश्रुतिमानेव भवति। ततश्चान्तरतम्यादृकारस्य रश्रुतिमतस्तादृश एव रश्रुतिमानेदेशो भवति। अन्ये गुणवृद्धिसंज्ञका व्यावर्तिता भवन्ति। यदि तर्हि प्रसज्यमान एव रपरो भवति, अनेकल्त्वात् सर्वादेशः प्रसज्येत, नैष दोषः; यदयं "तरति" इति निर्देशं करोति; ततो ज्ञाप्यते-सर्वादेशो न भवतीति। "कर्ता, हर्ता"इति। "डुकुञ् करणे"(धा।पा।१४७३) "ह्मञ् हरणे" (धा।पा।८९९) आभ्यां "ण्वुल्तृचौ" ३।१।१३३ इति तृच्, "सार्वधातुकार्धकयोः" ७।३।८४ इति गुणः, "अचो रहाभ्याम्" ८।४।४५ इति द्वित्वम्। "किरति, गिरति" इति। "कृ विक्षेपे" (धा।पा।१४१०) "गृ निगरणे" (धा।पा।१४११)- आभ्यां लट्, "शेषात् कर्तरि परस्मैपदम्" १।३।७८इति तिप्, तुदादित्वाच्छः, "ऋत इद् धातोः" ७।१।१०० इतीत्त्वम्। "द्वैमातुरः, त्रैमातुरः" इति। द्वयोर्मात्रोरपत्यम्, तिसृणां मातृ()णामपत्यमिति "मातुरुत् संख्यासम्भद्रपूर्वायाः" ४।१।११५ इत्यण्, उकारश्चान्तादेशः। "तद्धितेष्वचामादेः" ७।२।११७ इति वृद्धिः। "खेयम्" इति। "ई च खनः" ३।१।१११ इति क्यप्, इकारश्चान्तादेशः, "आद्गुणः"६।१।८४। "सौधातकिः" इति। "सुधातुरकङ च" ४।१।९७ इतीञ्। तत्संयोगेनाकङादेशः क्रियमाणो रपरो न भवति, अनण्त्वात्। अथ योऽत्राण्, स रपरः कस्मान्न भवति? अनादेश्त्वात्। समुदायो ह्रत्रादेशो न तदवयवः। नैष दोषः; यो हि द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति, लभते सोऽन्यतरव्यपदेशम्, यथा- देवदत्तस्य पुत्रो देवदत्तायाः पुत्रः" इति॥
बाल-मनोरमा
उरण्? रपरः ७१, १।१।५०

लृकारेण तु स्थानिना न कस्यापि स्थानसाम्यं, तत्र कतमो गुणो भवतीत्याकाङ्क्षायामिदमारभ्यते--उरण्रपरः। इत्युक्तमिति। "अणुदित्सूत्रे" इति शेषः। उरिति "ऋ"इत्यस्य षष्ठ()एकवचनम्। "षष्ठी स्थाने" इति परिभाषया स्थाने इति लभ्यते। अनुवादे तत्परिभाषानुपस्थितावपि स्थानेग्रहणं ततो।ञनुवर्तते। तदाह--तत्स्थाने योऽणिति। "स्थानेऽन्तरतम" इत्यतो।ञपि स्थानेग्रहणमनुवर्तते। स्थानं प्रसह्ग इत्युक्तम्। प्रसङ्गावस्थायामित्यर्थो विवक्षितः। तदाह--रपरः सन्नेव प्रवर्तत इति। अत्र "र" इति प्रत्याहारो विवक्षितः। ततश्च रेफशिरस्को लकारशिरस्कश्च प्रवर्तत इति लभ्यते। तयोव्र्यवस्थां दर्शयति--तत्रेति। रेफलकारशिरस्कयोर्मध्ये कृष्णर्दिं()धरित्यत्र अर्, तवल्कार इत्यत्र अलित्यन्वयः। कुत इयं व्यवस्थेत्यत आह--आन्तरतम्यादिति। त्रिषु गुणेषु प्रसज्यमानेषु अकारस्याऽणो रेफलकारशिरस्कतया तस्य अर् अलित्येवमात्मकस्य अकारांशे स्थानीभूतेन अकारेण रेफांशे ऋकारेण, लकारांशे लृकारेण च स्थानसाम्यादकारञकारयोः स्याने अरेव भवति। अकारलृकारयोः स्थानेऽलेव भवति। एकारोकारौ तु गुणौ न भवत एव, तयोरृकारेण लृकारेण च स्थानसाम्या।ञभावादित्यर्थः। नच एकार ओकारश्च कथं रपरो न स्यातामिति वाच्यं, पूर्वेणैव णकारेण ह्रत्राण् गृह्रते, प्रशास्तृ()णामित्यादिनिर्देशादित्यलम्।

पक्षे द्वित्वमिति। ऋधधातोः क्तिनि झषस्तथोरिति तकारस्य धत्वे ऋद्धिरिति द्विधकारं रूपं स्वाभाविकम्। तत्र अरादेशे रेफात्परस्य धकारस्याऽचो रहाभ्यामिति कदाचिद्द्वित्वमित्यर्थः।

तत्त्व-बोधिनी
उरण् रपरः ५८, १।१।५०

उरण् रपरः। अनुवादे "षष्ठी स्थानेयोगे"ति परिभाषया अनुपस्थितावपि स्थानेग्रहणं ततोऽनुवर्तत इत्याशयेनाह-तत्स्थानेयोऽणिति। "स्थानेऽन्तरतमः" इत्यतोऽपि "स्थाने"ग्रहणमिहानुवर्तते। तेन प्रसङ्गावस्तायामेवाऽण् रपरो भवति। तदेतद्व्याचष्टे-रपरः सन्ने प्रवर्तत इति। उः किम्?, "ईद्यति"-गेयम्, देयम्। अण् किम्?, रीङादीनां रपरत्वं मा भूत्। "रीङृतः"-मात्रीयति। रिङ्-"क्रियते"। आन्तरतम्यादिति। रेफशिरस्कस्य "अ"रित्यस्य रेफद्वारेण ॠकारेण स्थानसाम्यादित्यर्थः। पक्षे द्वित्वमिति। ॠधेर्धस्येति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अलः ६।१ ५३ अन्त्यस्य ६।१ ५२ षष्ठी १।१ ४८

अर्थः॥

षष्ठीनिर्दिष्टः आदेशः अन्त्यस्य अलः स्थाने भवति।

उदाहरणम्॥

द्यौः। सः। पञ्चगोणिः।
काशिका-वृत्तिः
अलो ऽन्त्यस्य १।१।५२

षष्ठीनिर्दिष्टस्य य उच्यते आदेशः, सो ऽन्त्यस्य अलः स्थाने वेदितव्यः। इद् गोण्याः १।२।५० पञ्चगोणिः। दशगोणिः।
लघु-सिद्धान्त-कौमुदी
अलोऽन्त्यस्य २१, १।१।५१

षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः)। सुद्ध्युपास्यः। मद्धरिः। धात्रशः। लाकृतिः॥
न्यासः
अलोऽन्त्यस्य। , १।१।५१

अल्ग्रहणमन्त्यस्य विशेषणम्, नादेशस्य; अन्यथा ह्रलन्त्यस्येत्येवं ब्राऊयात्। आदेशः पुनरत्रैकाल्लभ्यते। अन्यस्य "अनेकाल्शित् सर्वस्य" १।१।५४ इति सर्वादेशतां वक्ष्यति। "षष्ठीनिर्दिष्टस्य" इति। सामान्यवचनेऽपि "षष्ठी स्थानेयोगा" (१।१४९) इत्यधिकारात् स्थानषष्ठ()आ निर्दिष्टस्येति वेदितव्यम्; अन्यथा टित्किन्मितोऽप्यवयवसम्बन्धषष्ठीनिर्दिष्टा विधीयमाना अन्त्यस्य स्युः। "इद् गोण्याः" १।२।५० इति। येयं षष्ठी सान्त्यमलं नीयते- अन्त्यस्याल इत्त्वमिति। "पञ्चगोणिः" इति। पञ्चभिर्गोणीभिः क्रीत इति "तद्धितार्थोत्तरपदसमाहारे च" २।१।५० इति समासः। "तेन क्रीतम्" ५।१।३६ इति "प्राग्वहतेष्ठक्" ४।४।१ "अध्यर्धपूर्वद्विगोर्लुगसंज्ञा-याम्" ५।१।२८ इति तस्य लुक्। यद्यलोऽन्त्यस्य षष्ठीनिर्दिष्टस्यादेशो भवति," इदोऽय् पुंसि" ७।२।१११ इत्यतः "इदः" इत्यनुवृत्तेः "हलि लोपः"७।२।११३ विधीयमान इद्रूपस्य योऽन्त्यस्तस्य स्यात्। तथा च - आभ्यामिति न सिध्येत्, नैष दोषः; "नानार्थकेऽलोऽन्त्यविधिरनभ्यासविकारेषु" (व्या।प।६२) इति परिभाषया न भविष्यति॥
बाल-मनोरमा
अलोऽन्त्यस्य ४४, १।१।५१

अलोऽन्त्यस्य। "अ"लिति प्रत्याहारो वर्णपर्यायः। "अल" इति षष्ठ()न्तम्। "षष्ठी स्थानेयोगा" इत्यतः "षष्ठी स्थाने इत्यनुवर्तते। तच्च षष्ठीति प्रथमान्तं तृतीयान्ततया विपरिणम्यते। "निर्दिष्टस्ये"ति शेषः। "स्थाने" इत्यनन्तरं "विधीयमान" इति शेषः। स्थाने विधीयमान आदेशः षष्ठीनिर्दिष्टस्य योऽन्त्योऽल् तस्य स्यादित्यर्थः। तदाह--षष्ठीत्यादिना। "त्यदादीनामः"-यः सः। आदेश इति किम्?, "आर्धधातुकस्येट्" तृच ऋकारात् पूर्वो मा भूत्। अल इति किम्?। पदस्येत्यधिकृत्य विधीयमानं वसुरुआंस्विति दत्वं परमानडुभ्द्यामित्यत्राऽन्त्यस्य कृत्स्नस्य पदस्य मा भूत्।

तत्त्व-बोधिनी
अलोऽन्त्यस्य ३८, १।१।५१

अलोऽन्त्यस्य। स्थानषष्ठीनिर्दिष्टस्य य उच्यते सोऽन्त्यस्यालः स्थाने स्यादित्यर्थः। "त्यदादीनामः"। सः, यः। स्थानषष्ठीति किम्?, "आर्धधातुकस्यैट्" तृच् ऋकारात्पूर्वो मा भूत्। इदं च "षष्ठी स्थाने" इत्यनुवृत्त्या लभ्यते। अल इति किम्?, "पदस्ये"त्यधिकृत्य विधीयमानं "वसुरुआंसु" इति दत्वं परमानडुद्भयामित्यादावन्त्यस्य पदस्य मा भूत्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ ङित् १।१ अलः ६।१ ५१ अन्त्यस्य ६।१ ५१ षष्ठी १।१ ४८

समासः॥

ङ् इत् यस्य सः ङित्, बहुव्रीहिः

अर्थः॥

षष्ठी निर्दिष्टः यः ङिदादेशः, सः अन्त्यस्य अलः स्थाने भवति। {अनेकाल् शित् सर्वस्य (१।१।५४)} इति वक्ष्यति, तस्य अयं पुरस्तात् अपवादः, अर्थात् अनेकालपि सन् ङिदादेशः अन्त्यस्य अलः स्थाने भवति, न तु सर्वस्य।

उदाहरणम्॥

चेता, नेता। मातापितरौ। होतापोतारौ।
काशिका-वृत्तिः
ङिच् च १।१।५३

ङित् च य आदेशः सो ऽनेकालपि अलो ऽन्त्यस्य स्थाने भवति। आनङृतो द्वन्वे ६।३।२४ होतापोतारौ। मातापितरौ। तातङि ङित्करणस्य गुणवृद्धिप्रतिषेधार्थत्वात् सर्वाऽदेशः तातङ् भवति। जीवताद् भवान्। जीवतात् त्वम्।
लघु-सिद्धान्त-कौमुदी
ङिच्च ४६, १।१।५२

ङिदनेकालप्यन्त्यस्ययैव स्यात्॥
न्यासः
ङिच्च। , १।१।५२

"होतापोतारौ" इति। होतृपोतृशब्दयोद्र्वन्द्व, आनङ्, औप्रत्यये परतः "ऋतो ङिसर्वनामस्थानयोः" ७।३।११० इति गुणः, रपरत्वं च। "अप्तृन्तृच्" ६।४।११ इत्यादिना दीर्घः। "मातापितरौ" इति। "पिता मात्रा" १।२।७० इति यस्मिन् पक्ष एक- शेषो नास्ति, तत्रेदमुदाहरणम्। यदि ङिदादेशोऽनेकालप्यन्त्यस्य भवति, एवं सति तातङ- प्यन्त्यस्य भवतीत्यत आह-"तातङि" इत्यादि। तत्र गुणप्रतिषेधार्थम् चिनुतादित्यादौ। अत्र हि सार्वधातुकलक्षणस्य गुणस्य प्राप्तिः। वृद्धिप्रतिषेधार्थम्- मृष्टादिति। अत्र हि "मृजेर्वद्धिः" ७।२।११४ इति वृद्धिप्राप्तिः। तदेवं गुणवृद्धिप्रतिषेधे चरितार्थत्वात् तातङो ङित्करणस्य सावकाशत्वे सति तस्मिन परत्वात "अनेकाल्शित्सर्व- स्य" १।१।५४ इत्यनेन तातङ सर्वादेशो भवति। ङिच्चेत्यस्यावकाशः- "होतापोतारौ" इत्यादि। अनेकालित्यादेरवकाशो योन ङित्-"अस्तेर्भूः" २।४।५२, भवितेत्यादि। "जीवतात्" इत्यादावुभयप्राप्तौ परत्वदनेकाल्त्वात् तातङ सर्वादेशो भवति, " जीवताद् भवान्" "जीवतात् त्वम्" इति। जीवतादिति "आशिषि लिङलोटौ" ३।३।१७३ इति लोट्, तिप्, "एरुः" "तु ह्रोस्तातङ्" ७।१।३५ इत्यादिना तातङ॥
बाल-मनोरमा
ङिच्च ४५, १।१।५२

ङिच्च। ङकार इद्यस्य स-ङित्। "अलोऽन्त्यस्ये"त्यनुवर्तते। तदाह--अयमपीति। ङिदमपीत्यर्थः। अवङ् तावङ् अनङित्यादिरादेश उदाहरणम्।

नन्वलोऽन्त्यस्येति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-सर्वस्येति। "अनेकाल् शित् सर्वस्ये"ति वक्ष्यमाणस्य सर्वादेशत्वविधेरयं विधिरपवादः। अपोद्यते बाध्यते अनेनेति अपवादः। बाहुलकः करणे घञ्। येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इत्यपवादलक्षणम्। अप्राप्ते इति भावे क्तः। "येने"ति कर्तरि तृतीया। द्वौ नञावावश्यकत्वं बोधयतः। यत्कर्तृकावश्यकप्राप्तौ सत्यां यो विधिरारभ्यते स आरभ्यमाणविधिस्तस्याऽवश्यप्राप्तस्य अपवादो बाधक इति तदर्थः। अयं च न्यायसिद्धः। अवङादयो हि ङित आदेशाः सर्वेऽनेकाल एव। तेषु चानेकाल्विशेषेषु विधीयमानेन ङितामन्त्यादेशत्वेन स्वविषये अवश्यं प्राप्तमनेकाल्सामान्येन विहितं सर्वादेशत्वं बाध्यते, विशेषविहितत्वात्, निरवकाशत्वाच्च। विशेषशास्त्र हि विशेषेषु झटिति प्रवत्र्तते, विशेषाणां स्वशब्देनोपात्तत्वात्। सामान्यशास्त्रं तु सामान्यमुखेन विशेषेषु प्रवर्तत इति तस्य तेषु मन्दप्रवृत्तिः। अतो विशेषशास्त्रं प्रबलम्। उक्तं च भट्टवार्तिके "अवश्यमेव सामान्यं विशेषं प्रति गच्छति। गतमात्रं च तत्तेन विशेषे स्थाप्यते ध्रुवम्॥" इति। किं च यदि ङिच्चेति शास्त्रमनेक#आल्विशेषेषु ङित्सु न प्रवर्तेत, तर्हि तदनर्थकमेव स्यात्। "अनेकाल्शित्सर्वस्ये"त्यस्य तु ङित्सु अप्रवृत्तावपि नानर्थक्यम्, तस्थस्थमिपां तान्तंताऽमः" "अस्तेर्भू"रित्यादिष्वनेकाल्षु अङित्सु तस्य सावकाशत्वात्। अतो विशेषशास्त्रं प्रबलमिति।

तत्त्व-बोधिनी
ङिच्च ३९, १।१।५२

ङिच्च। अयमपीति। "अवङ् स्फोटायनस्य"-गवाग्रम्। "अनङ् सौ"-सखा। परस्य यदिति। "तस्मादित्युत्तरस्यादे"रिति न सूत्रितम्, "आदे"रित्यंशस्य सर्वादेशबाधकत्वापत्तेः। सिद्धान्ते तु परत्वात्सर्वादेशत्वं बाधकमित्नुपदमेव वक्ष्यति। आदेर्बोध्यमिति। आदेरलो बोध्यमित्यर्थः। "अल" इति ह्रनुवर्तते।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ आदेः ६।१ परस्य ६।१ अलः ६।१ ५१ षष्ठी १।१ ४८

अर्थः॥

परस्य उच्यमानं कार्यम् आदेः अलः स्थाने भवति। {तस्मादित्युत्तरस्य (१।१।६६)} इति वक्ष्यति, तस्य इदं शेषसूत्रम्

उदाहरणम्॥

आसीनः। द्वीपम्, अन्तरीपम्, समीपम्।
काशिका-वृत्तिः
आदेः परस्य १।१।५४

परस्य कार्यं शिष्यमाणम् आदेरलः प्रत्येतव्यम्। क्व च परस्य कार्यम् शिष्यते? यत्र पञ्चमीनिर्देशः। तद् यथाईदासः ७।२।८३ आसीनो यजते। द्व्यन्तरुपसर्गेभो ऽप ईत् ६।३।९६ द्वीपम्। अन्तरीपम्। प्रतीपम्। समीपम्।
लघु-सिद्धान्त-कौमुदी
आदेः परस्य ७२, १।१।५३

परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥
न्यासः
आदे परस्य। , १।१।५३

अलोऽन्त्यस्यापवादोऽयम्। शास्त्रे न क्वचित् परस्येतुच्चार्य कार्यं विधीयते। ततश्च निर्विषयमेतदित्यभिप्रायेणाह-"क्व च" इत्यादि। "यत्र पञ्चमीनिर्देशः"इति। "तस्मादित्युत्तरस्य" १।१।६६ इति वचनाद् यत्र पञ्चमीनिर्देशस्तत्र परस्य कार्यं शिष्यते। "आसीनः" इति। "आस उपवेशने" (धा।पा।१०२१), लट्, अनुदात्तेत्वादात्मनेपदम्, शानच्, अदादित्वाच्छपो लुक्। "द्वीपम्, अन्तरीपम्" "समीपम्" इति। द्विर्गता अन्तर्गताः सङ्गता" आपोऽस्मिन्निति विगृह्र बहुव्रीहिः। "ऋक्पूः" ५।४।७४ इत्यादिना अकारप्रत्ययः समासान्तः॥
बाल-मनोरमा
आदेः परस्य ४६, १।१।५३

आदेः परस्य। परस्येति। "द्व्यन्तरुपसर्गेभ्योऽप ई"दित्यादौ "तस्मादित्युत्तरस्ये"ति परिभाषायां परस्य नियमितं कार्यं यत् तत्तस्यादेरेव भवति, नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थः। तदाह--अलोन्त्यस्येत्यस्यापवाद इति। तत्र "अल" इत्यप्यनुवर्तनीयम्। तेन "द्वीप"मित्यत्र ईत्वं पान्तसमुदायस्य न भवति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अनेकाल्-शित् १।१ सर्वस्य ६।१ षष्ठी १।१ ४८

समासः॥

एकः च असौ अल् च एकाल्, कर्मधारयतत्पुरुषः। न एकाल् अनेकाल्, नञ्तत्पुरुषः। श् इत् यस्य सः शित्, अनेकाल् च शित् च अनेकाल्-शित्, बहुव्रीहिगर्भः समाहार्द्वन्द्वः।

अर्थः॥

अनेकाल् शित् च यः आदेशः सः सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने भवति। {अलोऽन्त्यस्य (१।१।५१)} इति सूत्रस्य अपवादसूत्रम् इदम्।

उदाहरणम्॥

अनेकाल् - भविता्, भवितुम्, भवितव्यम्। पुरुषैः। शित् - कुण्डानि, वनानि।
काशिका-वृत्तिः
अनेकाल् शित् सर्वस्य १।१।५५

अनेकाल् य आदेशः शित् च, स सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने भवति। अस्तेर् भूः २।४।५२भविता। भवितुम्। भवितव्यम्। शित् खल्वपि जश्शसोः शिः ७।१।२० कुण्डानि तिष्ठन्ति। कुण्डानि पस्य।
लघु-सिद्धान्त-कौमुदी
अनेकाल् शित्सर्वस्य ४५, १।१।५४

इति प्राप्ते॥
न्यासः
अनेकाल्शित्सर्वस्य। , १।१।५४

शितः शकारानुबन्धेनानेकाल्त्वेऽपि शिदिति पृथक्करणं "नानुबन्धकृतमनेकाल्त्वम्"(व्या।प।१४) इति ज्ञापनार्थम्। तस्य तु प्रयोजनम्-- "दिव उत्" ६।१।१२७ इत्या-दिषु सर्वादेशाभावः॥
बाल-मनोरमा
अनेकाल्शित्सर्वस्य ४७, १।१।५४

अनेकाल्शित्सर्वस्य। न एकोऽनेकः, अनेकोऽल् यस्य सोऽनेकाल्, शकार इत् यस्य स शित्, अनेकाल्व शिच्चेति समाहारद्वन्द्वः। स्पष्टमिति। अनुवर्तनीयपदान्तराऽभावादिति भावः। अस्तेर्भूरित्याद्युदाहरणम्। नन्वस्धातोर्भूर्भवतीत्युक्ते कृत्स्नस्यैवादेशः प्राप्त इति किमर्थमिदं सूत्रमारभ्यत इत्यत आह-अलोऽन्त्यसूत्रापवाद इति। "अलोन्त्येति"ति सूत्रैकदेशानुकरणम्। अनुकरणत्वादेव नापशब्दः, अधिरी()आर इति सूत्रैकदेशस्य प्राग्री()आरान्निपाता इति ग्रहणाल्लिङ्गात्। स्यादेतत्। अष्टन्()शब्दाज्जसि शसि च "अष्टन आ विभक्ता"विति आत्वे अष्टा अस् इति स्थिते अष्टाभ्य औशिति कृताकारादष्टनः परयोर्जश्शसोर्विधीयमान औशादेशोऽलोऽन्त्यस्येति बाधित्वा आदेः परस्येत्यादेरकारस्य प्राप्तः। अनेकाल्त्वाच्च सर्वादेशः प्राप्तः। एवम् "अतो भिस ऐ"सित्यादावपि। तत्र कतरच्छास्त्रं बाध्यं कतरच्च प्रवर्तत इत्यत्र किं विनिगमकम्रित्यत आह-अष्टाभ्य औशित्यादाविति। आदिना "अतो भिस ऐ"सित्यादिसंग्रहः। अष्टाभ्य औ" शित्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यत इत्यन्वयः। अस्तेर्भूरित्यादौ अनेकाल्शिदित्यनेन यथाऽलोऽन्त्यस्येति बाध्यते तथ#आऽष्टाभ्या औशित्यादावादेः परस्येत्येतदपि बाध्यत इत्यर्थः। नन्वस्तेर्भूरित्यादावलोऽन्त्यस्येति प्राप्ते सत्येवानेकाल्शित्सर्वस्येति नापवादः। अस्तेर्भूरित्यादावादेः परस्येत्यप्राप्तावपि तत्प्रवृत्तेरित्यत आह-परत्वादिति। "विप्रतिषेधे परं कार्य"मिति तुल्यबलविरोधे परप्राबल्यस्य वक्ष्यमाणत्वादिति भावः। "आदेः परस्ये"त्यस्यावकाशो "द्व्यन्तरुपसर्गेभ्योऽप ई"दित्यादिः। "अनेकाल्शित्सर्वस्ये"त्यस्यावकाशः-"अस्तेर्भूः""इदम इ"शित्यादिः। अतस्तुल्यबलत्वमुभयोः।

तत्त्व-बोधिनी
अनेकाल्शित्सर्वस्य ४०, १।१।५४

अनेकाल्। "अस्तेर्भूः"। बभूव। ननु "निर्दिश्यमानस्यादेशा भवन्ती"त्यनेकालादेशस्य सर्वादेशत्वं सिध्यति, तत्किमनेनाऽल्ग्रहणेन?। न च "अलोऽन्त्यस्येट"त्यन्त्यस्य स्यादिति शङ्कयम्, "ङिच्चे"त्यस्य नियमार्थत्वाभ्युपगमात्। उच्यते-अनेकाल्ग्रहणाऽभावे "रामै"रित्यादावैसादेशः "आदेः परस्ये"ति भकारस्यैव स्थाने स्यान्नतु सर्वस्य स्थाने इति दिक्। शित उदाहरणम्-"इदम इश्"-इतः। इत्यादाविति। आदिशब्देन "अतो भिस ऐ"सित्यादि गृह्रते। परत्वादिति। अत एव "आदेः परस्ये"ति पृथक्रियत इत्युक्तम्। ननु "अनेकाल्शित्सर्वस्ये"त्यतः प्रागेव "तस्मादित्युत्तरस्यादे"रिति पठ()तां किमनेन पृथक्()सूत्रकरणेन?। न चैवं "तस्मिन्निति निर्दिष्टे-" इत्यतो निदष्टग्रहणं नात्रानुवर्तेतेति वाच्यम्, तस्यापि सूत्रस्य प्राक् पठने बाधकाभावेन निर्दिष्टग्रहणाऽनुवृत्तिसिद्धेः। मैवम् "ब्राआहृणा अष्टौ" इत्यत्र अष्टाभ्यः पूर्वयोरपि जश्शसोरौश्प्रसङ्गात्। यथाश्रुतसूत्राभ्युपगमे तु "उत्तरस्ये"त्यंशः प्रवर्तत एवेति नायं दोषः प्रसज्यत इति। अत्र केचिन्निष्कर्षमाहुः-अनेकाल्शित्सूत्रात्प्रागेव वर्णलाघवाय "तस्मादित्युत्तरस्यादे"रिति सूत्रिते परत्वात्सर्वादेशेन आदेरित्यंशवदविशेषादुत्तरस्येत्यंशस्यापि बाधितत्वाद्वाक्यसंस्कारपक्षे ब्राआहृण अस् अष्टन् अस् इति स्थिते "अष्टाभ्य[औश्"] इत्यस्य दिग्योगे पञ्चमीत्वाव्द्याप्तिन्यायेनाऽष्टनोऽङ्गात्पूर्वयोरपि जश्शसोरौश्स्यात्। व्याप्तिन्यायस्तु "प्राग्वी()आरान्निपाता" इति पठितेऽपि प्रत्यासत्तिन्यायेन "अधिरी()आरे" इति सूत्रावधिकत्वसिद्धौ "ई()आरे तोसुन्कसुनौ" इति सूत्रावधिकत्वनिराकरणाय रेफविशिष्टग्रहणं कुर्वता सूत्रकृतैव ज्ञापितः। ततश्च सर्वादेशेन "उत्तरस्ये"त्यंशस्याऽबाधनार्थं, निर्दिष्टग्रहणानुवृत्त्यर्थं च "तस्मिन्निति-" इति सूत्रात्परस्य कृते तु "आदे"रित्यस्य सर्वादेशबाधकत्वं स्यात्। तथा च "अतो भिस ऐस्" इत्याद्यादेश आदेरेव स्यात्, अनेकाल्सूत्रस्य "अस्तेर्भू"रित्यादौ चरितार्थत्वात्। यथान्यासे तु "उत्तरस्ये"त्यंशः प्रवर्तत एवेत्यष्टाभ्यः परयोरेव जश्शसोरौश्स्यात्, न तु पूर्वयोः। तथा "तस्मादित्युत्तरस्यादे"रिति न सूत्रितमित्यादिमनोरमाग्रन्थस्याप्ययमेवाशय इति। अन्ये तु यथाश्रुतसूत्रनिराकरणपरतयैव मनोरमां योजयन्ति। तद्यथा-"न सूतिं()रत"मित्यस्य "अनेकाल्शित्सूत्रात्प्राङ् सूत्रित"मित#इ नार्थः। "आदे"रित्यंशस्य सर्वादेशबाधकत्वापत्तेरित्याद्यग्रिमग्रन्थविरोधात्, किंतु तद्ग्रन्थानुकूल्याय "स्वं रूप"मिति सूत्रात्प्राङ् सूत्रितमित्यर्थोऽभ्युपेयः। एवं च अनेकाल्सूत्रात्प्राक्सूत्रिते तु नास्त्येव दोष इति मनोरमाग्रन्थाशयः। एवं स्थिते निर्दिष्टग्रहणानुवृत्तिलाभाय "तस्मिन्निति निर्दिष्टे" इति सूत्रं "तस्मादित्युत्तकस्यादेः परस्ये"त्यस्मात्प्रागेव पठनीयम्। "अष्टनोऽङ्गात्पूर्वयोरप्यौश् स्या"दित्युक्तदोषस्तु इत्थं परिहरणीयः, "तस्मादित्युत्तरस्यादेः परस्ये"त्यत्र आदे"रिति पृथग्वाक्यम्। तत्र "उत्तरस्ये"त्यनुवर्तते। सा च स्थानषष्टी, "षष्ठी स्थाने" इत्यस्य प्राप्तेः। तत्र चायमर्थः-"पञ्चमीनिर्देशेन यत्कार्यं तदुत्तरसम्बन्धि" "उत्तरस्य स्थाने यद्विधीयते तदादेर्भवती"ति। इत्थं वाक्यभेदेन व्याख्यानाश्रयणादनन्तरस्येति न्यायेन "आदे"रित्यंश एव सर्वादेशेन बाध्यते, न तूत्तरस्येत्यंशोऽपीति नास्त्येव पूर्वोक्तदोषः। वाक्यभेदेन व्याख्यानं तु "उत्तरस्यादे"रित्यसमस्तन्यासकरणेन ज्ञाप्यते। अन्यथा "उत्तरादे"रिति न सूत्रित"मिति वदेत्। किंच "अष्

#आभ्य औ"शित्यस्य दिग्योगे पञ्मीत्वेन पूर्वपरसाधारणतया अष्टनोऽङ्गाज्जश्शसोरित्युक्तेऽप्यनोऽङ्गसंज्ञानिमित्तभूतौ यौ जश्शसौ तावेव शीघ्रपस्थितिकावित्यष्टञ्शब्दादुत्तरयोरेव औश् स्यात्, न तु पूर्वयोरिति दिक्॥


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ स्थानिवत् ५८ आदेशः १।१ ५८ अनल्विधौ ७।१

समासः॥

अल्विधौ इत्यत्र अर्थानुरोधात् चतुर्विधः समासः। (१) अलः (५।१) परस्य विधिः अल्विधिः, पञ्चमीतत्पुरुषः। (२) अलः (६।१) स्थाने विधिः अल्विधिः, षष्ठीतत्पुरुषः। (३) अलि विधिः अल्विधिः, सप्तमीतत्पुरुशः। (४) अला विधिः अल्विधिः, तृतीयातत्पुरुषः। न अल्विधिः अनल्विधिः, तस्मिन् अनल्विधौ, नञ्तत्पुरुषः॥
स्थानम् अस्य अस्ति इति स्थानी {५।२।११४} इत्यनेन इनिः-प्रत्ययः।

अर्थः॥

आदेशः स्थानिवत् भवति, अल्विधिं वर्जयित्वा। तत्र आदेशाः अष्टधा भवन्ति - धातु-अङ्ग-कृत-तद्धित-अव्यय-सुप्-तिङ्-पदादेशाः॥

उदाहरणम्॥

धात्वादेशः - भविता, भवितुम्, भवितव्यम्। वक्ता, वक्तुम्, वक्तव्यम्। अङ्गादेशः - केन, काभ्याम्, कैः। कृदादेशः - प्रकृत्य, प्रहृत्य। तद्धितादेशः - दध्नि संस्कृतम् दधिकम्, अद्यतनम्। अव्ययादेशः - प्रकृत्य, प्रहृत्य। सुबादेशः - पुरूषाय, वृक्षाय। तिङादेशः - अकुरुताम्, अकुरुतम्। पदादेशः - ग्रामो नः स्वम्, ग्रामो वः स्वम्। अल्विधौ स्थानिवत् न भवति, तद्यथा - अलः (५।१) विधिः - द्यौः, पन्थाः, सः। अलः (६।१) विधिः - द्युकामः। अलि (७।१) विधिः - कः इष्टः। अला (३।१) विधिः - महोरस्केन, व्यूढोरस्केन।
काशिका-वृत्तिः
स्थानिवदादेशो ऽनल्विधौ १।१।५६

स्थान्यादेशयोः पृथक्त्वात् स्थान्याश्रयं कार्यम् आदेशे न प्राप्नोति इत्ययमतिदेश आरभ्यते। स्थानिना तुल्यं वर्तते इति स्थानिवत्। स्थानिवदादेशो भवति स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु, स्थान्यलाश्रयाणि कार्याणि वर्जयित्वा। न अल्विधिरनल्विधिः इत्यर्थः। किम् उदाहरणम्? धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदाऽदेशाः। धात्वादेशो धातुवद् भवति। अस्तेर् भूः २।४।५२। ब्रुवो वचिः २।४।५३। आर्धधातुकविशये प्रागेवाऽदेशेषु कृतेषु धातोः ३।१।९१ इति तव्याऽदयो भवन्ति। भविता। भवितुम्। भवितव्यम्। वक्ता। वक्तुम्। वक्तव्यम्। अङ्गाऽदेशो ऽङ्गवद् भवति केन। काभ्याम्। कैः। किमः कः ७।२।१०३ इति काऽदेशे कृते ऽङ्गाऽश्रया इनदीर्घत्वाइस्भावाः भवन्ति। कृदादेशः कृद्वद् भवति प्रकृत्य। प्रहृत्य। क्त्वो ल्यबादेशे कृते ह्रस्वस्य पिति कृति तुक् ६।१।६९ इति तुग् भवति। तद्धिताऽदेशः तद्धितवद् भवति दाधिकम्। अद्यतनम्। कृत्तद्धितसमासाश्च १।२।४६ इति प्रातिपदिकसंज्ञा भवति। अव्ययाऽदेशो ऽव्ययवद् भवति प्रस्तुत्य। प्रहृत्य। उपहृत्य। उपस्तुत्य। अव्ययादाप्सुपः २।४।८२ इति सुब्लुग् भवति। सुबादेशः सुब्वद् भवति वृक्षाय। प्लक्षाय। सुपि च ७।३।१०२ इति दीर्घत्वं भवति। तिङादेशः तिङ्वद् भवतिअकुरुताम्। अकुरुतम्। सुप्तिङनतं पदम् १।४।१४ इति पदसंज्ञा भवति। पदाऽदेशः पदवद् भवति ग्रामो वः स्वं। जनपदो नः स्वम्। पदस्य ८।१।१६ इति रुत्वं भवति। वत्करनं किम्? स्थानी आदेशस्य संज्ञा मा विज्ञायि इति। स्वाऽश्रयम् अपि यथा स्यात्। आङो यमहनः १।३।२८ आहत, आवधिष्ट इति आत्मनेपदम् उभयत्र अपि भवति। आदेशग्रहणं किम्? आनुमानिकस्य अप्यादेशस्य स्थानिवद्भावो यथा स्यात्। पचतु एरुः ३।४।८६ अनल्विधौ इति किम्? द्युपथितदादेशा न स्थानिवद् भवन्ति। द्यौः, पन्थाः, सः इति। हल्ङ्याब्भो दीर्घात् सुतिस्यपृक्तं हल् ६।१।६६ इति सुलोपो न भवति।
लघु-सिद्धान्त-कौमुदी
स्थानिवदादेशोऽनल्विधौ १४४, १।१।५५

आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय। रामाभ्याम्॥
न्यासः
स्थानिवदादेशोऽनल्विधौ। , १।१।५५

स्थानं प्रसङ्गः, स च पूर्वमुक्तस्वरूपः। अतिदेशोऽनेकप्रकारः- निमित्ताति- देशः; व्यपदेशातिदेशः, शास्त्रातिदेशः, रूपातिदेशः, कार्यातिदेशश्चेति। तत्र तावन्निमित्तमशक्यमतिदेष्टुम, न हि धात्वादिधर्माः शब्दप्रवृत्तिनिमित्तभूता धात्वादिव्यक्त्याश्रिता वस्त्वन्तरमादेशं प्रापयितुम्, प्रापयितुं पार्यन्ते; यथा- ब्राआहृणवदस्मिन् क्षत्रिये वर्त्तितव्यमिति ब्राआहृणशब्दप्रवृत्तिनिमित्तं न शक्यं क्षत्रिये प्रापयितुम्, तद्वत् तस्मादशक्यत्वात् नेह निमित्तादेश आश्रीयते। नापि व्यपदशातिदेशः; संज्ञासंज्ञिसम्बन्धादभिन्नत्वात्। संज्ञासंज्ञिसम्बन्धे हि वत्करण- स्यानर्थक्यं स्यात्, विनापि तेन तत्सिद्धेः। अप्रधानत्वाच्च नात्र व्यपदेशातिदेशो युक्त आश्रीयतुम्। अत एव शास्त्रातिदेशोऽपि। अप्रधानत्वं तु तयोरपि कार्यं प्रत्यङ्गभूतत्वात्। रूपातिदेशस्याप्याश्रयणमयुक्तम्" निष्फलत्वात्। यदि ह्रादेशस्य स्थानिनोरूपमतिदिश्येत; आदेशस्य वैयथ्र्यं स्यात्। "द्विर्वचनेऽचि" १।१।५८ इत्यत्र रूपातिदेशेऽपि न भवत्यादेशवैयथ्र्यम्, द्वर्वचनादुत्तरकालं श्रवणार्थत्वात्। तस्मादतिदेशान्तराश्रयणस्यायुक्तत्वात् कार्यातिदेश आश्रीयते। "स्थानिना तुल्यं वर्तते" इति। तत्तुल्यकार्यत्वात्, "तेन तुल्यम्" ५।१।११४। "स्थान्याश्रयेषु" इति। स्थानी आश्रय एषामिति बहुव्रीहिः। "अनलाश्रयेषु" इति। अल आश्रय एषामिति बहुव्रीहि कृत्वा न अळाश्रयाणि अनलाश्रयाणीति नञ्समासः। अनन्तरोक्तमेवार्थं विस्पष्टीकर्तृमाह- "स्थान्यलाश्रयाणि" इत्यादि। स्थानी अल् आश्रयोयेषां तानि तथोक्तानि। आश्रयग्रह-णेन सूत्रे योऽल्विधिशब्दः, सोऽलाश्रयो विधिरल्विधिरित्युत्तरपदलोपी समास इति दर्शयति। स पुनः समासो मयूरव्यंसकादित्वात् समासं कृत्वा नञ्समासः कृतः। न अल्विधिरनल्विधिः" इति। पुनरलाश्रयो विधिः? यो वर्णमात्राश्रितः। यस्तु समुदाया- श्रितः सोऽनलाश्रयः। कार्यशब्देन क्मसाधनेन विधिशब्दस्यार्थमाचक्षाणः "विधीयते" इति विधिरिति तस्य कर्मसाधत्वं दर्शयति। "किमुदाहरणय्िति प्रश्नः। "धात्वाद्यादेशाः प्रयोजनम्" इत्युत्तरम्। प्रयुज्यतेऽनेनेति प्रयोजनम्, उदाहरणेन च प्रयुज्यत इति। अर्थात् प्रश्नानुरूपं प्रतिवचनम्। ननु चार्धधातुके परतो भाव्यमादेशाभ्याम्, तत्र किमत्रादेशेनेत्यत आह- "आर्धधातुके विषये" इति। "प्रकृत्य" इत्यादि। "कुगति" २।२।१८ इत्यादिना समासः, "समासेऽनञ्पूर्वे क्त्वो ल्यप्" ७।१।३७। "दधिकम्" इति। दध्ना संस्कृतमिति "दध्नष्ठक्" ४।२।१७। "अद्यतनम्" इति। "सायंचिरम्" ४।३।२३ इत्यादिना ट()उप्रत्ययः, तुडागमश्च, योरनादेशः। "अकुरुताम्कुरुतम्" इति। कृञो लङ्, "तस्थस्थमिपाम्" ३।४।१०१ इत्यादिना तसस्ताम्, थसस्तम्, तनादित्वात् "तनादिकृञ्भ्य उः" ३।१।७९, धातोर्गुणः। "अत उत् सार्वधातुके" ६।४।११०। ग्रामो वृ स्वम्, जनपदो नः स्वम्" इति। युष्मदस्मदोः षष्ठी, "बहुवचनस्य वस्नसौ" ८।१।२१ इति वस्नसादेशौ। "वत्करणं किम्" इति? विनापि तेन तदर्थो गम्यते, यथा "असंयोगाल्लिट् कित्" १।२।५ इत्यादावित्यभिप्रायः। "स्थानो" इत्यादि। प्रायेण ह्रस्मिन् पादे "वृद्धिरादैच्" १।१।१ इत्यादीनि सूत्राणि संज्ञासंज्ञिसम्बन्धार्थान्येव दृष्टानि। अतोऽसति वत्करणे स्थान्यादेशस्य संज्ञा विधीयत इति विज्ञायते। तदेवं मा विज्ञायी- त्येवमर्थं वत्करणम्। किमर्थं पुनः स्थान्यादेशस्य संज्ञा नेष्यत इत्याह-- "स्वाश्रयमपि" इत्यादि। संज्ञा हिसंज्ञिप्रत्ययनार्था न स्वतः कार्यं प्रतिपद्यते, अपि तु तत्प्रत्यायितः संज्ञीति। अत्र यदि स्थान्यादेशस्य संज्ञा स्यात्, आदेशस्यैव हि संज्ञिनः कार्यं स्यात्,न संज्ञाभूतस्य स्थानिनः। ततश्च "आङो यमहनः" १।३।२८ इति वधेरादत्मनेपदं स्यात्, न हन्तेः।वत्करणे तु सत्यतिदेशोऽयं भवति, अतिदेशेन चान्य- सम्बन्धिकार्यमन्यत्र सम्पाद्यते;न तु तत्र स्वाश्रयं निवर्त्त्यते। तथा हि "ब्राआहृणवदस्मिन् क्षत्रिये वत्र्ततव्यम्" इत्यतिदेशे तद्()ब्राआहृणसम्बन्धिकार्यं क्षत्रिये भाव्यते। न तु ब्राआहृणस्य यत् स्वाश्रयमग्रभोजनादि तद्()व्यावर्त्त्यते। स्वाश्रयमपीत्यपिशब्दादतिदेशप्रापितमादेशे पराश्रितमपि। "आहत" इति। हन्तेरलुङ, "हनः सिच्" १।२।१४ इति कित्त्वम्। "अनुदात्तोपदेश" ६।४।३७ इत्यादिनाऽनुनासिकलोपः। "ह्स्वादङ्गात्" ८।२।२७ इति सिचो लुक्। "आवधिष्ट" इति। "आत्मनेपदेष्वन्यतरस्याम्" ३।१।५४ इति वधादेशः, इट्, "अतो लोपः" ६।४।४८ षत्वष्टुत्वे। "आदेशग्रहणं किम्" इति। सथानीति सम्बन्धिशब्दोऽयम्। तत्र यथा "पितृवत् स्थूलः" इत्युक्तेऽन्तरेणाप्यत्र पुत्रग्रहणं सम्बन्धिशब्दत्वात् पुत्र इति गम्यते,तथा स्थानिवदित्युक्ते विनाप्यादेशग्रहणेन सम्बन्धिशब्दत्वादादेश एव स्थानिवद् भवतीति विज्ञायत इत्यभिप्रायः। "आनुमानिकस्य" इत्यादि। "अस्तेर्भूः" २।४।५२ इत्यादौ स्थान्यपि शब्देन साक्षात् प्रत्याय्यते, आदेशोऽपि। पचत्वित्यत्र स्थान्यपि, आनुमानिक आदेशोऽपि। तथा हि- "एरुः" ३।४।८६ इत्यत्र न वस्तुत इकार एव स्थानी , अपि तु तिशब्दः। नाप्युकारमात्र आदेशः, तर्हि? तुशब्दः। लाघवार्थं तु तदेकदेशयो-रिकारोकारयोरुच्चारणम्। तेनैकदेशद्वारेण समुदायस्य समुदाय एवादेशो विधीयते। तत्र यथा विषाणेनैकदेशेनोपलब्धेन विषाणी समुदायोऽनुमीयते, तथैकदेशेनेकारेणोकारेण तिशब्दस्तुशब्दश्च। अत्र च शास्त्रे यस्य च क्रियाबिसम्बन्धः साक्षाच्छब्दादेव प्रतीयते, यस्य च कुतश्चिदर्थप्रकरणादेरनुमीयते,तयोः पूर्वस्य प्राधान्यमितरस्य विपर्यय इष्यते। तथा हि- "सहयुक्तेऽप्रधाने" २।३।१९ इत्यत्र वृत्तिकारः "पुत्रेण सहागतः" इत्याद्युदाह्मत्य वक्ष्यति- "पितुरत्र क्रियादिसम्बन्धः शब्देनोच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम्" इति। प्रधानेतरयोश्च सन्निधाने प्रधानस्यैव कार्येण सम्प्रत्ययो युक्तः। तथा चाह- "प्रधाने कार्यसम्प्रत्ययात् सिद्धम्" इति। अत्र हि यद्यादेश इत नोच्येत, ततो य आदेशशब्देनोपादाय विधीयमानत्वात् प्राधान्यमनुभवति तस्यैव स्थानिवद्भावः स्यात्, नाप्रधानस्यानुमानिकस्य। तस्मात् तस्यापि स्थानि-वद्भावो यथा स्यादित्येवमादेशग्रहणम्। तेन पचत्वित्यादावपि "सुप्तिङन्तं पदम्" (१।४१४) इति पदसंज्ञा सिद्धा भवति। कुतः पुनरेतववसीयते? "एरुः" ३।४।८६ इत्यनेनैकदेश-द्वारेण तुःशब्दः समुदायो विधीयते, न पुनर्यथाश्रुतमिकारमात्रस्योकारमात्रमेवेति; पचत्वित्यत्र पदसंज्ञाकार्योपलब्धेः, तद्धि न विना पदसंज्ञया, सापि न विना तिङवद् भावेन, सोऽपि न विना समुदायोदेशेनेति। तस्मिन् हि सति स्थानिवद्भावेन यत्न- प्रतिपादितेन तिङभावो लभ्यते; नान्यथेति गतमेतत्। अथानुमानिके गृहीते कथमितरस्य ग्रहणं लभ्यते? एवं मन्यते स्थानिवदित्येतावानेको योगः कत्र्तव्यः, एतेन योगेनादेशः प्रधानभूतः सम्बन्धिशब्दत्वाल्लभ्यते। तत आदेश द्वितीयो योगः, आनुमानिकस्य स्थानि- वद्भावाय। अत्र च स्थानिवदिति वत्र्तते। एवमुभयोः प्रत्यक्षानुमानशिष्ट()ओग्र्रहणमुपपद्यते। "अनल्विधौ" इति। द्वयोरपि योगयोः शेषभूतः। "द्युपथित्यदादेशा" इत्यादि। "दिव औत्" "पथिमथ्यृभुक्षामात्" ७।१।८५, "त्यदादीनामः" ७।१।१०२ इत्येते " हल्ङ्याब्भ्यः" ६।१।६६ सुलोपे कत्र्तव्ये न स्थानिवद्भवन्ति; तस्य हल्मात्रमाश्रित्य प्रवृत्तेरलाश्रयत्वात्॥
बाल-मनोरमा
स्थानिवदादेशोऽनल्विधौ ५१, १।१।५५

ननु सुध् य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाच्त्वाद्च्परकत्वात्कथं धकारस्य द्वित्वमिति शङ्का ह्मदि निधाय तस्य स्थानिवद्भावप्रापकसूत्रमाह-स्थानिवदादेशः। गुरुस्थानापन्ने गुरुपुत्रादौ स्थानापत्त्या तद्धर्मलाभो लोकतः सिद्धः। कुशादिस्थानापन्नेषु शरादिषु च वैदिकन्यायसिद्धः। इह तु शास्त्रे स्वं रूपं शब्दस्येति वचनात्स्थानिधर्मा आदेशेषु न प्राप्नुयुरिति तत्प्राप्त्यर्थं स्थानिवदादेश इत्यारब्धम्। "स्थानं प्रसङ्ग" इत्युक्तम्। यस्य स्थानेऽन्यद्विधीयते तत्स्थानि। येन विधीयमानेन अन्यत्प्रसक्तं निवर्तते स आदेशः। स्थानिना तुल्यः स्थानिवत्। "तेन तुल्य"मिति वतिप्रत्ययः। आदेशः स्थानिना तुल्यो भति। स्थानिधर्मको भवतीति यावत्। अलिति वर्णपर्यायः। विधीयत इति विधिः=कार्यम्। अलाश्रयो विधि अल्विधिः अनल्विधिः। अलाश्रयभिन्ने कार्ये कर्तव्ये इति प्रतीयमानोऽर्थः। अलाश्रयकार्ये कर्तव्ये स्थानिवन्न भवतीति फलितम्। अलाश्रयेति सामान्यवचनात् अला विधिः, अलः परस्य विधिः, अलो विधिः?लि विधिश्चेति सर्वसंग्रहः। अला विधौ यथा-व्यूढोर स्केन। अत्र विसर्जनीयस्य सः" इति विसर्गस्थानिकस्य सकारस्य व#इसर्गत्वमाश्रित्य अड्व्यवाय इति णत्वं प्राप्तं न भवति। अलः परस्य विधौ यथा-द्यौः। "दिव औ"दिति वकारस्थानिकस्य औकारस्य स्थानिवद्भावेन हल्त्वात्ततः परस्य सोर्हल्ङ्यादिलोपः प्राप्तो न भवति। अलो विधौ यता द्युकामः। "दिव उ"दिति वकारस्थानिकस्य उकारस्य स्थानिवद्भावेन वकारत्वात् "लोपो व्योर्वली"ति लोपः प्राप्तो न भवति। अलि विधौ यथा-क इष्टः। यजेः क्तः। अत्र यकारस्थानिकसंप्रसारणस्य इकारहस्य स्थानिवद्भावेन हश्त्वात् हशि चे"त्युत्वं प्राप्तं न भवति। अल् चेह स्थानिभूतः, स्थान्यवयवश्च गृह्रते। ततश्च आदेशस्य स्थानिभूतो योऽल्, स्थान्यवयवश्च योऽल्, तदाश्रयविधौ न स्थानिवदिति फलति। तत्र स्थानीभूताऽल्विधौ व्यूढोरस्केनेत्युदाह्मतमेव। यथा वा-धिवि प्रीणन इति धातोर्लटि प्रथमपुरुषस्य झेरन्तादेशे "धिन्विकृण्व्योर च" इति विकरणस्य उकारस्य यणि वकारे सति तस्य स्थानिवद्भावेनार्धधातुकत्वात् स्वतो वलादित्वाच्च इडागमः प्राप्तो न भवति, वकारस्य स्थानिभूतो योऽल् उकारः, तदादेशं वकारमार्धधातुकत्वेनाश्रित्य प्रवर्तमानस्य इटः स्थान्यलाश्रयत्वात्। स्थान्यवयवालाश्रयविधौ यथा प्रतिदीव्य। इह क्त्वादेशस्य य इत्यस्य स्थानिवद्भावेन बलाद्यार्धधातुकत्वादिडागमः प्राप्तो न भवति। इडागमस्य वलादित्वविषये स्थान्यवयवभूतालाश्रयत्वात्। तदेतदाह-आदेशः स्थानिवत्स्यान्नतु स्थान्यलाश्रयविधाविति। स्थान्यलाश्रयेत्यत्र स्थानीति किम्?। रामाय। इह "सुपि चे"ति दीर्घस्य यञादिसुबाश्रयस्य आदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावेन सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाऽभावात्। न च नीञ्धातोर्ण्बुलि अकादेशे वृद्धौ नै-अक इति स्थिते ऐकारस्य स्थानिवद्भावेन ईकारधर्मकत्वादायादेशो न स्यात्, ईकारस्य आयादेशाभावादिति वाच्यम्, इह हि स्थानिप्रयुक्तं यत् कार्यं शास्त्रीयं तदेवातिदिश्यते। ईकारस्य च आयादेशभावो न शास्त्रविहित इति न तस्य ईकारस्थानिके ऐकारे अतिदेश इत्यास्तां तावत्। अनेनेति। उदाह्मतेन स्थानिवत्सूत्रेण इह=सुध्य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेन अच्कार्यकारित्वमाश्रित्य अचि न द्वित्वमित्यर्थकेन अनचीत्यनेन धकारस्य द्वित्वनिषेधो न शङ्कनीय इत्यर्थः। कुत इत्यत आह--अनल्विधाविति तन्निषेधादिति। स्थानिवत्त्वनिषेधादित्यर्थः। यकारादेशस्थानीभूतो योऽल् ईकारः तद्गतमच्त्वं यकारे आश्रित्य प्रवर्तमानस्य यकारद्वित्वनिषेधस्य स्थान्यलाश्रयत्वादिति भावः।

तत्त्व-बोधिनी
स्थानिवदादेशोऽनल्विधौ ४४, १।१।५५

स्थानिवदादेशो। आदेशे कृते स्वरूपभेदात्स्थानिप्रयुक्तकार्याणप्रवृत्तावतिदेश आरभ्यते। "अस्तेर्भूः"। आर्धधातुके विवक्षिते धात्वादेशो धातुवत्। तेन "अचो य"-दित्यादिधातुप्रत्ययः-भव्यं बभूव। "किमः कः"। अङ्गादेशोऽङ्गवत्। तेन इनादेशदीर्घैस्वभावाः। केन काभ्यां कैः। आदेशग्रहणं किमर्थम्?, "स्थानिव"दित्येतावतैव संबन्धिशब्दमहिम्ना तल्लाभात्, यथा "पितृवदधीते" इत्युक्ते "पुत्र" इति गम्यते इति चेदत्रादुः,--द्विविध आदेशः,-प्रत्यक्ष आनुमानिकश्चेति। "अस्तेर्भूः" इत्यादिः प्रत्यक्षः। "तेस्तुः" इत्यादिस्त्वानुमानिकः। "एरुः" इत्यत्र हि इकारेणेकारान्तः स्थानी अनुमीयते, उकारेण चोकारान्त आदेशः। तथाच "तेस्तु"रिति फलितोऽर्थः, तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नत्वानुमानिकस्य। आदेशग्रहणसामथ्र्यात्तूभयपरिग्रहः, तेन पचत्वित्यादेस्तिङ्न्तत्वात्पदसंज्ञा सिध्यतीति। ननु "एरु"-रित्यादि यथाश्रुतमेवास्तु, एकदेशविकृतस्याऽनन्यत्वात्पदत्वं भविष्यतीति चेन्नः, अर्थवत्येव स्थानादेशभावविश्रान्तेर्वाच्यत्वात्तस्यैवाऽत्र प्रसङ्गाऽसंभवात्। तथाहि-"षष्ठी स्थानेयोगे"त्युक्तम्। स्थानं च प्रसङ्गः। स चार्थवतः , अर्थप्रत्ययार्थं शब्दप्रयोगात्। यद्यपि च्लेः सिजादावसंभवीदं, तथापि सति संभवे अर्थप्रयुक्त एव प्रसङ्गो ग्राह्र इत्यनेनैवादेशग्रहणेन ज्ञाप्यते। उक्तं च--सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिने। एकदेशाविकारे हि नित्यत्वं नोपपद्यते"॥ इति पदमिहार्थवत्, पद्यतेऽनेनेति व्युत्पत्तेः। यद्यपि सर्वविकारे सुतरां नित्यत्वानुपपत्ति स्तथापीह विकार एव नास्तीति तात्पर्यम्। एतच्च शब्दकौस्तुभे स्पष्टम्॥ अनल्विधाविति किम्?। यश्चाला विधिः, यश्चालः परस्य विधिः, यश्चालो विधिः, यश्चालि विधिस्तत्र मा भूत्। तत्राऽला विधौ यथा--व्यूढोरस्केन। अत्र सकारस्य स्थानिवत्त्वेन विसर्गवदट्त्वमाश्रित्य "अड्व्यवाये" इति णत्वं प्राप्तम्। अलः परस्य यथा--द्यौः, पन्थाः। इह हल्ङ्यादिलोपो न। अलो विधौ यथा--द्युकामः। लोपो व्योर्वली"ति लोपो न। न चोत्त्वविधिसामथ्र्याल्लोपोन भवेदिति शङ्क्यम् ; "द्युयान"मित्यादौ तस्य सावकाशत्वात्। अलि विधौ--यजेः क्तः। क इष्टः। "हशि चे"त्युत्वं न। न चेह स्थानिबद्भावेन जातेप्युत्वे आद्गुणेऽवादेशे च कृते "हलि सर्वेषा"मिति नित्यं लोपेन "क इष्ट" इति रूपं सिध्यत्येवेति वाच्यम् ; "कयिष्ट" इति रूपान्तराऽसिद्धिप्रसङ्गात्। सिद्धान्ते तु "भोभगोअघोअपूर्वस्ये"ति यस्य लोपविकल्पे "क इष्टः" "कयिष्ट" इति रूपद्वयमभ्युपगम्यते। अलं चेह स्थान्यवयव एव गृह्रते, तेन "रामाये"त्यादौ "सुपि चे"ति दीर्घः सिध्द्यति, तद्विधौ हि यञादित्वमाश्रितम्। यञ् चादेशावयवो न तु स्थान्यवयवः। तथा "अरुदिता"मित्यादौ "रुदादिभ्यः-" इति वलादिलक्षण इट् च सिध्यति। तदेतदाह्मन तु स्थान्यलाश्रय #इति। आश्रयणं चेह यथाकथञ्चिन्न तु प्राधान्येनैवेत्याग्रहः। तेन "प्रपठ()ए"त्यत्र वलादिलक्षण इण्न॥


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अचः ६।१ ५८ परस्मिन् ७।१ ५७ पूर्वविधौ ७।१ ५७ स्थानिवत् ५५ आदेशः १।१ ५५

समासः॥

पूर्वस्य विधिः, पूर्वविधिः, तस्मिन् पूर्वविधौ, षष्ठीतत्पुरुषः।

अर्थः॥

परस्मिन् इति निमित्त-सप्तमी। विधानं विधिः। परनिमित्तकः अजादेशः पूर्वविधौ कर्त्तव्ये स्थानिवत् भवति। पूर्वेण सूत्रेण अल्विधौ स्थानिवद्भावस्य निषेधः प्राप्नोति, अनेन सूत्रेण पुनः प्रतिप्रसूयते॥
काशिका-वृत्तिः
अचः परस्मिन् पूर्वविधौ १।१।५७

पूर्वणानल्विधौ स्थानिवद्भाव उक्तः। अल्विध्यर्थमिदमारभ्यते। आदेशः स्थानिवतिति वर्तते। अचः इति स्थानिनिर्देशः। परस्मिनिति निमित्तसप्तमी। पूर्वविधौ इति विषयसप्तमी। अजादेशः परनिमित्तकः पूर्वविदौ कर्तव्ये स्थानिवद् भवति। पटयति। अवधीत्। बहुखट्वकः। पटुमाचष्टे इति णिचिटिलोपे कृते तस्य स्थानिवद्भावातत उपधायाः ७।२।११६ इति वृद्धिर् न भवति। अवधीत् अतो लोपस्य स्थानिवद्भावदतो हलादेर् लघोः ७।२।७ इति हलन्तलक्षणा वृद्धिर् न भवति। बहुखट्वकः इति आपो ऽन्यतरस्याम् ७।४।१५ इति ह्रस्वस्य स्थानिवद्भावाद् ह्रस्वान्ते ऽन्त्यात् पूर्वम् ६।२।१७३ इति स्वरो न भवति। अचः इति किम्? प्रश्नः। आक्राष्टाम्। आगत्य। प्रश्नः इति प्रच्छेः नङ्प्रत्यये च्च्Hवोः शूडनुनासिके च ६।४।१९ इति छकारस्य शकारः परनिमित्तकस् तुकि कर्तव्ये न स्थानिवद् भवति। आक्राष्टाम् इति झलो झलि ८।२।२६ इति सिचो लोपः परनिमित्तकः कृषेः षकारस्य षढोः कः सि ८।२।४१ इति ककारे कर्तव्ये न स्थानिवद् भवति। आगत्य इति वा ल्यपि ६।४।३८ इत्यनुनासिकलोपः परनिमित्तकः तुकि कर्तव्ये न स्थानिवद् भवति। परस्मिनिति किम्? युवजानिः वधूटीजानिः। वैयाघ्रपद्यः। आदीध्ये। युवजानिः इति जायायाः निङ् ५।४।१३४ न परनिमित्तकः, तेन यलोपे न स्थानिवद् भवति। वैयाघ्रपद्यः इति न परनिमित्तकः पादस्य अन्तलोपः पद्भावं न प्रतिबध्नाति। आदीध्ये इति दीधीङ उत्तमपुरुषैकवचने टेरेत्वस्यापरनिमित्तकत्वाद् यीवर्णयोर् दीधीवेव्योः ७।४।५३ इति लोपो न भवति। पूर्वविधौ इति किम्? हे गौः। बाभ्रवीयाः। नैधेयः। हे गौः इति वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न स्थानिवद् भवति। बाभ्रवीयाः इति बाब्रव्यस्य अमी च्छात्राः इति वृद्धाच् छः ४।२।११३ इति छः। हलस् तद्धितस्य ६।४।१५० इति यकारलोपे कर्तव्ये अवादेशो न स्थानिवद् भवति। नैधेयः आतो लोप इटि च ६।४।६४ इत्याकारलोपः, इतश्च अनिञः ४।१।१२२ इति द्व्यज्लक्षणे प्रत्ययविधौ न स्थानिवद् भवति।
लघु-सिद्धान्त-कौमुदी
अचः परस्मिन् पूर्वविधौ ५६८, १।१।५६

परनिमित्तोऽजादेशः स्थानिवत्, स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इत्यल्लोपस्य स्थानिवत्त्वान्न वृद्धिः। अवधीत्। अहनिष्यत्॥ यु मिश्राणामिश्रणयोः॥ ३॥
लघु-सिद्धान्त-कौमुदी
अचः परस्मिन्पूर्वविधौ ६९९, १।१।५६

अल्विध्यर्थमिदम्। परनिमित्तोऽजादेशः स्थानिवत् स्यात्स्थानि भूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इति स्थानिवत्वान्नोपधावृद्धिः। कथयति। अग्लोपित्वाद्दीर्घसन्वद्भावौ न। अचकथत्॥ गण संख्याने॥ ३॥ गणयति॥
न्यासः
अचः परस्मिन् पूर्वविधौ॥ , १।१।५६

किमर्थमिदमुच्यते? अनल्विधौ स्थानिवद्भावः उक्तः, अल्विध्यर्थमिदम्। पटयतीत्यादौ "अत उपधायाः" ७।२।११६ इति वृद्धिरलाश्रया; अकारस्योपधाया अल्त्वात्। तस्मात् पूर्वेण न प्राप्नोतीत्येके एव परनिमित्तक एव पूर्वविधावेव कत्र्तव्ये स्थानिवद् भवतीति नियमार्थमित्यन्ये। "अच इति स्थानिनिर्देशः" इति। "अचः" इत्यनेन स्थानषष्ठ()न्ततां दर्शयति। "परस्मिन्निति सप्तमीति" इति। न परसप्तमी, परशब्देनैव परस्योक्तत्वादित्यभिप्रायः। " पूर्वविधौ" इति, "विषय" इति। प्रकृतत्वात् स्थानवद्भावस्येति गम्यते, पूर्वविधौ विषये स्थानिवद्भवति, नान्यस्मिन्नित्यर्थः। पूर्वस्य विधिः पूर्वविधिः। विधि- शब्दश्चायं कर्मसाधनः-- विधियत इति विधिः। भावसाधनो वा-- विधानं विधिरिति। कर्म- साधने ह्रेतस्मिन् पूर्वस्येति शेषलक्षणा षष्ठी। पूर्वस्य व्यवस्थितस्य लब्धसत्ताक- स्य सम्बन्धिनि कार्ये कत्र्तव्य इत्यर्थः। भावसाधने तु "पूर्वस्य " इति कृद्योग- लक्षणा कर्मणि षष्ठी। पूर्वस्यापरिनिष्पन्नस्य विधाने कत्र्तव्य इत्यर्थः। पूर्वस्मिन् विधातव्य इति यावत्। पूर्वत्वं पुनरिहादेशापेक्षम्, अजपेक्षम्, निमित्तापेक्षं वा; एषामेवादेशा- दीनामिह सन्निधानात्। तत्रादेशः स्वरितत्वात् सन्निहितः, इतरयोस्त्वत्रैव सूत्र उपादानात्। ननु च त्रिष्वप्येषु दोषः, तत्कथमादेशाद्यपेक्षया पूर्वत्वं शक्यमाश्रयि- तुम्, आदेशापेक्षे हि पूर्वत्व आश्रीयमाणे "पटयति" इत्यादौ स्थानिवद्भावो न सिध्यति; लोपो हि तत्रादेशः, न च तेन पूर्वपरता सम्भवति; तस्याभावरूपत्वात्। स्यादेतत्- लोपस्य यः स्थानी तदपेक्षया पौर्वापर्यमस्तीतित तद्()द्वारेणादे- शापेक्षयाप्यौपचारिकं तद् भविष्यतीति वार्तमेतत्; बहुखद्()वकादिषु मुख्ये पौर्वा- पर्ये सत्यौपचारिककल्पनाया अयुक्तत्वात्। "व्यक्तिः पदार्थः" इत्यस्य दर्शनस्याश्रयणाददोषः। व्यक्तौ हि पदार्थे प्रतिलक्ष्यं लक्षणं प्रवत्र्तते। तत्र यदि पटयतीत्या-दिष्वौपचारिकत्वात् पौर्वापर्यस्य स्थानिवद्भावो न स्यात्, यदेतद्विषयं लक्षणं - तस्यानवकाशत्वाद् वैयथ्र्यं स्यात्, अयं तर्हि दोषः प्रथमस्तावत्पक्षोऽयुक्तः। द्वितीये तु काममेष दोषो न भवति। तथा हि - तत्र योऽचः पूर्वस्तस्य विधौ कत्र्तव्ये स्थानिवद्भवतीत्येषः सूत्रार्थः, इह च "न य्वाभ्यां पदान्ताभ्याम" ७।३।३ इति वचनात् प्रगेवैजागमाद् यणादेशेन भवितव्यम्। तेन नास्त्यैचोरजपेक्षं पूर्वत्वमिति न भवति स्थानिवद्भावः, तदभावादैचोरायावावपि न प्राप्नुतः; किन्त्वत्र "अचः" इत्येतदा- देशविशेषणार्थं षष्ठ()न्तं प्रतिज्ञातम्, न तु पञ्चम्यन्तम्। तदा चाचः तदा पञ्चम्य-न्तं सम्पद्यते। अयं तर्हि दोषः-- इह "तन्वन्ति" इत्युप्रत्ययस्य यणादेशकृत इट् प्राप्नोति, न ह्रत्राचः पूर्वस्य व्यवस्थितस्य किञ्चित्कार्यं विधीयते; यतो यणादेशस्य स्थानिवद्भावादिडागमो न स्यात्। तृतीये तु पक्षे यणादेश एव निमित्तात् पूर्वः। तस्य व्यवस्थितस्येटि विधातव्ये स्थानिवद्भावो लभ्यत इति न भवति तन्वन्तीत्यत्रेट् प्रसङ्गः; किन्त्वाद्ये पक्षे यो दोषः, स इहापि प्रसज्येत। "वैयाकरणः, सौव()आम्" इत्यत्रापि य्वौ निमित्तात् पूर्वौ भवत इति। ननु च निमित्तात् पूर्वस्य कार्ये विधातव्ये स्थानिवद्भाव उच्यते, न चेह निमित्तात् पूर्वयोर्व्योः किञ्चित् कार्यं विधीयते। न ह्रायावादेशौ य्वोः कार्यम्, किं तर्हि? ऐचः,नैतदस्ति; ऐचो हि यत् कार्यं तद् य्वोरपि सम्बन्धि भवत्येव, तयोस्तद्भक्तयोस्तदवयवभूतत्वात्। अत्रोच्यते-- आद्यन्तयोः पक्षयोर्यो दोष उक्तः, स तावन्न भवति; यस्माद् बहिरङ्गावैचौ, तद्धितश्रयत्वादङ्गाश्रयत्वाच्च; अन्तरङ्गावायावौ, तद्धितनिरपेक्षत्वाद् वर्णाश्रयत्वाच्च। "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।४२) इत्यसिद्धत्वादैचोरायावौ नभ भविष्यतः। इतरस्मिन्नपि पक्षे यो दोष उक्तः, सोऽपि न भवत्येव; तत्र कर्मसाधने सर्वमिष्टं न सिध्यतीति भावसाधनोप्याश्रीयते। तेन तन्वन्तीत्यत्रेट एवापरिनिष्पन्न- स्याचः पूर्वस्य विधाने कत्र्तव्ये स्थानिवद्भावः सिद्धो भवति। कर्मसाधनेऽप्यदोषः; यणादेश एवात्राचः पूर्वः, तस्य विधाने कत्र्तव्ये एव। न हि यणादेशात् पूर्वस्य व्यवस्थितस्य कस्यचिदिड् विधीयते, किं तर्हि? यणादेशस्यैव। भावसाधने तु तस्मिन्न दोषः; यणादेशात् पूर्वस्यापरिनिष्पन्नस्येट एव विधानात्। तस्मात् तत्रापि पक्षे भावसाधन एव विधिशब्दोऽङ्गीकत्र्तव्यः। "पटयति" इति। "तत्करोति तदाचष्टे" इति णिच्, "णाविष्ठवत् प्रातिपदिकस्य" (वा।८१३)इति टिलोपः। ननु चात्र व्यवधानात् पूर्वत्वं न सम्भवति; नैष दोषः; व्यवहितेऽपि हि पूर्वशब्दो वत्र्तते, यथा-"मथुरायाः पूर्वं पाटलिपुत्रम्" इति। ननु च द्वितीया समर्थाण्णिजुत्पद्यते, तत्रान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां सत्यां जश्त्वे सति पडयतीति भवितव्यम्। टिलोपस्य स्थानिवद्भावाज्()जश्त्वं न भवतीति चेत्, न; जश्त्वविधौ स्थानिवद्भावप्रतिषेधात्, नैष दोषः; "तदाचष्टे" इत्यत्र हि तदिति न द्वितीयासमर्थादिति, कुतस्तर्हि? कर्मणि इति। कुत एतत्? अर्थनिर्देश- परत्वात्। एतदुक्तं भवति- कर्मसंज्ञकात् तदाचष्ट इत्यस्मिन्नर्थे णिज् भवतीति। तस्मादसुबन्धाण्णिजुत्पत्तेः पदसंज्ञाया अभावाज्()जश्त्वं न प्रवत्र्तते। "अवधीत्" इति। हन्तेर्लुङ, "हनो वध लुङि" २।४।४२ इति वधशब्दोऽदन्त आदेशः, "अतो लोपः" ६।४।४८, "आर्धधातुकस्येट्" ७।२।३५, "अस्तिसिचोऽपृक्त" ७।३।९६ इतीट्,िट ईटि" ८।२।२८ इति सिचो लोपः। "हलन्तलक्षण" इति। "वदव्रज" ७।२।३ इत्यादेः सूत्राद्धल्ग्रहणानुवृत्तेः "अतो हलादेर्लघोः" ७।२।७ इति वृद्धिर्हलन्तलक्षणा। "बहुखट्()वकः" इति। ननु च "स्वरविधिं प्रति न स्थानिवद्भवति" इति प्रतिषेधं वक्ष्यति, अतः स्थानिवद्भावस्य प्राप्तिरेव नास्तीत्ययुक्तमेतदुदाहरणम्, नैतत्; विशेषे हि स प्रतिषेधः--स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवतीति। न चायं लोपाजादेशः स्वरो न भवतीति खकाराकारस्योदात्तत्वं न भवति। "कपि पूर्वम्" ६।२।१७२ इत्युत्तर- पदान्तोदात्तत्वमेव भवति। "प्रश्नः" इति। "यजयाचयतवितच्छप्रच्छ" ३।३।९० इत्यादिना नङ। "तुकि न स्थानिवद्भवति" इति। तुकि कत्र्तव्ये न स्थानिवद्भवतीत्यर्थः। यदि हि स्याच् छकारमात्रस्य शादेशे कृते स्थानिवद्भावाद्विहितस्य तुकः श्रवणं स्यादित्येके, एतच्चायुक्तम्; अत्र ह्रन्तरङ्गत्वात् "छे च" ६।१।७१ इति तुकैव प्राग् भवितव्यम्।न चात्रेद- मस्ति "वार्णादाङ्गं बलीयः" (व्या।परि।३९) इति, नानाश्रयत्वात। यत्र ह्रेकं निमित्तमाश्रित्ययुगपद् वार्णमाङ्गं च प्राप्नोति, तत्रेदमुपतिष्ठते, यता-- "इयाय" इति। अत्राकारमाश्रित्याभ्यासेकारस्य "इको यणचि" ६।१।७४ इति यण् प्राप्नोति, "अभ्यास- स्यासवण्र्ये" ६।४।७८ इतीयङ च। तत्र "वार्णादाङ्गं बलीयः" (व्या।परि।३९) इत्यस्योपस्थानादियङेव भवति। प्रश्न इत्यत्र तु शादेशमनुनासिकमाश्रयति, तुक् पुनश्छकारम्; अतो नानाश्रयत्वान्नोपतिष्ठते। तस्मात् तुकात्र भवितव्यमेव। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा "च्छ्वोः शूडनुनासिके च" ६।४।१९ इत्यत्र यद्वक्ष्यति वृत्तिकारः-- "अन्तरङ्गत्वात् "छे च" ६।१।७१ इति तुकि कृते सतुक्कस्यायमादेशः" इति, तद्विरुध्यते। अन्ये तु व्याचक्षते--"च्छवोः शूडनुनासिके च" ६।४।१९ इति सूत्रे "सतुक्क- स्य च्छकारस्य निर्देशः" इत्येव केनचिदाचार्येण शिष्याः प्रतिपादिताः, केनचित्तु "तुग्विरहितस्य शुद्धस्य" इत्येवम्, उभयं चैतत् प्रमाणम्। द्वैतत्वे तत्राङ्गेन वा च्छ्वौ विशेष्येते, छकारवकाराभ्यां वाङ्गमिति। तत्राद्ये पक्षेऽङ्गस्य यश्छस्तस्य शादेश इति। वाक्यार्थः; सतुक्कस्य च स्थानित्वेनोपादानात्। अन्तरङ्गे तुकि कृते "नानार्थके अलोऽन्त्यविधिः" (व्या।प।६२) इति तदन्तविध्यभावात् समुदायस्यैवादेशो भवति। यदा शकारविधौ सतुक्कस्य च्छकारस्य निर्देशः, प्रश्न इत्येतत् तदानीमज्ग्रहण- स्याप्रत्युदाहरणमेव; तुकः पुनः प्रसङ्गाभावात्। यदा तु च्छकारवकाराभ्यामङ्गं विशेष्यते, तदा छकारान्तस्याङ्गस्य स्थानित्वम्। अस्मिन् पक्षे शविधौ शुद्ध एव छकार उपात्तो वेदितव्यः। अन्तरङ्गत्वात् तु पूर्वं तुकि कृते पश्चादलोऽन्त्यपरिभाषाया उपस्थानात् उपस्थानात् छकारमात्रस्य शकारः। तस्मिन् कृते निमित्ताभावात् तुको निवृत्तिः; यथा-- स्थातेत्यत्र षत्वनिवृत्तौ ष्टुत्वस्य। अत्र पक्षे प्रश्न इत्येतत् प्रत्युदाहरणमज्ग्रहणस्य। यद्यत्र स्थानिवद्भावः स्यात्, तुकः प्रत्यावृत्तिर्भवेत्; निमित्तसद्भावात्, यथा-- "प्रत्यष्ठात्" इत्यत्र ष्टुत्वस्य। "तुकि न स्थानिवद्भवति" इत्यस्यायमर्थः- योऽसौ निमित्ताभावान्निवृत्तस्तुगासीत्, तमेव पश्चात् प्रत्यावत्र्तमानं प्रति न स्थानिवद्भवतीति पुनः प्रत्यावृत्तिरेव। "पूर्वविधिः" इति। ननु च यद्यत्र तुकः प्रत्यावृत्तिः स्यान् नङो ङित्करणम-र्थकं स्यात्। तद्धि प्रच्छः प्रसारणार्थ वा विच्छेर्गुणप्रतिषेधार्थ वा क्रियते। तत्र प्रच्छेर्नङि सम्प्रसारणेन न भवितव्यम्; "प्रश्ने चासन्नकाले" ३।२।११७ इति निपातनात्। यदि च स्थानिवद्भावे सति तुकः प्रत्यावृत्तिः स्यात्र् ततो गुणप्रतिषेधार्तमपि स्यात्, अलघूपधत्वादेव गुणो न भविष्यति, ततश्चानर्थकमेवैतत् स्यात्? नानर्थकम्; "अनित्यमागमशास्त्रम्" (व्या।प।९९) इति ज्ञापनार्थत्वात्। अनित्यत्वज्ञपाने त्वागमशासनस्य "स्नक्रमोरनात्मनेपदनिमित्ते" (७।२।३६) इत्यत्र यद्वक्ष्यति-- "क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः" इति, तन्न वक्तव्यं इति। "उछि उञ्छे" (धा।पा।२१५), "विछ गतौ" (धा।पा।१४२४), "सनाद्यन्ता धातवः" ३।१।३२ इत्येवमादयो निर्देशाश्चोपन्ना भवन्ति। "आक्राष्टाम्" इति। "कृष विलेखने" (धा।पा। ९९०) आङ्पूर्वाल्लुङ; च्लिः, " स्पृशमृशकृषतृपदृपां सिज् वा" (वा।२०७) इत्युपसंख्यानात् क्सस्यापवादः पक्षे सिच्, ततस्ताम् "अनुदात्तस्य चदुपधस्यान्यतरस्याम्" ६।१।५८ इत्यमागमः, यणादेशः, "वदव्रजः" ७।२।३ इत्यादिना वृद्धिः। "वैयाघ्रपद्यः" इति। व्याघ्रस्यैव पादावस्येति बहुव्रीहिः। "पादस्य लोपोऽहस्त्यादिभ्यः" ५।४।१३८ इत्यन्तलोपः। व्याघ्रपादिति स्थिते गर्गादित्वाद् यञ्, " पादः पत्" ६।४।१३० इति पद्भावः। "आदीध्ये" इति। अदादित्वाच्छपो लुक्। अथात्र टेरेत्त्वात् प्रागेव कस्माल्लोपो न भवति? स्यात्, यदि "परस्मिन्" इत्युच्यमाने तु स्थानिवद्भावाभावात् कृते टेरेत्त्वे न प्राप्नोतीत्यनित्यो लोपः। टेरेत्त्वं तु कृताकृतप्रसङ्गित्वान्नित्यम्। तस्मात् तदेव पूर्वं भवति। "हे गौः"इति। "गोतो णित्" ७।१।९० इति णित्त्वात् सर्वनामस्थानस्य "अचो ञ्णिति" ७।२।११५ वृद्धिः। "सम्बुद्धिलोपे कत्र्तव्ये" इति। "एङ ह्यस्वात् सम्बुद्धेः" ६।१।६७ इत्यनेन। "बाभ्रव्यस्य" इति। बभ्व्रोरपत्यमिति "मधुबभ्व्रो- र्बाहृणकौशिकयोः" ४।१।१०६ इति यञ्, "ओर्गुणः" ६।४।१४६ "वान्तो यि प्रत्यये" ६।१।७६ इति वान्तादेशः, आदिवृद्धिः, बाभ्रव्य इति स्थिते "वृद्धाच्छः" ४।२।११३ "यस्येति च" ६।४।१४८ इत्यकारलोपः। "अवादेशो न स्थानिवद्भवति" इति। ननु चासत्यपि स्थानिवद्भावे "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" (व्या।परि।१२) इति न भवितव्यमेवात्र यलोपेन, तथा हि-- यकारादववादेशेनात्मलाभः प्रतिलब्धः इति नोत्सहते स तं बाधितुम्; नैतदस्ति; सङ्घातो ह्रत्र सन्निपातलक्षणः, नावयवो हल्; सत्यपि वा तस्य सन्निपातलक्षणत्वे न भवत्येव दोष-; अनित्यत्वात् सन्निपातलक्षणपरिभाषायाः। अनित्य- त्वं तु "न लोपः सुप्स्वर" ८।२।२ इत्यादौ सूत्रे ज्ञापयिष्यतते। "नैधेयः" इति। निपूर्वो डुधाञ् (धा।पा।१०९२), "उपसर्गे घोः किः" ३।३।९२, आतो लोपः,निधि इति स्थिते द्वयचः "इतश्चानिञः" ४।१।१२२ इति ढक्। ननु पूर्वस्माद् विधिः पूर्वविधिरिति पञ्चमीसमासस्याप्यभीष्टत्वात् पूर्वस्मादपि विधौ कत्र्तव्ये स्थानिवद्भावेन भाव्यम्, तथा हि "ठस्येकः" ७।३।५० इत्यत्र वक्ष्यति- "मथितं पण्यमस्य माथितिक इत्यत्र यस्येति लोपे कृते "इसुसुक्तान्तात्कः" ७।३।५१ इति स्थानिवद्भावादिकस्य कादेशः प्राप्तः; सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न भवति,अकारलोपस्य स्थानि- वद्भावत्वात्; पूर्वस्मादपि विधौ स्थानिवद्भवति" इति। तदेवं यस्मात् पूर्वस्मादपि विधौ स्थानिवद्भावोऽनेन भवति, तस्मात् " हे गौः" इत्यादिष्वपि स्थानिवद्भावेन भवितव्यमेवेत्ययुक्तान्येतानि प्रत्युदारणानि, नैष दोषः; इत्यादिष्वपि स्थानिवद्भावेन भवितव्यमेवेत्ययुक्तान्येतानि प्रत्युदाहरणानि, नैष दोषः; पूर्वस्माद् विधौ कत्र्तव्येयः स्थानिवद्भावाः,तस्यानिवत्वात्। अत एव चानित्यत्वादप्रधानभूतोऽसाविति वृत्तावस्य सूत्रस्य पूर्वस्मादिति न प्रतिपादितस्तदेवा प्राधान्यस्य दर्शयितुम्। कुतः पुनस्तस्यानित्यत्वमवसितम्? "निष्ठायां सेटि" ६।४।५२ इत्यत्र सेड्ग्रहणात्।तदेवमर्थं क्रियते- इटि कृते णिलोपो यथा स्यादिति। यदि ह्रकृत एव तस्मिन् णिलोपः स्यात्, कारितमित्यत्रेडागमो न स्यात्; "एकाच" इति प्रतिषेधात्। तथा च तत्र वक्ष्यति-- " सेडिति किम? "संज्ञापितः पशुः" "सनीवन्तर्ध" ७।२।४९ इति ज्ञपेरिड् विकल्प्यते। "यस्य विभाषा" इति निष्ठायामिट्प्रतिषेधः। अथ पुनरेकाच इति तत्रानुवत्र्तते, तत्र निष्ठायाम् "अत्र भवितव्यमिडागमेन" इति। सेड्ग्रहणमनर्थकं स्यात्; तत् क्रियते कालावधारणार्थम्। इडागमे कृते णिलोपो यथा स्यात्" इति। अकृते त()स्मष्टिलोपे सति कारितमित्यत्र "एकाच उपेदेशेऽनुदात्तात्" ७।२।१० इति प्रतिषेधः इटः प्रसज्येत। यदि च रपूर्वस्माद् विधौ कत्र्तव्ये नित्यं स्थानिवद्भावः स्यात्, णिलोपस्य स्थानिवद्भावे सत्यनेकाचत्वादिट्प्रतिषेधस्य प्रसङ्ग एव नास्तीति सेड्ग्रहणम् न कुर्यात्, कृतं च; ततोऽवसीयते-- "पूर्वस्माद् विधानित्यः स्थानि- वद्भावः" इति। तेन गौरित्यादिषु पूर्वस्माद् विधौ कत्र्तव्ये स्थानिवद्भावो न भवति। अथ विधिग्रहणं किमर्थम्, यावता पूर्वस्येत्येवं सिद्धम? तथा हि, कार्यापे- क्षया षष्ठी भविष्यति-पूर्वस्य विधौ कत्र्तव्य इति, नैतदस्ति; असति हि विधिग्रहणे यदि पूर्वस्येत्युच्येत, पूर्वस्येत्युच्येत, पूर्वस्माद् विधौ स्थानिवद्भावो न स्यात्। अथ पूर्वस्मादित्युच्येत, पूर्वस्य विधौ न स्यात्। विधिग्रहणे सति षष्ठीसमासः पञ्चमीसमासश्च लभ्यत इति सर्वत्र सिध्यति। तस्मात् समासद्वयार्थं विधिग्रहणं कत्र्तव्यम्॥
बाल-मनोरमा
अचः परस्मिन्पूर्वविधौ ५२, १।१।५६

ननु सुध् य् इत्यत्र मास्तु स्थानिवदिति सूत्रेण स्थानिवद्भावः। तद्गुत्तरसूत्रेण तु स्थानिवत्त्वं स्यादेवेति शङ्कामुद्भावयिष्यंस्तथाविधमुत्तरसूत्रमाह-अचः परस्मिन्। स्थानिवत्सूत्रेणैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-अल्विध्यर्थमिति। अलाश्रयविधावपि स्थानिवद्भावार्थमित्यर्थः। तेन वव्रश्चेति सिध्यति। "ओ व्रश्चू च्छेदने"। लिटि तिपि णलि द्वित्वम्। "लिठ()भ्यासस्ये"ति अभ्यचासे रेफस्य सम्प्रसारणम्। ऋकारः। पूर्वरूपम्। उरदत्वम्। रपरत्वम्। हलादिश्शेषः। तत्राभ्यासे वकारस्य पुनः सम्प्रसारणं न, ञकारस्थानिकस्य उरदत्वस्य स्थानिवद्भावेन सम्प्रसारणतया "न सम्प्रसारणे सम्प्रसारणम्" इति निषेधात्। पूर्वसूत्रेण त्वत्र स्थानिवद्भावो न सम्भवति--सम्प्रसारणनिषेधस्य स्थान्यलाश्रयत्वादिति भावः। पूर्वसूत्रादिह स्थानिवदादेश इत्यनुवर्तते। अच इत्येतदादेश इत्यनेनान्वेति-अच आदेश इति। परहस्मिन्निति सति सप्तमी। ततश्च परनिमित्तक इति लभ्यते। तच्चादेशविशेषणम्। तदाह--परनिमित्तोऽजादेशैति। विधीयत इति बिधिः=कार्यम्। पूर्वस्य विधिः पूर्वविधिः। पूर्वत्वं च यद्यपि सावधिकम्, त्रयं चात्र संनिहितं-स्थानी आदेशः परनिमित्तं चेति। तत्र स्थानी तावन्नावधिर्भवितुमर्हति, तस्यादेशेनापहारात्। नाप्यादेशः, नापि परनिमित्तम्, वैयाकरण इत्यत्र इकारस्थानिकयणादेशात्तत्परनिमित्तादाकाराच्च पूर्वस्य न य्वाभ्यामित्यैकारस्य आयटादेशे कर्तव्ये यणादेशस्य स्थानिवद्भावेनाऽच्त्वापत्तेः। तथापि स्थान्यपेक्षयैवाऽत्र पूर्वत्वं विवक्षितं, स्थानिन आदेशे नापह्मतत्वेऽपि भूतपूर्वगत्या तत्पूर्वत्वस्य सम्भवात्। तदेतदाह--स्थानिभूतादचः पूर्वत्वेनेत्यादि। अत्र स्थानिनि सति यद्भवति तदादेशे।ञपि भवति, यन्न भवति तदादेसेऽपि न भवतीत्येवमशास्त्रीयस्यापि कार्याऽभावस्य अतिदेशो भवति। तत्राद्ये वव्रश्चेत्युदाह्मतमेव, तत्र "न सम्प्रसारणे सम्प्रसारण"मिति निषेधकार्यस्य शास्त्रीयत्वात्। द्वितीये तु गणयतीत्युदाहरणम्। गण संख्यान इति चुरादौ अदन्तधातुः। तस्माण्णिच्। अतो लोपः। तिप् शप् णेर्गुणः, अयादेशः। गणयतीति रूपम्। अत्र णिचि परत उपधाभूतस्य गकारादकारस्य "अत उपधायाः" इति न भवति, प्रकृतसूत्रेणाऽल्लोपस्य स्थानिवद्भावात्। अकारे स्थानिनि सति गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति। वृद्ध्यभावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात्। न चात्र गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति। वृद्ध्य भावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात्। न चात्र गकारादकारस्य स्थान्यकारान्न पूर्वत्वम्, णकारेण व्यवधानादिति वाच्यम्, पूर्वत्वं ह्रत्र व्यवहिताऽव्यवहितसाधारणम्, उत्तरसूत्रे स्वरे निषेधाल्लिङ्गात्। तच्च तत्रैव स्पष्टीभविष्यतीत्यलम्। इति यण इति। अनेन सूत्रेण सुध्? य् इत्यत्र धकारस्य द्वित्वनिषेधे कर्तव्ये ईकारस्थानिकस्य यकारस्य स्थानिद्भावे प्राप्ते तत्प्रतिषेधसूत्रमारभ्यत इत्यर्थः।

तत्त्व-बोधिनी
अचः परस्मिन्पूर्वविधौ ४५, १।१।५६

अचः परस्मिन्पूर्वविधौ। अचः किम्?। आगत्य। "वा ल्यपी"त्यनुनासिकलोपस्तुकि कर्तव्ये न स्थानिवत्। परस्मिन् किम्?। आदीध्ये। नित्यत्वादिट्, एत्वम्, तच्च न परनिमित्तम्, तेन "यीवर्णयो"रिति लोपे कर्त्तंव्ये तन्न स्थानिवत्। पूर्वविधौ इति किम्?, नैधेयः। निपूर्वाद्धाञः "उपसर्गे घोः किः" "आतो लोपः", "द्व्यचः" "इतश्चानिञः" इति ढक्। आकारस्य स्थानिवत्त्वे तु त्र्यच्त्वव्यपदेशेन द्व्यच्त्वं विरुद्धत्वाद्वाध्येत। नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते। नन्वेवमपि विधिग्रहणं व्यर्थम्, पूर्वस्येति षष्ट()आ कार्ये कर्तव्ये इत्यर्थस्याक्षेप्तुं शक्यत्वादिति चेन्नः, पूर्वस्य विधिः, पूर्वस्माद्विधिरिति समासद्वयलाभार्थं विधिग्रहणात्। यद्यप्यत्र पञ्चमीसमासपक्षो मूले नोक्तः, तथापि "पूर्वस्मादपि विधौ स्थानिवद्भाव" इति पक्षे तु "अड्व्यवाये" इत्येवात्र णत्वमिति "पद्द"न्नादिप्रघट्टके स्वीकृतः सः। अल्विध्यर्थमिदमिति। तेन "वव्रश्चे"त्यत्र वस्य सम्प्रसारणं न, उरदत्त्वस्य स्थानिवत्त्वेन सम्प्रसारणतया "न सम्प्रसारणे" इति निषेधात्। न चोरदत्त्वं परनिमित्तं नेति वाच्यम्, अङ्गाक्षिप्ते प्रत्यये परे तद्विधानात्। पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासपक्षस्य तु प्रयोजनम्-तन्वन्ति, तन्वते। इह यणादेशस्य स्थानिवद्भावान्नेट्। अत्र हि "तनित्यङ्ग"नेमित्तम्, तच्च स्थानिभूतादुकारात्पूर्वमिति। नन्विदं न प्रयोजनम्, बहिरङ्गस्य यणोऽसिद्धत्वादिडागमस्यात्राऽप्रसक्तेः। न च नाजानन्तर्ये" इति निषेधः। "यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्य"मिति हरदत्तादिमते निषेधप्रवत्तावपि "उत्तरकार्ये यत्राच आनन्तर्यमाश्रितं तत्र बहिष्ट्वप्रक्लृप्तिर्ने"ति कैयटमते तदभावात्। न चैवमपीपचन्निति प्रयोजनं भवत्येव, इह हि अन्तेरकारस्य चङकारस्य च "अतो गुणे" इति पररूपे तस्य च परादिवद्भावाज्झिग्रहणेन ग्रहणे सति "सिजभ्यस्ते"ति जुस् प्राप्नोति, णिलोपस्य एकादेशस्य वा स्थानिवद्भावान्न भवतीति वाच्यम्, वेत्तेर्हि लडयेवानन्तरो झिः सम्भवतीति तत्साहचर्यादभ्यस्तादपि लङ एव झेर्जुस्विधानात्। न च सिचा साहचर्याल्लुङ एव ग्रहणमस्त्विति शङ्क्यम् , "विप्रतिषेधे पर"मिति परसाहचर्यस्य वलीयस्त्वात्। न चैवमपि "अदभ्यस्ता"दित्यदादेशस्य निवारणाय पञ्चमीसमासपक्ष आवश्यक इति वाच्यम्, चङकारस्य अन्तेरकारेण च "अतो गुणे" इति पररूपे कृते झस्याभावददादेशाप्रसक्तेः। अत्र त्वेकादेशस्य परादिवद्भावाज्झग्रहणेन ग्रहणं न भवति; अल्विधौ अन्तादिवद्भावाऽप्रवृत्तेः। अन्यथा "अयजे इन्द्र"मित्यादौ सवर्णदीर्घो दुर्वार एव स्यात्। अस्तु वा परादिवद्भावस्तथापि झकारस्य अत्स्यादित्यदादेशे कर्तव्येऽन्तादेशो न स्थानिवत्, अल्विधित्वात्। तस्मात्पञ्चमीसमासपक्षो निरर्थक एवेति चेदत्राहुः-पञ्चमीसमासप्रयोजनतया अरीतचन्नित्युदाहरतो भगवतस्तु नेह साहचर्यं नियामकतया संमतम्। "द्वित्रिश्चतुर्-" इति सूत्रे कृत्वोर्थग्रहणाज्ज्ञापकात्साहचर्यं न सर्वत्राश्रीयते। एवं च भवतेर्यङ्लुकि अब्यस्ताश्रयस्य जुसः प्रवृत्त्या "अबोभूवु"रिति रूपं सिध्यति, "आत" इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्प्राप्तस्तन्मात्रपरतया माधवादिभिव्र्याख्यातत्वात्। अत एव "अभ्यस्ताश्रयो जुस्, नित्यत्वाद्वुक्, अबोभूवुः", इति मूले यङ्लुङन्तेषूक्तम्। तथा चाऽपीपचन्नित्येतत्सिद्धये पञ्चमीसमास पक्ष आश्रयणीय इति। अन्येत्वाहुः-पञ्चमीसमासपक्षप्रयोजनतया भाष्ये "बेभिदिता" "माथितिकः" इत्यस्याप्युदाह्मतत्वान्न तस्य वैयथ्र्यशङ्का कार्या। यद्यपि यङोऽकारलोपस्य स्थानिवद्भावं विनापि "एकाच उपदेशेऽनुदात्ता"दित्यत्र विहितविशेषणाश्रयणादेव इण्निषेधाप्रवृत्तौ भिदेर्यङन्तातृचि"बेभिदिते"ति रूपं सुसाधम्, तथापि "माथितिक" इत्यादिसिध्द्यर्थं स पक्षोऽभ्युपगन्तव्यः। न च मथितं पण्यमस्य माथितिक इत्यत्रापि "तदस्य पण्य"मिति ठकि इकादेशे च कृते "यस्येति चे"ति लोपात् "इसुसुक्तान्तात्" इति इकः स्थाने प्रसज्यमानो यः कादेशः सोऽप्यल्लोपस्य स्थानिवद्भावं विनैव सुपरिहरः,, "ठस्येकः" इत्यत्र "स्थान्यादेशयोरकार उच्चारणार्थः" इत्यभ्युपगमे अल्विधित्वेन स्थानिवद्भावाऽप्रवृत्त्या ठस्थानिक इकादेशष्ठो न भवतीति कादेशाऽप्रसक्तेर्माथितिक इति रूपसिद्धौ किमनेन पञ्चमीसमासपक्षाश्रयणेनेति वाच्यम्, मथितयते क्विपि टिलोपाणिलोपयोर्वेरपृक्तलोपे च-मथित्, तेन चरति माथितिक इत्यत्र "चरति" इति ठकि तस्येकादेशसिद्धये तत्पक्षस्यावश्यकत्वात्। न ह्रत्र स्थानिवद्भावं विनापि इकादेशापवादः कादेशः सुपरिहारः, नाप्येतादृशकल्पनायां मानाऽभावः शङ्कयः, "माथितिक" इति भाष्योदाहरणस्यैव मानत्वादिति। स्यादेतत्,-पूर्वत्वस्य सावधित्वेन संनिहतस्यैवावधित्वमुचितं, संनिहितं चेह त्रयं,--स्थानी आदेशो निमित्तं च, तत्र तावत्स्थानी नाऽवधिः। तस्यादेशेनापहारात्। नाप्यादेशनिमित्ते, "वैयाकरण" इत्यत्रैकारस्यायादेशापत्तेरित्याशङ्कायाह-अचः पूर्वत्वेन दृष्टस्येति। पूर्वत्वमुपलक्षणं न तु विशेषणमिति भावः॥


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ७।३ अचः ६।१ ५६ परस्मिन् ७।१ ५६ पूर्वविधौ ७।१ ५६ स्थानिवत् ५५ आदेशः १।१ ५५

समासः॥

पदे अन्तः पदान्तः, सप्तमीतत्पुरुषः। पदान्तश्च द्विर्वचनं च, वरे च यलोपश्च, स्वरश्च, सवर्णश्च, अनुस्वारश्च, दीर्घश्च् जश् च, चर् च, पदान्तद्विर्वचन॰चरः, एतेषां विधयः तेषु पदान्तद्विर्वचन॰विधिशु, द्वन्द्वगर्भः षष्ठीतत्पुरुषः।

अर्थः॥

पदान्त-द्विर्वचन-वरे-यलोप-स्वर-सवर्ण-अनुस्वार-दीर्घ-जश्-चर् इत्येतेषु विधिषु परनिमित्तकः अजादेशः पूर्वविधौ कर्त्तव्ये स्थानिवत् न भवति।

उदाहरणम्॥

पदान्तविधौ - कौ स्तः, यौ स्तः। तानि सन्ति यानि सन्ति। द्विर्वचनविधौ - दद्ध्यत्र, मद्ध्वत्र। वरेविधौ - अप्सु यायावरः प्रवपेत पिण्डान्। यलोपविधौ - कण्डूतिः। स्वरविधौ - चिकीर्षकः, जिहीर्षकः। सवर्णविधौ - शिण्ढि, पिण्ढि। अनुस्वारविधौ - शिंषन्ति, पिंषन्ति। दीर्धविधौ - प्रतिदीव्ना, प्रतिदीव्ने। जश्विधौ - सग्धिश्च मे सपीतिश्च मे, बब्धां ते हरी धानाः। चर्विधौ - जक्षतुः जक्षुः अक्षन्नमीमदन्त पितरः।
काशिका-वृत्तिः
न पदान्तद्विर्वचनवरेयलोपस्वरसवर्ण। अनुस्वारदीर्घजश्चर्विधिषु १।१।५८

पूर्वेण अतिप्रसक्तः स्थानिवद्भाव एतेषु विधिषु प्रतिषिध्यते। पदान्तविधिं प्रत्यजादेशो न स्थानिवद् भवति। कौ स्तः। यौ स्तः। तानि सन्ति। यनि सन्ति। श्नसोरल्लोपः क्ङिति सार्वधातुके इति परनिमित्तकः, स पूर्वविधावावादेशे यणादेशे च कर्तव्ये स्थानिवत् स्यात्, अस्माद् वचनान् न भवति। द्विर्वचनविधिः द्विर्वचनविधिं प्रति न स्थानिवद् भवति। दद्ध्यत्र। मद्ध्वत्र। यणादेशः परनिमित्तकः, तस्य स्थानिवद्भावातनचि च ८।४।४६ इति धकारस्य द्विर्वचनं न स्यादस्माद् वचनाद् भवति। वरेविधिः वरे यो ऽजादेशः स पूर्वविधिं प्रति न स्थानिवद् भवति। अप्सु यायावरः प्रवपेत पिण्डान्। यातेः यङन्तात् यश्च यङः ३।२।१७६ इति वरचि कृते अतो लोपः ६।४।४८ परनिमित्तकः, तस्य स्थानिवत्त्वादतो लोप इटि च ६।४।६४ इत्याकारलोपः स्याद्, अस्माद् वचनान् न भवति। यलोपविधिः यलोपविधिं प्रत्यजादेशो न स्थानिवद् भवति। कण्डूतिः। कण्डूयतेः क्तिनि कृते, अतो लोपः परनिमित्तकः, लोपो व्योर् वलि ६।१।६४ इति यलोपे स्थानिवत् स्यादस्माद् वचनान् न भवति। स्वरविधिः स्वरविधिं प्रति अजादेशो न स्थानिवद् भवति। चिकीर्षकः। जिहीर्षकः ण्वुलि कृते अतो लोपः परनिमित्तकः, लिति ६।१।१८७ प्रत्ययात् पूर्वम् उदात्तम्, इति स्वरे कर्तव्ये न स्थानिवद् भवति इति। सवर्णविधिः सवर्णविधिं प्रति अजादेशो न स्थानिवद् भवति। शिण्ढि। पिण्ढि। शिषेः पिषेश्च लोण्मध्यमपुरुषैकवचने रुद्ादिभ्यः श्नम् ३।१।७८। हित्वधित्वष्टुत्वजश्त्वेषु कृतेषु, श्नसोरल्लोपः क्ङिति सार्वधातुके परनिमित्तकः, अनुस्वारस्य ययि परसवर्णे कर्तव्ये न स्थानिवद् भवति। अनुस्वारविधिः अनुस्वारविधिं प्रति अजादेशो न स्थानिवद् भवति। शिंषन्ति। पिंषन्ति। नश्च अपदान्तस्य झलि ८।३।२४ इति अनुस्वारे कर्तव्ये श्नसोरल्लोपः न स्थानिवद् भवति। दीर्घविधिः दीर्घविधिं प्रति अजादेशो न स्थानिवद् भवति। प्रतिदीव्ना। प्रतिदीव्ने। प्रतिदिवनित्येतस्य भस्य ६।४।१२९ इत्यधिकृत्य तृतीयैकवचने चतुर्थ्येकवचने च अल्लोपो ऽनः ६।४।१३४ इत्यकारलोपः परनिमित्तकः, तस्य स्थानिवद्भावाद् हलि च ८।२।७७ इति दीर्घत्वं न स्यात्, न ह्ययं वकारो हल्परः इति, अस्माद् वचनाद् भवति। जश्विधिः जश्विधिं प्रत्यजादेशो न स्थानिवद् भवति। सग्धिश्च मे सपीतिश्च मे। बब्धां ते हरी धानाः। अदेः क्तिनि बहुलं छन्दसि २।४।३९ इति घस्लाऽदेशः। घसिभसोर् हलि च ६।४।१०० इत्युपधलोपः। झलो जह्लि ८।२।२६ इति सकारलोपः। झषस् तथोर् धो ऽधः ८।२।४० इति धत्वम्। उपधालोपस्य स्थानिवत्तवात् झलां जस् झसि ८।४।५२ इति घकारस्य जश्त्वं न स्यात्, अस्माद् वचनाद् भवति। समना ग्धिः। समानस्य सभावः। सग्धिः। बब्धाम् इति भसेर्लोड्द्विवचने शपः स्लुः, द्विर्वचनम्, अभ्यासकार्यम्, घसिभसोर् हलि च ६।४।१०० इति उपधालोपः, झलो झलि ८।२।२६ इत् सकारलोपः, झषस् तथोर् धो ऽधः ८।२।४० इति धत्वम्। उपधलोपस्य स्थानिवत्त्वात् झलाम् जश् झशि ८।४।५२ इति जश्त्वं न स्यात्, अस्माद् वचनाद् भवति। चर्विधिः चर्विधिं प्रति अजादेशो न स्थानिवद् भवति। जक्षतुः। जक्षुः। अक्षन् पितरो ऽमीमदन्त पितरः। लिड्द्विवचनबहुवचनयोरदेर् घस्लाऽदेशः। गमहनजनखनघसां लोपः क्ङित्यनङि ६।४।९८ इति उपधालोपः, द्विर्वचनम्, अभ्यासकार्यम्। तत्र उपधालोपस्य स्थानिवत्त्वात् खरि च ८।४।५४ इति घकारस्य चर्त्वं न स्याद्, अस्माद् वचनाद् भवति। शासिवसिघसीनां च ८।३।६० इति शत्वम्। अक्षनिति अदेः लुङ् बहुवचने घस्लाऽदेशः, च्लेरागतस्य मन्त्रे घसह्वर २।४।८० इति लुक्। गमहनजनखनघसां लोपः क्ङित्यनङि ६।४।९८ इत्युपधालोपः, तस्य स्थानिवत्त्वात् खरि च ८।४।५४ इति चर्त्वं न स्यात्, अस्माद् वचनाद् भवति। स्वरदीर्घयलोपेशु लोपाजादेशो न स्थानिवद् भवति। अन्यत्र स्थानिवदेव। तेन बहुखट्वकह्, किर्योः, गिर्योः, वाय्वोः इति स्थानिवत्त्वात् स्वरदीर्घयलोपा न भवन्ति।
न्यासः
न पदानतद्विर्वचनरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु। , १।१।५७

अत्रापि विधिशब्दो भावसाधनः कर्मसाधनश्च। स च प्रत्येकमभिसम्बध्यते। तत्र यथायोगं क्वचित् भावसाधन आश्रीयते, क्वचित् कर्मसाधनः। तत्र द्विर्वचनविधौ भावसाधनः, तत्र हि तदेव विधातव्यम्, न हि तस्यावस्थितस्य किञ्चित् कार्यम्। अन्यत्र तु कर्मसाधनः। तत्र हि व्यवस्थितस्य पदान्तादेः कार्यान्तरविधानात्। "कौ स्तः, यौ स्तः" इति। अस्तेर्लट्, तस्, अदादित्वाच्छपो लुक्, पूर्वविधा-वावादेशे यणादेशे च कत्र्तव्ये स्थानिवत् स्यादिति। कथं पुनः स्थानिवत् स्यात्, यावता पदसंस्कारायैव प्रयुक्तत्वाद् व्याकरणस्य? "स्तः" इत्यादिकं पदं पदान्तरनिर- पेक्षमेव संस्क्रियते, अनादिष्टादचो यः पूर्वः, तस्य विधिं प्रति स्थानिवद्भावेन भवितव्यम्। न चायं प्रकारः पदानतरनिरपेक्षे पदसंस्कारे सम्भवति; "स्तः" इत्यादिके पदे संस्क्रियमाणे कावित्यादेः पदान्तररस्यासन्निधानात्। किं पुनरिदं राजशासनम्-- पदसंस्कारायैव शब्दानुशासनं कत्र्तव्यमिति? अथ शास्त्रकारस्यैवायमभिप्रायः? इति चेत्, न; शास्त्रकारेण दि "युष्मद्यपपदे समानाधिकरणे स्थानिन्यपि मध्यमः" १।४।१०४इति युष्मदाद्युपपदे मध्यमादिपुरुषविधानाद् वाक्यसंस्कारप्रयुक्तमपि शास्त्रमेतदिति सूचितम्। अत्र "कौ" इत्यादिकं पदं प्रागेव व्यवस्थाप्य "स्तः" इत्यादेः पदस्य संस्कारे क्रियमाणेऽनादिष्टावचः पूर्वं औकारादिर्भवतीति स्थानिवद्भावः स्यात्। अतः प्रतिषेध उच्यते। ननु च "दध्यत्र" इत्येवमादौ" प्रतिषिद्धेऽपि स्थानिवद्भावे बहिरङ्गस्य यणादेशस्यासिद्धत्वादन्तरङ्गं द्वर्वचनं न प्राप्नोति। तत् किमित्येवमाह-- "अस्माद्वच- नात् भवति" इति। न च शक्यं वक्तुम्--" स्थानिवद्भावप्रतिषेधात् "असिद्धं बहिरङ्गम्"(व्या।प।४२) इत्येषा न प्रवत्र्तते" इति। यत्रोभयमेकपदाश्रयम्-- "पट्व्यौ पट्व्यः शुच्यौ शुच्यः" इत्येवमादौ,तत्र स्थानिवद्भावप्रतिषेधस्यार्थवत्त्वान्()नैष दोषः। द्विर्वचनमेव बहिरङ्गम्; बह्वपेक्षत्वात्। तथा ह्रच उत्तरस्य योरऽनचीति च त्रितयं तदपेक्षते। यणादेशस्त्विकोऽचीति द्वयमेव। "वरे" इति। ननु चात्र समासे सति सप्तम्या लुका भवितव्यम्। तत् कथं वरे इति निर्देशः? अत एव निपातनादलुगित्यदोषः। अन्ये त्वीकारप्रश्लेषोऽत्रेति वर्णयन्ति। एवं च सम्बन्धं कुर्वन्ति--"वरे योऽजादेशस्तस्य विधिं प्रति न स्थानिवत्, ईविधिं च प्रति न स्थानवत्" इति। तेनामलक्याः फलं विकार इति नित्यं वृद्धशरादिभ्यः" ४।३।१४२ इति मयट्, तस्य "फले लुक्" ४।३।१६१ इति लुक्, अतः "लुक् तद्धितलुकि" १।२।४९ गौरादिलक्षणस्य ङीषो लुकि कृते तस्य स्थानिवद्भावात् " यस्येति च" ६।४।१४८ इति लोपः प्राप्नोति। ईकारे परतो यो विधिस्तं प्रति स्थानिवद्भावप्रतिषेधान्न भवति। ननु चाजादेशः परनिमित्तकः लोपः पूर्वविधौ स्थानिवद्भवतीत्यु- च्यते, न च लुका पौर्वापर्यमस्तीत्यत एव स्थानिवद्भावो न भविष्यति? तदप्रयोजनमीकार- प्रश्लेषस्य। लोपेनापि तर्हि पौर्वापर्यं नास्तीति पटयतीत्यादावपि स्थानिवद्भावो न स्यात्। अथ तत्र स्थानिद्वारकं पौर्वापर्यं सम्भवति, इहापि तथा स्यात्। ये त्वीकार-प्रश्लेषं नेच्छन्ति, त आयलक्याः फलं विकार आमलकमित्येतदर्थं नेति योगविभागं कुर्वन्ति। "यायावरः" इति। अत्यर्थं यातीति "धातोरेकाचः" ३।१।२२ इत्यादिना यङ, द्विर्वचनम्, अभ्यासस्य ह्यस्वः, "दीर्घोऽकितः" ७।४।८३ इति दीर्घः, ततो वरच्च, अतो लोपे कृते "लोपो व्योर्वलि" ६।१।६४ इति यकारलोपः। "अतो लोपः परनिमित्तकः" इति।आर्धधातुके परतो विधानात्। यद्यतो लोपः परनिमित्तकः, ततः "अचो यत्" ३।१।९७ इत्यत्र "अज्()ग्रहणं किम्, यावता हलन्ताण्ण्यतं वक्ष्यति" इति चोद्यं समुत्थाप्य " अजन्तभूतपूर्वावपि यथा स्यात्--- दित्स्यं धित्स्यम्" इति यद् वक्ष्यति तद् विरुध्यते; न हि परनिमित्तकेऽतो लोपेऽजन्तभूतपूर्वाद् यतो विधिः सम्भवति, प्राक्कृदुत्प- त्तेरतो लोपस्याभावात्, अभावस्तु परस्य निमित्तस्याभावात्? पक्षे भेदादविरोधः। तत्र ह्रार्धधातुक इति वत्र्तते। "आर्धधातुके" इति विषयप्तमी चैषा, परसप्तमी चेति पक्ष-द्वयम्; आर्धधातुकसमान्यविवक्षायां सामान्येन पौर्वापर्यं न सम्भवतीति विषयसप्तमी भवति आर्धधातुकव्यक्तिविवक्षायां तु व्यक्तेः पौर्वापर्यं सम्भवतीति परसप्तमी। यदा तु व्यक्तिद्वारकं सामान्यस्य पौर्वापर्यं विवक्ष्यते; तदापि परसप्तम्येव। तत्राद्ये पक्ष आर्धधातुके विषयभूते प्रागेव यदुत्पत्तेरतो लोपो भवति, इतरत्र तु तस्मिन्नुत्पन्ने। तत्र "अचो यत्" ३।१।९७ इत्यत्र यदज्ग्रहणस्य प्रयोजनं वक्ष्यति, तत् पूर्वं पक्षमाश्रित्य। यत् पुनरिहातो लोपः परनिमित्तक इत्युक्तम्, तदितरं पक्षम्। तस्माद् विषयभेदादविरोधः। परसप्तमीपक्षे तु तत्राज्ग्रहणं विस्पष्टार्थमेव वेदितव्यम्। कथं पुनज्र्ञायते परसप्तमीपक्षोऽपि तत्राभिमत इति? "अनुदात्तेतश्च हलादेः" ३।२।१४९ इत्यादिग्रहणात्। तद्ध्येवमर्थं क्रियते-- हलन्तादित्येवं मा विज्ञायीति। एवं हि विज्ञायमाने जुगुप्सनः, मीमांसनः इत्यत्र युज् न स्यात्; अजन्त- त्वात्। यदि च "आर्धधातुके" इति विषयसप्तम्येवैषाभिमता स्यात्, न परसप्तमीतदाऽ‌ऽदिग्रहणमनर्थकं स्यात्; आर्धधातुके विषयेऽकारलोपे कृते जुगुप्सतिमीमांसत्योरपि हलन्तत्वात्। तस्मादादिग्रहणाद् विज्ञायते-- परसप्तमीपक्षोऽपि तत्राभीष्ट इति। विषयसप्तमीपक्षे तु तत्रादिग्रहणं विस्पष्टार्थमेव द्रष्टव्यम्। "कण्डूतिः" इति। "कण्ड्वादिभ्यो यक्" ३।१।२७ "स्त्रियां क्तिन्" ३।३।९४। "चिकीर्षकः, जिहीर्षकः" इति। चिकीर्षजिहीर्षशब्दाभ्यां ण्वुल्। "शिशेः, पिषेश्च" इति। "शिष्लु विशेषणे" (धा।पा।१४५२)"पिष्लृ संचूर्णने" (धा।पा।१४५३)। हित्वधित्व-ष्टुत्वजश्त्वेष्विति। "सेह्र्रपिच्च" ३।४।८७ इति हेरादेशे कृते "हुझल्भ्यो हेर्धिः" ६।४।१०१ ति धिरादेशः। "ष्टुना ष्टुः" ८।४।४० इति ष्टुत्वम्, "झलां जश् झशि" ८।४।५२ इति जश्त्वम्। ननु चात्र स्थानिवद्भावस्य प्राप्तिरेव नास्ति; यो ह्रनादिष्टादचः पूर्वस्तस्य विधौ स्थानिवद्भवतीत्युच्यते, न चामानादिष्टादचः पूर्वः, तत् किं प्रतिषेधेन? नैष दोषः; स्थानिनो नाकरस्याऽनादिष्टाजपेक्षं पूर्वत्वम- स्तीति तदादेशोऽप्यनुस्वारः स्थानिवद्भावादनादिष्टादचः पूर्व इति लभ्यते। "शिषन्ति" इत्यादि। किमर्थं पुनरुदाहरणान्तरोपन्यासः, यावता शिण्ढीत्याद्य-न्तरोक्तमेवेदं युक्तमुदाहरण्? एवं मन्यते-- यदि तदेवोदाह्यियते तदा यत्र परसवर्ण- स्तत्रानुस्वारेण भवितव्यम्,तत्रैव हि स विधीयते; ततश्च नान्तरीयकत्वात् परसवर्ण- विधौ स्थानिवद्भावप्रतिषेधेऽनुस्वारविधावपि स्थानिवद्भावप्रतिषेधः कृत एव, ततोऽ- नुस्वारग्रहणं पृथङ न कत्र्तव्यमिति कस्यचिद् भ्रान्तिः स्यात्। तस्माद् यत्र परसवर्णो न सम्भवति, तदेवोदाहरणं युक्तमिति। "प्रतिदिव्ना" इति। दिवेः "कनिन्युवृषि" (द।उ।६।५१) इत्यादिना कनिन् प्रत्यये रूपम्। "हलि च" इति। "उपधायाञ्च" ८।२।७८ इत्येतदिदानीन्तनकुलेखकैः प्रमादाल्लिखितम्। तथा हि "उपधायाञ्च" ८।२।७८इत्यत्र वक्ष्यति " प्रतिदीव्न इत्यत्र तु "हलि च" ८।२।७७ इति दीर्घत्वम्" इति। ननु च स्थानिवद्भावे प्रतिषिद्धेऽपि "न भकुर्छु-राम्" ८।२।७९ इति दीर्घत्वप्रतिषेधेनात्र भवितव्यम्, तत् किमित्येवमाह--"अस्माद् वचनाद् भवति" इति। न च स्थानिवद्भावप्रतिषेधसामथ्र्यादत्र प्रतिषेधो न भवतीति शक्यं परिकल्पयितुम्; स्थानिवद्भावप्रतिषेधस्य पिपठीरित्यत्रार्थत्वात्। अत्र हि पिपठिषतेः क्विपि कृतेऽतो लोपे रुत्वे च, रुत्वं पुनरस्य पूर्वत्रासिद्धमिति षत्व- स्यासिद्धत्वात्, यदि स्थानिवद्भावो न प्रतिषिध्येत, ततोऽकारलोपस्य स्थानिवद्- भावात् "र्वोरुपधाया दीर्घ इकः" ८।२।७६ इत्यधिकाराद् रेफवकारान्तस्य भस्य दीर्घत्वं प्रतिषिध्यते। न चैतद् रेफवकारान्तं भसंज्ञकम्, अपि तु नाकरान्तमिति। "सग्धिः" इति। समाना ग्धिरिति विशेषणसमासः। "समानस्य च्छन्दस्यमूर्ध" ६।३।८३ इति सभावः। "बब्धाम्" इति। "भस भत्र्सनदीप्त्योः" (धा।पा।११००), "अभ्यासे चर्च" ८।४।५३ इत्यभ्यासभकारस्य जश्त्वं बकारः। "चक्षतुः, जक्षुः" इति। "लिट()न्यतरस्याम्" २।४।४० इति घस्लादेशः, " कुहोश्च"७।४।६२ इत्यभ्यासघकारस्य चुत्वं झकारः; तस्य पूर्ववज्जश्त्वं जकारः। बहुवचने घस्लादेश इति। "लुङ सनोर्घस्लु" २।४।३७ इत्यनेन। "बहुखट्वकः" इति। अत्र स्थानिवद्भावाद् "ह्यस्वान्तेऽन्त्यात्पूर्वम्" ६।२।१७३ इति, खकारस्योदात्तत्वं न भवति। "कपि पूर्वम्" ६।२।१७२ इति ट्वशब्दस्याकारास्यैव भवति। "किर्योः, गिर्योः" इति। "र्वोरुपधाया दीर्घ इकः" ८।२।७६ "हलि च" ८।२।७७ इति दीर्घत्वं न भवति। एतच्च व्युत्पत्तिपक्षमाश्रित्योक्तम्, "कृग्रोरिच्च" इति किरिगिरिशब्दौ व्युत्पाद्येते। अव्युत्पत्तिपक्षे त्वसत्यपि स्थानिवद्भावे धातुत्वाभावान्न भवत्येव दीर्घत्वम्। तथा ह्रव्युत्पत्तिपक्षमाश्रित्य "उपधायाञ्च" ८।२।७८इत्यत्र वक्ष्यति--"उणादयऽव्युत्पन्नानि प्रातिपदिकानि" (हे।प।१०३) इति किर्यो- गिर्योरित्येवमादिषु दीर्घो न भवति" इति। "वाय्वोः" इति। "लोपो व्योर्वलि"६।१।६४ इति यलोपो न भवति।
बाल-मनोरमा
न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णाऽनुस्वारदीर्घजश्चर्विधिषु ५३, १।१।५७

न पदान्तद्विर्वचन। स्थानिवदादेश" इति "अचः परस्मि"न्निति चानुवर्तते। परनिमित्तकोऽजादेशो न स्थानिवदित्यन्वयः। पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्चेति द्वन्द्वः। तेषां विधयः=विधानानि। कर्मणि षष्ठ()आ समासः। ततश्च पदान्तादिषु विधेयेषु इति लभ्यते। वर इत्यनेन वरे योऽजादेशः स विवक्षितः। आर्षो द्वन्द्वः। सप्तम्या अलुक्च। विधिशब्दः प्रत्येकमन्वेति--पदान्तविधौ द्विर्वचनविधावित्यादि। पदस्यान्तः=चरमावयवः। पदान्तस्य विधाने=पदान्तकर्मके विधाने। पदस्य चरमावयवे कार्ये द्विर्वचनादौ च कार्ये इति यावत्। तदाह--पदस्य चरमेत्यादिना। पदान्तस्य स्थाने विधाविति तु न व्याख्यातम् , तथा सति एषो यन् हसतीत्यसिद्धेः। तथाहि--एषः यन् इति छेदः। इण्धातोर्लटः शतरि शपि लुकि इकारस्य इणो यणिति यण्। अत्र एतत्तदोरिति सुलोपो न भवति, तस्य हलि परतो विधानात्, इह च तस्मिन् कर्तव्ये इकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाऽच्त्वात्। नच न पदान्तेति निषेधः शङ्ख्यः, यो विधीयमानः पदस्य चरमावयवः संपद्यते तत्रैव तन्निषेधात्, इह च विधेयस्य सुलोपस्य पदानवयवत्वात्। "पदान्तस्य स्थाने विधा"विति व्याख्याने तु इह यकारस्य स्थानिवद्भावो न सिध्येत्, लोपस्य पदान्तसकारस्य स्थाने विधानात्। अत्र हशि चेत्युत्वे तु कर्तव्ये यकारो न स्थानिवद्भवति, उकारस्य विधीयमानस्य पदचरमावयवत्वात्। एवं च पदान्तविधावित्यस्य एषो यनित्येतदुत्वविषये उदाहरणम्। सुलोपविषये तु प्रत्युदाहरणमिति भाष्ये स्पष्टम्। बाष्यप्रदीपोद्द्योते स्पश्टतरमेतत्। पदान्तविधौ कानि सन्तीत्याद्युदाहरणमनुपदमेव मूले स्पष्टीभविष्यति। द्विर्वचने सुध्? य् इतयुदाहरणम्। नचेह द्वित्वे कर्तव्ये यकारस्य स्थानिवद्भावविरहेऽपि तन्निषेधे स्थानिवद्भावः स्यादेवेति वाच्यम्, अनचि चेति द्वित्वस्याऽनैमित्तिकतयातद्विषये यकारस्थानिवद्भावस्यानपेक्षितत्वेन तत्र तन्निषेधस्य वैयथ्र्यापत्त्या द्विर्वचनशब्देनात्र अचि नेति द्वित्वनिषेधस्यैव विवक्षितत्वादिति भावः। वरे यथा--यायावरः। "यश्च यङ" इति याधातोर्यङन्ताद्वरच्। "सन्यङो"रिति द्वित्वम्। यायाय वर इति स्थि अतो लोप इति यङोऽकारस्य लोपः। "लोपो व्यो"रिति यकारलोपः। अत्र अजाद्यार्धधातुकमाश्रित्य "अतो लोप इटि च" इत्याकारलोपे कर्तव्ये अल्लोपो न स्थानिवत्। यलोपे यता--यातिः। याध#आतोर्यङि द्वित्वं। क्तिच्। यायाय ति इति स्थिते-अतो लोपः। "लोपो व्यो"रिति यलोपः। अल्लोपस्य स्थानिवत्त्वादातो लोपः। लोपो व्योरिति यलोपः। यातिरिति रूपम्। अत्र अल्लोपो यलोपे कर्तव्ये न स्थानिवत्। न च वाय्वोरित्यत्रापि लोपो व्योरिति यलोपे कर्तव्ये उकारादेशस्य वकारस्य स्थानिवत्त्वनिषेधः स्यादिति वाच्यं, स्वरदीर्घयलोपेषु लोप एवाजादेशो न स्थानिवदिति वार्तिके परिगणनात्, इह च वकारस्य लोपरूपत्वाऽभावात्। स्वरविधौ यथा--चिकीर्षकः। चिकीर्ष इति सन्नन्तात् ण्वुल्। अकादेशः। सनोऽकारस्य अतो लोपः। अत्र ईकारस्य वितीत्युदात्तत्वे कर्तव्ये अल्लोपो न स्थानिवत्। यद्यपि ईकारोऽल्लोपस्थानीभूतादकारान्नाव्यवहितपूर्व इति स्थानिवद्भावस्य प्राप्तिरिह नास्ति, तथाप्यस्मादेव ज्ञापकात् पूर्वसूत्रे पूर्वत्वं व्यवहिताव्यवहितसाधारणम्। तत्प्रयोजनं तु पूर्वसूत्र एवोक्तम्।

सवर्णविधो यथा--शिण्ड्ढि। शिष् इति धातो रौधादिकाल्लोण्मध्यमपुरुषैकवचनम्। सिप् श्नम्। शिनष् सि। हित्वम्। धित्वम्। ष्टुत्वम्। षस्य जश्त्वं डकारः। शिनड्ढि। श्नसोरल्लोपः। नश्चापदान्तस्येत्यनुस्वारः। अनुस्वारस्य ययीति तस्य परसवर्णो णकारः। शिण्ड्ढि इति रूपम्। अत्र परसवर्णे कर्तव्ये अल्लोपो न स्थानिवत्। वस्तुतस्तु सवर्णविधौ नेदमुदाहरणम्। श्नमकारस्य लोपोऽत्र अजादेशः। तत्स्थानीभूतः श्नमकार एव। तस्मिन् सति नकारस्यानुस्वारप्रसक्तिरेव नास्ति। तथा चानुस्वारस्य स्थानीबूतादचः पूर्वत्वेन कदाप्यदृष्टत्वात्तस्य परसवर्णे कर्तव्ये अचः परस्मिन्नित्यलोपस्य स्थानिवत्त्वं न प्रसक्तमिति किं तत्प्रतिषेधेन()। यत्तु तत्वबोधिन्याम--अनुस्वारस्य स्थानिभूतो नकारः श्नमकारात् पूर्वत्वेन दृष्ट इति तत्स्थानिकानुस्वारस्यापि तत्पूर्वत्वेन दृष्टत्वं, स्थानिद्वारापि पूर्वत्वाभ्युपगमादित्युक्तम्। एवं सति तितौमाचष्टे तितापयतीत्यत्र पुगागमो न स्यात्। "तत्करोति तदाचष्टे" इति णिच्। इष्ठवद्भावादुकारस्य टेरिति लोपः। अचो ञ्णितीति तकारादकारस्य वृद्धिराकारः। पुगागमः। तितापीत्यस्मात् लट् तिप् शप्। गुणः। अयादेश#ः। तितापयतीति रूपम्। अत्र अचो ञ्णितीति वृद्ध्या लब्धस्य आकारस्य पुगागमे कर्तव्ये उकारलोपस्य स्थानिवद्भावे सति उकारेण व्यवधाने णिपरकत्वाऽबावात्पुगागमो न स्यात्। आकारस्य लोपस्थानिभूतादुकारात्पूर्वत्वस्य स्वतोऽभावेऽपि स्थानिद्वारा सत्त्वादिति सिद्धान्तरत्नाकरे दूषितम्। प्रौढमनोरमाव्याख्याने तु शब्दरत्ने पादमाचष्टे पादयति, ततः क्विप् पात् हसतीत्यादौ "झयो हः" इति पूर्वसवर्णे कर्तव्ये पूर्वस्मात्परस्य विधिरिति पञ्चमीसमासप्राप्तस्थानिवद्भावनिषेधार्थमिह सूत्रे सवर्णग्रहणिति प्रपञ्चितम्। अनुस्वारविधौ यथा--शिंषन्ति। शिष्धातोर्लटि झिः। झोऽन्तः। श्नसोरल्लोपः। नस्चापदान्तस्येत्यनुस्वारः। शिंषन्ति। इह तु न परसवर्णः, षकारस्य यय्त्वाभावात्। अत्र अनुस्वारे कर्तव्ये अल्लोपो न स्थानिवत्। अत्र दीर्घविधौ यथा-प्रतिदीव्ना। हलि चेति दकारादिकारस्य दीर्घे कर्तव्ये अल्लोपो न स्थानिवत्। ज()इआधौ यथा--"सग्धिश्च मे"। अद भक्षणे क्तिन्। बहुलं छन्दसीति घस्लादेशः। "घसिभसोर्हलि च" इत्युपधालोपः। "झलो झली"ति सलोपः। झषस्तथोरिति तकारस्य धत्वम्। "झलाञ्जश् झशि" इति जश्त्वेन घकारस्य गकारः। समाना ग्धिः=अदनं-सग्धिः। समानस्य छन्दसीति संभावः। अत्र जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत्। चर्विधौ यथा--जक्षतुः। घसेर्लिटि अतुस्। द्वित्वम्। "हलादिश्शेषः" "अभ्यासे चर्चे"ति जश्त्वम्। "कुहोश्चुः" इति जकारः। "गमहने"त्युपधालोपः। "खरि च" इति चर्त्वं ककारः। "शासिवसी"ति षः। अत्र चर्त्वे कार्ये उपधालोपो न स्थानिवत्। भाष्ये तु "पूर्वत्रासिद्धे न श्थानिव"दित्यवष्टभ्य द्विर्वचनसवर्णानुसारदीर्घजश्चरः प्रत्याख्याताः। किञ्च "दीर्घा दाचार्याणा"मित्युत्तरम्--"अनुस्वारस्य ययि परसवर्णः" "वा पदान्तस्य" "खरि च" "वावसाने" "अणोऽप्रगृह्रस्यानुनासिकः" इति पञ्चसूत्रीपाठ इति "हलो यमां यमि" इति सूत्रस्थबाष्यसंमतः सूत्रक्रमः। "एवं च "शिण्ड्ढी"त्यत्र न परसवर्णप्रसक्तिः। परसवर्णे कर्तव्ये षकारस्थानिकस्य जश्त्वस्यासिद्धत्वेन यय्परकत्वाऽभावादिति सर्वथापि सवर्णविधौ शिण्ड्ढीति नोदाहसरणमित्यास्तां तावत्।

इति स्थानीति। अनेन सूत्रेण सुध्? य् इत्यत्र द्वित्वनिषेधे कर्तव्ये यकारस्य स्थानिवत्त्वनिषेध इत्यर्थः। एवं चाच्परकत्वाभावेन अनचि चेति निषेधाभावाद्धकारस्य द्वित्वं निर्बाधमिति भावः। तथाच सुध् ध् यिति स्थितम्।

तत्त्व-बोधिनी
न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णाऽनुस्वारदीर्घजश्चर्विधिषु ४६, १।१।५७

न पदान्त। पदान्तादीनां चरन्तानां द्वन्द्वः, ततो "विधि" शब्देन कर्मषष्ठ()न्तस्य समासः। विधिशब्दश्च भावसाधनो-विधानं विधिरिति। स च द्वन्द्वान्ते श्रूयमाणत्वांत्प्रत्येकं संबध्यते। पदस्य चरमावयव इति। वृक्षं वेतीति वृक्षवीः, वृक्षं वातीति वृक्षवाः। तमाचष्टे वृक्षवयति। ततो विच्। वृक्षव्। इह "लोपो व्योर्वली"ति वलोपो न, टिलोपस्य णिलोपस्य वा स्थानिवत्त्वात्। न च "सुबन्ताण्णि"जिति हरदत्तादिमते अन्तर्वर्तिसुपा पदत्वात् "न पदान्ते"ति निषेधः शङ्क्यः, विधेयस्य लोपस्य पदानवयवत्वात्। "पदान्तस्य स्थाने विधौ ने"ति व्याख्याने तु "न पदान्ते"ति स्थानिवत्त्वनिषेधाद्वलोपः स्यादेवेत्यादि मनोरमायां स्थितम्। द्विर्वचनादौ चेति। यलोपादय आदिशब्दार्थः। "वरे" इति तु वरे योऽजादेशः स न स्थानिवदिति व्याख्येयम्। सहविवक्षाभावेऽपि निपातनाद्द्वन्द्वः सप्तम्यलुक्व।

अथोदाहरणानि-पदान्ते-कानि सन्ति, कौ स्तः। इह यणावादेशयोः कर्तव्ययोः श्नसोरल्लोपो न स्थानिवत्। न चेकारौकारयोः स्थानिभूतादचः पूर्वत्वविरहादेवाऽल्लोपो न स्थानिवदिति वाच्यम्, "वाक्यादपोद्धृत्य पदानि संस्किल्लोपो न स्थानिवदिति उदाहार्यम्। अत्र हि वोपस्थान्यकारात्पूर्वत्वेन दृष्टत्वादोकारस्य। द्विर्वचने-सुद्धयुपास्यः। "नाजानन्तर्ये" इति निषेधाद्बहिरङ्गपरिभाषाऽत्र न प्रवर्तते, स्थानिवद्भावनिषेधसामथ्र्याच्च। एवं क्वचिदन्यत्राप्यूह्रम्। वरे-यायावरः। यातेर्यङन्ताद्यश्च यङ इति वरच्। "अतो लोपः"। स च "आतो लोप इटि चे"त्यालोपे कर्तव्ये न स्थानिवत्। यलोपे-यातिः। यातेर्यङन्तात् क्तिच्। अतो लोपः। यलोपः। अल्लोपस्य स्थानिवत्त्वादातो लोपः। यलोपः। न च पुनरालोपः शङ्कयः। चिणो लुङ्()न्यायेन आलोपस्यासिद्धत्वात्स्थानिवद्भावाच्च। ननु यदि यलोपविधिं प्रति स्थानिवत्त्वनिषेधस्तर्हि कथं-वाय्वोरिति?। उच्यते-"असिद्धं बहिरङ्ग"मिति यणोऽसिद्धत्वान्न यलोपः। न च "नाजानन्तर्ये" इति निषेधः, अन्तरङ्गकार्ये अच आनन्तर्यं यत्र तत्रैव तदभ्युपगमात्। किं चात्र "स्वरदिर्घयलोपेषु लोपाजादेश एव न स्थानिव"दिति वार्तिकमस्ति। तेनाऽन्यः स्तानिवदेव भवतीति न दोषः। स्वरे-चिकीर्षकः। ईकारस्य "लिती"त्युदात्तत्वे कर्तव्ये सनोऽतो लोपो न स्थानिवत्। न च "लिती"त्यारम्भसामथ्र्य, "कारक" इत्यादौ सावकाशत्वात्। सवर्णानुस्वारयोः-शिण्ड्ढि। श्नसोरल्लोपो न स्थानिवत्। यद्यप्यनुस्वारो न स्थानिभूतादचः पूर्व इति तस्य परसवर्णे कर्तव्येऽल्लोपस्य स्थानिवत्त्वप्रसङ्ग एव नास्ति, तथापि स्थानिवद्वारानुस्वारोऽपि दृष्ट इत्यस्त्येव तत्प्रसङ्ग इत्याहुः। ननु सवर्णग्रहणमात्रेणानुस्वारोऽप्याक्षेप्तुं शक्यत इति किमनेन पृथगनुस्वारग्रहणेन?। सत्यम्। पृथग्ग्रहणाभावे यत्र परसवर्णस्तत्रैवेति संभाव्येत। तथा च यत्र न परसवर्णप्रसङ्गः "शिषन्ती"त्यादौ तत्र स्थानिवद्भावं निषेद्धुमनुस्वारग्रहणम्। एवं यत्र वरे अजादेशस्य प्रसङ्गो नास्ति यातिरित्यादौ तत्र यलोपे स्थानिवद्भावं निषेद्धुं वरेग्रहणात्पृथग्यलोपग्रहणं कृतमिति ज्ञेयम्। दीर्घे-प्रतिदीव्ना, प्रतिदीव्ने। "हलि चे"ति दीर्घे कर्तव्येऽल्लोपो न स्थानिवत्। यणादेशस्तु स्थानिवद्भवत्येव। "लोपाजादेश एव न स्थानिव"दित्युक्तत्वात्। तेन "हलि च" "उपधायां चे"ति दीर्घाप्रवृत्त्या किर्योः गिर्योः विव्यतुरित्यादि सिद्धम्। जशि-सग्धिश्च मे। अदनं ग्धिः। तत्र अदेः क्तिनि "बहुलं छन्दसि" इति घस्लादेशः, "घसिभसोर्हलि चे"त्युपधालोपः। "झलो झलि" इति सलोपः। "झषस्तथोः" इति धत्वम्। धस्य "झलां जश्झशी"ति जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत्। "समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु" इति सः। समाना ग्धिः-सग्धिः। न चात्र सलोपे धत्वे च कर्तव्ये पूर्वस्मादपीति स्थानिवद्भावात्सग्धिरिति रूपं न स्यादिति शङ्क्यम्; पञ्चमीसमासपक्षस्याऽनित्यत्वात्। तत्र "निष्ठायां सेटी"ति लिङ्गात्। तथाहि-तत्र "सेटी"ति पदं न तावदनिड्वायवृत्त्यर्थम्, णिजन्तात्तदसंभवात्। ननु "संज्ञापितः पशु"रित्यत्र "यस्य विभाषे"ति इण्निषेधे संभवत्येवानिट्()त्वं, "सनीवन्ते"ति विकल्पितेट्त्वादिति चेन्न; "यस्य विभाषे" त्यत्र "एकाचः" इत्यनुवृत्तेः। अन्यथा "दरिद्रिति " इति इण्न स्यात् , तत्र "तनिपतिदरिद्रातिभ्यः" इति वार्तिकेन सनो विकल्पितेट्त्वात्। तस्मात्कालावधारणार्तं सेङ्ग्रहणम्। इटि कृते णिलोपो न तु ततः प्रागिति। अन्यथा "कारित"मित्यादौ णिलोपे कृते "एकाच उपदेशे"इति इण्निषेधः स्यादिति। यदि तु पूर्वस्माद्विधौ स्तानिवत्त्वं तर्हि णिचा व्यवधानान्निषेधस्तर्हि "पटयती"त्यत्रान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वं स्यात्। मैवम्। "इष्ठव"दित्यतिष्टया भसंज्ञया पदसंज्ञाया बाधाज्जश्तावऽप्रवृत्तेः। चरि-जक्षतुः, जक्षुः। घसेर्लिटि अतुस् उस् च। "गमहनेट"त्युपधालोपः। "खरि चे"ति चर्त्त्वं प्रति न स्थानिवत्। भाष्ये तु "पूर्वत्रासिद्धे न स्थानिव"दित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घश्चरः। प्रत्याख्याताः। तद्रीत्या तु सलोपे धत्वे च कर्तव्ये स्थानिवद्भावशङ्कैव नास्तीति बोध्यम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ द्विर्वचने ७।१ अचि ७।१ अचः ६।१ ५६ स्थानिवत् ५५ आदेशः १।१ ५५

समासः॥

द्विर्वचनं च द्विर्वचनं च इति द्विर्वचनं, तस्मिन् द्विर्वचने। {सरूपाणाम् (१।२।६४)} इति एकशेषः।

अर्थः॥

द्विर्वचन-निमित्ते अचि परतः अजादेशः स्थानिरूपः भवति, द्विर्वचने एव कर्त्तव्ये। रूपातिदेशः अयम्।

उदाहरणम्॥

पपतुः, पपुः। जग्मतुः, जग्मुः। चक्रतुः, चक्रुः। निनय निनाय। लुलव लुलाव। आटिटत्।
काशिका-वृत्तिः
द्विर्वचने ऽचि १।१।५९

द्विर्वचननिमित्ते ऽचि अजादेशः स्थानिवद् भवति , द्विर्वचन एव कर्तव्ये। रूपातिदेशश्च अयं नियतकालः। तेन कृते द्विर्वचने पुनरादेश रूपम् एव अवतिष्ठते। आल्लोपौपधालोपणिलोपयणयवायावादेशाः प्रयोजनम्। आल्लोपःपपतुः। पपुः। आतो लोप इटि च ६।४।६४ इति आकारलोपे कृते तस्य स्थानिवद्भावातेकाचो द्वे प्रथमस्य ६।१।१ इति द्विर्वचनं भवति। उपधालोपःजघ्नतुः। जघ्नुः। गमहनजनखनघसां लोपः क्ङित्यनङि ६।४।९८ इत्यौपधालोपे कृते अनच्कत्वाद् द्विर्वचनं न स्यात्, अस्माद् वचनाद् भवति। णिलोपः आटिटत्। अटतेः णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वादजादेर् द्वितीयस्य ६।१।२ इति टिशब्दस्य द्विर्वचनम् भवति। यण् चक्रतुः। चक्रुः। करोतेः अतुसि उसि च यणादेशे कृते अनच्कत्वाद् द्विर्वचनं न स्यात्, स्थानिवत्त्वाद् भवति। अयवायावादेशाः निनय, निनाय। लुलव, लुलाव। नयतेः लुनातेश्च उत्तमे णलि गुणे कृते वृद्धौ च अयवायावादेशाः, तेषां स्थानिवत्त्वान् ने नै लो लौ इति द्विर्वचनं भवति। द्विर्वचने कऋतव्य इति किम्? जग्ले, मम्ले। श्रवणम् आकारस्य न भवति। द्विर्वचननिमित्ते इति किम्? दुद्यूषति। ऊठि यणादेशो न स्थानिवद् भवति। अचि इति किम्? जेघ्रीयते, देध्मीयते। ई घ्राध्मोः ७।४।३१ यङि च ७।४।३० इति ईकाराऽदेशः, तस्य स्थानिवद्भावादाकारस्य द्विर्वचनं स्यात्, अज्ग्रहणान् न भवति।
लघु-सिद्धान्त-कौमुदी
द्विर्वचनेऽचि ४७६, १।१।५८

द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये। गोपायाञ्चक्रतुः॥
न्यासः
द्वर्वचनेऽचि। , १।१।५८

पूर्वं कार्यातिदेशः कृतः, इदानीं तु रूपातिदेशार्थमिदमारभ्यते। अथ वा निमित्तात् पूर्वमित्येतस्मिन् पक्षेऽनन्तरसूत्रेण द्विर्वचनविधिं प्रति प्रतिषेधः प्राप्तः इत्यस्यारम्भो वेदितव्यः। "द्विर्वचनेऽचि" १।१।५८ इति समानाधिकरणे सप्तम्यौ। तत्राज् विशेष्यः, द्विर्वचनं विशेषणम्। विशेषणविशेष्यभावस्य च प्रयोजनं "दुद्यूषति" इति प्रत्युदाहरण दर्शयिष्यते। कथं पुनरज् द्विर्वचनशब्देनोच्यते? द्वर्वचननिमित्तत्वात्। अत एव वृत्तावाह-- "द्विर्वचननिमित्तेऽचि" इति। भवति हि तन्निमित्तत्वात् ताच्छब्द्यम, यथा -- "आर्युर्घुतम्" इति। परसप्तमी चेयमपीति "यस्मिनन् विधिस्तदादावल्ग्रहणम्" (व्या।प।१२७) इति अजादाविति द्रष्टव्यम्। परस्मिन्निति च प्रकृत्वात् परस्मिन्नजादाविति गम्यते। अथ वा - द्वर्वचनस्य प्रत्ययविशेषनिमित्त्वाद् द्विर्वचनग्रहणेन प्रत्ययः सन्निधापितः, तेनाजादौ प्रत्यय इति प्रतीयते। यदि तह्र्रजादावजादेशः स्थानिवद्भवति, "पपौ" इति न सिध्यति, न ह्रजादावादेशः, किं तर्हि? अच्येव; इहापि व्यपदेशिवद्भावेना-जादित्वमस्तीत्यदोषः। इह तर्हि न सिध्यति-- "चक्रतुः" इति; अच्येव तु यणादेशो विधीयते, न त्वजादौ? नैष दोषः; यो ह्रत्राचि यणादेशो विधीयते सोऽजादावपि भवत्येव। यदि द्विर्वचननिमित्तेऽच्यजादेशः स्थानिवद्भवति सर्वस्यामवस्थायां द्विर्वचनादुत्तरकालमपि स्यादित्यत आह--"द्विर्वचन एव कत्र्तव्ये" इति। एवकारेण द्विर्वचन क्रिया- कालात् कालान्तरे स्थानिवद्भावस्याभावं दर्शयति। कथं पुनरेतल्लभ्यते, यावतैकं द्विर्वचनग्रहणम्, तेन चाज् विशेषितः? एवं मन्यते-- द्वितीयमपि द्विर्वचनग्रहणमन- न्तरसूत्रादिहानुवत्र्तते। अथ वा- द्विर्वचनञ्चेत्येकशेषं कृत्वा "द्विर्वचने" इति निर्देशः कृतः। तत्रैकेन द्विर्वचनग्रहणेन "द्वर्वचननिमित्तेऽचि" इत्थेषोऽर्थो लभ्यते। द्वितीयेन तु "द्विर्वचन एव कत्र्तव्ये" इति। इह द्विर्वचने कत्र्तव्ये स्थानिवद्भावो विधीयते इत द्विर्वचनकार्यार्थं एवैष प्रतीयते। साच्कस्य द्विर्वचनं विधीयमानमनच्क- स्य न प्राप्नोति युज्यते द्विर्वचनकार्यार्थत्वमस्य। "द्वर्वचनकार्यार्थत्वमस्य। "द्विर्वचनकार्यार्थे त्वस्मिन् --"चक्रतुः,चक्रुः" इत्यत्रास्यानच्कस्य द्विर्वचने कृते सतीष्टमभ्यासरूपं न सिध्यति" इतिव्यामोहाद् यो मन्यते, तं प्रत्याह-- "रूपातिदेशश्चायम्" इति। "च" शब्दोऽवधारणे, रूपातिदेश एव, न कार्यातिदेश इत्यर्थः। कुतः पुनरेष निश्चयः-स "रूपातिधेशश्चायम्" इति? अज्ग्रहणात्। तस्य ह्रेतत् प्रयोजनम्-- "जेघ्रीयते देध्मीयते" इत्यत्र मा भूदिति। यदि चायं द्विर्वचनकार्यातिदेशः स्यान्न रूपातिदेशः; अज्ग्रहणमनर्थकं स्यात्। भवत्वत्र स्थानिवद्भावः, तथापि न कश्चि-द्विशेषः। तथा हि-- यद्यप्यत्र स्थानिवद्भावः, एवमपि द्विर्वचनकार्येण भवितव्यम्; अथापि न स्थानिवद्भावः, एवमपि भवितव्यम्--उभयत्रापि साच्कत्वात्, ततश्च कथमेतत् प्रत्युदाहरणम्? तदेतदज्ग्रहणं कथमर्थवद् भवति? यद्येष रुपादेशः ररूपेऽस्यातिदि- श्यमाने यद्यज्ग्रहणं न क्रियते तदिहापि रूपातिदेशे सति ध्रा इति, ध्मा इति च द्वि-र्वचनं स्यात्, तथाऽनिष्टमभ्यासरूपं प्रसज्येत। तस्मादज्ग्रहणाद् रूपातिदेशोऽय- मिति निश्चीयते। यद्येवम्, भेदनिबन्धनो वतिर्नं प्राप्नोति; स्थान्येव हि पुनरात्मीयं रूपं प्रापित इति कुतो भेदः? आतिदेशिकानामतिदेशिकत्वेन रूपभेदस्य विवक्षितत्वाददोषः। "द्विर्वचन एव कत्र्तव्ये" इति यदुक्तं तस्यार्थं विस्पष्टीकर्तुमाह--"नियतकालः" इति। कृते द्विर्वचने इत्यादिना तदेव नियकालत्वं दर्शयति। "जघ्नतुः" इति। "अभ्यासाच्च" ७।३।५५ इति हकारस्य कुत्वम्। "आटिटत्" इति। अटतेर्हेतुमति णिच्; लुङ्, चङ, "चङि" ६।१।११ इति "अजादे- र्द्वितीयस्य" ६।१।२ इति द्विर्वचनम्। "आडजादीनाम्"६।४।७२ इत्याड् भवति। "निनय" इत्यादि। "णलुत्तमो वा" ७।१।९१ इति यदा णित्त्वं नास्ति तदा गुणः, यदा णित्वं तदा वृद्धिः। "जग्ले,मग्ले" इति। "ग्लै हर्षक्षये" (धा।पा। ९०४), "म्लै गात्रविनामे" (धा।पा।९०४) "आदेश उपदेशेऽशिति" ६।१।४४ इत्यात्त्वम्। भावे आत्मनेपदम्, "लिटस्तझयो-रेशिरेच्" ३।४।८१इत्येश्। "श्रवणमाकारस्य न भवति" इति। यदा कालावधिपरिग्रहार्थं द्विर्वचनग्रहणं न क्रियते, तदोत्तरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणमेव स्यात्। आतो लोपस्य तु गोद इत्येवमाद्यवकाशः। श्रूयमाणे चाकारे परेण सह वृद्धिः स्यात्। "दुद्युषति" इति। दिवेः "सनीवन्तर्ध" ७।२।४९ इत्यादिना यदा पक्ष इडागमो न क्रियते तदा "इको झल्" १।२।९ "हलन्ताच्च" १।२।१० इति कित्त्वम्, ततः "च्छ्वोः शूडनुनासिके च" ३।४।१९ इत्यूठ्। स च द्विर्वचननिमित्तं न भवति। तत्र यदि द्विर्वचननिमित्तत्वेन नाज् विशेष्यते, ऊठि परतो यो यणादेशस्तस्यापि स्थानिवद्भावः स्यात्। एवं चाभ्यासरूपमिवर्णान्तं श्रूयेत। द्विर्वचननिमित्तच्परिग्रहे तु "द्यु" इत्यस्य द्विर्वचनं भवति। तत्र हलादिशेषह्यस्वत्वयोर्दुद्यूषतीत्यभ्यासरूपमुकारा- न्तं सिध्यति॥
बाल-मनोरमा
द्विर्वचनेऽचि ८९, १।१।५८

द्विर्वचनेऽचि। द्विरुच्यते येन परनिमित्तेन तद्द्वर्वचनं। द्वित्वनिमित्तमिति यावत्। अचीत्यस्य विशेषणमिदम्। "अचः परस्मिन्नित्यतोऽच इति, "स्थानिवदादेश" इत्यत आदेश इति, न पदान्तेत्यतो नेति चानुवर्तते। द्विर्वचन इत्यावर्तते। एवं च "द्वित्वे कर्तव्ये सती" त्यपि लभ्यते। तदाह--द्वित्वनिमित्तेऽचीत्यादिना। "द्वित्वे कर्तव्ये सती"त्युक्तेः कृते द्वित्वे "चक्रे" इत्यादौ यणादयो भवन्ति। अन्यता तु न स्युः, द्वित्वनिमित्तस्य अचः सत्त्वात्। द्वित्वनिमित्त इति किम्?। दुद्यूषति। दिव्धातोः सनि द्वित्वात्परत्वादूठि कृते द्वित्वात्प्राग्यण् भवत्येव। तथा च "द्यू" इत्यस्य द्वित्वे दुद्यूषतीति सिध्यति। द्वित्वे कर्तव्ये यणो निषेधे तु दिद्यूषतीत्यभ्यासे इकार एव श्रूयेत। न तूकारः। "द्वित्वनिमित्ते" इत्युक्तौ तूठि परे द्वित्वात्प्राग्यण्यो न निषेधः, ऊठो द्वित्वनिमित्तत्वाऽभावात्। अचीति किम्? । जेघ्रीयते। अत्र घ्राधातोर्यङि द्वित्वात्प्राक "ई घ्राध्मो"रितीकारादेशो न निषिध्यते। ईत्वस्य द्वित्वनिमित्त यङ्()निमित्तकत्वेऽपि द्वित्वनिमित्ताऽज्निमित्तकत्वाऽभावात्। अचः किम्?। असूषुपत्। इह स्वापेश्चङि द्वित्वात्प्राक् "स्वापेश्चङी"तिवकारस्य सम्प्रसारणं न निषिध्यते, तस्याऽजादेशत्वाऽभावात्। ततश्च कृते सम्रसारणे सुप् इत्यस्य द्वित्वेऽब्यासे उकारस्य श्रवणं संभवति। संप्रसारणे निषिद्दे तु "स्वप्" इत्यस्य द्वित्वेऽभ्यासे उकारो न श्रूयेत। एवं च प्रकृते यणादेशात्प्राग् "लिटि धातो"रिति द्वित्वे कृ कृ ए इति स्थिते--।

तत्त्व-बोधिनी
द्विर्वचनेऽचि ७०, १।१।५८

अचा सामानाधिकरण्यलाभाय द्विर्वचनशब्दस्य तन्निमित्ते लक्षणा स्वीक्रियते। यद्वा-- उच्यत इति वचनं, द्विः-- वचनं यस्मिन्नचि तद्द्विर्वचनम्। अथवा द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच्। तदेतदाह-- द्वित्वनिमित्तेऽचीति। इह "अचः परस्मि"न्नित्यतोऽच इति, "स्थानिवदादेशः" इत्यस्मादादेश इति, "न पदान्ते"त्यतो नेति चानुवर्तते। तदाह-- अच आदेशो न स्यादिति। यद्यपीहि वृत्त्यादौ-- "अजादेशः स्थानिवत्स्या"दिति रूपातिदेशपक्षः स्वीकृतः फलं चोभयत्र तुल्यं, तथाप्यादेशनिषेधपक्षोऽपि भाष्यारूढ इति स एवात्र स्वीकृतः। किं च आदेशमङ्गीकृत्य पुनः स्थानिरूपाश्रयणापेक्षया निषेधपरतया व्याख्यानमेव लघु। "प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वर"मिति न्यायात्। "न पदान्ते"ति निषेधानन्तरं पाठोऽप्येवं सत्यनुगृहीत इति श्रेयानयं पक्षः।

इष्टानुरोदेन द्विर्वचन इत्यावर्त्त्य कालावधारणपरतयापि व्याचष्टे-- द्वित्वे कर्तव्ये इति। कृते तु द्वित्वे यथायथमादेशः स्यादेवेति भावः। द्वित्वनिमित्ते किम्?। दुद्यूषतीत्यत्र द्वित्वात्परत्वादूठि कृते यदि यणः पूर्वमेव द्वित्वं स्यात्तदा दिद्यूषतीत्यनिष्टं रूपं स्यात्तन्माभूदिति द्वित्वनिमित्त इत्युक्तम्। नह्रूठ् द्वित्वनिमित्तम्। अचीति किम्?। जेघ्रीयते। देध्मीयते। शाशय्यते। इह "ई घ्राघ्मो"रिति ईकारः, "अयङ् यि क्ङिती"त्ययहादेशस्च निषिध्येत, स माभूदिति प्राञ्चः। अन्ये त्वाहुः-- अचीति व्यर्थं, घ्रीय्-ध्मीय्-शय्य् इति द्वितीयाऽजवधिकस्यैकाचः कार्यितया यङो द्वित्वनिमितत्वाऽभावादिति। अचः किम्?। असूषुपत्। इह "स्वापेश्चङी"ति यत्संप्रसारणं तस्मिन्निषिद्धेऽभ्यासे उवर्णो न श्रूयेत्। न च द्वित्वे कृते "यून" इत्यत्रेव "न संप्रसारणे" इति पूर्वस्य यणः संप्रसारणनिषेधात्। स्यादेतत्--- चक्रतुरित्यत्र अच आदेशस्य निषेधाऽप्रवृत्त्या यण् स्यादेव। अतुसो द्वित्वनिमित्तत्वेऽप्यकारस्याऽतथात्वात्। न च "द्विर्वचनेऽची"त्यस्य वैयथ्र्यं, चक्रे इत्यादौ सावकाशत्वात्। तथा चैकाच्त्वाऽभावात् "लिटि धातो"रितीह द्वित्वं न स्यादिति चेत्। मैवम्। इह द्वित्वनिमित्तशब्देनसाक्षाद्वा, समुदायघटकतया वा यद्द्वित्वप्रयोजकं, लक्ष्यानुरोधेन तस्य सर्वस्य ग्रहणात्। एतच्च "ठस्येकः" इति सूत्रे कैयटे स्पष्टम्। तथा च ऊर्णोतेः सनि "सनीवन्ते"तीट् पक्षे "विभाषोर्णो"रिति ङित्त्वविरहे ऊर्णुनविषतीति सिद्धम्। सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयोजकत्वेन तस्मिन्परे प्राप्तयोर्गुणाऽवादेशयोर्द्वित्वे कर्तव्ये निषेधात्। अत एवाहुः--- "तद्भावबावितामात्रेणेह निमित्तत्व"मिति। एवं च द्वित्वनिमित्तघटकतया सन इडागमोऽतुस अकारश्च द्वित्वनिमित्तमिति स्थितम्। नन्वेवम्, ऋदातोः सनि "स्मिपूङ्रञ्ज्वशां सनी"तीटि कृते इस्शब्दनिमित्तकस्य गुणस्य "द्विर्वचनेऽची"ति निषेधे "अजादेर्द्वितीयस्ये"ति द्वित्वप्रसङ्गादरिरिषतीति न सिध्येत्। रिस्()शब्दनिमित्तकस्य दित्वे तु यद्यपि सिध्यति तथापि गुणनिषेधे रिस्()शब्द एव दुर्लभ इति चेत्। अत्राहुः-- गुणे रपरे कृते निमित्ततयाऽ‌ऽश्रीयते, "स्थण्डिलाच्छयितरिव्रते" इति ज्ञापकात्। अन्यथा शीङो ङित्वेन "क्ङिति चे"ति गुणनिषेधाच्छयितरीति रूपस्याऽसिद्ध्यापत्तेः। न च "किति ङिति परे गुणवृद्धी ने"ति व्याख्यायमुक्तेऽर्थे शयितरीति न ज्ञापकमिति वाच्यं, तद्व्याख्यायां छिन्नं भिन्नमित्यत्र गुणनिषेधो न स्यादित्यादिदोषस्य "क्ङिति चे"ति सूत्र एवोपपादितत्वात्। न चैवं कार्यिणो निमित्तत्वाऽनाश्रयणे सन्नन्तस्य कार्यित्वातत्सनि परतः प्राप्तयोर्गुणावादेशयोरनिषेधादूर्णुनविषतीत्यपि न स्यादिति वाच्यं, मत्वर्थीयेनेनिना कार्यमनुभवत एवं कार्यित्वाऽलाभात्। ऊर्णोतेर्हि नुशब्द एव द्वित्वरूपं कार्यमनुभवति, न तु सन्। अरिरिषतीत्यत्र तु रिस्()शब्दः कार्यभागिति वैषम्यादिति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अदर्शनम् १।१ ६० लोपः १।१ इति १।१ ४३

समासः॥

न दर्शनम् अदर्शनम्, नञ्-तत्पुरुषः

अर्थः॥

इति इत्येतत् पदं {न वेति विभाषा १।१।४३} इत्यतः मण्डूक-प्लुत-गत्या अनुवर्तते॥
यत् भूत्वा न भवति, तत् अदर्शनम् = अनुपलब्धिः वर्णविनाशः तस्य लोपः इति संज्ञा भवति, अर्थात् प्रसक्तस्य अदर्शनं लोपसंज्ञकं भवति

उदाहरणम्॥

शालीयः। गौधेरः। पचेरन्। जीरदानुः। आस्रेमाणम्॥
काशिका-वृत्तिः
अदर्शनं लोपः १।१।६०

अदर्शनम्, अश्रवणम्, अनुच्चारनम्, अनुपलब्धिः, अभावो, वर्णविनाशः इत्यनर्थान्तरम्। एतैः शब्दैर्यो ऽर्थो ऽभिधीयते, तस्य लोपः इति इयं संज्ञा भवति। अर्थस्यैयं संज्ञा, न शब्दस्य। प्रसक्तस्य अदर्शनं लोपसंज्ञं भवति। गोधाया ढ्रक् ४।१।१२९ गौधेरः। पचेरन्। जीवे रदानुक् जीरदानुः। स्त्रिवेर्मनिनास्रेमाणम्। यकारवकारयोरदर्शनम् इह उदाहरणम्। अपरस्य अनुबन्धादेः प्रसक्तस्य। लोपप्रदेशाःलोपो व्योर् वलि ६।१।६४ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
अदर्शनं लोपः २, १।१।५९

प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।
न्यासः
अदर्शनं लोपः , १।१।५९

"अदर्शनम्" इत्यादि। ननु चादर्शनानुपलब्धिशब्दावनुपलब्धिसामान्यवचनौ। अश्रवणानुपच्चारणशब्दौत्वनुपलब्धिविशेषवचनौ। तथा ह्रश्रवणादिशब्दोच्चारणे शब्दस्यैवानुपलब्धिः प्रतीयते, नानुपलब्धिमात्रम्, न च सामान्यविशेषशब्दानामेकार्थता, तत् किमित्येवमाह-- "अनर्थान्तरम्" इति। एवं मन्यते- सामान्यशब्द अपि प्रकरणवशाद् विशेषे वर्तन्ते। इह च शब्दा व्युत्पाद्यत्वेन प्रकृताः, तस्माद् यद्यप्यदर्शनानुपलब्धिशब्दौ सामान्यवचनौ, तथापीह प्रकरणसामथ्र्याद् विशेषे शब्दानुपलब्धावेव वत्र्तेते। इह वृद्धिरित्यादिकाः संज्ञा शब्दानां विहिताः। तद्वदिहाप्यदर्शनमित्यस्यैव शब्दस्य "लोपः" इत्येषा संज्ञा स्यात्। ततश्च लोपप्रदेशेष्वदर्शनशब्दस्यैवोपस्थानात् स एवादेशः स्यादित्यत आह-- "एतैः शब्दैः" इत्यादि। कथं पुरेतल्लभ्यते? एवं मन्यते-- "नवेति विभाषा" १।१।४३ इत्यत इतिकरणोऽर्थनिर्दशार्थोऽनुवत्र्तते। तेन ह्रवधारणं गम्यते, यथा--- "क्रिया हि द्रव्यं विनयति नाद्रव्यम्" इति। विनापीकरणेन शब्द-स्वरूपस्य संज्ञा सिध्यत्येव, यथा-- "तरप्तमपौ घः" १।१।२१ इत्यत्र। तस्मादिति- करणानुवृत्तिसामथ्र्याददर्शनमिति योऽर्थः प्रतीयते, तस्यैवेषा संज्ञा, न शब्दस्य। किञ्च "लोपः" महती संज्ञा क्रियते यथान्वर्थसंज्ञा विज्ञायेत। लोपनं लोपः; अनुपलब्धिरनुच्चारणमित्यर्थः। न चादर्शनमित्येतच्छब्दरूपमेवाभावात्मकम्, किं तर्हि? तदर्थः। तस्मादन्वर्थसंज्ञाविज्ञानादर्थस्यैवैषा संज्ञा। यदि तह्र्रर्थस्यैवैषा संज्ञा, ततोऽतिप्रसङ्गः। सर्वो हि शब्दः स्वविषयादन्यत्र न दृश्यते। ततश्च "त्रपुजतु" इत्यत्र क्विपोऽदर्शनस्य लोपसंज्ञा स्यात्। एवञ्च सति "प्रत्ययलोपे प्रत्यय- लक्षणम्" १।१।६१ इति ह्यस्वस्य पिति कृति तुक्" ६।१।६९ इति तुक् प्रसज्यत इत्यत आह-- "प्रसक्तस्य" इत्यादि। तर्हयदर्शनमात्रस्यैषा संज्ञा? न किं तर्हि? शास्त्रादर्थाद्वा कुतश्चित् प्रसक्तस्य यददर्शनं तस्यैव। तदिह न केनचित्प्रकारेण क्विप्प्रसङ्गोऽस्ति, तत्कुतोऽस्तिप्रसङ्गः? कतं पुरेष विशेषो लभ्यते, यावता नेहप्रसक्तग्रहणमस्ति, नापि तत् कृतम्? एवं मन्यते-- "स्थानिवत्" इत्यतः स्थानिग्रहण-मिहाप्यनुवर्तते, स्थानी, प्रसङ्गवन्, प्रसक्तः-- इति पर्याया ह्रेते। तेनायमर्थो लभ्यते-- प्रसक्तस्य यददर्शनं तस्येयं संज्ञेति। "गौधेरः" इति। "गोधाया ढ्रक्" ४।१।१२९ एयादेशः, "लोपो व्योर्वलि" ६।१।७३ इति यकारस्य शास्त्रेण प्रसक्तस्य लोपः। "पचेरन" इत्यत्रापि सीयुटः शारुओण। एवम- न्यत्रापि यथायोगं प्रसक्तता वेदितव्या। "जीरदानुः" "आस्त्रेमाणम्" इति। पूर्वपद् वकारस्य लोपः। "स्त्रिवु गतिशोषणयोः" (धा।पा। ११०९) यस्य "सर्वधातुभ्यो मनिन्" इति मनिन्प्रत्ययान्तस्य द्वितीयैकवचन उपधादीर्गेणैत्वे चकृते "आरुओमाणम्" इति। "अपरस्यानुबन्धादेः" इति। ककारादेरनुबन्धस्य। आदिशब्देन सीयुट्सकारस्य।
बाल-मनोरमा
अदर्शनं लोपः ५५, १।१।५९

सुद् ध् य् इत्यत्र यकारस्य संयोगान्तलोपं शङ्कितुं लोपसंज्ञासूत्रमाह--अदर्शनं लोपः। शब्दानुशासनप्रस्तावाच्छब्दविषयकश्रवणंमिह दर्शनं विवक्षितम्। दर्शनस्याभावोऽदर्शनम्। अर्थाभावेऽव्ययीभावः। "स्थानेऽन्तरतमः" इत्यतः स्थां इत्यनुवर्तते। स्थानं प्रसङ्ग इत्युक्तम्। शास्त्रतः शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदश्रवणं तल्लोपसंज्ञं भवतीत्यर्थः।

तत्त्व-बोधिनी
अदर्शनं लोपः ४७, १।१।५९

अदर्शनं लोपः। अत्र दृशिज्र्ञानसामान्यवचनः। दर्शनं ज्ञानं। तदिह शब्दानुशासनप्रस्तावाच्छब्दविषयकं सच्छ्रवणं संपद्यते। तच् श्रोतृव्यापारः, तन्निषेधोऽश्रवणम्। नन्वेवं "लोपो व्योर्वली"त्यादौ वकारयकारौ न श्रोतव्याविति श्रोतृव्यापार एव निषिध्येत, प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात्। अत्राहुः-असति च श्रवणे उच्चारणमनर्थकमवेति सामथ्र्याच्छ्रवणनिषेधे तद्धेतुभूतमुच्चारणमपि निषिद्धं भवतीति। प्रसक्तस्येति। इह "स्थाने" इत्यनुवर्तनादेताल्लभ्यते। प्रसक्तस्येति किम्? दधि मध्वित्यादौ तुगागमो मा भूत्। अस्ति हि तत्र क्विपोऽदर्शनम्, तच्च लोप इति प्रसक्तविशेषणाभावे प्रत्ययलक्षणेन तुक् स्यादेवेति दिक्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ प्रत्ययस्य ६।१ लुक्-श्लु-लुपः १।३ अदर्शनम् १।१ ५९

समासः॥

लुक् च श्लु च लुप् च लुक्श्लुलुपः, इतरेतरद्वन्द्वः

अर्थः॥

({इति} इत्येतत् पदम् अत्रापि सम्बध्यते)॥ प्रत्ययस्य अदर्शनस्य लुक्-श्लु-लुप् इत्येताः संज्ञाः भवन्ति।

उदाहरणम्॥

लुक् - विशाखः स्तौति। श्लु - जुहोति। लुप् - वरणाः पञ्चालाः।
काशिका-वृत्तिः
प्रत्ययस्य लुक्श्लुलुपः १।१।६१

अदर्शनम् इति वर्तते। प्रत्यय। अदर्शनस्य लुक्, श्लु, लुपित्येताः संज्ञा भवन्ति। अनेकसंज्ञाविधनाच्च तद्भावितग्रहणम् इह विज्ञायते। लुक्संज्ञाभावितं प्रत्ययादर्शनं लुक्संज्ञम् भवति, श्लुसंज्ञाभावितं श्लुसंज्ञं भवति, लुप्संज्ञा भावितं लुप्संज्ञं भवति। तेन संज्ञानां सङ्करो न भवति। विधिप्रदेशेषु च भाविनी संज्ञा विज्ञायते। अत्ति। जुहोति। वरणाः। प्रत्ययग्रहणम् किम्? अगस्तयः। कुण्डिनाः। लुक्श्लुलुप्प्रदेशाः लुक्तद्धितलुकि १।२।४९, जुहोत्यादिभ्यः श्लुः २।४।७५, जनपदे लुप् ४।२।७० इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
प्रत्ययस्य लुक्श्लुलुपः १८९, १।१।६०

लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥
न्यासः
प्रत्ययस्य लुक्?श्लुलुपः। , १।१।६०

यथा वृद्धिशब्दस्तद्भावितानमतद्भावितानामपि संज्ञा, तथा लुगित्यादिका अप्यतद्भावितस्यापि संज्ञाः प्राप्नुवन्ति, ततश्च संज्ञासंकरः स्यात्। संज्ञासंकरे हि सति संकीर्येरन्नित्यत आह-- "अनेकसंज्ञाविधानाच्च" इत्यादि। यद्यतद्भावितस्या- प्येताः संज्ञाः स्युः, अनेकसंज्ञाकरणमर्थकं स्यात्; एकस्यैव सर्वकार्यसिद्धः। तस्मादनेकसंज्ञाविधानाद् यददर्शनं यया संज्ञयोच्चारितया भावितम्= निष्पादितं, तस्यैव प्रत्ययादर्शनस्य सा संज्ञा, नान्यस्येति न भवति संकरः। एवं तर्हीतरेतराश्रयदोषः प्राप्नोति, तथा हि-- संज्ञया विशिष्टमदर्शनं भाव्यम्, सति च तस्मिन् प्रत्यया- दर्शने संज्ञया भाव्यमित्यत आह-- "विधिप्रदेशेषु च" इत्यादि। तददर्शनं विधीयते यस्य विहितस्य लुगित्येवमादिकाः संज्ञा भवन्तीति भाविन्याः संज्ञया विज्ञानान्न भवतीतरेतराश्रयदोषः। "अत्ति" इति। "अदिप्रभृतिभ्यः शपः" २।४।७२ इति शपो लुक्। "जुहोति" इति। "जुहोत्यादिभ्यः श्लुः" २।४।७५। "वरणाः" इति। वरणानां वृक्षाणामदूरभवो ग्राम इति। "प्राग्दीव्यतोऽण्" ४।१।८३ तस्य "वरणादिभ्यश्च" ४।२।८१ इति लुप्। "अगस्तयः, कुण्डिनाः" इति। यदि प्रत्ययग्रहमं न क्रियेत, आगस्त्यस्याप- त्यानि बहूनि "ऋष्यन्धकवृष्णिकुरुभ्यः" ४।१।११४ इति ऋष्यण्। कुण्डिन्या अपत्यानि बहूनि गर्गादित्वाद् यञ् ४।१।१६५, तयोरागस्त्यकौण्डिन्यशब्दयोर्जसि परतो यदा " आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्" २।४।७० इति लुक् क्रियते,अगस्तिकुण्डिनचौ चादेशौ; तदा वैषम्यादेकैकस्य षष्ठीनिर्दिष्टस्य स्थानिनस्त्रय आदेसाः पर्यायेण स्युः। तत्र यदा लुक् क्रियते तदा विभक्तिमात्रस्य श्रवणं प्राप्नोति। अथाप्यलोऽ- न्त्यस्य स्यात्ेवमप्यागस्त्यः,कौण्()डिन्यः इति स्यात्; अगस्तयः, कुण्डिना इति चेष्यते। यदाप्यागस्त्यशब्दस्य कुण्डिनजादेशः, कौण्डिन्यशब्दस्य चागसत्यादेशः, तथाप्यनिष्टमेव प्राप्नोति। आगस्त्यशब्दस्य हि जसन्तस्य अगस्तयैति रूपमिष्यते, कौण्डिन्यशब्दस्य तु कुण्डिना इति। अत एवागस्तयः कुण्डिना इत्यनयानुपूव्र्या तयोरुपन्यासः। अथाप्यान्तरतम्यादागस्त्यशब्दस्यागस्तिशब्द एवादेशो भवति, न कुण्डिनजिति? कौण्डिन्यशब्दस्यापि कुण्डिनजादेशो भवति, नागस्तिशब्द इति? एवमपि नैवानिष्टापत्ते- र्मुक्तिः। तथा हि-- एवं ह्रगस्तयः, कुण्डिना इति च सिध्यति, तथापि प्राग्दीव्यतीये-ऽजादौ प्रत्यये विवक्षिते सति "वृद्धाच्छः" ४।२।११३ इति च्छोः न स्यात्वृद्ध-त्वात्। प्रकृतेः। प्रत्ययग्रहणे तु सति तददर्शनस्यैवेयं संज्ञा विहितेति तस्यैव लुग् भवति। परिजादिप्रत्ययविवक्षायामपि "गोऽत्रेऽलुगचि" ४।१।८९ इति लुकि प्रतिषिद्धे वृद्धाच्छप्रत्ययश्च। अगस्तीनां छात्रा आगस्तीया इति। कौण्डिन्यशब्दात् तु सत्यपि लुकि "कण्वादिभ्यो गोत्रे" ४।२।११० इत्यणेव भवति-- कौण्डिन्याश्चात्रा इति। तेन तत्र छप्रत्ययाभावदोषो न प्रसञ्जनीयः।
बाल-मनोरमा
प्रत्ययस्य लुक्श्लुलुपः २५८, १।१।६०

अतो नैवमर्थः, किं तु लुक्श्लुलुप इत्यावर्तते। ततश्च लुक् श्लु लुप इत्युच्चार्य विहितं प्रत्ययाऽदर्शनं यथासङ्ख्यपरिभाषया क्रमाल्लुगादिसंज्ञं स्यादिति लभ्यते, अतो नोक्तसङ्कर इत्यभिप्रेत्याह-लुक्श्लुलुप्शब्दैरित्यादिना। "फले लुक्", "जुहोत्यादिभ्यः श्लुः" "जनपदे लुप्" इत्यादिविधिप्रदेशेषु "अस्य सूत्रस्य शाटकं वये"तिवद्भाविज्ञानान्नान्योन्याश्रयः। तदेवं कतिशब्दस्य षट्संज्ञायाम्--।

तत्त्व-बोधिनी
पत्ययस्य लुक्श्लुलुपः २१९, १।१।६०

पत्ययस्य लुक्श्लुलुपः। "अदर्शनं लोपः"इत्यतोऽनुवृत्तस्याऽदर्शनस्यानेकसंज्ञाकरणसामथ्र्यात्तन्त्त्राद्यश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते, तेन संज्ञासङ्करोऽत्र न भवति, तदेतदाह--लुक्श्लुलुप्शब्दैरित्यादि। सति तु संज्ञासङ्करे "हन्ती"त्यत्र शब्लुकि "श्लौ"इति द्वित्वं स्याति। "जुहेती"त्यत्र श्लौ सति "उतोवृद्धिर्लुकि हली"ति वृद्धिः स्यात्। न च तत्र "अभ्यस्तस्य ने"त्यनुवृत्तेर्योयोति नोनोतीत्यादाविव वृद्धिर्न भविष्यतीति वाच्यं, संज्ञासङ्करपक्षे तदनुवृत्त्यसंभवात्, अन्यथा सूत्रस्य निर्विषयत्वापत्तेः। न च "यौती"त्यादिरवकाशः, संज्ञसङ्करे तत्रापि द्वित्वस्य दुर्वारत्वादिति भावः। "फले लुक्" "जुहोत्यादिभ्याः श्लुः""जनपदे लु"बित्यादिविधिप्रदेशेषु सूत्रशाटक वद्भाविसंज्ञाविज्ञानान्नान्योन्याश्रयः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ प्रत्ययलोपे ७।१ ६२ प्रत्ययलक्षणम् १।१ ६२

समासः॥

प्रत्ययस्य लोपः प्रत्ययलोपः, तस्मिन् प्रत्ययलोपे, षष्ठीतत्पुरूषः। प्रत्ययः लक्षणं यस्य कार्यस्य, तत् प्रत्ययलक्षणम्, बहुव्रीहीः।

अर्थः॥

प्रत्ययस्य लोपे सति, प्रत्ययनिमित्तं (प्रत्ययहेतुकं) कार्यं भवति।

उदाहरणम्॥

अग्निचित्। सोमसुत्। अधोक्।
काशिका-वृत्तिः
प्रत्ययलोपे प्रत्ययलक्षणम् १।१।६२

प्रत्ययनिमित्तं कार्यम् असत्यपि प्रत्यये कथं नु नाम स्यातित् सूत्रम् इदम् आरभ्यते। प्रत्ययलोपे कृते प्रत्ययलक्षणं प्रत्ययहेतुकं कर्यं भवति। अग्निचित्, सोमसुत्, अधोक्, इत्यत्र सुप्तिङोः लुप्तयोः सुप्तिङन्तं पदम् १।४।१४ इति पदसंज्ञा भवति। अधोकिति दुहेः लङि तिपि शब्लुकि तिलोपे घत्वभष्भावजश्त्वचर्त्वेषु कृतेषु रूपम्। प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किम्? कृत्स्नप्रत्ययलोपे यथा स्यात्। इह मा भूत् आघ्नीय। सङ्ग्मीय। हनिगम्योर् लिङात्मनेपदे लिङः सलोपो ऽनन्त्यस्य ७।२।७९ इति सीयुट्सकारलोपः प्रत्ययैकदेशलोपः, तत्र प्रत्ययलक्षणेन झलि इत्यनुनासिकलोपो न भवति ६।४।३७ प्रत्ययलक्षणम् इति किम्? रायः कुलं रैकुलम्। गवे हितम् गोहितम्। आयवादेशौ न भवतः वर्णाऽश्रयत्वात्।
लघु-सिद्धान्त-कौमुदी
प्रत्ययलोपे प्रत्ययलक्षणम् १९०, १।१।६१

प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते॥
न्यासः
प्रत्ययलोपे प्रत्ययलक्षणम्। , १।१।६१

"प्रत्ययलक्षणम्" इति। प्रत्ययो लक्षणं यस्येति कार्येऽन्यपदार्थे बहुव्रीहिः। प्रत्ययनिमित्तमित्यादिना सूत्रारम्भस्य प्रयोजनमाह। ननु च स्थानिवद्भावनाप्येतत् सिध्यति, नैतदस्ति; अलाश्रयमपि हि प्रत्ययलोपे प्रत्ययलक्षणं कार्यमिष्यते। तथा ह्रग्निचिदित्यत्र "ह्यस्वस्य पिति कृति तुक्" ६।१।६९ इत्यलाश्रयोऽपि तुग् भवत्येव। "अग्निचित्" इति। "अग्नौ चेः" ३।२।९ इति क्विप्। अधोगिति हल्ङ्यादिसूत्रेण तिलोपः; अदादित्वाच्छपो लुक् २।४।७२ "दादेर्धातोर्घः" ८।२।३२ इति धत्वम्, "एकाचो बशो भष्" ८।२।३७ इत्यादिना भष् धकारः, "झलाञ्जशोऽन्ते" ८।२।३९ इति जश्त्वम्, घकारस्य गकारः,तस्य "वावसाने" ८।४।५५ इति चर्त्वं ककारः। "प्रत्ययः" इति। "वर्तमाने" इति पूर्वसूत्रात्। "आहो यमहनः" १।३।२८इत्या-त्मनेपदम्। "गमहन" ६।४।९९ इत्यादिनोपधालोपः। "हो हन्तेः" ७।३।५४ इति घःष। " संग्मीय" इति। संपूर्वाद् गमेः "समो गमि" १।३।२९ इत्यादिनात्मनेपदम्। "इटोऽत्" इत्यद्भावः। "बहुलं छन्दसि" २।४।७३ इति शपो लुक्। पूर्ववदुपधालोपः। "अनुनासिकलोपो न भवति" इति। "अनुदात्तोपदेश" ६।४।३७ इत्यादिना। "रैकुलम्" इति। षष्ठीसमासः। "गोहितम्" इति। "चतुर्थी" २।१।३५ इत्यादिना। अस्त्यत्र षष्ठीचतुर्थ्येकवचनयोः प्रत्ययर्लोपः; किं त्वयावादेशयोरचि विधानात् तद्विधौ वर्ण आश्रयीते, न तु प्रत्ययः। तेन वर्णनिमित्तकौ तौ न प्रत्ययनिमित्त- काविति न भवतः। ननु च चात्र प्रत्ययस्य लोपः क्रियते, किं तर्हि? लुक्, नैतदस्ति; लोपशब्दोऽपि सामान्येन तद्भावितस्यातद्भावितस्य चाऽदर्शनस्य संज्ञा। तस्माल्लुगपि लोपो भवत्येव॥
बाल-मनोरमा
प्रत्ययलोपे प्रत्ययलक्षणम्। २६०, १।१।६१

जसि लुप्तेऽपि "जसि चे"ति गुणमाशङ्कितुमाह-प्रत्यय-लोपे प्रत्यय। प्रत्ययो लक्षणं=निमित्तं यस्य तत्-प्रत्ययलक्षणम्। प्रत्ययस्य लोपे सति प्रत्ययनिमित्तकं कार्यं स्यादित्यर्थः। फलितमाह--प्रत्यये लुप्तेऽपीत्यादिना। स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं सूत्रम्। यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थं चेति भाष्यादिषु स्पष्टम्। इति जसि चेतीति। अनेन सूत्रेण लुप्तं प्रत्ययमाश्रित्य "जसि चे"ति गुणे प्राप्ते इत्यर्थः।

तत्त्व-बोधिनी
प्रत्ययलोपे प्रत्ययलक्षणम् २२०, १।१।६१

प्रत्ययलोपे प्रत्यय। विशेषविहिता अपि लुगादिसंज्ञा लोपसंज्ञां न बाधन्ते, एकसंज्ञाधिकारदन्यत्र संज्ञायां बाध्यबाधकभावानङ्गीकारादिति भावः। स्थानिवत्सूत्रेण सिद्धे नियमार्थमिदं सूत्रं,"प्रत्ययस्याऽसाधरणं रूपरं यत्र प्रयोजकं, तदेव कार्यं प्रत्ययलोपे सति भवति न तु प्रत्ययाऽप्रत्ययासाधरण"मिति। तेन शोभना दृषदो यस्य सुदृषत्प्रासाद इत्यत्र "नञ्सुभ्यां"मित्यन्तोदात्ततां बाधित्वा "सोर्मनसी अलोमोषसी"इत्युत्तरपदाद्युदात्तत्वम्, "अत्वसन्तस्ये"ति दीर्घश्च न भवति। यद्वा,--यत्र प्रत्ययः प्राधान्येनाश्रीयते तत्राऽल्विधावपि विध्यर्थसिद्धम्। तेन "अतृणे"डित्यत्र हलादौ पिति सार्वधातुके विहित इम् लुप्तेऽपि तस्मिन्भवति। "वर्णाश्रये नास्ति प्रत्ययलक्षण"मिति तु वर्णप्राधान्यविषयकम्, तेन गवे हितं "गोहित"मित्यत्राऽवैदेशोन। यद्यपीदं पक्षद्वयमाकरारूढं, तथापि नियमपक्ष एव प्रबल इति यड्लुगन्ते मनोरमायां स्थितम्। स्यादेतत्-सूत्रस्याऽस्याऽवश्यकत्वेऽपि "प्रत्ययलोपे तल्लक्षण"मित्येव सूत्र्यतां किमनेन द्वितीयप्रत्ययग्रहणेन? अत्राहुः-"प्रत्ययस्याऽसाधारणं रूपं यत्रे"त्यादिलाभाय द्वितीयप्रत्ययग्रहणमिति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ लुमता ३।१ अङ्गस्य ६।१ प्रत्ययलोपे ७।१ ६१ प्रत्ययलक्षणम् १।१ ६१

समासः॥

लु अस्मिन् अस्ति इति लुमान्, तेन लुमता, {तस्यास्त्यस्मिन्निति मतुप् (५।२।९४)} इत्यनेन मतुप् प्रत्ययः

अर्थः॥

लुमता शब्देन प्रत्ययस्य लोपे (अदर्शने) सति, तस्मिन् परतः यदङ्गं तस्य यत् प्रत्ययलक्षणं कार्यं तत् न भवति।

उदाहरणम्॥

गर्गाः, मृष्टः, जुहुतः, वरणाः।
काशिका-वृत्तिः
न लुमता ऽङ्गस्य १।१।६३

पूर्वेण अतिप्रसक्तं प्रत्ययलक्षणम् इति विशेषे प्रतिषेधः उच्यते। लुमता शब्देन लुप्ते प्रत्यये यदङ्गं, तस्य प्रत्ययलक्षणं कार्यं न भवति। गर्गाः। मृष्टः। जुहुतः। यञ्शपोर् लुमता लुप्तयोरङ्गस्य वृद्धिगुणौ न भवतः। लुमता इति किम्? कार्यते। हार्यते। अङ्गस्य इति किम्? पञ्च। सप्त पयः। साम।
लघु-सिद्धान्त-कौमुदी
न लुमताङ्गस्य १९१, १।१।६२

लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति २। कतिभिः। कतिभ्यः २। कतीनाम्। कतिषु। युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः॥ त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः २॥
न्यासः
न लुमताङ्गस्य। , १।१।६२

"लुमता" इति। लुशबोद यस्मिन्निस्ति स लुमान्। कः पुनरसौ? लुगित्यादिसंज्ञाशब्दः। करणे चेयं तृतीया, हे तौ व, इत्थम्भूतलक्षणे वा। लुमता करणेन लुप्ते प्रत्यये, तेन हेतुना वा, तदुपलक्षितेन वेत्यर्थः। अथ प्रत्य इत्येतत् कुतो लभ्यते? प्रत्ययादर्शनस्यैव लुगादिसंज्ञाविधानात्। "लुमताशब्देन लुप्ते प्रत्यये यदङ्गम्" इति। तत् पुनस्तमेव प्रत्ययं निमित्तमाश्रित्य येनाङ्गसंज्ञा प्रतिलब्धा तद् वेदितव्यम्।तस्य प्रत्ययलक्षणं कार्यं न भवतीत्यविशेषाभिधानेऽपि प्रत्यासत्तेर्य एवासौ लुमता लुप्तः प्रत्ययोऽङ्गसंज्ञाया निमित्तं तल्लक्षणमिति गम्यते। "गर्गाः" इति। "गर्गादिभ्यो यञ्" ४।१।१०५ "यञञोश्च" २।४।६४ इति बहुषु लुक्। अत्र "तद्धितेष्वलचामादेः" ७।२।११७ इति वृद्धिर्न भवति। "मृष्टः" इति। मृजेस्तदस्, अदादित्वाच्छपो लुक्, व्रश्चादिसूत्रेण षत्वम्, ष्टुत्वम्, "मृजेर्वृद्धिः" ७।२।११४ इति वृद्धिर्न भवति। "जुहुतः" इति। तसि परतो जुहोत्यादिभ्यः श्लौ कृते सार्वधातुकलक्षणो गुणो न भवति। सर्वत्र यमेव प्रत्ययमाश्रित्याङ्गसंज्ञा जाता स एव वृद्ध्यादेः कार्यस्य निमित्तम्। इह च विशेषस्यानाश्रणान्न केवलमङ्गाधिकारविहितं कार्यं प्रतिषिध्यते; अपि त्वनङ्गा४धिकारविहितमपि। तेन गर्गाः, बिदाः, उष्ट्रग्रीवा इत्यत्र "ञ्नित्यादिर्नित्यम्" ६।१।१९१ इत्याद्युदात्तत्वमनङ्गाधिकारविहितमपि न भवति। इह च -- अत्रय इति तद्धितस्य "कितः" ६।१।१५९ इत्यन्तोदात्तत्वम्। गर्गाः, बिदा इति यथाक्रमं गर्गादियञ्। "अनृष्यान्नतर्ये विददिभ्योऽञ्" ४।१।१०४ इत्यञ्। "यञञोश्च" २।४।६४ इति लुक्। उष्ट्रग्रीवा इति। "इवे प्रतिकृतौ५।३।९६ इति विहितस्य कनो "देवपथादिभ्यश्च" ५।३।१०० इति लुप्। अत्रय इति अत्रेरपत्यार्थे "इतश्चानिञः" ४।१।१२२ इति विहितस्य ढकः "अत्रिभृगुकुत्सवसिष्ठ" २।४।६५ इत्यादिना बहुषु लुक्। "पञ्च, सप्त" इति। "ष()ड्- भ्यो लुक्" ७।१।२२ इति जश्शसोर्लुक्। "पयः साम"इति। अत्रापि "स्वमोर्नपुंसकात्" ७।३।२३ इति। अत्र यद्यपि लुमता लुप्तः प्रत्ययः, तन्निमित्ता चाङ्गसंज्ञा, तथापि प्रत्ययलक्षणेन "सुप्तिङ्गन्तं पदम्" १।४।१४ इति पदसंज्ञा भवत्येव; यस्मान्नासाव-ङ्गस्य कार्यम्, अपि तु सविभक्तिकस्य समुदायस्य प्रत्ययस्य हि पूर्वभागोऽङ्गम्। न चेह तस् लुमता यो लुप्तः प्रत्यमाश्रित्याह्गसंज्ञा भवति तमेवाश्रित्य पदसंज्ञा प्राप्नोति। पदसंज्ञायञ्चेह सत्यां पय इत्यत्र "ससजुषो रुः" ८।२।६६ इति रुत्वम्। खरवसनियोर्विसर्जनीयश्च पदकार्यं भवति। "पञ्च, सप्त,साम" इति। अत्रापि "नलोपः प्रा- तिपदिकान्तस्य" ८।२।७ इति नलोपः पदसंज्ञाकार्यम्। "कार्यते" इति। ण्यन्तात् कर्मणि लकारः, "सार्वधातुके यक्" (३।१।६७) अत्र न लुमता प्रत्ययो लुप्तः किं तर्हि? "णेरनिटि"६।४।५१ इति; अत्र "आतो लोपः" ६।४।६४ इत्यस्माल्लोपग्रहणानुवृत्तेः। तेन प्रत्ययलक्षणा वृद्धिर्भवत्येव॥
बाल-मनोरमा
न लुमताङ्गस्य २६१, १।१।६२

न लुमताङ्गस्य। "प्रत्ययलोपे प्रत्ययलक्षण"मित्यनुवर्तते। "लु"इत्येकदेशोऽस्यास्तीति लुमान्=लुक्शब्दः श्लुशब्दो सुप्शब्दश्च। तेन शब्देन प्रत्ययलोपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्यं न स्यादित्यर्थः। तदाह--लुक्श्लु इत्यादिना। अङ्गस्येत्यनुक्तौ पञ्च सप्तेत्यादौ "सुप्तिङन्त"मिति पदसंज्ञा न स्यात्, जश्शसोर्लुका लुप्तत्वात्। ततश्च "न लोपः प्रातिपदिकान्तस्ये"ति नलोपो न स्यात्। अतोऽङ्गस्येत्युक्तम्। एवञ्च जसि लुका लुप्ते "प्रत्ययलक्षणाऽभावाज्जसि चे"ति गुणो न भवतीत्यभिप्रेत्योदाहरति--कतीति। प्रसङ्गादाह--अस्मदिति। त्रिष्विति। पुंस्त्रीनपुंसकेष्वित्यर्थः। सरूपा इति। समानानि रूपाणि येषामिति विग्रहः। लिङ्गविशेषबोधकटाबाद्यभावादिति भावः। नचैवं सति "अलिह्गे युष्मदस्मदी"इति "साम आक"मिति सूत्रस्थभाष्यविरोध इति वाच्यं, पदान्तरसंनिधानं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इति हि तदर्थः। अत एव "न षट्स्वरुआआदिभ्यः" इति पञ्चनादिषट्संज्ञकेभ्यष्टाब्ङीब्निषेधः सङ्गच्छते। अन्यथा स्त्रीत्वाऽभावादेव तदभावे सिद्धे किं तेन?। अत एव च "ङे प्रथमयो"रिति सूत्रे भाष्ये युष्मानित्यत्र "तस्माच्छसो नः पुंसी"त्युपन्यासः सङ्गच्छते। अत एव च "नेतराच्छन्दसी"ति सूत्रे शिशीनुमादिभिर्युष्मदस्मदाद्यादेशानां विप्रतिषेधपरं वार्तिकं तद्भाष्ये च सङ्गच्छते। इति दिक्। त्रिशब्दे विशेषमाह--त्रिशब्द इति। त्रि-आमिति स्थिते नुटि दीर्घे णत्वे त्रीणामिति प्राप्ते।

तत्त्व-बोधिनी
न लुमताङ्गस्य २२१, १।१।६२

न लुमताङ्गस्य। लुमतेति किम्? कार्यते हार्यते। अत्र "णेपनिटि"इति णिलोपेऽपि णिजपक्षे वृद्धिर्भवत्येव। अङ्गस्येति किम्()। "पञ्च""सप्त""कती"त्यादौ प्रत्ययान्तकार्यं "सुप्तिङन्ताम्---"इति पदसंज्ञा यथा स्यात्। अस्मदिति। प्राचा त्वव्ययास्मदिति पठितं,तत्र अव्ययेत्युपेक्षितम्, "सदृशं त्रिषु लिङ्गेषु"इति श्रुतोर्लिङ्गत्रयाद्यभावपरत्वेन अव्ययानामलिङ्गत्वात्। अव्ययीभावस्य तु वचनात्क्लीबत्वेऽपि लिङ्गान्तराऽभावाच्च। त्रिशब्द इति। "तरतेङ्ग्रिः"। डित्त्वाट्टिलोपः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अचः ६।१ अन्त्यादि १।१ टि १।१

समासः॥

अन्त्यः आदिः यस्य तत् अन्त्यादि, बहुव्रीहिः

अर्थः॥

अचः इति निर्धारणे षष्ठी। अन्ते भवं अन्त्यम्, {दिगादिभ्यो यत् (५।३।५४)} इत्यनेन यत् प्रत्ययः। अचां मध्ये यः अन्त्यः अच्, सः आदिः यस्य समुदायस्य, सः टि-संज्ञकः भवति।

उदाहरणम्॥

अग्निचित्, सोमसुत्, इत्यत्र इत् उत् शब्दः। पचेते, पचेथे।
काशिका-वृत्तिः
अचो ऽन्त्याऽदि टि १।१।६४

अचः इति निर्धारणे षष्ठी। जातावेकवचनम्। अचां सन्निविष्टामां, यो ऽन्त्यो ऽच् तदादि शब्दरूपं टिसंज्ञं भवति। अग्निचितिच्छब्दः। सोमसुतुच्छब्दः। आताम्, आथामाम्शब्दः। पचेते, पचेथे। टिप्रदेशाःटित आत्मनेपदानं टेरे ३।४।७९ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
अचोऽन्त्यादि टि ३९, १।१।६३

अचां मध्ये योऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात्। (शकन्ध्वादिषु पररूपं वाच्यम्)। तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणोऽयम्। मार्त्तण्डः॥
न्यासः
अचोऽन्त्यादि टि। , १।१।६३

"अन्त्यादि"इति बहुव्रीहिः अचां मध्ये योऽन्त्योऽच्,स आदिर्यस्य शब्दरूप- स्य तत् तथोक्तम्। ननु चान्त्यशब्दोऽत्राचामित्येतदपेक्षत इत्यसामथ्र्यादादिशब्देन सह समासो न प्राप्नोति, नैष दोषः; अन्त्यशब्दो हि सम्बन्धिशब्दः, सम्ब्नधिशब्दानां नित्यसापेक्षत्वेन गमकत्वात् सापेक्षत्वेऽपि समासो भवति, यथा देवदत्तस्य गुरुकुल- मिति। "निर्धारणे षष्ठी" इति। "यतश्च निर्धारणम्" २।३।४१ इत्यनेन यदि निर्धारणे षष्ठीयम्, एवं हि सति निर्धारणमनेकसन्निपाते भवतीत्यच इत्येकवचनं न स्यात्। बहुत्वद्बहुवचनेन भवितव्यमित्यत आह -- "जातावेकवचनम्" इति। जातेरेकत्वादिति भावः। "अचां सन्निविष्टानां योऽन्त्योच्" इति। कथं पुनरजित्येष विशेषो लभ्यते, यावता नेह द्वितीयमज्ग्रहणम्, नापि प्रकृतम्? एवं मन्यते -- समानजातीयस्यैव लोके निर्धारणं प्रसिद्धम्। तथा हि, कृष्णा गवां सम्पन्नक्षीरतमेति द्वितीयं गोशब्दमन्तरेणापि गौरेव प्रतीयते। तस्मादिहापि यद्यपि द्वितीयमज्ग्रहणं नास्ति, तथापि समानजातीयोऽजेव निर्धार्यमाणोऽवसीयत इति। अन्ते भवोऽन्त्यः, दिगादित्वात् यत्। "तदादि" इति। स आदिर्यस्येति विग्रहः। "इच्छब्दः" इत्यादिनि रूपोदाहरणानि। कार्यं पुनरिच्छब्दस्य टिसंज्ञायामग्निचितमाचष्ट इति णिचि कृते "णाविष्टवत् प्रातिपदिकस्य" (वा।८१३) इति टिलोप अ()ग्न चयतीति। "आताम्, आथाम्" इति। अनयोस्तु टिसंज्ञाकार्यम्-- "टित आत्मनेपदानां टेरे"३।४।९७ टेरेत्वम्। "पचेते, पचेथे" इति कार्योदाहरणे। अथ वहिमहिङोरिकारस्य कथं टिसंज्ञा, यावता न सोऽस्ति यस्य सोऽन्त्यः, अजादिरिति व्यपदिश्यते? नैष दोषः; "आद्यन्तवदेकस्मिन्" १।१।२० इतिव्यपदेशिद्भावेनादिः, अन्त्य इति व्यपदेशो भविष्यति।

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अलः ५।१ अन्त्यात् ५।१ पूर्वः १।१ उपधा १।१

अर्थः॥

अत्रापि पूर्ववत् अन्ते भवम्, अन्त्यम् इति बोध्यम्
अन्त्यात् अलः पूर्वः यः अल्, सः उपधा-संज्ञकः भवति

उदाहरणम्॥

भेत्ता, चेत्ता
काशिका-वृत्तिः
अलो ऽन्त्यात् पूर्व उपधा १।१।६५

धात्वादौ वर्णसमुदाये ऽन्त्यादलः पूर्वो यो वर्णः सो ऽलेव उपधासंज्ञओ भवति। पच्, पठकरः। भिद्, छिदिकारः। बुध्, युधुकारः। वृत्, वृधृकारः। अलः इति किम्? शिष्टः, शिष्टवान्। समुदायात् पूर्वस्य मा भूत्। उपधाप्रदेशाःअत उपधायाः ७।२।११५ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
अलोऽन्त्यात्पूर्व उपधा १७६, १।१।६४

अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः॥
न्यासः
अलोऽन्त्यात्पूर्व उपधा। , १।१।६४

अलोऽन्त्यादितिसमानाधिकरणे पञ्चम्यौ। "धात्वादौ वर्णसमुदाये"इति। ननु च नेह वर्णसमुदाय ग्रहणमस्ति, नापि तत् प्रकृतम्। तत् कथमेषोऽर्थो लभ्यते? अन्त्यग्रहणात्, समुदायस्यैवान्त्योऽल् भवति, न केवलः। तस्मादन्त्यग्रहणादेषोऽर्थो लभ्यते। "अलेव" इति।एवकारकरणादेवाल्समुदायो व्यवच्छिद्यते। ननु च नेह द्वितीय- मल्ग्रहणमस्ति, तदल्सुमुदायस्याप्येषा संज्ञा कसमान्न भवति? लोकतश्च। लोके ह्रमीषां बाहृणानामन्त्यात् पूर्व आनीयतामित्युक्तएक एवान्त्यात् पूर्व आनीयते, न समुदायः। एवमप्यल एव व्यवहितस्य कस्मादेषा संज्ञा न भवति? व्यहितेऽपि पूर्वशब्दो वत्र्तत एव। अत एव लौकिकाद् दृष्टान्तात्-- लोके ह्रन्त्यात् पूर्वमानयेत्युक्ते न कश्चिद् व्यवहितमानयति, अपि त्वननतरमेव। यदि ह्रल एवैषा संज्ञा, नाल्समुदायस्य, "ऋतश्च संयोगादेर्गुणः"७।४।१० इत्यत्र यद् वक्ष्यति-- "संयोगादिगुणविधाने संयोगोपधग्रहणं कत्र्तव्यम्" इति, तद्व्याहन्यते; न ह्रल एवोपधासंज्ञायामनेकानन्तरहल्समुदायात्मनः संयोगस्योपधात्वमुपपद्यते। संयोगावयवस्योपधात्वादवयवधर्मेण समुदायस्य तथा व्यपदेश इत्यविरोधः। भवति ह्रवयवधर्मेण समुदायस्य तथा व्यपदेशः, यथा-- आढ()मिदं नगरमिति। अथ वा- संयोगस्याल्पूर्वत्वोपलक्षणार्थं तत्रोपधाग्रहणं द्रष्टव्यम्। अकार इत्यादीनि रूपोदाहरणानि। कार्यं त्वकारस्योपधासंज्ञायां पाचकः, पाठक इत्यत्र "अत उपधायाः" ७।२।११६ इति वृद्धिः। इकारलृकारयोस्तु भेदकः, छेदकः, वत्र्तकः वद्र्धक इति। अत्र "पुगन्तलघूपधस्य" ७।३।८६ इति गुणः। "शिष्टः" इति। "शासु अनुशिष्टौ" (धा।पा।१०७५), निष्ठा, "शास इदङ हलोः" ६।४।३४ इति उपधाया इत्त्वम्। तत्र हि "अनिदिताम्" ६।४।२४ इत्यादेः सुत्रादुपधाग्रहणमनुवत्र्तते। "शासिवसि" ८।३।६० इत्यादिना षत्वम्। "समुदायात्" इत्यादि। अकारसकारसमुदायात्। पूर्वस्य शकारस्योपधासंज्ञा मा भूदित्यर्थः। यदि हि स्यात्,तस्यैवेत्त्वं स्यात्॥
बाल-मनोरमा
अलोऽन्त्यात्पूर्व उपधा २४७, १।१।६४

सखन्-स् इति स्थिते उपधाकार्यं वक्ष्यन्नुपधासंज्ञामाह--अलोन्त्यात्। "अल" इति पञ्चमी, "अन्त्या"दिति सामानाधिकरण्यात्। अल्प्रत्याहारो वर्णपर्यायः। पूर्वोऽप्यलेव गृह्रते, साजात्यादित्याह--अन्त्यादल इत्यादिना। अलः किम्?। "शिष्ट" इत्यत्र शास्धातौ आसिति संघातात्पूर्वशकारस्योपधात्वं न भवति। अन्यथा "शास इदङ्हलो"रिति शकारस्येकारप्रसङ्गः। वर्णग्रहणं किम्?। शास्धातौ "शा" इति समुदायस्य उपधात्वं न भवति। अन्यथा "शा" इति समुदायस्य इकारः स्यात्। न चालोन्त्यपरिभाषया आकारस्यैव इकारो भवतीति वाच्यं, "नानर्थकेऽलोन्त्यविधि"रिति तन्निषेधात्।

तत्त्व-बोधिनी
अलोऽन्त्यत्पूर्व उपधा २०८, १।१।६४

अलोऽन्त्यात्पूर्व। "अल"इति पञ्चमी "अन्त्या" दित्यनेन विशेष्यात इत्याह-अन्त्यादल इति। अलः किम्()। "शिष्टाः" "शिष्टवा" नित्यादावन्त्यात्सङ्घातात्पूर्वस्य शकारस्य मा भूत्। सत्यां हि संज्ञायां "शास इदङ्हलोः" इति शस्येत्त्वं स्यात्। नन्वेवमप्यन्त्यादलः पूर्वस्य सङ्घातेस्योपधासंज्ञायां "शिष्ट"इत्यादौ शकारविशिष्टस्याकारस्य इत्त्वं स्यादित्यतिप्रसङ्गदोषस्तदवस्थ एवेति चेदुच्यते--यथा हि लोके "अमीषां ब्राआहृआणानामन्त्यात्पूर्व आनीयिता"मित्यक्ते यथाजातीयकोऽन्त्यस्तथाजातीयकोऽन्त्यात्पूर्व आनीयते, तथाऽत्राप्यन्त्योऽलात्मक इति तत्पूर्वोऽप्यलेव गृह्रते। तदेतदाह--पूर्वो वर्ण इति। अत्र"अचोऽन्त्यादि टी" त्यत्रेव "अल" इति निर्धारणे षष्ठीत्यपि सुवचमिति केचिदाहुः, "अलां मध्ये योऽन्त्यस्तस्मात्पूर्वो वर्ण उपधासंज्ञः स्या"दिति व्याख्याया अपि संभवदुक्तिकत्वात्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तस्मिन् ७।१ इति निर्दिष्टे ७।१ ६६ पूर्वस्य ६।१

अर्थः॥

तस्मिन् इति सप्तम्या विभक्त्या निर्दिष्टे सति पूर्वस्य कार्यं भवति, अर्थात् सप्तम्यर्थ-निर्देशात् यः पूर्वः वर्णः तस्य कार्यं भवति। इहापि इतिकरणः अर्थनिर्देशार्थः, तेन तस्मिन्-इति पदेन सप्तम्यर्थः गृह्यते, न तु तस्मिन् इति शब्दः।

उदाहरणम्॥

दध्युदकम्, मध्विदम्, पचत्योदनम्।
काशिका-वृत्तिः
तस्मिन्निति निर्दिष्टे पूर्वस्य १।१।६६

तस्मिनिति सप्तम्यर्थनिर्देशे पूर्वस्यैव कार्यं भवति, नौत्तरस्य। इको यणचि ६।१।७४दध्युदकम्। मध्विदम्। पचत्योदनम्। निर्दिष्टग्रहणम् आनन्तर्यार्थम्। अग्निचिदत्र इति व्यवहितस्य मा भूत्।
लघु-सिद्धान्त-कौमुदी
तस्मिन्निति निर्दिष्टे पूर्वस्य १६, १।१।६५

सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्॥
न्यासः
तस्मिन्नित निर्दिष्टे पूर्वस्य। , १।१।६५

किमर्थमिदम्? "इको यणचि" ६।१।७४ इत्येवमादावचीत्येवमादेराधाराधेयभावः प्रत्यासत्तिनिबन्धनः, यथा -- गङ्गायां घोषः प्रतिवसतीति। अत्र गङ्गायाः सा च प्रत्यासत्तिर्यथा पूर्वमपेक्ष्य भवति, तथा परमपि। ततदश्च दध्युदकादिषु न ज्ञायते-- किं पूर्वस्येकः प्रत्यासत्तिभाजो यणादेशः, उत परस्येति। तत्र सन्देहेसति नियमार्थेयं परिभाषाऽ‌ऽरभ्यते। यद्येवं सन्देहविषय इयमारभ्यत इति यत्र सन्देहस्तत्रोपतिष्ठते, ततश्च दध्युदकमिति सिद्धं स्यात्; इदं तु न सिध्यति-- दध्यत्रेति। ननु च विनैव परि- भाषैतत् सिद्धम्, न ह्रत्र सन्देहोऽस्ति। इदं तर्हि न सिध्यति-- समिदत्रेति, अग्निचिदत्रेति। यदि हि यत्र सन्देहो नास्ति, तत्रैषा परिभाषा न स्यादिहानुपस्थानात्, व्यवधानेऽपि यणादेशः स्यादेव। तस्मादसन्देहविषयेऽप्येषा परिभाषा यथा भवति स यत्नःकत्र्तव्यः। एष क्रियते-- इह (तस्मिन्निति) "सप्तमीनिर्दिष्टे पूर्वस्य" १।१।६५ तावत् सूत्रं कत्र्तव्यम्; इयतैवाभिलषितार्थसिद्धेः। तत्राप्ययमर्थः-- स्वरूपग्रहणशङ्कां निराकर्तुमितिकरणो न कत्र्तव्यो भवति। न हि क्वचिच्छास्त्रं सप्तमीनिर्दिष्टः शब्दः श्रूयते, येन स्वरूपग्रहणमाशङ्क्येत। सोऽयमल्पेन सूत्रेण सिद्धे यन्महत् सूत्रं करोति तन्महाविषयेयं परिभाषेति। सूचनार्थम्। एवं च महाविषयेयं भवति यदि सर्वत्र-- सन्देहविषये, अन्यत्र च प्रवत्र्तते। स्यादेतत्-- "सप्तमीनिर्दिष्ट" इत्युच्यमाने सप्तम्या यद्यप्यधिकरणं निर्दि-श्यते, तथापि तस्याधेयप्रधानत्वात् "इको यणचि" ६।१।७४ इत्यत्राचि योल्व्यवस्थित-स्तस्मिन् यणादेशो विज्ञायते, ततश्चेहैव स्यात् दधि भुङ्क्त इति, इह तु न स्यात्-- दध्यत्रेति; यथान्यासे त्वेष दोषो नास्ति, तस्मात् महत् सूत्रं प्रणीतम्" इति, नैतदस्ति; यदयं "दाधाघ्वदाप्" १।२।२० इति निर्देशं करोति, तज्ज्ञापयति-- अधिकरण एव यणादेशादिकार्यं भवति, न त्वाधेय इति। अपि च-यथान्यासेऽप्यधिकरणस्यादेयप्रधानत्वादाधेय एव यणादेशादिकार्यं तेन सर्वत्रैषा परिभाषोपतिष्ठत इति सर्वमिष्टं सिद्धं भवति। इह "स्वं रूपं शब्दस्याशब्दसंज्ञा"१।१।६७ इति स्वरूपस्यैव ग्रहणेन भवितव्यम्। ततश्च यत्रैव तस्मिन्नित्येतत् पदमुच्चार्यते तत्रैवेयं परिभाषा स्यात् "तस्मिन्नणि च यष्माकास्माकौ" ४।३।२ इति। अस्ति ह्रत्र तस्याः परिभाषायाः परनिवृत्तिः प्रयोजनम्-- यौष्माकीणं युष्मभ्यं देहि, आस्माकीनमस्मभ्यं देहीति। युष्मभ्यं देहि यौष्माकीणम्, अस्मभ्यं देह्रास्माकीनमिति। "इको यणचि" ६।१।७४ इत्येवमादौ त्वेषा नोपतिष्ठते,इत्यत आह-- "तस्मिन्" इति। "सप्तम्यर्थनिर्देशे" इति। एवं मन्यते-- इतिकरणो ह्रत्र कृतः, स च स्वरूप- पदार्थकत्वं निरस्यार्थपदार्थकत्वं तस्मिन्नित्यस्य सम्पादयति, तेनार्थस्यैव ग्रहणं भवति। स त्वर्थोऽवश्यं येन केनचिचछब्देन निर्देष्टव्य इति नानार्थकत्वात् सामान्यवाचिना तस्मिन्नित्यनेन पदेन निर्दिष्ट इति। ननु च शब्दस्यार्थेन पौर्वापर्यं न सम्भवतीत्यर्थेनासम्भवात् तद्वाचिना शब्देन विज्ञास्यत इत्यदोषः। अत्रेदं चोद्यते-- अर्थस्य ग्रहणं यथा स्यात् स्वरूपस्य च ग्रहणं मा भूदित्येवमर्थमितिकरणः क्रियते, तच्च स्वरूपग्रहणम् "तस्मिन्नणि च युष्माकास्माकौ" ४।३।२ इति सूत्रेण सम्भाव्यते; यदि च स्वरूपग्रहणं स्यात्, तत्रैव पूर्वग्रहणं कुर्यात्, न च कृतम्; तसमादवगम्यते-- अन्तरेणापीतिकरणमर्थस्यैव ग्रहणं भविष्यति, न स्वरूपस्येति नार्थस्तेन?। स्तयमेतत्; ये तु मन्दवुद्ध्य एव प्रतिपत्तुमसमर्थास्तान् प्रति सुखावबधनार्थमितिकरणः क-तः। निर्दिष्टग्रहणमिदर्थस्य विशेषणम्। इह च शास्त्रे "इको यणचि" ६।१।७४ इत्यादिषु वाक्येषु यत्र सप्तम्यर्थोऽस्ति तत्रासौ निर्दिष्ट एव सर्वत्र। तदपार्थकं निर्दिष्टग्रहणविशेषणं व्यभिचाराभावादित्यत आह-- "निर्दिष्टग्रहणम्" इत्यादि। आनन्तर्यमव्यवधानमर्थो यस्य तत् तथोक्तम्। कथं पुनस्त-दानन्तर्यार्थं भवति? ततस्तत्प्रतीतेः। तथा हि दिशिरयमुच्चारणक्रियः, निःशब्दोऽ- प्ययमिह नैरन्तर्यं द्योतयति। तत्र निरन्तरं दिष्टः= निर्दिष्ट इति प्रादिसमासे कृते स्फुटमेनानन्तरमुच्चारितमिति प्रतीयते। किमर्थं पुनरानन्तर्यमाश्रितमित्यत आह-- अग्निचिदत्रेत्यादि। पूर्वशब्दोऽ-यं व्यवहितेऽपि वत्र्तते। तत्र यद्यानन्तर्य नाश्रीयते ततो व्यवहितेऽपि स्यादित्यभिप्रायः। ननु च "अचि" इत्यौपश्लेषिकमधिकरणं विज्ञायते, न च व्यवहितमुपश्लिष्टं भवति, तत् किमानन्तर्यार्थेन निर्दिष्टग्रहणेन? असदेतत्; असति हि निर्दिष्ट्()ग्रहणाउपश्लेषिकमधिकरणमेव न शक्यं विज्ञातुम्। यस्मात् पूर्वशब्दो व्यवहितेऽपि वत्र्तमानः परस्यैव निवृतिं()त करोति, न व्यवहितपूर्वस्यापि। निर्दिष्टग्रहणे तु सति, सप्तम्या औपश्लेषिकाधिकरणाभिधायिन्याः प्रत्यासत्तिरुपादीयते। सा च पूर्वग्रहणेन न निवर्त्त्यते, परनिवृत्तिरेव क्रियत इत्येषोऽर्थो लभ्यते। तेन व्यवहितस्य कार्यंन भवति। उत्तरार्थं च निर्दिष्टग्रहणं कत्र्तव्यमेव॥
बाल-मनोरमा
तस्मिन्निति निर्दिष्टे पूर्वस्य ४२, १।१।६५

तस्मिन्निति निर्दिष्टे। "इको यणची"त्यत्र अचि इको यण् स्यादित्यवगतम्। तत्राऽचो वर्णान्तराधिकरणत्वं न संभवतीति सतिसप्तम्याश्रयणीया,-अचि सति इको यण् स्यादिति। तत्र व्यवहितेऽव्यवहिते च इको यण् प्राप्तः। ततश्च "समिध"मित्यत्र धकारल्यलहितेऽकारे सत्यरि मकारादिकारस्य यण् स्यात्। तथा अचि सति पूर्वस्य परस्य वा इको यण् प्राप्तः। ततश्च दध्युदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको यण् स्यात्। तत्राऽव्यवहित एव अचि भवति न व्यवहिते, पूर्वस्यैव भवति न परस्येत्येतदर्थमिदमारभ्यते। तस्मिन्निति न तच्छब्दः स्वरूपपरः। तथा सति "तस्मिन्नणि च युष्माकास्माकौ" इत्यादावेव प्रवर्तेत, न त्विको यणचीत्यादौ। किन्तु इको यणचीत्यादिसूत्रगतस्याऽचीत्यादिसप्तम्यन्तपदस्य "तस्मिन्नि"त्यनुकरणम्। "इती"त्यनन्तरं "गम्येऽर्थे" इति शेषः। निरिति नैरन्तर्ये। दिशिरुच्चारणे। एवं च इको यणचि रायो हलीत्यादिसूत्रेषु इचि हलि इत्येवं सप्तम्यन्तपदगम्येऽर्तेऽकारादौ दध्यत्र सुध्युपास्य इत्यादिप्रयोगदशायां निर्दिष्टेऽव्यवहितोच्चारिते सति पूर्वस्य कार्यं भवति, न तु व्यवहितोच्चारिते नापि परस्येति फलितोऽर्थः। व्यवधान#ं च वर्णान्तरकृतमेव निषिध्यते, नतु कालकृतम्। "इको यणची"त्यादौ कालकृतव्यवधानस्य संहिताधिकारादेव निरासलाभात्, तत्र कालकृतव्यवधानस्याप्यनेनैव सूत्रेण निरासे संहिताधिकारस्य वैयथ्र्यापातात्। एवं च ये संहिताधिकारबहिर्भूताः "आनङृतो द्वन्द्वे" "देवताद्वन्द्वे च" इत्यादय उत्तरपदे परत आनङादिविधयस्ते सर्वे अगनाविष्णू इत्यग्नाविष्णू इत्याद्यवग्रहे कालव्यवधानेऽपि भवन्ति। एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाह--सप्तमीनिर्देशेनेत्यादिना।--इति सूत्राक्षरानुयायी पन्थाः। "अतिशयने तम"बित्यत्र तु नेयं परिभाषा प्रवर्तते, सर्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाऽव्यवहितोच्चारितत्वरूपनिर्धिष्टत्वाऽसंभवात्। नचैवमपि "कर्तृकर्मणोः कृती"त्यत्रापि अस्याः परिभाषायाः प्रवृत्तौकर्तृषष्ठी कर्मणिषष्ठी च कृष्णस्य कृतिः जगतः कर्ता कृष्ण इत्यत्रैव स्यान्नतु "कृतिः कृष्णस्य" "कर्ता जगत" इत्यत्र इति वाच्यं, लक्ष्यानुरोधेन क्वचिदेवंजातीयकेष्वस्याः परिभाषाया अप्रवृत्तिरिति "श्नान्नलोप" इति सूत्रे भाष्ये प्रपञ्चितत्वात्। वस्तुतस्तु भाष्यानुसारेणाऽत्र सूत्रे निर्दिष्टग्रहणं संहिताधिकारसूत्रं च विफलमेवेति इको यणचीत्यत्र वक्ष्यते।

तत्त्व-बोधिनी
तस्मिन्निति निर्दिष्टे पूर्वस्य ३६, १।१।६५

तस्मिन्निति। सप्तम्यन्तानुकरणमिदम्। "निःशब्दो नैरन्तर्यपरः। दिशिरुच्चारणक्रियः। "अचि य"णित्युक्ते व्यवहितेऽव्यवहिते च सति प्राप्तमव्यवहिते एवेति, पूर्वस्य परस्य च प्राप्तं पूर्वस्यैवेति त नियम्यते। अव्यवहितस्येति तु फलितार्थकथनम्। पूर्वस्यैवेति किं?, दध्युदकम्। अत्रोकारस्य मा भूत्। अव्यवहितस्यैवेति किम्?, अग्निचिदत्र सोमसुदत्र। व्यवधानं चात्र वर्णकृतमेव निषिध्यते, नतु कालकृतम्। संहिताधिकाराज्ज्ञापकात्। अन्यथा निर्दिष्टग्रहणादेवाऽसंहितायां यणाद्यप्रसङ्गा()त्क तेन संहिताधिकारेण?। अतो व्याचष्टे-वर्णान्तरेणेति। एवं च संहिताधिकारबहिर्भूतविधयः कालव्यवायेपि संभवन्ति। तेनाग्नाविष्णू इत्यादाववग्रहेऽपि "अनाङृतो द्वन्द्वे" "देवताद्वन्द्वे चे"त्यादिना उत्तरपदे परतो विहिता आनङादयो भवन्तीति दिक्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तस्मात् ५।१ इति उत्तरस्य ६।१ निर्दिष्टे ७।१ ६५

अर्थः॥

पञ्चम्या विभक्त्या निर्दिष्टे सति उत्तरस्य कार्यं भवति। {आदेः परस्य (१।१।५३)} इत्यस्य शेषसूत्रम्, तथा च तस्य सङ्गतिः अत्र कर्त्तव्या।

उदाहरणम्॥

आसीनः, द्वीपम्, अन्तरीपम्, समीपम्। ओ॒द॒नं प॒च॒ति॒॥
काशिका-वृत्तिः
तस्मादित्युत्तरस्य १।१।६७

निर्दिष्टग्रहनम् अनुवर्तते। तस्मातिति पञ्चम्यर्थनिर्देश उत्तरस्यैव कार्यं भवति, न पूर्वस्य। तिङ्ङतिङः ८।१।२८ ओदनं पचति। इह न भवति पचत्योदनम् इति।
लघु-सिद्धान्त-कौमुदी
तस्मादित्युत्तरस्य ७१, १।१।६६

पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥
न्यासः
तस्मादित्युत्तरसस्य। , १।१।६६

किमर्थमिदम्? "तिङ्ङतिङः" ८।१।२८ इति याऽत्र सा तु न कारकविभक्तिः, किंतर्हि? "दिक्शब्दादञ्चूत्तरपद" २।३।२९ इति दिग्योगलक्षणा। दिक्शब्दस्त्वध्या- हार्यः, तत्र किं पूर्वशब्दमध्याह्मत्यातिङः पूर्वस्य निघातः क्रियते? उत परशब्दम- ध्याह्मत्य परस्य? इति सन्देहे सति परिभाषेयं नियमार्()ताऽ‌ऽरभ्यते। "निर्दिष्टग्रहणमनुवत्र्तते"इति। तेन तस्यानन्तर्यार्थत्वाद्वयवहितस्य कार्यं न भवतीति भावः। इहापीतिकरणोऽर्थनिर्देशार्थः क्रियते। तेन पञ्चम्यर्थग्रहणं भवति, न तु शब्दस्वरूपस्येत्यभिप्रायेणाह-- "तस्मात्" इति। "पञ्चम्यर्थनिर्देशः" इति। ननु च पूर्वसूत्रादेवेतिकरणोऽनुवर्तिष्यते, तत् किमर्थः पुनरिहेतिकरणः? अनेन प्रकारेण पूर्वसूत्रादेकदेशोऽनुवत्र्तत इति ज्ञापनार्थ-। तेनेतिशब्दवन्निर्दिष्ट-ग्रहणमनुवत्र्तेतेत्येतदाख्यातं भवति। अन्यस्त्वाह-- "इतिकरणं त्विहावधेरवधिमत्तन्त्रतां निवत्र्तयति। तेनावधेरे-वोत्तरस्य विज्ञायते, नावधिमतः। स्वरूपग्रहणनिरासार्थस्त्वितिकरणो न भवति; स्वरूपा-भावात्। यदपि "तस्माच्छसो नः पुंसि" ६।१।९९ इति, तत्रापि पूर्वसवर्णदीर्घात् पूर्वः शस् न सम्भवतीति न भवति सन्देहः। तस्मादवधेरवधिमत्तन्त्रतानिरासार्थ एवेति- शब्दः" इति, अत्रोच्यते; यद्यवधेरेवोत्तरस्य कार्यं यथा स्यादवधिमतो मा भूदित्येवम-र्थं इतिकरणोऽवधेरवधिमत्तन्त्रतामपाकर्तुं क्रियते, नार्थस्तेन; लोकत एव तत्सिद्धेः; लोके हि तस्माच्छात्रादुत्तरो भोज्यतामित्युक्तेरवधेरेवोत्तरो भोज्यते, नावधिमतः। तदिहापि विनापीतिकरणेनावधेरेवोत्तरस्य कार्यं भविष्यति; नावधिमतः। यदप्युक्तम्-- "तसमाच्छसो नः पुंसि" ६।१।९९ इत्यत्रापि पूर्वसवर्णदीर्घात् पूर्वः शस् न सम्भवति" इति, तदप्ययुक्तम्;तथा ह्रशब्दादिशब्दाच्च शसि परतः पूर्वसवर्णदीर्घत्वे पूर्वत्र च वृक्षादिशब्दे शसन्ते व्यवस्थापिते गच्छत आन् वृक्षानुपलभते गच्छतो वृक्षानानुपलभत इत्यत्र पूर्वसवर्णदीर्घात् पूरवं शश् सम्भवत्येव। अथ यत्रोभयनिर्देशस्तत्र कस्य कार्येण भवितव्यम्? तत्र यानवकाशा सेतरस्याः षष्ठीं प्रकल्पयिष्यति, अतः षष्ठीनिर्दिष्टस्य कार्यं भविष्यति। यथा "आने मुक्" ७।२।८२ इत्यत्र सप्तमी निरवकासा "अतो येयः" ७।२।८० इत्यत इति पञ्चम्याः पूर्वसूत्रे सावकाशायाः षष्ठीत्वं प्रकल्पयिष्यति। तथा "ईदासः" ७।२।८३ इति पञ्च- म्याऽ‌ऽन इति पूर्वसूत्रे सावकाशायाः सप्तम्याः। यत्रोभे सावकासे तत्र परत्वात् पञ्चमी सप्तम्याः षष्ठीं प्रकल्पयिष्यति। यथा-- "आमि सर्वनाम्नः सुट्" ७।१।५२ इति"आज्जसेरसुक्" ७।१।५० इत्यत्र पञ्चमी सावकाशा। "आमि" इति सप्तम्युत्तरार्था। तत्रादिति पञ्चमी आमीति सप्तम्याः षष्ठीत्वं प्रकल्पयति, तेन सर्वनाम्न उत्तरस्यामः सुड् भवति। इह तु "दीर्घात्" ६।१।७३ "पदान्ताद्वा" ६।१।७३ इति, यद्यपि "च्छे च" ६।१।७१ इति सप्तमी पूर्वसूत्रे सावकाशा, तथापि तस्याः स्वरित्त्वात् पूर्वयोगादनुवृत्ताया निरवकाशत्वम्। अतः सा च सप्तमी पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति। पञ्चमी तु पौर्वपर्यं प्रकल्प्य सावकाशा निवत्र्तते। तेनायं सूत्रार्थो भवति- दीर्घादुत्तरो यच्छः, तस्मिन् परतः पूर्वस्य दीर्घस्यैव तुग् भवतीति। "सार्वधा- तुके यक्" ७।१।६७ इत्यत्र निरवकाशापि सप्तमी धातोरिति पञ्चम्याः सावकाशाया अपि षष्ठीत्वं न प्रकल्पयति; अन्यथा हि धातोरेवादेशा यगादयः स्युः। ततश्च "परश्च" ३।१।२ इत्यस्यानुवृत्तस्य बाधाद् यगादीनां चानुबन्धकरणस्य वयथ्र्यं प्रसज्येत। न हि धात्वादेशत्वे सति तेषां परत्वमुपपद्यते तु ते धातोः परे भवन्ति॥
बाल-मनोरमा
तस्मादित्युत्तरस्य ४३, १।१।६६

तस्मादित्युत्तरस्य। द्व्यन्तरुपसर्गेभ्योऽप ईत्" "उदस्थारतम्भोः पूर्वस्ये"त्यादिसूत्रगतपञ्चम्यन्तस्यानुकरणं "तस्मा"दिति। "इति" शब्दानन्तरं "गम्येऽर्थे" इति शेषः। "निर्दिष्टे" इत्यनुवर्तते। निरिति नैरन्तर्ये। दिशिरुच्चारणे "द्व्यन्त"रित्यादिसूत्रेषु पञ्चम्यन्तगम्येऽर्थे=द्व्यन्तरादिशब्दे निर्दिष्टे= अव्यवहितोच्चारिते सत्येव ततः परस्यैव ईत्वं भवति, न तु व्यवहितोच्चारिते द्व्यादिशब्दे, नापि ततः पूर्वस्य भवतीति नियमार्थमिदम्। तदाह--पञ्चमीनिर्देशेनेत्यादिना। उत्तरस्य किम्? तिङ्ङतिङ" इति निघात उत्तरस्यैव भवति--अग्निमीले। नेह ईले अग्निम्। अव्यवहिते किम्(), उत्प्रस्थानम्। उदःस्थास्तम्भोरिति पूर्वसवर्णो न भवति।

तत्त्व-बोधिनी
तस्मादित्युत्तरस्य ३७, १।१।६६

तस्मादिति। उत्तरस्येति किम्?, तिङ्ङतिङः" इति निघात उत्तरस्यैव यथा स्यात्। अग्निमीले। नेह-ईले अग्निम्। अव्यवहितस्येति। एतच्च निर्दिष्टग्रहणानुवृत्त्या लभ्यते। तेन उत्संस्थानं उत्संस्तम्भनमित्यादौ "उदस्थे"ति पूर्वसवर्णो न प्रवर्तते।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ स्वम् १।१ ७१ रूपम् १।१ ७१ शब्दस्य ६।१ अशब्द-संज्ञा १।१

समासः॥

शब्दस्य संज्ञा, शब्दसंज्ञा, षष्ठीतत्पुरुषः। न शब्दसंज्ञा, अशब्दसंज्ञा, नञ्तत्पुरुषः।

अर्थः॥

इह व्याकरणे यस्य शब्दस्य कार्यम् उच्यते, तस्य स्वं रूपं ग्राह्यं, न तु शब्दार्थः, न च पर्यायवाचीशब्दः, शब्दसंज्ञां वर्जयित्वा।

उदाहरणम्॥

आग्नेयमष्टाकपालं निर्वपेत्।
काशिका-वृत्तिः
स्वं रूपं शब्दस्य अशब्दसंज्ञा १।१।६८

शास्त्रे स्वम् एव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति, न बाह्यो ऽर्थः, शब्दसंज्ञां वर्जयित्वा। शब्देन अर्थावगतेरर्थे कार्यस्य असम्भवात् तद्वाचिनाम् शब्दानाम् सम्प्रत्ययो मा भूतिति सूत्रम् इदम् आरभ्यते। अग्नेर् ढक् ४।२।३२ आग्नेयम् अष्टाकपालं निर्वपेत्। अग्निशब्दो ऽग्निशब्दस्यैव ग्राहको भवति, न ज्वलनः, पावकः, धूमकेतुः इति। न अतः प्रत्ययो भवति। उदश्वितो ऽन्यतरस्याम् ४।२।१८औदश्वित्कम्। औदश्वितम्। तक्रम्, अरिष्टं, कालशेयं, दण्डाहतं, मथितम्, इति न अतः प्रत्ययो भवति। अशब्दसंज्ञा इति किम्? दाधा घ्वदाप् १।१।१९ तरप्तमपौ घः १।१।२२, घुग्रहणेषु घग्रहनेषु च संज्ञिनां ग्रहनम्, न संज्ञायाः। सित्तद्विशेषाणां वृक्षाद्यर्थम्। सिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् तद्विशेषाणां ग्रहणं भवति इति किं प्रयोजनम्? वृक्षाद्यर्थम्। विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशु। शकुन्यश्ववडवपूर्वापराधरोत्तराणाम् २।४।१२ इति प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः। पित्पर्यायवचनस्य च स्वाऽद्यर्थम्। पिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् पर्यायवचनस्य ग्रहणं भवति, चकारात् स्वस्य रूपस्य तद्विशेषाणां च इति किं प्रयोजनम्? स्वाऽद्यर्थम्। स्वे पुशः ३।४।४०। स्वपोषं पुष्टः। रैपोशम्। धनपोशम्। अश्वपोषम्। गोपोशम्। जित्पर्यायवचनस्यैव राजाऽद्यर्थम्। जिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् पर्यायवचनस्यैव ग्रहनं भवति इति, न स्वरूपस्य, न अपि तद्विशेषाणाम् किं प्रयोजनम्? राजाऽद्यर्थम्। सभा राजा अमनुष्यपूर्वा २।४।२३ इनसभम्। ईश्वरसभम्। तस्यैव न भवतिराजसभा। तद्विशेषाणां च न भवति पुष्यमित्रसभा। चन्द्रगुप्तसभा। झैत्तद्विशेषाणां च मत्स्याऽद्यर्थम्। झिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् तस्य च ग्रहणं भवति तद्विशषाणां च इति किं प्रयोजनम्? मत्स्याऽद्यर्थम्। पक्षिमत्स्यमृगान् हन्ति ४।४।३५ इति ठक्पाक्षिकः। मात्सियकः। तद्विशेषाणाम् शाकुनिकः। पर्यायाणां न भवतिअजिह्मान् हन्ति, अनिमिषान् हन्ति इति। अथैकस्यैश्यते, मीनान्, हन्ति इति मैनिकः।
न्यासः
स्वं रूपं शब्दस्याशब्दसंज्ञा। , १।१।६७

"शास्त्रे स्वमेव" इत्यादि। शास्त्रग्रहणं लोकेऽर्थस्यैव ग्राह्रत्वात्। शब्दस्येति "कृत्यानां कर्तरि वा" २।३।७१ इति कत्र्तरि षष्ठी, शब्दः स्वमेव रूपं ग्राहयति बोधयति, प्रत्याययतीत्यर्थः। कः पुनः शब्दस्य स्वरूपस्य च भेदः? येन शब्दस्येत व्यतिरेकनिबन्धना षष्ठी भवति। परमार्थतो वस्तुगतो नास्त्येव भेदः। तथा हि-- स्वं रूपं शब्दस्य स्वभावः। तच्चेत् ततोऽर्थान्तरं स्याच् शब्दस्य वैस्वभाव्यमेव स्यात्। असत्यपि तु वास्तवे भेदे बुद्धिविरचितं भेदमाश्रित्य षष्ठी भवति। बुद्धिर्हि स्वबीजपरिपाकवशादाकारविशेषपरिग्रहवत्युपजायमाना वस्तुनोऽसत्यपि भेदे भेदमापादयति, यथा-- राहोः शिरः, स्वस्य स्वभाव इति। "न बाह्रोऽर्थः" इति एवकारेण यद्व्यवच्छिन्नं तद्दर्शयति। अतिप्रसक्तस्यापवादमाह--"अशब्दसंज्ञा" इत्यादि। किमर्थं पुनरिदमारभ्यत इत्याह-- "शब्देन" इत्यादि। शब्देनोच्चारितेनार्थः कार्योपयोगितया गम्यते, न शब्द- स्वरूपम्। तथा हि-- गौरुपलभ्यतमित्युक्तेऽर्थमेवोपलब्धुमाद्रियते, न शब्दस्वरूपम्; व्याकरणे तु प्रत्ययविधानादिकार्यमर्थस्य न सम्भवति; तेन सह शब्दस्य पौर्वापर्याभावात्। न चार्थाद् विहितेन प्रत्ययेन कश्चित् प्रकृतोपयोगः। तेन "अग्नेर्ढक्" (४।२। ३३) इत्युक्ते नायं संप्रत्ययो भवति। अग्निशब्दस्य योऽर्थः, स इह कार्यी, तस्येदं कार्यं विधीयत इति। ततश्च तस्यार्थस्य ये वाचकाः विधेयमिति। यथा --आकृतिवादिनां गौर्दुह्रतामिति शब्देन जातौ चोदितायां तत्र तत्कार्यासम्भवात् तदाधारायां व्यक्तौ संभवात् तत्साहचर्याच्च तस्यामेव व्यक्तौ संप्रत्ययो भवति, न जातौ; तथेहापि तन्मा भूत् तद्वाचिनां संप्रत्यय इत्येवमर्थमिदमारभ्यते। तद्वाचिनामिति कर्मणि षष्ठी। तद्वाचिनो मा विज्ञायीत्येवमर्थमिदमारभ्यत इत्यर्थः। तत्र केचिदाहुः-- स्वरूपस्य पर्यायाणां च कार्ये प्रसक्ते श्रूयमाणस्यैव तद् यथा स्यात्, पर्यायाणां भूदिति नियमार्था परिभाषेयमिति। अन्ये तु-- " लिङ्गवती परिभाषा भवति" , यथा, "इको गुणवृद्धी" १।१।३ इति गुणवृद्धी लिङ्गम्। विध्यन्तरशेषभूता वा; यथा-- "विप्रतिषेधे परं कार्यम्" (कात।प।६७) इति परस्य विध्यन्तरस्य शेषभावमापद्यते। न वास्या लिङ्गं विध्यन्तरशेषभावो वा विद्यत इति संज्ञासूत्रमिदम्" इति प्रतिपन्नाः। यद्यपि वृत्तौ संज्ञाशब्दो नोच्चारिनः, तथापि "स्वमेव रूपं शब्दस्य ग्राह्रम्" इत्येवं ब्राउवता वृत्तिकारेण संज्ञैवेत्याख्यातं भवति। अग्निशब्दादौ शब्दान्तरैः साधारणमपि रूपमस्ति शब्दत्वादि, असाधारणमपि अग्निशब्दत्वादि, तत्र साधारणरूपव्युदासेनासाधारणस्याग्निशब्दत्वादि- रूपस्य परिग्रहार्थं "स्वम्" ग्रहणम्। तद्धि स्वमेव तस्य रूम्, इतरत् पुनः परस्यापि। प्रतीति प्रत्यनुपदेशाच्छब्दस्य स्वरूपमेवासन्नम्, नार्थः; विपर्ययात्, अहेयत्वा- च्च, तन्नित्यसम्बन्धित्वाच्च। तथा ह्रनुकरणशब्दा ह्रर्थं जहति, न तु स्वरूपम्। असाधारणञ्च रूपम्र्थस्तु साधारणः; शब्दान्तरैरपि प्रत्यायमानत्वात्। तदेवमासन्नत्वान्नित्यसम्बधित्वादसाधारणत्वाच्च रूपमेव शब्दस्य स्वम्, नार्थः। ततश्च स्वग्रहणादेव रूपपरिग्रहे सिद्धे व्याकरणे रूपवदर्थोऽप्यङ्गीक्रियत इति ज्ञापनार्थं रूपग्रहणम्। तेन-- "अर्थवद्()ग्रहणेन नानर्थकस्य" (व्या।प।१) इत्येतदुपपन्नं भवति। शब्दानुशासननप्रस्तावादेव च शब्दस्येति सिद्धे शब्दग्रहणम्-- यत्र शब्दपरो निर्देशस्तत्र स्वरूपं गृह्रते, नार्थपरो निर्देश इति ज्ञापनार्थम्। तेन " स्वे पुषः" ३।४।४० इत्यत्र स्वरूपस्य ग्रहणं न भवति। अर्थपरत्वं तु निर्देशस्याविच्छिन्नपारम्पर्यादाचार्योपदेशाद्()विज्ञायते। "आग्नेयम्" इति। अग्निर्देवताऽस्येत्यत्रार्थे ढक्। "औद()इआत्कम्" इति। आत्राप्युद()इआता संस्कृतमित्यत्रार्थे ढक्। "उद()इआतो- ऽन्यतरस्याम्" ४।२।१८ इत्यत्र "दध्नष्ठक्" ४।२।१७ इत्यस्यानुवत्तेः, "इसुसु- क्तान्तात्कः" ७।३।५१ इति ठकः कादेशः। "घग्रहणेषु" इत्यादि। यदि घुप्रभृतिरपि संज्ञाशब्द स्वरूपस्य ग्राहकः स्यात् "उपसर्गे घोः किः" ३।२।९२ इत्यत्र यद्यपि धात्वधिकारस्तथापि घुग्रहणाद् घुशब्दात् किप्रत्ययः स्यात्। उपसर्गग्रहणं तु प्राद्युपलक्षणार्थ स्यात्। यथा-- "अञ् नासिकायाः संज्ञायां, नसञ्चास्थूलात्" ५।४।११८ "उपसर्गाच्च" ५।४।११९ इत्यत्र। कुमारीघ इत्यत्र च घ इति संज्ञाशब्देन स्वरूपप्रत्यायने सति "घरूपकल्प" ६।४।४३ इत्यादिन घशब्दे परतो ह्यस्वत्वं प्रसज्येत। ननु च संज्ञाविधानसामथ्र्यात् संज्ञायाः स्वरूपग्रहणं न भवति, संज्ञा हि संज्ञिनः प्रत्यायनार्था क्रियते; यदि संज्ञाशब्दोऽपि स्वरूपं प्रत्याययेत् संज्ञाविधानमनर्थकं स्यात्, नैतदस्ति; संज्ञाविदानसामथ्र्याद्धि संज्ञिनं प्रत्याययेत्, परिभाषाविधानसामथ्र्याच्च स्वरूपम्। तस्मात् प्रतिषेधः कत्र्तव्यः? न कत्र्तव्यः, ज्ञापकात् संज्ञाशब्दो रूपस्य ग्राहको न भविष्यति। यदयं "ष्णान्ता षट्" १।४।२४ इति षकारान्तायाः संख्यायाः षट्संज्ञां विदधाति,तज्ज्ञापयति- संज्ञाशब्दः स्वरूपस्य ग्राहको न भवतीति; अन्यथा हि "ष()ड्भ्यो लुक्" ७।१।२२ इत्यत्र षट्शब्देन स्वरूपस्य प्रत्यायितत्वात् ततोऽपि लुग् भवतीति षकारन्तायायः संख्यायाः षडिति संज्ञा न कुर्यात्। षट्शब्दो हि षकारान्ता संख्या, नान्या, सत्यमेतत्; तथापि येषां ज्ञापकद्वारेणार्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्, तान् प्रतितत्परिहाराययाशब्द- संज्ञेति प्रतिषेधः कृतः। शब्दग्रहणम्- व्याकरणे या संज्ञा तस्या एव प्रतिषेधो न लौकिक्या इति प्रदर्शनार्थम्। "सित्त्दविशेषाणाम्" इत्यादि। यत्र विशेषाणां ग्रहणमिष्यते तत्र सकार इत्संज्ञकः कत्र्तव्यः "वृक्षस्य,मृगस्िति। "ततो वक्तवयः" इत्यादि। सिन्निर्देशं कृत्वा ततः प्रथमेऽध्यायेऽन्यत्र वा परिभाषेयं कत्र्तव्या-- सित्तद्विशेषाणामित्यादि। यस्य सकार इत्संज्ञकः, स तद्विशेषाणां वृक्षादिविशेणाणां खदिरादीनां प्रतिपादक इति वक्तव्यम्। एवं "पित्पर्यायवचनस्य च स्वाद्यर्थम्" (कात्या।वा।५१९) इत्यादावपि वेदितव्यम् न्यायादपि चैतत् प्रतिपाद्योऽर्थः सिध्यति। यथा सिध्यति तथा यथावससं पुरस्तात् प्रतिपादयिष्यामः सुखावबोधनार्थं सित्तद्विशेषाणामित्यादिग्रन्थोपन्यासः॥
बाल-मनोरमा
स्वं रूपं शब्दस्याऽशब्दसंज्ञा २७, १।१।६७

"अग्नेर्ढक्""वाय्वृतुपित्रुषसो यत्" "राज्ञो य"दित्यादौ लौकिकव्युत्त्पत्या उपस्थितानां वह्निवातादीनामर्थानां ढगादिप्रत्ययैः पौर्वापर्यासम्भवात्प्रातिपदिकादित्यनेनान्वयासंभवाच्च तत्तदर्थकपर्यायशब्दानां ग्रहणापत्तौ तन्नियमार्थमिदं सूत्रमारभ्यते--स्वं रूपम्। "अग्नेर्ढगित्यादौ अग्न्यादिशब्दस्य यत्स्वरूपं श्रुतं तदेव अग्न्यादिशब्दै प्रत्येतव्यं, नतु तदन्यस्तत्तत्पर्यायोऽपि। शब्दशास्त्रे संकेतिता वृद्धिगुणादिसंज्ञा शब्दसंज्ञा, तत्र नायं नियम" इत्यर्थः। तदाह--शब्दस्य स्व रूपं संज्ञीति। बोध्यमित्यर्थः। न च वृद्धिर्गुण इत्यादिसंज्ञाविधिबलादेव तत्र तदर्थग्रहणं भविष्यतीति किमशब्दसंज्ञेत्यनेनेति वाच्यम्, "उपसर्ग घोः कि"रित्यत्र "घु शब्दे" इति घुधातुनिवृत्त्यर्थत्वात् "दाधा ध्वदाप्" इति संज्ञाकरणस्य "घुमास्थागापाजहातिसां हलि" इत्यादौ आवश्यकतया संज्ञाकरणस्य सामर्थ्योपक्षयादित्यन्यत्र विस्तरः। इदं सूत्रं भाष्ये प्रत्याख्यातम्।

तत्त्व-बोधिनी
स्वं स्वं शब्दस्याऽशब्दसंज्ञा २४, १।१।६७

स्वं रूपं शब्दस्य। "अग्नेर्ढक्"। आग्नेयम्। "आङो यमहनः"। आयच्छते, आहते। इह-अग्नि, आङ्, यम्, हन्, -एते एव संज्ञिनः। नन्वग्न्यादिवाच्यादङ्गारादेर्ढगादिप्रत्ययो न संभवतीति स्वरूपादेव स्यात्, "प्रातिपदिका"दित्याद्यधिकाराच्च किमनेन सूत्रेणेति चेत्?, सत्यम्। अग्न्यादिशब्दपर्यायेभ्योवह्वयादिभ्यो मा भूदिति सूत्रस्याऽस्यारम्भः। नन्वत्र रूपग्रहणं विनापि स्वशब्देन रूपमेव ग्रहीष्यते, प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वादन्तरङ्गत्वान्नियतोपस्थितिकत्वाच्च। अर्थो हि प्रतीतौ संबन्धग्रहणमपेक्षते, पर्यायैरपि प्रत्यायनात्साधारणः , पदज्ञानजन्यवोधविषयत्वाद्बहिरङ्गः, अनुकरणदशायामप्रतीतेरनियतोपस्थितिकश्चेति किमनेन रूपग्रहणेन?।

उच्यते-"इह शास्त्रे अर्थोऽपि विवक्षितो रूपव"दिति ज्ञापनार्थं रूपग्रहणम्। तेन "अर्थवद्ग्रहणे नानर्थकस्ये"त्युपपन्नं भवति। तत्रोक्ताज्ञापकादर्थो ग्राह्रः, "स्व"मिति वचनात्स्वं रूपं चेति सामथ्र्यादर्थवतो रूपस्य ग्रहणम्। तेन "काशे" "कुशे" इत्यत्र "शे" इत्ययं प्रगृह्रसंज्ञो न भवति। "प्रादूहोढेइत्यत्र तु "ऊढग्रहणेन क्तान्तमेव गृह्रते नतु क्तवत्वन्तस्यैकदेशः" इत्यन्यत्र विस्तरः। अशब्दसंज्ञेति किम्? उपसर्गे घोः किः"-दाधाभ्यो यथा स्यात्, घुधातोः शब्दार्थकान्मा भूत्। नच "दाधा घु" इति घुसंज्ञाकरणसामथ्र्यादेव दाधाभ्यः किः स्यादिति वाच्यम्, "घुमास्थे"त्यादिना आत ईत्त्वविधौ संज्ञाकरणस्यावश्यकतया सामर्थ्योपक्षयात्। इह (अ) शब्दस्य संज्ञा (अ) शब्दसंज्ञेति न षष्ठीसमासः, "कर्म" "करण"मित्यादिष्वर्थसंज्ञासु स्वरूपग्रहणापत्तेः, किंतु शब्दः-शब्दशास्त्रं, तत्र संज्ञा शब्दसंज्ञेति सप्तमीसमासस्तदाह--शब्दशास्त्रे या संज्ञेति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अणुदित् १।१ सवर्णस्य ६।१ ६९ अप्रत्ययः १।१ स्वम् १।१ ६७ रूपम् १।१ ६७

समासः॥

उत् इत् यस्य सः उदित्। अण् च उदित् च अणुदित्, बहुव्रीहिगर्भेतरद्वन्द्वः।
न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः।

अर्थः॥

अण्-प्रत्याहारः, उदित् च सवर्णस्य ग्राहकः भवति, स्वस्य च रूपस्य प्रत्ययं वर्जयित्वा। अत्र अण्-प्रत्याहारः परेण णकारेण गृह्यते।

उदाहरणम्॥

{अस्य च्वौ (७।४।३२)} अत्र {अकारेण} सवर्णदीर्घाकारोऽपि गृह्यते, तेन {मालीयति} इत्यत्रापि {ईत्वं} सिध्यति। {यस्येति च (६।४।१४८)}, अत्रापि अकारेण {आकार} ग्रहणात् {मालीयः} अत्रापि लोपः भवति। {आद्गुणः (६।१।८४)} अत्रापि दीर्घप्लुतस्यापि ग्रहणं भवति, तेन रमा + ईश्वरः = रमेश्वरः, अत्रापि गुणः भवति। उदित् - कु (कवर्गः), चु (चवर्गः) टु (तवर्गः) तु (तवर्गः) पु (पवर्गः)
काशिका-वृत्तिः
अणुदित् सवर्णस्य चाप्रत्ययः १।१।६९

परेण णकारेण प्रत्याहारग्रहणम्। अण् गृह्यमाण उदिच् च सवर्णानां ग्राहको भवति, स्वस्य च रूपस्य, प्रत्ययं वर्जयित्वा। आद् गुणः ६।१।८४, अस्य च्वौ ७।४।३२, यस्यैइति च ६।४।१४८। स्वरानुनासिक्यकालभिन्नस्य ग्रहनं भवति। उदित् खल्वपि। चुटू १।३।७, लशक्वतद्धिते १।३।८। चवर्गटवर्गयोः कवर्गस्य च ग्रहनम् भवति। अप्रत्ययः इति किम्? सनाशंसभिक्ष उः ३।२।१६८, अ साम्प्रतिके ४।३।९, दीर्घो न भवति।
लघु-सिद्धान्त-कौमुदी
अणुदित्सवर्णस्य चाप्रत्ययः ११, १।१।६८

प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम् - अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवं ऌकारोऽपि। एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा।
न्यासः
अणुदित्सवर्णस्य चाप्रत्ययः। , १।१।६८

संज्ञासूत्रमिदम्, न परिभाषा। साहि नियमार्था भवति। न चाणुदितां सवर्णाना- मन्येषांच ग्रहणं प्राप्तम्, येन सवर्णानामेव ग्रहणं भवतीति नियमः क्रियते- "परेण णकारेण प्रत्याहारग्रहणम्" इति। तेन ऋकारादयोऽपि सवर्णानां ग्राहकाः सिध्यन्तीत्यभिप्रायः। परेण च णकारेण प्रत्याहारग्रहणम् "अ इ उ ण्" इत्यत्र प्रतिपादितम्। पूर्वसूत्रात् "स्वं रूपम्" इत्येतदिहानुवत्र्तते। तच्चार्थाद्विभक्तिविपरिणामो भवतीति षष्ठ()न्तं सम्पद्यते। तेन स्वस्यापि रूपस्याण् गृह्रस्याण उदिच्च ग्राहको भवतीति दर्शयन्नाह-- "स्वस्य च रूपस्य" इति। "आद्गुणः" इत्यादि। यथेह भवति देवेन्द्र इति, तथा खट्वेन्द्र इत्यत्राप्याद्गुणो भवति। "अस्य च्वौ" ७।४।३२ यथा पटीभवतीत्यत्रे- त्वं भवति तथा मालीभवतीत्यत्रापि। "यस्येति च" ६।४।१४८। यथा दिक्षिरित्यत्र लोपो भवति, तथा चौडिरित्यत्रापि। बाह्वादित्वाच्चूडाशब्ददिञ्। "स्वरानुनासिक्य" इत्यादि। उदात्तः सूत्रे गृह्रमाणः स्वरान्तरभिन्नस्यापि ग्राहको भवति। एवमनुदात्तः स्वरितश्च। तथा सानुनासिको निरनुनासिकस्य, सोऽपि तस्य। "दीर्घो न भवति" इति। यदि "अप्रत्ययः" इति प्रतिषेधो न स्यात् प्रत्ययोऽपि सवर्णानां ग्राहकः स्यात्। ततश्च दीर्घोऽपि स्यात्। ननु चात्यल्पमिदमुच्यते- " अप्रत्ययः" इति, अप्रत्ययादेशटित्किन्मित इति वक्तव्यम्। प्रत्यये प्रत्युदाह्मतम्। आदेशे--- "इदम इश्" ५।३।३, अस्मात्= इतः, "पञ्चम्यास्तसिल्" ५।३।७ इति तसिल्, अस्मिन् = इह, "इदमो हः" ५।३।११। अत्र हि सवर्णग्रहणे सति यद्यकृते त्यदाद्यत्व इश्()भावस्तदान्तरतम्यात् त्रिमात्र इकारः प्राप्नोति, अथ कृतेऽद्र्धच- तुर्थमात्रः। यदि "अतो गुणे" ६।१।९४ पररूपत्वेऽकृतेतदापि; अथ कृते ततोऽद्र्धतृ-तीयमात्रः। अथ वा- अद्र्धचतुर्थमात्रोऽद्र्धतृकतीयमात्रश्च नास्ति ततो द्विमात्र- स्त्रिमात्रश्च स्यात। टित्-- "आर्धधातुकस्येड् वलादेः" ७।२।३५, लविता, सवर्णग्रहणे सति दीर्घोऽपि स्यात्। कित् भुवो वुग् लुङलिटोः" ६।४।८८ बभूव, अत्र सानुनासि-कोऽपि स्यात्। सन्ति हि यणः सानुनासिका निरनुनासिकाश्च। मित्-- "चतुरनुडुहोरामुदा-त्तः", ७।१।९८ "अम् सम्बुद्धौ" ७।१।९९, अनड्()वन्-- अत्र दीर्घोऽपि स्यात्। तत् तह्र्रेवं वक्तव्यम्? न वक्तव्यम्; चकारोऽत्र क्रियते, सोऽनुक्तप्रतिषेधसमुच्च- यार्थो भविष्यति। तेन येषामादेशादीनां ग्राहकत्वं नेष्यते ते सवर्णानां ग्राहका न भविष्यन्ति। अन्ये त्वाहुः- ""अप्रत्यः" इति नेह संज्ञाग्रहणम्, किं तर्हि? अन्वर्थग्रहणम्। प्रतीयते विधीयते=उत्पाद्यत इति प्रत्ययः। तेनाप्रत्यय इत्यस्यायमर्थो भवति--"भाव्यमानोऽण् सवर्णान् न गृह्णाति (व्या।प३५)इति। हशादयोऽपि भाव्यन्ते= उत्पाद्यन्त इति तेऽपि प्रत्ययाः, तेन ते सवर्णानां ग्राहका न भवन्ति" इति। चैश्चकारस्य प्रयोजनं वक्तव्यम्। "स्वं रूपम्" इत्यस्यानुकर्षणं तस्य प्रयोजनमिति चेत्, न; चानुकृष्टत्वादुत्तरत्र तदनुवृत्तिर्न स्यात्। न चैतत्प्रयोजनमुपपद्यते; स्वरितत्वादेवानुवृत्तिसिद्धेः। अथ मतम्-- "प्रथमान्तं स्वमित्येतत्प्रकृतं षष्ठीनिर्दिष्टेन चेहार्थः, तस्माच्चकाररे कृते यत्नात् षष्ठ()न्तता तस्य यथा स्यादित्येवमर्थश्चकारः" इति, एतदपि नास्ति; अर्थादेव हि विभ्कतिविपरिणामसिद्धेः॥
बाल-मनोरमा
अणुदित्सवर्णस्य चाऽप्रत्ययः १६, १।१।६८

अणुदित्सवर्णस्य। प्रत्ययशब्दस्य अणादिप्रत्ययपरत्वे "त्यदादीनामः" "इदमैश्" इत्यादीनां पर्युदासो न स्यादित्यतो व्याचष्टे--प्रतीयत इति। उत् इत् यस्य सः उदित=कु चु टु तु पु इत्यादिः। चकारात्स्वं रूपमित्यतः स्वमित्यनुवर्तते। तच्च षष्ट()न्ततया विपरिणम्यते। तदाह-अविधीयमान इत्यादिना। अणिति पूर्वेण परेण वा प्रत्याहार इति संशये निर्धारयति-अत्रेति। अस्मिन्नेव सूत्रे अण् परेण णकारेण, इतरत्र तु "अणोऽप्रगृह्रस्ये"त्यादौ पूर्वेणैवेत्यर्थः। अत्र च आचार्यपारंपर्यौपदेशरूपं व्याख्यानमेव शरणम्। एवं चाणुदित्सूत्रेणानेन अकारादिभिश्चतुर्भिदीर्घप्लुतानामिव सवर्णभूतहकारादीनामपि ग्रहणादच्त्वातेषु परेषु इकारस्य यणादिकं स्यादिति नाज्झलाविति प्रतिषेध आवश्यक इति स्थितम्। अणुदित्सूत्रस्य फलमाह--तदेवमिति। तत्णुदित्सूत्रम्। एवं=वक्ष्यमाणप्रकारेण फलतीत्यर्थः। तिं()रशत इति। ऋलृवर्णयोर्मिथः। सवर्णतया ऋकारेण स्वाष्टादशभेदानाम्लृकारीयद्वादशभेदानां च ग्रहणादिति भावः। एवम्लृकारोऽपीति। ऋकारस्यापि लृकारसवर्णत्वादिति भावः। नन्वेकारेण ऐकारप्रपञ्चोऽपि गृह्रते, ऐकारेण एकारप्रपञ्चश्च। तथा ओकारेण औकारप्रपञ्चो गृह्रेत, औकारेण ओकारप्रपञ्चश्च। ततस्च एचश्चतुवशतेः संज्ञा स्युरित्येवं वक्तव्यं नतु द्वादशानामित्यत आह--एदेतोरिति। कुतो न सावण्र्यमित्यत आह--ऐऔजिति। यदि ह्रेदैतोः ओदौतोश्च परस्परं सावण्र्यं स्यात्तर्हि एकारेण ऐकारप्रपञ्चस्य, ओकारेण औकारप्रपञ्चस्य च अकारादिभिदीर्घप्लुतानामिव ग्रहणसम्भवात् "ऐऔ"जिति सूत्रं नारभ्येत। आरभ्यते च (सूत्रकृता)। अत एदैतोरोदौतोश्च न परस्परं सावण्र्यमिति विज्ञायत इत्यर्थः। अच् इच् एच् इत्यादि प्रत्याहारास्तु ङकारेणैव निर्वाह्राः। नच "एचोऽयवायाव" इत्यत्र यथासंख्यार्थमैऔजिति सूत्रमस्त्विति वाच्यम्। तत्र स्थानेऽन्तरतमः" इति सूत्रेणैव निर्वाहस्य वक्ष्यमाणत्वादिति भावः। वस्तुतस्तु "ऐऔ"जिति सूत्राऽभावे "वृद्धिरादैच्" "न त्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्" "प्लुतावैच् इदुतौ" इत्यादौ एङ्ग्रहणापत्तौ एदोतोरपि ग्रहणे प्रसक्ते तन्निवृत्त्यर्थमैच्प्रत्याहार आवश्यक इति तदर्थमैऔजित्यारम्भणमीयमेव। अत ऐऔजिति सूत्रारम्भस्य चरितार्थत्वादेदैतोरोदौतोश्च मिथऋ सावण्र्याऽभावसाधकत्वकथनमनुपपन्नमेव। एदैतोरोदौतोश्च मिथः सावण्र्याभावस्तु वृद्दिरादैजित्यादौ क्वचिदैज्ग्रहणात् "अदेङ्गुणः" इत्यादौ क्वचिदेङ्ग्रहणाच्च सुनिर्वाहः। अन्यथा सर्वत्र एङ्()ग्रहणमेव ऐज्ग्रहणमेव वा कुर्यात्। तावतैव चतुर्णां ग्रहणसम्भवात्। अत ऐच् एङिति प्रत्याहारद्वयग्रहणसामथ्र्यादेदैतोरोदौतोश्च न मिथः सावण्र्यम्। "प्लुतावैच इदुतौ" "एचोऽप्रगृस्ये"ति प्रत्याहारद्वयग्रहणवैयथ्र्याच्चेति शब्देन्दुशेखरे प्रपञ्चितम्। तेनेति। एदैतौरोदौतोश्च मिथस्सावण्र्याभावेनेत्यर्थः। नापादनीयमिति। नाशङ्कनीयमित्यर्थः। एवं च एकारेण सह वर्तत इति सैः, हे सैरित्यत्र "एङ्()ह्यस्वात्" इति संबुद्धिलोपो न। ग्लावं ग्लाव इत्यत्र "औतोऽम्शसोः" इत्यात्वं च न। स्यादेतत्। हकारस्य आकारस्य च सवर्णसंज्ञा स्यात् , स्थानप्रयत्नसाम्यात्, अज्झलामेव सावण्र्यनिषेधात्, वार्णसमाम्नायिकानामेन वर्णानामज्झलशब्दवाच्यत्वात्, आकारप्रश्लेषे च प्रमाणाऽभावात्। न चाकारस्याच्त्वात्तेन आकारस्यापि अणौदित्सूत्रेण ग्रहणादाकारहकारयोर्न सावण्र्यमिति वाच्यं, ग्रहणकसूत्रे हि लब्धात्मकमेव सत् "अस्य च्वौ" इत्यादौ प्रवृत्तिमर्हति। नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रं न लब्धात्मकम्। तद्धि सवर्णपदघटितं, सवर्णपदार्थावगमोत्तरम#एव लब्धात्मकम्। सवर्णसंज्ञाविधायकं च तुस्यास्यसूत्रं सामान्यतः त्वर्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्तत्रैव पर्यवसन्नं स्वकार्यक्षमम्। तदुक्तम्--"प्रकल्प्यपवादविषयमुत्सर्गोऽभिनिविशते" इति। उक्तं च भाष्ये-वर्णानामुपदेशस्तावत्, उपदेशोत्तरकाला इत्संज्ञा, इत्संज्ञोत्तरकाल आदिरन्त्येनेति प्रत्याहारः, प्रत्याहारोत्तरकाला सवर्णसंज्ञा, तदुत्तरकालमणुदित्सूत्रमित्येतेन समुदितेन वाक्येनात्यत्र सवर्णानां ग्रहणं भवती"ति। अन्यत्र="अस्य च्वौ" इत्यादावित्यर्थः। अत्र भाष्ये "प्रत्याहारोत्तरकाला सवर्णसंज्ञे"त्यनेन नाज्झलाविति निषेधसहितः सावण्र्यविधिर्विवक्षितः , केवलसावण्र्यविधेः प्रत्याहारानपेक्षत्वेन प्रत्याहारोत्तरकालिकत्वनियमाऽसम्भवात्। तथा चाणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकत्वात्तेन नाज्झलावित्यत्र अज्ग्रहणेन सवर्णानां ग्रहणाऽभावात्सावण्र्यविधिनिषेधाभावादकारहकारयोः सावण्र्यं स्यादिति शङ्कते--नाज्झलाविति सावण्र्येत्यादिना। यद्यपीति सम्भावनायाम्। अक्षरसमाम्नायः=चतुर्दशसूत्री। तत्र भवा आक्षरसमाम्नायिकाः। "बह्वचोऽन्तोदात्तात्" इति ठञ्। न च नाज्झलविति प्रवृत्तिदशायामणुदित्सूत्रप्रवृत्त्यभावेऽपि तत्र अजित्यनेन लक्षणया दीर्घप्लुतानां ग्रहणमस्तु प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाया अनुपदमेव प्रपञ्चितत्वादिति वाच्यम्। स्ववाच्यवाच्येषु हि प्रत्याहाराणां लक्षणा, न चात्राच्छब्दवाच्याकारादिवाच्यता दीर्घप्लुतानामस्ति। अमुदित्सूत्रस्येदानीमप्रवृत्तेरिति भावः। परिहरति--तथापीति। वार्णसमाम्नायिकानामेव नाज्झलाविति निषेध इत्यभ्युपगमेऽपि हकारस्य आकारो न सवर्ण इत्यर्थः। कुत इत्यत आह--तत्रापीति। अपिशब्दो व्युत्क्रमः। तत्र=नाज्झलाविति सूत्रे, आसहितोऽच् आचित्याकारस्यापि सवर्णदीर्घेण प्रश्लिष्टत्वादित्यर्थः।

नन्वस्तु हकारस्य आकारस्य च सावण्र्यं, किं तत्प्रतिषेधार्थेन आकारप्रश्लेषेणेत्यत आह--तेनेति। तेन=हकारस्य आकारस्य च सावण्र्यप्रतिषेधेन, हकारेण आकारस्य ग्रहणाऽभावाद्वि()आपाभिरित्यत्र "हो ढः" इति हकारस्य विधीयमानं ढत्वं पकारादाकारस्य न भवति। आकारप्रश्लेषाऽभावे तु, तस्य हकारस्य च सावण्र्यसत्वाद्धकारेण आकास्य च ग्रहणात्तस्य ढत्वं स्यादित्यर्थः। अत्र ढत्वस्यासिद्धत्वात्संयोगान्तलोप एवापादनीय #इति नवीनाः। "कालसमयवेलासु तुमुन्" इति सूत्रे वेलास्विति लकारादाकारस्य निर्देशो नाज्झलावित्यत्र आकारप्रश्लेषे प्रमाणम्। अन्यथा तत्र ढत्वस्य संयोगान्तलोपस्य वाऽ‌ऽपत्तावाकारो न श्रूयेतेत्यलम्। ननु ग्रहणकसूत्रेऽज्ग्रहणमेव क्रियताम्, अणुदित्सवर्णस्येति किमण्ग्रहणेन, हयवरलानां सवर्णाऽभावेन तेषु ग्रहणकशास्त्रस्य व्यर्थत्वादित्यत आह--अनुनासिकेति। तेनेति। उक्तद्वैविध्येन सवर्णत्वात्-अननुनासिकास्ते यवलाः प्रत्येकं द्वयोद्र्वयोः संज्ञाः। अनुनासिकास्तु यवला अननुनासिकानामपि न संज्ञाः, "भेदको गुणा" इत्याश्रयणात्, वर्णसमाम्नायेऽननुनासिकानामेव तेषां पाठाच्च। एवं च यवलसंग्रहार्थं ग्रहणकसूत्रेऽज्ग्रहणमपह#आय अण्ग्रहणमिति भावः।

तत्त्व-बोधिनी
अणुदित्सवर्णस्य चाऽप्रत्ययः १५, १।१।६८

अविधीयमानोऽणिति। तेन इत इत्यत्र "इदम इश्" इति त्रिमात्र ईकारो न भवति। उदिच्चेति। इह "अविधीयमान" इति न संबध्यते, उदित्करणसामथ्र्यात्। तेन विधीयमानोऽप्युदित्सवर्णान्गृह्णात्येव,-"कुहोश्चुः" जगाद जघटे। परेण णकारेणेति। व्याख्यानतो विशेषप्रतिपत्तेः, "उपसर्गादृति" "ऋत उत्" इत्यादौ तपरकरणाल्लिङ्गाच्च। यदि पूर्वेण स्यात्तर्हि तपरत्वमिहानर्थकं स्यात्, ऋकारस्याऽनण्त्वेन सवर्णाऽग्राहकत्वात्। एवं च "तपरत्वाद्दीर्थे न, उप ऋकारीयति" इत्यादिवक्ष्यमाणग्रन्थोऽपि सङ्गच्छते। एवम्लृकारोऽपीति। "तिं()रशतः संज्ञे"त्यनुषज्यते। एतच्च न्यायसाम्यादुक्तम्। वस्तुत लृकारस्य ऋकारग्राहकत्वं न कुत्राप्युपलभ्यते। सूत्रारम्भसामथ्र्यादिति। सति तु सावण्र्ये एकारेण ऐकारग्रहणादोकारेण चौकारग्रहणात् "ऐऔच्" इति सूत्रारम्भो वृथा स्यादिति भावः। नापादनीयमिति। तेन ग्लावं ग्लाव इत्यत्र "औतोम्शसोः" इति न प्रवर्तत इति मूल एव स्फुटीभविष्यति। यद्यपीति। ग्रहणकशास्त्रस्याद्याप्यनिष्पत्तेरिति भावः। एतच्च "अकः सवर्णे दीर्घः" इत्यत्र व्युत्पादयिष्यामः। आक्षरेति। अक्षराणां समाम्नायः=उपदेशसूत्राणि। तत्र भवा आक्षरसमाम्नायिकाः। "बह्वचोऽन्तोदात्ताट्ठञ्" इति ठञ्। हो ढ इति ढत्वं न भवतीति। यद्यप्याकारप्रश्लेषाभावे संयोगान्तलोप एव प्राप्नोति नतु ढत्वं, तस्यासिद्धत्वात्, अतोऽत्र संयोगान्तलोपो न भवतीति वक्तुमुचितम्, तथापि "कार्यकालं संज्ञापरिभाषम्" इति पक्षे त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषायाः प्रवृत्तेरन्तरङ्गे ढत्वे कर्तव्ये बहिरङ्गः संयोगान्तलोपोऽसिद्ध इति मत्वेदमुक्तमित्येके। अन्ये तु "संज्ञापूर्वको विधिरनित्यः" इति लोपस्य वारणं कथंचित्कर्तुं शक्यमित्याशयेन ढत्वं नेत्युक्तमित्याहुः। वि()आपाभिरित्यत्रेत्युपलक्षणम्। वि()आपाः वि()आपाभ्यामित्यादावपि न भवति। "हो ढः" इत्युपलक्षणम्। "पृथगायु"रित्यादौ "झयो हः" इत्याकारस्य घकारो नेति दिक्। यदि तु "विवृतमूष्मणाम्" इत्यत्र "ईषत्स्पृष्टम्" इत्यत "ईष"दित्यनुवर्त्त्य "स्वराणां चे"त्यत्र निवर्त्त्य "ईषद्विवृतमूष्मणां, विवृतं स्वराणा"मिति प्रयत्नभेदो व्याख्यायते, तदा "नाज्झलौ" इति सूत्रं त्यक्तुं शक्यमित्याकरे स्थितम्। अनुनासिकास्ते इति। ये त्वाक्षरसमाम्नायिका अणस्त एव सवर्णानां संज्ञा भवन्तीति भावः। एवंच रेफो हकारश्च अण्प्रत्यागारान्तर्गतोऽपि न क्सयचित्संज्ञा, तत्सवर्णस्यान्यस्याऽभावादित्यवगन्तव्यम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तपरः १।१ तत्कालस्य ६।१ सवर्णस्य ६।१ ६८ स्वम् १।१ ६७ रूपम् १।१ ६७

समासः॥

तः परः यस्मात् सोऽयं तपरः, बहुव्रीहिः। अथवा तादपि परः तपरः, पञ्चमीतत्पुरूषः।
तस्य कालः, तत्कालः, षष्ठीतत्पुरुषः। तत्कालः कालः यस्य, सः तत्कालः, उत्तरपदलोपी बहुव्रीहिसमासः।

अर्थः॥

तपरः वर्णः तत्कालस्य सवर्णस्य (गुणान्तरयुक्तस्य च), स्वस्य रूपस्य च ग्राहकः भवति।

उदाहरणम्॥

{अतो भिह् एस् (७।१।६)} वृक्षैः प्लक्षैः। {आत् औ णलः (७।१।३४)} पपौ ददौ
काशिका-वृत्तिः
तपरस् तत्कालस्य १।१।७०

तः परो यस्मात् सो ऽयं तपरः, तादपि परः तपरः। तप्रो वर्णस् तत्कालस्य, आत्मना तुल्यकालस्य गुणान्तरयुक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य। विद्Hयर्थम् इदम्। अणिति न अनुवर्तते। अणामन्येषां च तपराणाम् इदम् एव ग्रहणकशास्त्रम्। अतो भिस ऐस् ७।१।९ इत्येवम् आदिषु पूर्वग्रहणकशास्त्रं न प्रवर्तत एव। अतपरा अणस्तस्य अवकाशः। किम् उदाहरणम्? अतो भिस ऐस् ७।१।९ वृक्षैः। प्लक्षैः। विड्वनोरनुनासिकस्य आत् ६।४।४१ अब्जाह्, गोजाः। तत्कालस्य इति किम्? खट्वाभिः। मालाभिः।
लघु-सिद्धान्त-कौमुदी
तपरस्तत्कालस्य २६, १।१।६९

तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥
न्यासः
तपरस्तत्कालस्य। , १।१।६९

तःपरो यस्मात् सोऽयं तपर इति बहुव्रीहिं दर्शयति, तादपि परस्तपर इति पञ्च-मीतत्पुरुषं च। स पुनः पञ्चमीति योगविभागात् समास इति वेदितव्यः। कथं पुनरेतत् समासद्वयं लभ्यते, यावतैकस्परशब्दः? एकस्याप्यावृत्त्या द्विधा भेदो भविष्यतीत्यदोषः। अत्र हि बहुव्रीहेर्लिङ्गम्--"अतो भिस ऐस्" ७।१।९ इति तपरकरणम्। न ह्रत्र पञ्चमी तत्पुरुष उपपद्यते। अवर्णो ह्रत्र तपरोऽभिमतः, न भिस्। यदि चेह पञ्चमीतत्पुरुषः स्यात्, तर्हि भिस् तपरः स्यात्; यतस्तपरो वर्ण इहोच्यते, न चासौ वर्णः, किं तर्हि? तत्समुदायः। पञ्चमीतत्पुरुषे तु लिङ्गम्--"वृद्धिरादैच्" १।१।१ इति तपरकरणम्। न ह्रत्र बहुव्रीहिर्युज्यते। यदि बहुव्रीहिः स्यात् तदाऽ‌ऽकारस्य तपरत्वं स्यात्,न चाऽ‌ऽकारार्थं तपरकरणम्(), अपि त्वैजर्थम्। एतच्च तत्रैव प्रतिपादितम्। सवर्णस्येति वत्र्तते, वर्णस्य च सवर्णो न भवति, ननु वर्णसमुदायस्य; तस्मादविशेषाभिधानेऽपि वर्ण एव तपरो विज्ञायत इत्याह-- "तपरो वर्णः" इति। तत्कालस्येति बहुव्रीहिः-- स कालोऽस्येति। अयुक्तोऽयं निर्देशः। तथा हि -- तच्छब्देन तपरः परामृश्यते, तपरश्च वर्णः। कालस्तु क्रियाविशेष इष्यते। तथा ह्रुक्तम्--- आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे। भिन्नमावृत्तिभेदेन कालं कालविदो विदुः॥ (वा।प।३।९।७६) इति। तत् कुतो वर्णक्रियाविशेषाभिधायिनोस्तपरकालशब्दयोः सामानाधिकरण्यम्? एवं तत्काल इव कालो यस्य स तत्काल इति। अस्यार्थं दर्शयितुमाह-- "आत्मना" इत्यादि। यद्यपि तपरकरणसन्निधानादिहात्मशब्दस्य तत्र वृत्तिर्युक्ता; तथापीह साहचर्यात् तत्सहचरितायामुच्चारणक्रियायां कालाख्यायां स वत्र्तते। कुत एतत्? तपरेण वर्णेन क्रियायास्तुल्यत्वानुपपत्तेः। सम्भवति साहचर्यात् ताच्छब्द्यम्। तदेतदुक्तं भवति- तपर- वर्णसहचरितया क्रियया तुल्यकालस्येति यादृशी तपरवर्णस्योच्चारणक्रिया तादृगुच्चारण- क्रिया यस्येति यावत्। "गुणान्तरयुक्तस्य" इति। यन गुणेन धर्माख्येनोदात्तादिना विशिष्ट उच्चारितस्ततोऽन्यैरुदात्तादिभिर्गुणैः सम्बद्धस्येत्यर्थः। "स्वस्य च रूपस्य" इति। इहापि तदनुवृत्तेः। इहेदं सूत्रं नियमार्थं वा स्यात्? विध्यर्थं वा? यद्यणित्यनुवत्र्तते,ततः पूर्वेणैव "सिद्धे सत्यारम्भो नियमा- र्थो भवति"--- (कात्य।प।६२)तपरोऽण् तत्कालस्यैव ग्राहको भवति, नान्यस्येति। अथाणिति निवृत्तम्, ततो विध्यर्थम्। तत्राद्ये पक्षे "विड्वनोरनुनासिकस्यात्" ६।४।४१ इत्याकारो दीर्घस्तपरो निरनुनासिकः सूत्र उपात्तः "भेदका गुणाः" इत्यस्मिन् दर्शने सानुनासिकस्य ग्राहको न स्यात्; अनण्त्वात्। ततश्च निरनुनासिक एवादेशः स्यात्। इतरत्र तु पक्षे सत्यपि भेदकत्वे गुणानामेष दोषो न भवतीति मन्यमानो द्वितीयं पक्षमाश्रित्याह-- "विध्यर्थमिदम्" इति। कथं विध्यर्थमित्याह-- "अणिति नानुवत्र्तते" इति। "अणामन्येषां च " इत्यादि। युक्तं यदन्येषामेव तपराणां ग्रहणकशास्त्रमिति तेषां पूर्वेण ग्रहणस्यासिद्धत्वात्। अणां तु पूर्वेणैव सिद्धे ग्राहकत्वे कथममित्यत आह--- "अतो भिस ऐस्" इत्यादि। स्यादेतत्, इहापि तत् प्रवृत्तमेवानवकाशत्वादित्यत आह-- "अत पराः" इत्यादि।"आद्गुणः" १।३।८७ इत्यादावतपरा अणोऽवकाशः।अस्य त्वनणस्तपरा दीर्घाः। यथा "विड्- वनोरनुनासिकस्यात्" १।४।४१इति। ये त्वणस्तपराः, तेषूभयप्राप्तौ परत्वादिदमेव ग्रहणकशास्त्रं प्रवत्र्तत इत्यभिप्रायः। "वृक्षै प्लक्षैः" इति। तृतीयाबहुवचनं भिस्।"अतो बिस ऐस्" (७।१।९ इत्यैसादेशः; वृद्धिरेचि" ६।१।८५ इति वृद्धिः। "अब्जाः गोजाः" इति। "जनी प्रादु- र्भावे" (धा।पा।११४९) अप्सु जायते, गोषु जायत इति-- "दजनसनकखनक्रमगमो विट्" ३।२।६। "खट्वाभिः" इति। कतं पुनरेतत् प्रत्युदाहरणम्, यावता "अन्तादिवच्च" ६।१।८२ इत्यन्तादिवद्भावे भवितव्यमेवात्रैस्भावेन, तपरकरणस्य तु य्तरैकादेशो नास्ति तद्()वयवच्छेद्यं भविष्यति-- "कीलालपाभिः, सोमपाभिः" इत्यादि? नैष दोषः; अन्तदिवच्च" ६।१।८२ इत्यत्र वक्ष्यति--- "वर्णाश्रयविधावन्तादिवद्भावो नेष्यते" इति। तथा हि-- खट्वाभिरितद्यत्रान्तवद्भावाभावात् "अतो भिस ऐस्" ७।१।९ न भवतीति। अथ वा -- "अतः" इत्यत्राकारद्वयप्रश्लेषः कृतः, श्रूयमाणादतो यथा स्यात्।
बाल-मनोरमा
तपरस्तत्कालस्य १७, १।१।६९

ग्रहणकसूत्रेऽण्सवर्णानां ग्राहक इति स्थितम्। एवं सति अत् इत् उत् इत्यादितपराणामप्यणां स्वस्वसर्वसवर्णग्राहकत्वे प्राप्ते इदमारभ्यते--तपरस्तत्कालस्य। "तपर" इत्यावर्तते। प्रथमस्तावत्तपरशब्दः-तः परो यस्मादिति बहुव्रीहिः। द्वितीयस्तु तात् पर इति पञ्चमीसमासः। ग्रहणकसूत्रादणित्यनुवर्तते। तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहिः। ऊकालः उष्ट्रमुख इत्यादिवत् समासः। एवं च "अत्"ित्" इत्याद्यात्मकोऽण् तपरत्वेन उच्चार्यमाणः स्वीयकालसदृशकालस्य संज्ञा स्यादित्यर्थः। तत्र अत् इत् उत् ऋत् इत्येतेषां तपराणां ह्यस्वाकारादीनामणां तत्तत्कालास्तत्तद्ध्रस्वप्रपञ्चाः। एत्, ऐत्, ओत्ौत् इत्येतेषां तु तपराणामेकारादीनां तत्तत्कालास्तत्तद्दीर्घप्रपञ्चाः। तत्र ह्यस्वाकारादीनां तपराणां तत्तद्ध्रस्वप्रपञ्चावाचकत्वस्य एकारादीनां च दीर्घाणां तपराणां स्वस्वदीर्घप्रपञ्चवाचकत्वस्य लोकसिद्धत्वात् "सिद्धे सत्यारम्भो नियमार्थः" इति न्यायेन सूत्रमिदं नियमार्थं सम्पद्यते--"अण् तपरश्चेत्तत्कालस्यैव सवर्णस्य ग्राहको न त्वतत्कालस्ये"ति। एवं च अतत्कालनिवृत्त्यात्मकपरिसंख्यार्थंमिदं सूत्रम्। वैयाकरणस्तु परिसंख्याविधिमेव नियमविधिरिति व्यवहरन्ति। तदिदं सर्वमभिप्रेत्य व्याचष्टे--तः परोयस्मादित्यादिना। नियमविधानस्य फलमाह--तेनेत्यादिना। तेन=नियमविधानेन। आदिना लृदित्यादिसंग्रहः। अत्, इत्, उत्, लृत्, एत, ऐत्, ओत्, औत्--इत्येते अष्टौ तपरा अणः स्वस्वसमानकालानां षण्णां षण्णामेव संज्ञाः , न त्वतत्कालानामित्यर्थः। ऋदिति द्वादशानामिति। ऋलृवर्णयोरिति सावण्र्यविधानादिति भावः। नन्वेवम्लृदित्यपि द्वादशानां ग्रहणं स्यात्, तथा च "पुषादिद्युताद्य्()लृदितः" इत्यादिविधय ऋदित्सवपि प्रवर्तेरन्निति चेन्न, ऋदित्यनेन लृकारप्रपञ्चस्य ग्रहणेऽपि क्वचित् लृदिद्ग्रहणबलेन लृ इत्यनेन ऋकारप्रपञ्चस्य ग्रहणाऽभावात्। अन्यथा "ऋतो ङी"त्यादौ क्वचित् ऋद्ग्रहणस्य पुषादिद्युताद्य्()लृदित इत्यादौ क्वचित् लृदिद्ग्रहणस्य च वैयथ्र्यापत्तेः। प्रथमातिक्रमणे कारणाऽभावेन सर्वत्र ऋदिद्ग्रहणस्यैव कर्तु शक्यत्वात्। इदमेवाभिप्रेत्य ग्रहणकसूत्रे ऋदिति द्वादशानामित्येवोक्तम्, नतु लृदंपीति। अत्र च तः परो यस्मादिति बहुव्रीहेः-अत्, इत्, उत् इत्याद्युदाहरणम्। तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यैकार उदाहरणम्। आत् ईत् ऊत् इत्यादि तु न तपरसूत्रस्योदाहरणम् , आकारादिषु हि तपरसूत्रमपूर्वविधानार्थम्, उत नियमार्थम्?, नाद्यः, तपरसूत्रे अण्ग्रहणानुवृत्त्यभावेऽपि जातिपक्षे आकारादिभिर्दीर्घैः स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्रप्रवृत्तेव्र्यर्थत्वात्। न द्वितीयः। उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्त्यसम्भवेन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुपपत्तेः, सिद्धे सत्यारम्भस्यैव नियमार्थत्वात्। एवं च आत्, ईदित्यादि तपरकरणमसन्देहार्थमेवेत्यास्तां तावत्। तदेवं वृत्तः प्रत्याहारप्रपञ्चो ग्रहणकशास्त्रप्रपञ्चश्च।

तत्त्व-बोधिनी
तपरस्तत्कालस्य १६, १।१।६९

स च तापरश्चेति। तव्रादिना उभयं विवक्षितमिति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ आदिः १।१ अन्त्येन ३।१ सह इता ३।१ स्वम् १।१ ६७ रूपम् १।१ ६७

अर्थः॥

आदिः अन्त्येन इता (इत्संज्ञकेन वर्णेन) सह तयोः मध्यस्थानां, स्वस्य च रूपस्य ग्राहकः भवति।

उदाहरणम्॥

अण् = अ इ उ। अक् = अ इ उ ऋ ऌ। अच् = अ इ उ ऋ लृ ए ओ ऐ औ।
काशिका-वृत्तिः
आदिरन्त्येन सहैता १।१।७१

आदिरन्त्येन इत्संज्ञकेन सह गृह्यमाणस् तन्मद्यपतितानां वर्णानां ग्राहको भवति, स्वस्य च रूपस्य। अण्। अक्। अच्। हल्। सुप्। तिङ्। अन्त्येन इति किम्? सुटिति तृतीयैकवचनेन टा इत्यनेन ग्रहणं मा भूत्।
लघु-सिद्धान्त-कौमुदी
आदिरन्त्येन सहेता ४, १।१।७०

अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥
न्यासः
आदिरन्त्येन सहेता। , १।१।७०

स्वरूपविधिपरिहारायारम्भः।इदमपि संज्ञासूत्रम्। अनादिभूत वस्त्वपेक्ष्य तत्पूर्ववस्तुन आदित्वं न भवति, अन्त्यभूतं वस्त्वपेक्ष्य ततः परस्यान्त्यत्वम्। न चेहाद्यन्तयोः परस्परापेक्षे आद्यन्तत्वे युज्येते। एवं हि सति वस्त्वन्तरस्य संज्ञिनो भावादादिरन्त्येन सहितः स्वर्यैव संज्ञा स्यात्। ततश्च "स्वं रूपम्" १।१।६७ इत्येतस्येहानुवृत्तये स्वरितत्वासङ्गो वृता स्यात्। तस्मादाद्यन्तशब्दाभ्यां सामथ्र्यादाद्यन्तव्यतिरेकेण तन्मध्यपाति वस्तु संज्ञित्वेनाक्षिप्तमिति मत्वाह-- "तन्मध्यपतितानाम्" इति। जाताविदं बहुवचनम्; अन्यथा ह्रेङ शब्द ओकारस्य संज्ञा न स्यात्। ननु चाद्यन्तशब्दाभ्यां नियतदेशावयवावभिधीयते, अवयवाश्चावयविनः समुदाय- रूपस्य सम्बन्धिन इति सम्बन्धिशब्दत्वादाद्यन्तशब्दाभ्यां तस्यैव संज्ञित्वेना- क्षेपो युक्तः। अकत एवं वक्तव्यम्-- "तन्मध्यपतितानां समुदायस्य" इति। एवं मन्यते-- यदयम् "तस्मादित्युत्तरस्य" १।१।६६इत्यादौ वर्णानां समुदाये परतो यकारं यणादेशं कृत्वा निर्देशं करोति, ततो गम्यते-- न वर्णसमुदायः संज्ञीति, किं तर्हि? प्रत्येकं वर्णा एवेति; अन्यथा वर्णसमुदाये संज्ञिनि परतो वर्णमालां यणादेशं कृत्वा निर्देशं कुर्यादिति। असम्भवात् स न कृत इति चेत्, न; वर्णमालात्मन आदेशस्य सम्भवात्। तर्हि समुदाये संज्ञिनि कार्यमेव न सम्भवतीति चेत्, यदि च समुदाये परतः कार्यं न सम्भवति वर्णा एव प्रत्येकं सन्तु संज्ञिनः; तत्र कार्यं सम्भवति, किं समुदायेन? "टा" इत्यनेन ग्रहणं मा भूदिति। ननु च सोऽपि तावतोऽवधेरन्त एव, न; तावतोऽवधेरविवक्षितत्वात्। टकारो ह्रयम् "टाङसिङसामिनात्स्याः" ७।१।१२ "द्वितीयाटौस्त्वेनः" २।४।३४ इत्यत्र तृतीयैकवचनस्य विशेषणार्थः, न तु प्रत्याहारार्थः। अथादिग्रहणं किमर्थम्? अन्त्येन सह समुदाय एव संज्ञा मा भूदिति, नैतदस्ति; "आवृत्तिधर्माणो हि संज्ञाशब्दा भवन्ति"। आदिरेव प्रदेशवाक्येष्वावत्र्तते, न समुदायः; तस्मादन्तरेणाप्यादिग्रहणं सामथ्र्यादादेरेवान्त्यसहितस्य संज्ञात्वं विज्ञायते, न समुदायस्य। एवं तर्हि सामथ्र्यलब्धस्यैवार्थस्य विस्पष्टीकरणार्थमादि- ग्रहणम्। अथ सहग्रहणं किमर्थम्, यावता तृतीययैव सहार्थो गम्यते, यथा-- "वृद्धो यूना" (१।२।६५) इत्यत्र? नैतदेवम्; इत्थम्भूतलक्षणेऽपि तृतीयाऽस्ति। तस्यां च सत्यामादिरेवान्त्येनेत्संज्ञकेनोपलक्षितः संज्ञा स्यात्। ततश्च प्रदेशेष्वक इति, इक इति, अचि इति च समुदायाद्विभक्तिर्न स्यात्, निरर्थकत्वेनाप्रातिपदिक्तवात्। "सह" ग्रहणात् तु सहभूता संज्ञेति समुदायस्य संज्ञात्वेनार्थत्त्वात् प्रातिपदिकत्वे सति विभक्तिर्लभ्यते। इद्ग्रहणं तु "अचि" इत्यत्रानित्संज्ञकेन "चटतव" इत्यनेन चकारेण संज्ञा मा भूदित्येवमर्थम्। अन्त्यत्वं तस्य पूर्ववत्, न समुदायापेक्षया। एवं तर्हि "हलन्त्यम्" १।३।३ इतीत्संज्ञा प्राप्नोति, तदर्थं "न विभक्तौ तुस्माः" १।३।४ इत्यत्र नेति योगविभागः कत्र्तव्यः।

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ येन ३।१ विधिः १।१ तदन्तस्य ६।१ स्वम् १।१ ६७ रूपम् १।१ ६७

समासः॥

सः अन्ते यस्य सः तदन्तः, तस्य तदन्तस्य, बहुव्रीहिः।

अर्थः॥

येन (विशेषणेन) विधिः विधीयते, सः तदन्तस्य समुदायस्य, स्वस्य च रूपस्य ग्राहकः भवति।

उदाहरणम्॥

{अचो यत् (३।१।९७)} चेयम्, जेयम्। {एरच् (३।३।५६)} चयः, जयः, अयः।
काशिका-वृत्तिः
येन विधिस् तदन्तस्य १।१।७२

येन विशेषणेन विधिर्विधीयते स तदन्तस्य आत्मान् तस्य समुदायसय् ग्राहको भवति , स्वस्य च रूपस्य। एरच् ३।३।५६, इवर्णान्तादच्प्रत्ययो भवतिचयः। जयः। अयः। ओरावश्यके ३।१।१२५, उवर्णान्ताद् ण्यद् भवति अवश्यलाव्यम्। अवश्यपाव्यम्। समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः। द्वितीयान्तं श्रितादिभिः सह समस्यते २।१।२३ कष्टश्रितः। इह मा भूत् कष्टं परमश्रित इति। प्रत्ययविधौ नडाऽदिभ्यः फक् ४।१।९९, नडस्य अपत्यं नाडायनः। इह मा भूत् सूत्रनडस्य अपत्यं सौत्रनाडिः। किम् अविशेषेण? न इत्याह। उगिद्वर्णग्रहणवर्जम् इति वाच्यम्। उगितश्च ४।१।६ इति ङीप्प्रत्ययः तदन्तादपि भवति भवती, अतिभवती। वर्णग्रहनमत इञ् ४।१।९५, दाक्षिः। प्लाक्षिः। यस्मिन् विधिस् तदादावल्ग्रहणे। अल्ग्रहणेषु यस्मिन् विधिस्तदादौ इति वक्तव्यम्। अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ६।४।७७ इति श्रियः। भ्रुवः।
न्यासः
येनविधिस्तदन्तस्य। , १।१।७१

"स्वं रूपं शब्दस्येत्यस्यायमपवादः"। इदमपि संज्ञासूत्रम्। न तु परिभाषा। न ह्रत्र नियमरूपता परिभाषाधर्मो विद्यते। "येन" इति करमए तृतीया। विधीयते = अपूर्व एव क्रियते इति विधिः कर्मसाधनः; उपसर्गे घोः किः" ३।३।९२ इति किप्रत्ययान्तः। तदन्तस्य" इति। सोऽन्तोऽस्येति बहुव्रीहिः। तदित्यनेन स एव करणभूतः शब्दः प्रत्यवमृश्यते। अनतशब्दोऽयमवयववाची, अवयवश्च समुदायस्य भवति। अतश्च तस्यैवेयं संज्ञा विज्ञायत इत्याह--- "समुदायस्य संज्ञा भवति" इति। "अवश्यलाव्यम्" इति। "अवश्यपाव्यम्" इति। "लूञ् छेदने" (धा।पा।१४८४), "पूञ् पवने" (धा।पा।१४८३) वृद्धौ कृतायाम् "वान्तो यि प्रत्यये" ६।१।७६ इत्यावादेशः, मयूरव्यंसकादित्वात् समासः; "लुम्पेदवश्यमः कृत्येः" (काशिका।६।१।१४४) इति मकारलोपः। अथेह कस्मादेजन्तस् संज्ञा न सम्भवति, "एचोऽयवायावः" (६।१।७८) इति? किञ्चस्यात्? "चयनं चायको लवनं लावकः" इत्यत्रानेकाल्त्वादयादयः सर्वादेशाः स्युः, नैष दोषः; "निर्दिश्यमानस्यादेशा भवन्ति" (व्या।प।१०६) इत्येच एव भविष्यन्ति, न सर्वस्यतदन्तस्य। अथ वा-- अस्य योगस्यैवं विधो विषय एव न भवति, ततो नायमिह प्रवर्तते। तथा हि येनेति करणे तृतीयेत्युक्तम्, न चाकर्तृकं करणमस्तीति कत्र्ताप्याश्रितः। स पुनरिह सम्बन्धिशब्दत्वादन्तशब्देनावयववाचिना सन्निधापितः समुदायो विज्ञाप्यते। प्रकृतत्वात् स्वरूपं च कर्ता च त्रिभिः प्रकारैः सन्निहितो भवति। क्वचिन्निर्देशात्-- "ईदूदेद्()द्विचनम्" १।१।११ इति, अत्र द्विवचनं कर्तृभूतं निर्दिष्टम्। तथा हीदादिभिः करणैः प्रगृह्रसंज्ञां विदधाति। क्वचित् प्रकरणात्--यथा "एरच्" ३।३।५६ इति, अत्र "धातोः" ३।१।९१ इत्यधिकाराद्()धातुः प्रकरणात् कत्र्ता सन्निहितः। स इकारेण करणेनाचं विदधाति। क्वचिच् सामथ्र्यात्-- यथा "इको झल्" १।२।९ इति, अत्र धातोरेव सन् विधीयते, नान्यसमादिति सामथ्र्याद्धातुः कर्ता सन्निहितः; स इका करणेन सनः कित्त्वं विदधाति। तदेवम्, "ईदूदेद्()द्विवचम्" १।१।११ इत्यादौ कर्तृकरणयोरुभयोरपि विद्यमानत्वात् सोऽस्य सूत्रस्य विषय इति तत्र तदन्तविधिर्भवति। "एचोऽयवायावः" ६।१।७५ इत्यत्र तु न केनचित् कत्र्ता सन्निहितः प्रकारेण, न चाकर्तृकं करणं सम्भवति;तस्मात् कर्तृकरणयोरुभयोरप्यसन्निहितत्वाननायमस्य सूत्रस्य विषय इति न सम्भवति तदन्तविधिः। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यायम्-- "द्वितीया श्रित" २।१।२४) इत्यादौ सुपा श्रितादयो विशिष्यन्ते,न श्रितादिभिः सुप्। विशेषणेन च तदन्तविधिः, न विशेष्येण। यस्मादयेनेति करणे तृतीया, करणं च परतन्त्रं परार्थं भवति, न विशेष्यम्, तस्माद्विशिष्टैः श्रितादिभिस्तदन्तविधिर्न भवति। "नडादिभ्यः फक्" इति। अत्रापि प्रकृतेन प्रातिपदिकेन नडादयो विशिष्यन्ते, न नडादिभिः प्रातिपदिकम् अतोऽत्रापि नास्ति तदन्तविधिरिति। "उगिद्वर्णग्रहणवर्जम्" इति। उगिता वर्णेन च प्रातिपदिकं विशिष्यते। विशेषणेन च तदन्तविधिर्भवत्येव। "यस्मिन् विधिः" इत्यादि। तदन्तविधौ प्राप्ते तदादिविधिरुच्यते। यस्मिन्नि- ति सप्तमीनिर्दिष्टे तदादिविधिं दर्शयति। यत्राल्ग्रहणे सप्तमीनिर्दिष्टे पूर्वस्य विधिस्तत्र तदादौ वेदितव्यः। अलादावित्यर्थः। यदि तर्हि तत्रापि तदन्तिविधिः स्यात्, इहैव स्यात्-- श्रियाविति,इह तु न स्यात्-- "श्रियः" इति? तदादिविधौ तु सतीहापि भवति, स्वस्य च रूपस्येति श्रियावित्यत्रापि भवत्येव।
बाल-मनोरमा
येन विधिस्तदन्तस्य २८, १।१।७१

यच्छब्दस्वरूपमुपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्येतद्वक्तुमाह-येन विधिः। विधीयत इति विधिः। "उपसर्गे घोः कि"रिति धाधातोर्भावे किप्रत्ययः। येनेति करणे तृतीया। शास्त्राकृद्विधाने कर्ता। धातोरित्यधिकृत्य #एरजिति इकारेण करणेन धातोरच्प्रत्ययं विधत्ते पाणिनिः। करणं च व्यापारवत्। एरजित्यत्र विशेषणस्य इकारस्य पाणिनिकर्तृकविधानक्रियायां करणस्य इतरव्यावर्तनमेव व्यापारः। ततश्च विशेषणमेवात्र येनेति तृतीयान्तेनोच्यते। स्वं रूपमित्यतः स्वमित्यनुवर्तते षष्ठ()न्ततया च विपरिणम्यते। एवं च "विशेषणसमर्पकः शब्दस्तदन्तस्य स्वस्य च प्रत्यायक" इति फलति। तदाह--विशेषणमित्यादि। विशेषणसमर्पकः शब्दस्तदन्तस्य शब्दस्य, विशेषण समर्पकशब्दस्य च बोधकः स्यादिति यावत्। ततश्च एरजित्यत्र इकारान्ताद्धातोरच्प्रत्ययः स्यात्, इकाररूपाद्धातोश्चेति फलति। यथा-चयः, अयः। केचित्तु करणं कर्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणपरत्वं यच्छब्दस्य लभ्यत इत्याहुः।

तत्तु शब्देन्दुशेखरे दूषितम्। समासेति। वार्तिकमेतत्। समासविधौ प्रत्ययविधौ च तदन्तविधेः प्रतिषेधो वाच्य इत्यर्थः। तेन कृष्णं परमश्रित इत्यत्र "द्वितीया श्रिते"ति समासो न भवति। सूत्रनडस्य गोत्रापत्यं सौत्रनाडिः। "अत इञ्"। अनुशतिकादीनां चेत्युभयपदवृद्धिः। अत्र नडादिभ्यः फगिति फग्()नभवति। नन्वेवं सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्र "उगितश्चे"ति उगिदन्तात्प्रातिपदिकाद्विहितो ङीप् न स्यात्, प्रत्ययविधौ तदन्तविधेः प्रतिषेधात्। तथा दाक्षिरित्यत्र अत इञिति इञ्? न स्यात्।

अस्यापत्यं इरित्यत्रैव इञ्स्यादित्यत आह--उगिदिति। इदमपि वार्तिकम्। "द्वितीयायां चे"ति वर्जयतेर्णमुल्। "उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्या समासप्रत्ययविधावित्युक्तः प्रतिषेधो भवती"त्यर्थः। उगिद्वर्णग्रहणे तु येन विधिरिति तदन्तविधिरस्त्येव, ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तादुगितश्चेति ङीप्, दाक्षिरित्यत्र अवर्णान्तादिञ् च सिध्यति।

तत्त्व-बोधिनी
येन विधिस्तद्गन्तस्य २६, १।१।७१

येन विधिः। "विधि"रित्यत्र "उपसर्गे" घोः किः" इति कर्मणि किः प्रत्ययः। "येने"ति करणे तृतीया, न तु कर्तरि। तस्याः कृद्योगषष्ट()आ बाधात्। नच "उभयप्राप्तौ कर्मणी"ति नियमेन निर्वाहः, कर्मण उक्तत्वेनोभयप्राप्त्यभावात्। तथा चात्र करणे तृतीयैव। करणं च परतन्त्रं, कत्र्रधिष्ठितस्यैव करणत्वात्। एवं चेह तृतीयया पारतन्त्र्यं लक्ष्यते। नच "एर"जित्यादाविकारादीनां पारतन्त्र्यं धात्वादीनां च स्वातन्त्र्यं वास्यादीनामिव तक्षादीनामिव संभवति, किंतु वैवक्षिकम्। तेन विशेषणमप्रधानम्। तच्चात्मान्तरस्य संज्ञेति फलितं, तदेतदाह--विशेषणं तदन्तस्यैति। स्वस्य चेति। "स्व रूप"-मित्यनुवृत्तेरेतल्लभ्यते। "एरच्"। इकारान्तादिकाररूपाच्च धातोरच्। चयः, जयः, अयः। समासप्रत्ययविधावाते। कृष्णं श्रितः कृष्णश्रितः। ["द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः"। द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह समस्यते वा तत्पुरुषः ]। नेह-कृष्णमुपश्रितः। "नडादिभ्यः फक्"। नडस्य गोत्रापत्यं नाडायनः। नेह-[सूत्रनडस्यापत्यं] सौत्रनाडिः। अनुशतिकादित्वादुभयमदवृद्धिः।

उगिद्वर्णेति। उगिद्वर्णग्रहणं वर्जयित्वा,-उगिद्वर्णग्रहणवर्जं। "द्वितीयायां चे"ति णमुल्। महान्तमतिक्रान्ता अतिमहती। महच्छब्दस्य गौरादित्वेऽप्युपसर्जने "षिद्गौरे"ति ङीषोऽप्रवृत्तेः "उगितश्चे"त्युगिदन्तान्ङीप्। "अत इञ्"। दाक्षिः। न चेह सामथ्र्यात्तदन्तविधिः , अस्यापत्यमिः काम इत्यत्र चरितार्थत्वात्। न चैवमिञो ञित्त्वं व्यर्थमिति वाच्यम्, "बाह्वादिभ्यश्चे"त्यत्र यथायथं वृध्द्याद्युदात्ताभ्यां चपितार्थत्वात्। नन्वेवमपि औपगविरित्यादावेव अत इञ्स्यान्नतु दाक्षिरित्यादौ, अकारस्येहानर्थकत्वादिति चेन्नः, वर्णग्रहणे अर्थवद्ग्रहणपरिभाषाया अप्रवृत्तेः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ वृद्धिः १।१ यस्य ६।१ ७४ आचाम् (निर्धारणे षष्ठी) ६।३ ७४ आदिः १।१ ७४ तत् १।१ वृद्धम् १।१ ७४

अर्थः॥

यस्य समुदायस्य अचां मध्ये आदिः अच् वृद्धिः भवति, तत् समुदायरूपं वृद्धसंज्ञकं भवति।

उदाहरणम्॥

शालीयः, मालीयः। औपगवीयः, कापटवीयः॥
काशिका-वृत्तिः
वृद्धिर् यस्य अचाम् आदिस् तद् वृद्धम् १।१।७३

यस्य इति समुदाय उच्यते। अचां मद्ये यस्य वृद्धिसंज्ञक आदिभूतः, तच्छब्दरूपं वृद्धसज्ञ्जं भवति। अचाम् इति जातौ बहुवचनम्। शालीयः। मालीयः। औपगवीयः। कापटवीयः। आदिः इति किम्? सभासन्नयते भवः साभासन्नयनः। वा नामधेयस्य वृद्धसंज्ञा वक्तव्या। देवदत्तीयाः। दैवदत्ताः। गोत्रान्तादसमस्तवत्प्रत्य्त्यो भवतीति वक्तव्यम्। घृतप्रधनो रौढिः घृतरौढिः। तस्य छात्रा घृतरौढीयाः। ओदनप्रधानः पाणिनिः ओदनपाणिनिः। तस्य छात्रा ओदनपाणिनीयाः। वृद्धाम्भीयाः। वृद्धकाश्यपीयाः। जिह्वाकात्यहरितकायवर्जम्। जैह्वाकाताः। हारितकाताः।
लघु-सिद्धान्त-कौमुदी
वृद्धिर्यस्याचामादिस्तद्वृद्धम् १०७८, १।१।७२

यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात्॥
न्यासः
वृद्धिर्यस्याचामादिस्तद्?वृद्धम्। , १।१।७२

"यस्येति समुदाय उच्यते" अचां मध्ये यस्यादिर्वृद्धिसंज्ञकस्तस्यैव शब्दरूपस्य संज्ञा विधीयते। तच्च नियोगतः समुदायात्मकमेवेति सामथ्र्याद् यस्येति सामान्यप-देनापि समुदाय एवाभिधीयते। संज्ञिनिर्देशार्थं यस्येति वचनम्। अचां मध्य इत्यादिना वृद्धिसंज्ञिनः समुदायादेकदेशस्य निर्धारणं दर्शयन्नचामित्यस्य निर्धारणषष्ठीत्वं दर्शयति। आदिशब्दस्त्विहोपक्रमे वत्र्तते, उपक्रमम्यते इत्युपक्रमः, प्रथमत उच्चारित इत्यर्थः। अचामिति बहुवचननिर्देशाद् यस् बहूनामचां मध्ये वृद्धिसंज्ञक आदिभूतः, तस्यैव वृद्धसंज्ञया भवितव्यम्; न तु यस्य द्वयोर्मध्ये इति चोद्यमपाकर्तुमाह-- "अचाम्" इत्यादि। यदि तह्र्रचामिति निर्धारणषष्ठीयम्, एवं सति समानजातीयस्यैव निर्धारणं भवतीत्यचां मध्ये वृद्धिकोऽजेव यथा स्यादित्येषोऽर्थः स्यात्। तथा च सत्याकारो यस्यादिस्तस्य संज्ञा न स्यादा()आलायन इत्यादेः, न ह्राकारस्य मुख्यमच्त्वमस्ति; अक्ष्वसन्निवेशात्। उपचरितं तु स्यात् ; "अणुदित्सवर्णस्य चाप्रत्ययः" १।१।६८ इत्येनेनानचोऽपि सतोऽच्कार्यकरणात्। न च मुक्ये सति गौणस्याश्रयणं युक्तम्, गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययात्, नैष दोषः; व्याप्तेन्र्यायादाकारस्यापि गौणमच्त्वमाश्रित्य भविष्यति,अन्यथा ह्रैज्ग्रहणमेव कुर्यात्, न वृद्धिग्रहणम्। "शालीयः, मालीयः, इत्यादि। अत्र वृद्धसंज्ञायां सत्याम् "वृद्धाच्छः" श्४।२।११३ इति च्छो भवति। ननु च शालामालाशब्दयोः कापटुशब्दस्य च संज्ञया न भवितव्यम्, न ह्रेषां वृद्धिसंज्ञक आदिः,किं तर्हि? हल्,नैतदेवम्; विद्यमानोऽपि ह्रत्र हल् नापेक्ष्यते,अजपेक्षस्यादित्वस्याश्रयणात्। एतदेव ह्रज्ग्रहणस्य प्रयोजनम्। कतं नाम तदपेक्ष- यादित्वं विज्ञायेतेति? अन्यथा तत्र कर्तव्यमेव स्यात्। अज्ग्रहणे क्रियमाणे सत्यमर्थो भवति। अचां मध्ये यस्य यो वृद्धिसंज्ञकोऽजेवादिभूत इति। अन्येभ्योऽज्भ्यो यस्य वृद्धिसंज्ञकः प्रागुच्चार्यत इति यावत्। तेन शालाशब्दादेरपि संज्ञा सिध्यति। "साभासन्नयनः" इति। अत्र वृद्धिसंज्ञाभावादणेव भवति, न तु च्छः। यदि पुनरा-दिग्रहणं न क्रियेत ततो यस्याप्यचां मध्ये वृद्धिसंज्ञकः कश्चित् सभासन्नयनादेस्त- स्याप्येषा संज्ञा स्यात्। अत्र यद्यपि वृद्धिशब्दः श्रूयते, तथापि तल्लिङ्गकपरि- भाषा नोपतिष्ठते। यसमाद् यत्र नियतस्थानिके गुणवृद्धी विधीयते तत्र स्थानिनियमार्थासा व्याप्रियते। एतच्च प्रागेवोक्तम्। न चेह गुणवृद्ध्योर्विधानम्, अतो नात्र व्यापारस्तस्याः। तेन यस्याप्यनियतस्थानिको वृद्धिसंज्ञक आदिभूतः, तस्यापि संज्ञा सिद्धा भवति। "वा नामधेयस्य" इत्यादि। ये पुरुषैव्र्यवहाराय संकीत्र्यमानाः शब्दा देवदत्त इत्येवमादयः, तेषामेषा संज्ञा वेदितव्या। तेष्वेव नामधेयशब्दो रूढः,न तु ये जात्यादिनिमित्तका गवादिशब्दा अनादिव्यवहारान्तः पातिनस्तेषु। ननु च काश्यादिपाठात् "काश्यादिभ्यः" ४।२।११५ ठञ्()ञिठाभ्यां भवितव्यम्, तदयुक्तं देवदत्तीय इति च्छप्रत्ययान्तस्योदाहरणम्, नैष दोषः; यो हि देवैदत्तो देवदत्त इति क्रियानिमित्तको देवदत्तशब्दः, तस्यैव तत्र पाठः,न संज्ञाशब्दस्य। तेन संज्ञाभूताद्देवदत्त शब्दाद् यदा वृद्धसंज्ञा तदा छो भवति,अन्यथा त्वण्। "गोत्रान्तात्" इत्यादि। तथाऽसमस्तात्त केवलाद्()गोत्रप्रत्ययान्ताद् वृद्धाच्छप्रत्ययो भवति तथा समस्ताद-वृद्धादपि। "घृतरौढिः" इति। "समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपद-लोपश्च" (वा।८३) इति समासः। एवमुत्तर रूढस्यापत्यम्, पाणिनस्यापत्यम्-- "अत इञ्" ४।१।९५ इतीञ्। बाह्वादिषु "सम्भूयोऽम्भसः सलोपश्च" (ग।सू।६६) इति पठ()ते। काश्यपशब्दो बिदादित्वादञन्तः। "जैह्वाकाताः, हारितकाताः" इति। कात्यशब्दो गर्गादियञन्तः। जिह्वाचपलः कात्यः, जिह्वाकात्यः। हरितभक्षः कात्यः हरितकात्यः, ताभ्यामौत्सर्गिक एवाण्, "यस्येति च" ६।४।१४८इत्यकारस्य लोपः; "आपत्यस्य च तद्धितेऽनाति" ६।४।१५१ इति यकारस्य॥
बाल-मनोरमा
वृद्धिर्यस्याचामादिलस्तद्वृद्धम् १३१६, १।१।७२

वृद्धिर्यस्य। अचामिति बहुत्वमनेकत्वोपलक्षणम्। तेन शालाशब्दस्यापि वृद्धत्वं सिध्यति। व्यपदेशिवत्त्वेन ज्ञाशब्दस्यापि वृद्धत्वम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ त्यदादीनि १।१ वृद्धम् १।१ ७२

समासः॥

त्यद् आदिः येषाम्, तानि इमानि त्यदादीनि, बहुव्रीहिः।

अर्थः॥

त्यदादीनि शब्दरूपाणि वृद्धसंज्ञकानि भवन्ति।

उदाहरणम्॥

त्यदीयम्। तदीयम्। एतदीयम्।
काशिका-वृत्तिः
त्यदादीनि च १।१।७४

यस्य अचाम् आदिग्रहणम् उत्तरार्थम् अनुवर्तते। इह तु न सम्बध्यते। त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति। त्यदीयम्। तदीयम्। एतदीयम्। इदमीयम्। अदसीयम्। त्वदीयम्। त्वादायनिः। मदीयम्। मादायनिः। भवतीयम्। किमीयम्।
लघु-सिद्धान्त-कौमुदी
त्यदादीनि च १०७९, १।१।७३

वृद्धसंज्ञानि स्युः॥
न्यासः
त्यदादीनि च। , १।१।७३

"उत्तरार्थम्" इति। उत्तरसूत्रेऽस्य प्रयोजनवत्त्वात् यद्यनुवत्र्तते,एतद-र्थमपि कस्मान्न भवतीत्याह-- "इह न सम्बध्यते" इति। यदीहापि सम्बध्येत तदायमर्थः स्यात्--- "त्यदादीनि यस्याचामादिभूतानि तद्()वद्धम्" इति। ततश्च त्वत्पुत्र इत्यादावेव स्यात्, केवालानां च त्यदादीनां न स्यादित्यभिप्रायः। ननु च त्वत्पुत्रो मत्पुत्र इत्यादावुपसर्जनानि त्यदादीनि, उपसर्जनानां च तेषां त्यदादित्वं निवर्तितम्, तत् कुतोऽयं प्रसङ्गः? यदि यस्याचामादेरित्येतदिह सम्बध्यते तदा सत्युपसर्जनत्वे वचनात् त्यदादावेव संज्ञा स्यात्, न केवलानामिति मन्यते; कथं पुनरिहानुवर्तमानं शक्यमसम्बन्धुम्? स्वसम्ब्नधानुवृत्तेः। "वृद्धिर्यस्याचामादिस्तद्()वृद्धम्" १।१।७२ इति त्यदादीनि च वृद्धिसंज्ञकानि भवन्ति। "वृद्धिर्यस्याचामादिस्तद्()वृद्धम्" इति तद्()वृद्धम्, "एङ प्राचां देशे" १।१।७४ यस्याचामादिग्रहणमनुवत्र्तते। वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिशब्देन सम्बन्धमनुवत्र्तमानं न शक्यते त्यदादिभिः सम्बन्धुम्। "त्वादायनिः, मादायनिः" इति। "उदीचां वृद्धादगोत्रात्" ४।१।१५७ इति फिञ्(), "प्रत्ययोत्तरपदयोश्च" ७।२।९७ इति युष्मदस्मदोस्त्वामादेशौ। चकारोऽनुक्तसमुच्चयार्थः। तेन "वा नामधेयस्य" (वा।१५) इत्यादि वक्तव्यं न भवति
बाल-मनोरमा
त्यदादीनि च १३१७, १।१।७३

त्यदादीनि च। शेष पूरणेन सूत्रं व्याचष्टे--वृद्धसंज्ञानि स्युरिति। आदेरचो वृद्धिसंज्ञकत्वाऽभावादारम्भः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ एङ् १।१ प्राचाम् ६।३ देशे ७।१ यस्य ६।१ ७२ आचाम् ६।३ ७२ आदिः १।१ ७२ वृद्धम् १।१ ७२

अर्थः॥

यस्य समुदायस्य अचाम् आदिः {एङ्} तस्य प्राचां देशाभिधाने वृद्धसंज्ञा भवति।

उदाहरणम्॥

एणीपचने भवः, एणीपचनीयः। गोनर्दे भव, गोनर्दीयः। भोजकटे भवः, भोजकटीयः।
काशिका-वृत्तिः
एङ् प्राचाम् देशे १।१।७५

यस्य अचाम् आदिग्रहणम् अनुवर्तते। एङ् यस्य अचाम् आदिः तत् प्राचां देशाभिधाने वृद्धसंज्ञं भवति। एणीपचनीयः। भोजकटीयः। गोनर्दीयः। एङिति किम्? आहिच्छत्रः। कान्यकुब्जः। प्राचाम् इति किम्? देवदत्तो नाम बाहीकेषु ग्रामह्, तत्र भवः दैवदत्तः। देशे इति किम्? गोमत्यां भवा मत्स्याः गौमताः। प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा। विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती। इति श्रीजयादित्यविरचितायां काशिकायाम् वृत्तौ प्रथमाध्यायसय् प्रथमः पादः।
न्यासः
एङ् प्राचां देशे। , १।१।७४

"प्राचां देशाभिधाने" इति। प्राचां सम्बन्धी यो देशस्तदभिधान इत्यर्थः। एतेन प्राचामिति देशविशेषणं न विकल्पार्थमिति दर्शयति। प्राचां मतेनेत्यस्याविवक्षितत्वादित्याख्यातं भवति। "एणीपचनीयः" इत्यादि। एणीपचन इत्यादिभ्यच्छः। "आहिच्छत्रः" इति, "कान्यकुब्जः" इति अहिच्छत्रकान्यकुब्जशब्दाभ्यामणेव भवति। "देवदत्तः" इति। वृद्धा-धिकारे विहितो "वाहीकग्रामेभ्यश्च" ४।२।११६ इति ठञ्()ञिठौ न भवतः, काश्यपादि- पाठादपि तौ न भवतः; क्रियानिमित्तको हि देवदत्तशब्दस्तत्र पठ()ते संज्ञाशब्दस्य चेदं प्रत्युदाहरणम्। एतच्च यदा "वा नामधेयस्य" (वा। १५) इति वृद्धसंज्ञा नास्ति; तदा वेदितव्यम्। "गौमताः"इति। अत्र सर्वमस्ति न तु देशाभिधानम्। तथा हि गोमती नदी प्रग्देशे, न देशः। न हि नदी देशग्रहणेन गृह्रते;"नदीदेशोऽग्रामाः" २।४।७ इत्यत्र नद्याः पृथग्ग्रहणात्। "एङ् प्राचां देशे" इति। "उदीचां वृद्धादगोत्रात्" ४।१।१५७ इत्येवमादिषु प्रागुदञ्चौ श्रूयेते, तयोश्च विभागो न विज्ञायते। अतस्तत्परिज्ञानायाह-- " प्रागुदञ्चौ" इत्यादि। शरावती नाम नदी , तस्याः पूर्वेण व्यवस्थितो देशः प्राग्देशः, उत्तरेण उदग्देशः। तौ शरावती विभजते = विभागेन व्यवस्थापयति तस्यां हि मर्यादायां सत्यां तयोर्विभागः परिज्ञायते। किमर्थं विभजते? "विदुषां शब्दसिद्ध्यर्थम्" इति। पण्()डितानां वैयाकरणानां शब्दव्युत्पत्त्यर्थम्। कतं विभजते? "हंसः क्षीरोदकं यथा"। क्षीरोदकमिति "जातिरप्राणिनाम्" २।४।६ इत्येकवद्भावः। क्वचित् क्षीरोदके इति पाठः। सः "सर्वो द्वन्द्वो विभाषयैकवद्भवति" (व्या।प।९१) इति वेदितव्यः। यथा हंसः क्षीरमुदकं च मिश्रीभावमुपगतं पृथगसङ्करेण व्यवस्थापयति, तथा शरावती प्रागुदञ्चौ। यत्-तदोर्नित्याभिसम्बन्दात् सेति वचनादनुक्तमपि येत्येतल्लभ्यते। या विभजते सा नोऽस्मान् पातु रक्षतु। प्रसिद्धस्तु पाठो यत्र श्लोके प्रागुदीचाविति, तत्राऽचः "उद ईत्" (६।४।१३९) इति भसंज्ञकस्योच्यमानः कथमीकारः? कथं च "उगिदचां सर्वनामस्थानेऽधातोः" ७।१।७० इति नुम न भवतीति चिन्त्यम्। अत्र वर्णयन्ति-- "अच्प्रत्यन्ववपूर्वात् सामलोम्नः" ५।४।७५ इत्यत्राजितियोगविभागेनाच्प्रत्ययः कृतः, तेनात्राचि परतो भसंज्ञामीत्वं भवति। नुम् न भवति; अचा सर्वनामस्थानस्य व्यवहितत्वादिति। अनये तु प्रागुदीचमिति समाहारे कुर्वन्ति। तेषां "द्वन्द्वाच्चुदषहान्तात् समाहारे" ५।४।१०६ इति टचि समासान्ते कृते पूर्ववदीकारो नुमभावश्च भवति। क्वचित्तु प्रागुदीच इति पाटः। तत्रावयवदेशापेक्षया बहुत्वविवक्षायां बहुवचनम्। प्राग्देशानुदग्देशाश्च विभजत इत्यर्थः। श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धपादविरचितायां काशिकाविवरणपञ्जिकायां प्रथमाध्यायस्य प्रथमः पादः ------------ अथ प्रथमाध्ययस्य द्वितीय पादः
बाल-मनोरमा
एङ् प्राचां देशे १३१९, १।१।७४

एङ् प्राचां। देशविशेषनाम्नश्चेदेङादिरेव वृद्धसंज्ञक इति नियमार्थमिदम्।

वा नामधेयस्येति। रूढशब्दत्वमिह नामत्वं, न त्वाधुनिकसंकेतितत्वमेव। तेन घटीयमित्यादि सिद्धम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ गाङ्कुटादिभ्यः ५।३ अञ्णित् १।१ ङित् १।१

समासः॥

कुटः आदिः येषां ते कुटादयः। गाङ् च कुटादयः च गाङ्कुटादयः, तेभ्यः ॰, बहुव्रीहिगर्भेतरद्वन्द्वः।
ञश्च णश्च ञ्णौ, इन्तरेतरद्वन्द्वः। ञ्णौ इतौ यस्य सः ञ्णित्, न ञ्णित् अञ्णित्, बहुव्रीहिगर्भः नञ्तत्पुरुषः।

अर्थः॥

गाङ्धातोः कुटादिभ्यश्च धातुभ्यः परे, ये ञित्-णित्-भिन्न-प्रत्ययाः, ते ङिद्वत् भवन्ति। गाङ् इत्यनेन इङादेशः गाङ् गृह्यते, यः {विभाषा लुङ्लृङोः (२।४।५०)} इत्यनेन सम्पद्यन्ते। कुटादयोऽपि (तुदा॰) कुट कौटिल्य इत्यारभ्य कुङ् शब्दे इति यावत् गृह्यन्ते।

उदाहरणम्॥

कुटिता, कुटितुम्, कुटितव्यम्। उत्पुटिता, उत्पुटितुम्, उत्पुटितव्यम्।
काशिका-वृत्तिः
गाङ्कुटादिभ्यो ऽञ्णिन्ङित् १।२।१

अतिदेशो ऽयम्। गाङिति इङादेशो र्ह्यते, न गाङ् गतौ इति, ङकारस्य अनन्यार्थत्वात्। कुटादयो ऽपि कुट कौटिल्ये इत्येत दारभ्य यावत् कुङ् शब्दे इति। एग्यो गाङ्कुटादिभ्यः परे अञ्णितः प्रत्यया ङितो भवन्ति ङिद्वद् भवन्ति इत्यर्थः। गाङः अध्यगीष्ट। अध्यगीषाताम्। अध्यगीषत। कुटादिभ्यःकुटिता। कुटितुम्। कुटितव्यम्। उत्पुटिता उत्पुटितुम्। उत्पुटितव्यम्। अञ्णितिति किम्? उत्कोटयति। उच्चुकोट। उत्कोटकः। उत्कोटो वतते। व्यचेः कुटादित्वमनसीति वक्तव्यम्। विचिता। विचितुम्। विचितव्यम्। अनसि इति किम्? उरुव्यचाः।
लघु-सिद्धान्त-कौमुदी
गाङ्कुटादिभ्योऽञ्णिन्ङित् ५९०, १।२।१

गाङादेशात्कृटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः॥
न्यासः
गाङ्कुटादिभ्योऽञ्णिन्ङित्। , १।२।१

अत्र पक्षत्रयं सम्भाव्यते-- इत्संज्ञको वा ङकारोऽनेन भाव्यते, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, इत्संज्ञको ङकार एषां सम्बन्धी भवतीति यावत्; एवं हि ते ङितो भवन्ति यदि हि तेषां ङकारोऽनुबन्धो विधीयते, नान्यथा; न हि विना चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति। ङिदितीयं वा संज्ञाऽनेन क्रियते, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, ङित्संज्ञका भवन्तीति यावत्। अतिदेशोऽयं वा स्यात्, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, ङिद्वद्()भवन्तीत्यर्थः। तत्राद्ये पक्षे "गाङकुटादिभ्यः" इत्यनया पञ्चम्याऽञ्णिदित्यस्याः प्रथमायाः षष्ठ()आं परिकल्पितायां सत्याम्। "आदेः परस्य" १।१।५३ इति वचनादादेरलः स्थान आदेश एव ङकारः प्राप्नोति। द्वितीये तु पक्षे "अनिदितां हल उपधायः क्ङिति " इत्यत्र संज्ञिनः संप्रत्ययो न स्यात्; शब्दभेदात्। अन्योहि ङिच्छब्दः, अन्यो हि क्ङिशब्दः। किञ्च, "ङिद्()ग्रहणे ग्रह्रादौ" ६।१।१६ सूत्र एषामेव संज्ञिनां ग्रहणं प्राप्नोति, न यङादीनाम् "कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः" (व्या।प।६) इति वचनात्। अथापि कथञ्चिदेते दोषाः परिहर्तुं शक्येरन्, आद्ययोः पक्षयोर्यस्तु तत्परिहारद्वारेण प्रवृत्तौ साध्यायां प्रतिपत्तिगौरवदोष आपद्यते सोऽपरिहार्य एव। तृतीये तु पक्षे न कश्चिद् दोष इति मत्वा तमेवाश्रित्याह-- "अतिदेशोऽयम्िति। यद्येवम्, वतिना निर्देशः कत्र्तव्यः, अन्यथा तदर्थो नावगम्येत; नैतदेवम्, परपदार्थेषुहि प्रयुज्यमानाः शब्दावतिमन्तरेणापि वत्यर्थ गमयन्ति, यथा-- सिंहो माणवकः,गौर्वाहीकः। गाङितीङादेशो गृह्रते-- "इङश्च" २।४।४८, "गाङ लिटि" २।४।४९, विभाषा लुङ लृङो" २।४।५० इति। गाङादेशो य इङः स्थाने वक्ष्यते तस्येदं ग्रहणम्, न "गाङ गतौ" (धा।पा।९५०) इत्यस्य। अथ "गाङ गतौ" (धा।प।९५०) इत्यस्य धातोग्र्रहणं कस्मान्न भवतीत्याह--"ङकारस्य" इत्यादि।इङादेशस्य यो ङकारस्तस्येदं प्रयोजनम्--इह सूत्रे तस्यैव ग्रहणं यथा स्यान्नान्यत् किञ्चिदात्नेपदार्थ स्यादिति चेत्? न; आत्मनेपदस्य स्थानमिवद्भावेनैव सिद्धत्वात्। तस्मादिङादेश एव गृह्रते; अन्यथा ङकारस्य वैयथ्र्यं स्यात्। ननु चोभयोरपि सामान्यग्रहणार्थो ङकारः स्यात्, तत् कुतो वैयथ्र्यम्()नैतदस्त; यदि हि तौ समानौ स्यातां तदा सामान्यग्रहणार्थता तस्य, न च तौ समानौ; गत्यर्थस्य गाङो ङकारस्यात्मनेपदविधौ चिरार्थत्वात्। इतरस्य तु न क्विच्चरितार्थता। तस्मादसमानार्थत्वादयुक्तं सामान्यग्रहणमिति गाङादेश गृह्रते। किमर्थं पुनरिह उच्चार्यते, न गा इत्येवोच्येत? चैवं शक्यम्; एवं हि सति निरनुबन्धकग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इति "कै गै शब्दे" (धा।पा। ९१६-९१७) इत्यस्यैव ग्रहणं स्यात्। कुटादयो हि "कुट कौटिल्ये" (धा।पा।१३६६) इत्यत आरभ्य "कुङ शब्दे" (धा।पा।१४०१) इति यावदिति। तदनन्तरं वृत्करणात् ततोऽधिकानां कुटादित्वानुपपत्तेः। "अध्यगीष्ट" इति। सिचो ङित्त्वे घुमास्थागादि ६।४।६६ सूत्रेणेत्त्वम्। अत्र हि "दीङो युडचि क्ङिति" ६।४।६५ इत्यतः क्ङितीत्यनुवत्र्तते, "ईद् यति" ६।४।५ इत्यत ईदिति च। "अध्यगीषत" इति। "आत्मनेपदेष्वनतः" ७।१।५ इत्यदादेशः। अथ लिटि यो गाङादेशस्तस्य कस्मादुदाहरणं न प्रदर्शितम्? एवं मन्यते-- लुङ एवायम्, नासाविह लिड्()ग्रहणं प्रयोजयति; "अंसयोगाल्लिट् कित्" १।२।५ इति वक्ष्यमाणेनैव सिद्धत्वात्। "उत्कुटिता" इति। "कुट कौटिल्ये" (धा।पा।१३६६)। "उत्पुटिता" इति। "पुट संश्लेषणे"(धा।पा।१३६७)। अथेहोच्चुकुटितषतीति सनो ङित्त्वादात्मनेपदं कस्मान्न भवति? उपदेशाधिकारात्। तत्र हि "उपदेशेऽजनुनासिकः" १।३।२ इत्यत उपदेशग्रहणमनुवत्र्तते। न चात्रौपदेशिकं ङित्त्वम्, किं तर्हि? आतिदेशिकम्। "व्यचेः" इत्यादि। "व्यच व्याजीकरणे"(धा।पा।१२९३) इति तुदादौ कुटादिभ्यः प्राक् पठ()ते। "विचिता" इति। ङित्त्वादिह ग्रह्रादिसूत्रेण ६।१।६ संप्रासरणम्। "उरुव्यचाः" इति। "सर्वधातुभ्योऽसुन्" (द।उ।९।४९) इत्यसुन्प्रत्ययः। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः।
बाल-मनोरमा
गाङ्कुटादिभ्योऽञ्णिन्ङित् २९२, १।२।१

गाङ्कुटादिभ्यो। ञ् च ण्च ञ्णौ,तौ इतौ यस्य स ञ्णित्,स न भवतीत्यञ्णित्। गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी। गाङिति ङकारानुबन्धात् "इणो गा लुङी"त्यस्य न ग्रहणमित्युक्तम्। नापि "गाङ्गतौ" इत्यस्याऽत्र ग्रहणं, तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात्। इङादेशस्य गाङो ङकारो नात्मनेपदप्रापणेन चरितार्थः, स्थानिवत्त्वेनैव तत्सिद्धेः। तदाह--गाङादेशादिति। एवं च सिचो ङित्त्वे आह--

तत्त्व-बोधिनी
गाङ्गुटादिभ्योऽञ्णिन्ङित् २५२, १।२।१

गाङ्कुटादिभ्यो। इह गाङ्गतावित्यस्य न ग्रहणम्, तङर्थतया ङकारानुबन्धस्य तत्र चरितार्थत्वात्। आदेशङकारस्तु अचरितार्थः। स्थानिवद्भावेनैव तङः सिद्धत्वादत आह---- गाङादेशादिति। कुटादिस्तुदाद्यन्तर्गणः। केचित्तु कुट आदिर्येषां ते कुटादयः। कुटस्य आदिः कुटादिः, कुटादिश्च कुटादयश्च कुटादय इति समासद्वयमाश्रित्य कुटपूर्वस्य लिखधातोरपि ग्रहमाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः। तच्च "रलो व्युपधा"दिति सूत्रस्थेन "लिखित्वा, लखित्वा लिलिखिषति लिलेखिषती"ति वृत्तिग्रन्थेन, "शकुनिष्वालेखने" इति सौत्र प्रयोगेण च विरुध्यते। अञ्णिदिति किम्?। घञि-- कोटः। पोटः। णलि चुकोट। पुपोट।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ विजः ५।१ इट् १।१ ङित् १।१

अर्थः॥

{ओविजी भयसञ्चलनयोः (तुदा॰ आ॰)} इत्येतस्मात् परः इडादिः प्रत्ययः ङिद्वत् भवति।

उदाहरणम्॥

अद्विजिता, उद्विजितुम्, उद्विजितव्यम्
काशिका-वृत्तिः
विज इट् १।२।२

ओविजी भयचलनयोः, अस्मात् परः इडादिः प्रत्ययो ङिद्वद् भवति। उद्विजिता। उद्विजितुम्। उद्विजितव्यम्। इटिति किम्? उद्वेजनम्। उद्वेजनीयम्।
लघु-सिद्धान्त-कौमुदी
विज इट् ६६८, १।२।२

विजेः पर इडादिप्रत्ययो ङिद्वत्। उद्विजिता॥
लघु-सिद्धान्त-कौमुदी
इति तुदादयः ६ ६६८, १।२।२

लघु-सिद्धान्त-कौमुदी
अथ रुधादयः ६६८, १।२।२

लघु-सिद्धान्त-कौमुदी
रुधिर् आवरणे १ ६६८, १।२।२

न्यासः
विज इट्। , १।२।२

"इडादिप्रत्ययः" इति। इट आदिर्यस्य तृजादेः स तथोक्तः।अथोत्त्मपुरुषस्यैकवचनस्येटो ग्रहणं कस्मान्न भवति, "सार्वधातुकमपित्" १।२।४ इत्यनेनैव तस्य कित्त्वस्य सिद्धत्वात्?नैतदस्ति,यत्र हि तेन न सिद्ध्यति तत्रोत्तमपुरुषस्यैककवचनस्य ङित्त्वविधानार्थमिड्()ग्रहणं स्यात्। क्व च तेन न सिद्ध्यति? आर्धुधातुक आशिषि लिङि-- "उद्विजिषीय" इत्यत्र। अतो युक्तं चोत्तमपुरुषस्यैकवचनस्य ग्रहणम् नागमस्य;"अर्थवद्()ग्रहणे नानर्थकस्य" (व्या।प।९), "प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्" (व्या।प।७२) इति परिभाषाद्वयात्। अथापि कथञ्चिदागमस्येटो ग्रहणं स्यात्? एवमपि तन्मात्रस्यैव ङित्त्वं लभ्यते, न तु तदादेः प्रत्ययस्य, तत्किमित्याह-- "इडादिप्रत्ययो ङिद्भवति " इति? एवं मन्यते--- "वद्धिर्यस्याचामादिः" १।१।७२ इत्यत आदिग्रहणमनुवत्र्तते, तेन चेड् विशिष्यते। न चोत्तमपुरुषस्यैकवचनस्यादित्वमस्ति, किं तर्हि? आगमस्यैव; तस्मात् स एव गृह्रते। तस्य च केवलस्यादिभूतस्य ङित्वे प्रयोजनं नास्तीति सामथ्र्यादिडादेः प्रत्ययस्य ङित्त्वं विज्ञायत इति। "उद्विजिता" इति। ङित्त्वात् "पुगन्तलघुपधस्य" ७।३।८६ इति गुणो न भवति।
बाल-मनोरमा
विज इट् ३६६, १।२।२

विज इट्। "गाङ्कुटादिभ्यः" इत्यतो ङिदित्यनुवर्तते। तदाह - विजेः पर इत्यादि। उद्विजिता। उद्विजिषीष्ट।उदविजिष्ट। व्रश्चधातुरूदित्त्वाद्वेट्। ग्रहिज्येति। लटि व्रश्च् अति इति स्थिते शस्याऽपित्त्वेन ङित्त्वात् "ग्रहिज्ये"ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः।तदाह - वृश्चतीति। वृश्चतः वृश्चन्तीत्यादि। वव्रश्चेति। णलि रूपमिदम्। थलि च प्रक्रिया अनुपदं वक्ष्यते। अतुसादौ संयोगात्परत्वेन कित्त्वाऽभावात् "ग्रहिज्ये"ति न संप्रसारणम्। तदाह -- वव्रश्चतुरिति। ऊदित्त्वात्थलि वेट्। तदाह -- वव्रश्चिथ वव्रष्ठेति। धातुपाठे "व्रश्चू" इत्यत्र व्रस् च् इति?सथिते सस्य श्चुत्वेन शकारनिर्देशः। तता च वव्रश्च् थ इति स्थिते श्चुत्वनस्याऽसिद्धत्वात् "स्कोः" इति सकारलोपे, चस्य "व्रश्चे"ति षत्वे, ष्टुत्वेन थस्यठत्वे, वव्रष्ठेतिरूपम्। वव्रश्चिव। ननु णलि थलि च अकितिद्वित्वे कृते "लिट()ब्यासस्ये"त्यब्यासावयवयोर्वकाररेफयोद्र्वयोरपि संप्रसारणं स्यात्। न च "न संप्रसारणे संप्रसारण"मिति वकारस्य संप्रसारणनिषेधः शङ्क्यः, पूर्वं वकारस्य संप्रसारणसंभवादित्यत आह-- लिट()भ्यासेति। "न संप्रसारणे" इति निषेधादेव ज्ञापक#आत्प्रथमं रेफस्य ऋकारः संप्रसारणमित्यर्थः। तस्यसंप्रसारणसंपन्नस्य ऋकारस्य अकारविधं स्मारयति - उरदिति। ननु ऋकारस्य अकारे कृते वकारस्य संप्रसारणं स्यात्, संप्रसारणपरकत्ववविरहेण "न संप्रसारणे" इति निषेधाऽप्रवृत्तेरित्यत आह-- तस्य चेति। अकारस्येत्यर्थ-। न च उरदत्त्वस्य परिनिमित्तक्तवाऽश्रवणात्कथं स्थानिवत्त्वमिति वाच्यम्, "अपादपरिसमाप्तेरङ्गाधिकार" इत्यभ्युपगम्य अह्गाक्षिप्रत्ययनिमित्तकत्वाभ्युपगमात्। "लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति"रितिन्यायस्तु "न संप्रसारणे" इति निषेधादेव न स्थानिबेदे प्रवर्तत इति ज्ञायते। अत एव "सुद्ध्युपास्य" इत्यादौ धकारस्य द्वित्वे कृते पूर्वधकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तां तावत्। आशीर्लिङ्याग - वृश्च्यादिति। कित्त्वात्संप्रसारणमिति भावः। अव्राक्षीदिति। अव्रश्च् सीत् इति स्थिते हलन्तलक्षणावृद्धिः। श्चुत्वस्याऽसिद्धत्वात् "स्कोः" इति सलोपः। "व्रश्चे"ति चस्य षः, तस्य "षढो"रिति कऋः, सस्य ष इति भावः। "नकारजावनुस्वरपञ्चमौ झलिधातुषु। सकारजः शकारः श्चे, र्षाट्टवर्गस्तवर्गजः। इत्याहुः। व्यच। सेट्। शे "ग्रहिज्ये"ति संप्रसारणं मत्वाह - विचतीति। वव्याचेति। "लिट()भ्यासस्ये"त्यभ्यासयकारस्य संप्रसारणम्। "न संप्रसारणे" इति न वकारस्य। विविचतुरिति। कित्त्वात् "ग्रहिज्ये"ति संप्रसारणे कृते द्वितवादीति भावः। विव्यचिथ। विविचिव। विच्यादिति। आशीर्लिङि कित्त्वाद्यकारस्य संप्रसारणम्। "अतो हलादे"रिति वृद्धिविकल्पं मत्वाह - अव्याचीत् अव्यचीदिति। ननु "व्यचेः कुटादित्वमनसी"ति व्यचेः कुटादित्ववचनात् व्यचिता, व्यचिष्यतीत्यादावपि "गाङ्कुटादिभ्यः" इति ङित्त्वात् संप्रसारणं स्यादित्यत आह- व्यचेरिति। कृन्मात्रेति। अवधारणे मात्रशब्दः। "उछि उञ्छे" "उछी विवासे" इति भ्वादौ पठितौ। इह तयोः पाठस्तु शविकरणार्थः। तेन उञ्छती उञ्छन्ती, उच्छती उच्छन्ती इति "आच्छीनद्यो"रिति नुम्विकल्पः सिध्यति। भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तरः। ऋच्छ गतीति। "छे चे"ति तुकि तस्य शचुत्वेन चकानिर्देशः। ऋच्छति। णलि लघूपधत्वाऽभावाद्गुणे अप्राप्ते आह - ऋच्छत्यृ()तामिति। द्वित्वे उरदत्त्वे हलादिशेषे "अत आदे"रिति दीर्घे आ अच्र्छ इति स्थिते बहुहल्त्वाद्विहल्त्वाऽभावान्नुटि अप्राप्ते आह - द्विहल्ग्रहणस्येति। आनच्र्छेति।"इजादे"रित्यत्र "अनृच्छः" इति पर्युदासादाम्न। ऋच्छतेति। "ऋच्छत्यृ()ता"मित्यत्र लिटीत्यनुवृत्तेर्न गुण इति बावः। लुभधातुः सेट्। "तीषसहे"ति वेडिति मत्वाह- लोभिता लोब्धेति। शिशुं नेति। "नशब्द इवार्थे। विप्राः शिशुमिव मतिभिः रिहन्ति = हिंसन्तीत्यर्थः। तृपधातुः श्यन्विकरण एवाऽनिट्। अङपवादत्वादिति। अपवादस्य उत्सर्गसमानदेशत्वादिति भावः। चृती हिंसाश्रन्थनयोरिति। श्रन्थनं विरुआंसनम्। चृततीत्यादि सुगमम्। "अथास्य योकं विचृते"दित्या()आलायनः। विरुआंसयेदित्यर्थः , उपसर्गवशात्। "यजमानो मेखलं विचृतते" इत्यापस्तम्बसूत्रे तु तङ् आर्षः। षुरधातुः षोपदेशः। कुर शब्दे। करोतेरेवेति। व्याख्यानमेवाऽत्र शरणम्। वृहूधातुः ऋदुपधः। ऊदित्त्वाद्वेट्कः। पवर्गादिरिति। पवर्गतृतीयादिरित्यर्थः। तृहू स्तृहू तृंहू इति। त्रयोऽपि ऋकारवन्तः। तृतीयोऽनुस्वारवान्। उदित्त्वाद्वेट्। तर्ढेति। तृहेस्तासि ढत्वध्तवष्टुत्वढलोपाः। एवं स्तर्ढा। तृण्ढा। अतर्हीत् अतार्क्षीत्, अस्तर्हीत् अस्तार्क्षीदिति सिद्धवत्कृत्याह - अतृंहीत् - अतार्ङ्क्षीदिति। तृंहेरिडभावपक्षे हलन्तलक्षणवृद्धौ रपरत्वम्। हस्य ढः, ढस्य कः, षत्वम्। अनुस्वारस्य परसवर्णो ङकार इति भावः। अतार्ढामिति। तृहेस्तसस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढञलोपा इति भावः। एव [स्तृहेः-] अस्तार्ढाम् [तृंहः] अतार्ण्ढाम्। स्फुर स्फुरणे।

तत्त्व-बोधिनी
विज इट् ३२०, १।२।२

विज इट्। इह "वृद्धिर्यस्ये"ति सूत्रान्मण्डूकप्लुत्या यस्यादिरिति अनुवर्तते, तेन इडादिप्रत्ययो लभ्यत इति मनोरमायां स्थितम्। नव्यास्तु इह इडित्यनेनोत्तमैकवचनं न गृह्रते, तथाच सति विजिषीयेत्यत्रैव स्यान्न तूद्विजितेत्यादौ। ततश्चेष्टसिद्ध्यर्थमिडागमो गृह्रते।तस्य तु ङित्त्वं व्यर्थम्, तन्निमित्तगुणस्याऽप्राप्तेः, अतो लक्षणया इड्वान् गृह्रते। इट् प्रत्ययस्यादिरिति। फलितार्थकथनम्--इडादिप्रत्ययो ङिद्वदिति। एंच इडादिरिति लाभाय यस्यादिरित्यनुवर्तनक्लेशो व्यर्थ एवेत्याहुः। इह ओविजीति तुदादी रुधादिश्च गृह्रते न तु "विजिर्पृथग्भावे" इति जुहोत्यादिः, व्याख्यानात्। यस्त्वत्र हरदत्तेन जुहोत्यादेरग्रहणे हेतुरुक्तः "तस्यानिट्कत्वा"दिति , तदयुक्तम्। क्रादिनियमनेन लिटि इट्संभवात्। न च तत्र कित्त्वेन गतार्थत्वादिटो ङित्त्वं व्यर्थमिति वाच्यम्, अपिल्लिटः कित्त्वेऽपि विवेजिथेत्यत्र पित्त्वेन ङित्त्वाऽभावात्। वव्रश्चेति। अत्र नव्याः-- "वव्रश्चे"त्यादौ "लिट()भ्यासस्ये" त्यभ्यासावयवयोद्र्वयोरपि यणोः संप्रसारणप्रसक्तौ पूर्वस्य यणो निषेधाय "न संप्रसारणे"इति सूत्रं स्वीक्रियते। ततश्च "अत एव ज्ञापकात्परस्य प्रथमं संप्रसारण"मिति परिकल्प्य "आ पादपरिसमाप्तेरङ्गाधिकार" इति पक्षमभ्युपगम्य उरदत्वस्याङ्गाक्षिप्तप्रत्ययनिमित्तकत्वस्वीकारात् "अचः परस्मि"न्निति स्थानिवद्भावप्रवृत्या संप्रसारणपरत्वामाश्रित्य वकारस्य संप्रसारणनिषेधः कथंचिदुपपद्यते। "परस्य संप्रसारणं", "परस्य यणः संप्रसारण" मिति वा सूत्रिते तु परस्यैव संप्रसारणं न तु पूर्वस्य यण इत्यर्थलाभादुक्तक्लेशं विनैव वव्रञ्च यून इत्यादि सर्वं सिध्यति। नचैवं "लिटि वयो यः" "वेञः" इत्यत्र संप्रसारणनिषेधाय नञोऽनुवृत्तिर्न लभ्येतेति वाच्यं, "न लिटि वयो यः" इति सूत्रकरणे बाधकाऽभावात्, "न संप्रसारणे"इति यथाश्रुतसूत्रप्रणयने त्वन्ततो मात्राद्वयस्याधिक्याच्च। एवं च लघूपायेनेष्टसिद्धौ "न संप्रसारणे" इति सूत्रारम्भो ज्ञापयति "निमित्तभेदाऽभावेऽपि स्थानिभेदे पुनरपि कार्यं प्रवर्तते" इति। तथा च "सुद्ध्युपास्य" इत्यादौ धकारस्य द्वित्वे कृते पुनरुकारात्परस्य दकारस्यापि द्वित्वमिति प्रक्रियाकारादिव्याख्यानं सूत्रकाराभिप्रेतमेव। यदि स्थानिभेदेऽपि निमित्तैक्ये कार्याऽप्रवृत्तिः क्वचिद्दृश्यते तत्र तु "ज्ञापकसिद्धं न सर्वत्रे"ति स दोषः परिह्यियतामित्याहुः। अव्रश्चीदिति। ऊदित्त्वात्पक्षे इट्। "वदव्रजे"ति वृद्धेः "नेटी"ति निषेधः। अब्राआक्षीदिति। "स्को" रिति सलोपः। "व्रश्चे"ति षः। "षढो"रिति कः। ततः सस्य षत्वम्। न चाऽत्र सकारस्य कथं लोप इति वाच्यं , धातुपाठे सकारस्य पाठात्। तदाहुः-- "नकारजावनुस्वारपञ्चौ झलि धातुषु। सकारजः शकारश्चे, र्षाट्टवर्गस्तवर्गजः"। इति। व्यच। व्याजीकरणं छद्मकरणम्। पर्युदासेनेति। प्रसज्यप्रतिषेधे हि वाक्यभेदोऽसमर्थसमासश्च प्रसज्येतेति भावः। कृन्मात्रविषयत्वादिति। तेन उद्विचिता उद्विचितुमित्यत्र संप्रसारणं भवति। व्यचिता व्यचिष्यतीत्यादौ तु तिङ्विषये न भवति। विव्याचेत्यत्र कुटादित्वे जातेऽपि न क्षतिः, गाङ्कुटादिभ्यः" इति सूत्रे "अञ्णितः प्रत्यया ङितः स्यु" रित्युक्तत्वात्। उत्तमे णलि तु णित्त्वाऽभावपक्षे ङित्त्वात्संप्रसारणे "विव्यचे"ति न सिध्येदिति-- "अनसी"ति पर्युदास आवश्यक इति बोद्ध्यम्। "उझछी उञ्छे उछी विवासे"। इमौ भ्वादिगणे व्याख्यातौ।इह पाठस्तु उञ्छनती, [उञ्छती,उच्छन्ती, उच्छती इ]त्यत्र "आच्छीनद्यो"रिति नुम्विकल्पार्थः। पूर्वं पाठस्तु स्वरार्थः। तथाहि उञ्छति उच्छतीत्यादौ पिद्वचने शप्तिबादीनां पित्त्वादनुदात्तत्व#ए धातुस्वरेणाद्युदात्तं पदम्। शे तु प्रत्ययस्वरेण मध्योदात्तमिति। न च "सति शिष्टस्वरेबलीयस्त्वमन्यत्र विकरणेभ्यः" इति वक्ष्यमाण्वात्कथमिह मध्योदात्ततेति वाच्यं, कुरुत इत्यादौ तसादेर्विकरणात्परत्वेन तत्स्वरस्योदात्तस्य विकरणस्वरापेक्षया प्रबलत्वेऽपि शस्य धातोः परत्वेन धातुस्वरापेक्षया शस्वरस्योदात्तस्य प्रबलत्वात्। उपलक्षणत्वादिति। अत एव "अदुपधस्य चेदश्नोतेरेवे"ति नियममाश्रित्य द्विहल्ग्रहणं भाष्यकारैः प्रत्याख्यातम्। अन्यथा तन्न सङ्गच्छेतेति भावः। आनच्र्छेति। "अनृच्छ" इति पर्युदासान्नाऽ‌ऽम्। नव्यास्तु "ऋच्छत्यृ()ता"मिति लिटिपरे गुणविधानसामथ्र्यादामभावः सिद्ध इति सर्वैरेव व्याख्यातत्वाद्गणान्तरेऽपि ऋच्छिरस्तीत्यनुमीयते। तद्धातोस्तु लिट()आम्निवारणाय "अनृच्छ" इत्येतदावश्यकमित्याहुः। मिच्छ। उत्कटः क्लेश उत्क्लेशः। ऋच स्तुतौ। ऋच्यते स्तूयते देवतादिकमनयेति ऋक्। बाहुलकादिह करणे क्विप्। लोभिता। लोब्धा। "तीषसहे"ति वेट्। शिशुं न विप्रा इति। न शब्द इवार्थे। विप्राः = ब्राआहृणाः शिशुमिव मतिभी रिहन्ति = हिंसन्ति। न्यूनीकुर्वनतीत्यर्थः। वृती हिंसाग्रन्थनयोः। ईदित्करणं "()आईदितो निष्ठाया"मितीण्निष#एधार्थम्। यद्यप्यस्य वेट्कत्वान्निष्टायामिण्निषेधः सिध्यति, तथापि "यस्य विभाषे"त्यस्याऽनित्यतां ज्ञापयितुमीदित्करणम्। तेन "धावितमिभराजधिये"त्यादि सिद्धमित्याहुः।

*शे तृम्फादीनां नुम्वाच्यः। कुर शब्दे। करोतेरेवेति। सुप्रसिद्धत्वात्। "कुर्यादित्युक्तं हि लोकानां कृञ एवोपस्थितिर्भवति न त्वस्येति भावः। मुर संवेष्टने। इगुपधलक्षणः कः। मुरो दैत्यः। मुरारिर्विष्णुः। क्षुर विलेखने। विलेखनं-- छेदनम्। "केशान् क्षुरति"। "इगुपधे"ति कः। क्षुरः शस्त्रम्। तिल स्नेहने। तिलति। "इगुपधे"ति कप्रत्यये तिलः। "तिल गतौ" तेलतीति शपि [गतम्] लिख अक्षरविन्यासे। "लिखितुं "लिखिष्यती"ति प्रयोगः प्रामादिकः। यत्तु कैश्चित्---कुटस्यादिः कुटादिः, कुट आदिर्येषां ते कुटादयः, कुटादिश्च कुटादयश्च कुटादय इत्येकशेषं स्वीकृत्य "लिखितु"मित्यादि समर्थितम्। तदसत्। "लेखिता" "लेखिष्यती"त्यादौ गुणनिषेधापत्तेः। न चेष्टापत्तिः, वृत्तिकारहरदत्तादिग्रन्थविरोधात्। "गाङ्()लिखादिभ्यः" इत्येव सूत्रितव्ये "कुटादिभ्य"इति पठनस्य स्वारस्यभङ्गापत्तेश्च। किं च "शकुनिष्वालेखने" इतिसौत्रप्रयोगोऽपि विरुध्यत इति प्रागेवोक्तमित्यास्तां तावत्। "लिखापयती"ति प्रयोगस्तु मनोरमायामित्थं समर्थितः--, आपनम् आपः = प्राप्तिः, लिखस्यापो लिखापः,तं करोतीति। स्फुट विकसने। स्फुट विकसने। स्फुटत्यर्थोऽस्मादिति स्फोटः। स च पदस्फोटवाक्यस्फोटादिभेदेनानेकविधः। कड मदे। कुटादिकार्याऽभावेऽपि डान्तानुरोधेनाऽयं कुटादौ पठितः। भ्वादौ पठितस्य पुनरत्र पाठः शतरि नुम्विकल्पार्थः। पूर्वंपाठस्तु उच्छतीत्यादाविव कडतीत्यादौ आद्युदात्तार्थः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ विभाषा १।१ ऊर्णोः ५।१ इट् १।१ ङित् १।१

अर्थः॥

{ऊर्णुञ् आच्छादने (अदा॰ उ॰)} अस्मात् परः इडादिः प्रत्ययः विभाषा ङिद्वत् भवति।

उदाहरणम्॥

ऊर्णुविता, ऊर्णविता।
काशिका-वृत्तिः
विभाषाऊर्णोः १।२।३

इटिति वर्तते। ऊर्णुञाच्छादने, अस्मात् परः इडादिः प्रत्ययो विभाषा ङिद्वद् भवति। प्रोर्णुविता। प्रोर्णविता। इटित्येव प्रोर्णवनम्। प्रोर्णवतीयम्।
लघु-सिद्धान्त-कौमुदी
विभाषोर्णोः ६०४, १।२।३

इडादिप्रत्ययो वा ङित्स्यात्। ऊर्णुनुविथ, ऊर्णुनविथ। ऊर्णुविता, ऊर्णविता। ऊर्णुविष्यति, ऊर्णविष्यति। ऊर्णौतु, ऊर्णोतु। ऊर्णवानि। ऊर्णवै॥
न्यासः
विभाषोर्णोः। , १।२।३

"प्रोर्णुविता" इति। ङित्वाद् गुणे प्रतिषिद्धे "अचि श्नुधातु" ६।४।७७ इत्यादिनोवङादेशः॥
बाल-मनोरमा
विभाषोर्णोः २७८, १।२।३

विभाषोर्णोः। "गाङ्कुटादिभ्यः" इत्यतो ङिदित्यनुवर्तते, "विज इ" डित्यत इडिति, --इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-- इडादीति। ऊर्णुनुविथेति। ङित्त्वपक्षे गुणाऽभावादुवङ्। ऊर्णुनविथेति। ङित्त्वाऽभावपक्षे गुणः। ऊर्णुनुवथुः ऊर्णुनुव। ऊर्णुनाव -- ऊर्णुनव। लुटि तासि इटि ङित्त्वविकल्पं मत्त्वाऽ‌ऽह-- ऊर्णविता ऊर्णुवितेति। ऊर्णविष्यति ऊर्णुविष्यति। ऊर्णविष्यते-- ऊर्णुविष्यते। लङि और्णुदिति स्थिते "ऊर्णोतेर्विभाषे"ति वृद्धिविकल्पे, गुणे च प्राप्ते--


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ सार्वधातुकम् ११ अपित् १।१ ङित् १।१

समासः॥

प् इत् यस्य सः पित्, बहुव्रीहिः। न पित् अपित्, नञ्तत्पुरुषः।

अर्थः॥

अपित् सार्वधातुकं ङिद्वत् भवति।

उदाहरणम्॥

कुरुतः, कुर्वन्ति। चिनुतः, चिन्वन्ति।
काशिका-वृत्तिः
सार्वधातुकम् अपित् १।२।४

सार्वधातुकं यदपित् तन् ङिद्वद् भवति। कुरुतः। कुर्वन्ति। चिनुतः। चिन्वन्ति। सार्वधतुकम् इति किम्? कर्ता। कर्तुम्। कर्तव्यम्। अपितिति किम्? करोति। करोषि। करोमि।
लघु-सिद्धान्त-कौमुदी
सार्वधातुकमपित् ५०२, १।२।४

अपित्सार्वधातुकं ङिद्वत्। शृणुतः॥
न्यासः
सार्वधातुकमपित्। , १।२।४

"अपित्" इति। किमयं प्रसज्यप्रतिषेधः? उत पर्युदासः? किञ्चात्र? पूर्वस्मिन् पक्षे लोडुत्तमपुरुषस्यैकवचनस्य "आडुत्तमस्य पिच्च" ३।४।९२ इत्याटि पिति कृते तुदानीत्यत्राड्()विकरणाकारयोः पिदपितोरेकादेशः परं प्रति "अन्तादिवच्च" ६।१।८२ इत्यादिद्भावात् पिद्ग्रहणेन गृह्रते इति पित्त्वम् , पित्त्वे च सत्यपिदिति ङित्त्वप्रतिषेधः स्यात्, ततश्च धातोर्गुणः प्रसज्येत। इतरत्र तु पक्षे "च्यवन्ते, प्लवन्ते" इत्यत्र शबन्तादेशाकारयोः पिदपितोर्य एकादेशस्तस्य पितोऽन्यत्वात् ङित्त्वमपाद्येत, ततश्च धातोर्गुणो न प्राप्नोति? पितोऽन्यत्वं त्वेकादेशस्य सर्वं प्रत्यादिवत्त्वात् परग्रहणेन ग्रहणात्, उच्यते,यथेच्छसि तथैवास्तु, उभयथाप्यदोषः। पूर्वत्र तावददोषः; यस्मादपितोरेव तुदानीत्यत्रैकादेशः, न पिदपितोः। तथा हि-- "आडुत्तमस्य पिच्च" ३।४।९२ लोडुत्तमपुरुषस्यैव पित्त्वं विधीयते, न त्वाटः। इतरत्राप्यदोषः, यस्मादपिदित्यनेन सार्वधातुकं विशिष्यते-- पितोऽन्यत् सार्वधातुकमपिदिति। न चान्तशब्दाकारः सार्वधातुकम्, किं तर्हि? तदेकदेशः। यच्चात्र सार्वधातुकं न च तेन सहैकादेशः, येन सहैकादेशो न च तत्सार्वधातुकम्;तेन यद्यप्ययमेकादेशः पितोऽन्यः; तथापि सार्वधातुकं न भवतीति तत्कुतो ङित्त्वस्य प्रसङ्गः? अथ वा भवतु ङित्तवम्, सत्यपि तस्य ङित्त्वे तस्मिन् नास्ति गुणाभावप्रसङ्गः? यस्मात् "वार्णादाङ्गं बलीयः" (व्या।प।३९) इति वचनादेशाद्धि प्रागेव "च्यवन्ते, प्लवन्ते" इत्यत्र गुणेन भवितव्यम्। "कुरुतः" इति। ततो ङित्त्वे सति विकरणस्य गुणो न भवति। करोतेरस्य "अत उत् सार्वधातुके" ६।४।१३० इत्युत्त्वं भवति। तत्र हि "गमहन" ६।४।९८ इत्यादिसूत्रात् क्ङितीत्यनुवर्तते॥

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ असंयोगात् ५।१ लिट् १।१ कित् १।१ २६ अपित् १।१

अर्थः॥

असंयोगान्तात् धातोः परः अपित् लिट् प्रत्ययः किद्वत् भवति।

उदाहरणम्॥

विभिदतुः, बिभिदुः। चिच्छिदतुः, चिच्छिदुः। ईजतुः, ईजुः।
काशिका-वृत्तिः
असंयोगाल् लिट् कित् १।२।५

अपितिति वर्तते। असंयोगान्ताद् धातोः परो लिट् प्रत्ययः अपित् किद् भवति। बिधिदतुः। बिभिदुः। चिच्छिदतुः। चिच्छिदुः। ईजतुः। ईजुः। असंयोगातिति किम्? संस्रसे। दध्वंसे। अपितित्येव। बिभेद।
लघु-सिद्धान्त-कौमुदी
असंयोगाल्लिट् कित् ४५४, १।२।५

असंयोगात्परोऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः। सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम। सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्। एवम् -- चिती संज्ञाने॥ ४॥ शुच शोके॥ ५॥ गद व्यक्तायां वाचि॥ ६॥ गदति॥
न्यासः
असंयोगाल्लिट् कित्। , १।२।५

धातोरेव लिड् विधीयते, नान्यस्मादिति लिटा सामथ्र्याद्धातुः सन्निधापितः; स चासंयोगग्रहणेन विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह-- "असंयोगान्ताद्धातोः" इति। यदि तह्र्रसंयोगान्ताद्धातोः परस्य लिटः कित्त्वं विधीयते; तदा "ववृते, ववृधे" इति न सिध्यति, परत्वाद् गुणेन भवितव्यम्। कित्त्वस्यावकाशः -- "ईजतुरीजुः" इति, गुणस्यावकाशः-- "वर्त्तित्वा, वर्धित्वा इति; "ववृते,ववृधे" इत्यादावुभयप्राप्तौ परत्वाद् गुण एव स्यात्, नैतदस्ति; इष्टवाचित्वात्परशब्दस्य, कित्त्वमेवेष्टम्, कित्वमेव परम्, अतस्तदेव भविष्यतीत्यदोषः। अत्र च यदि "असंयोगात्" इति पर्युदास आश्रीयते, तदा संयोगादन्यस्मिन् गृह्रमाणे नञिवयुक्तन्यायेन (व्या।प।६५) सदृशस्यैव ग्रहणं स्यात्-- संयोगस्य सदृशो योऽन्योऽसहायो हल् इति हलन्तादेव कित्त्वं भविष्यति, नाजन्तात्,ततः "चक्रश्चक्रुः" इति न सिध्यति। तस्मात् प्रसज्यप्रतिषेधोऽयम्, न पर्युदासः-- न चेत् संयोगात् यजादीनां किति" ६।१।१५ इति किति विधीयते, न ङिति। "बिभिदतुः, बिभिदुः" इति। कित्त्वात् "पुगन्तलघूपधस्य" ७।२।८६ इति गुणाभावः। "सस्त्रंसे, दध्वंसे" इति। कित्त्वाभावात् "अनिदिताम्" ६।४।२४ इत्यरनुनासिकल्लोपो न भवति। "स्त्रन्सु ध्वन्सु अधः पतने" (धा।पा। ७५४-७५५), अनुदात्तेत्वादात्मनेपदम्, "लिटस्तझयोरेशिरेच्" ३।४।८१ इत्येशादेशः। "बिभेदिथ" इति। सिप्,थल्, क्रादिनियमादिट्।
बाल-मनोरमा
असंयोगाल्लिट्कित् ८८, १।२।५

असंयोगाल्लिट्। अपिदिति। "सार्वधातुकमपि" दित्यस्तदनुवृत्तेरिति भावः। "सार्वधातुकमपि" दिति ङितत्वं तु नात्र प्रवर्तते, लिडादेशनामाद्र्धदातुकत्वादिति बोध्यम्। कित्त्वस्य फलमाह-- क्ङिति चेति। द्वित्वादिति। कृ ए स्थिते लिटि धातोरिति द्वित्वात्परत्वादिको बोध्यम्। कित्त्वस्य फलमाह-- क्ङिति चेति। द्वित्वादिति। कृ ए इति स्थिते लिटि धातोरिति द्वित्वं न स्यादिति भावः।

तत्त्व-बोधिनी
असंयोगाल्लिट्कित् ६९, १।२।५

असंयोगादिति किम्?। ममन्थे। अत्र नलोपो न।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ इन्धिभवतिभ्याम् ५।२ लिट् १।१ कित् १।१

समासः॥

इन्धिश्च, भवतिश्च इन्धिभवती, ताभ्यां इन्धिभवतिभ्याम्, इतरेतरद्वन्द्वः।

अर्थः॥

इन्धि, भवति इत्येताभ्यां परः लिट्-प्रत्ययः किद्वत् भवति।

उदाहरणम्॥

पुत्र ईधे अथर्वणः (ऋ॰ ६।१६।१४)। समीधे दस्युहन्तमम् (ऋ ६।१६।१५), बभूव, बभूविथ।
काशिका-वृत्तिः
इन्धिभवतिभ्यां च १।२।६

इन्धि भवति इत्येताभ्यां परो लिट् प्रत्ययः किड् भवति। समीधे दस्यु हन्तमम्। पुत्र ईधे अथर्वणः। भवतेः खल्वपि बभूव। बभूविथ। इन्धेः संयोगर्थं ग्रहणम्। भवतेः पिदर्थम्। अत्रैष्टिः श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम्। श्रेथतुः, श्रेथुः। ग्रेथतुः, ग्रेथुः। देभतुः, देभुः। परिषस्वजे, परिषस्वजाते।
न्यासः
इन्धिभवतिभ्यां च। , १।२।६

"समीघे" इति। "ञीन्धी दीप्तौ", (धा।पा। १४४८) पूर्ववदात्मनेपदम्, एशादेशः, कित्त्वात् "अनिदिताम्" ६।४।२४ इत्यादिनानुनासिकलोपः, द्विर्वचनम्, अकः सवर्णे दीर्घत्वं च ६।१।९७। अथ "इजादेश्च गुरुमतोऽनृच्छः" (३।१।३६) इत्याम् कस्मान्न भवति? मन्त्रविषयत्वादस्य; तत्र च "अमन्त्रे" इत्यधिकारात। एवं तर्हि मन्त्रश्छन्द एवेति "च्छन्दस्युभयथा" ३।४।११७ इति सार्वधातुकत्वम्, ततश्च सार्वधाकुमपित्" १।२।४ इति ङित्त्वम्, अत एव ङित्त्वादनुनासिकलोपो भविष्यतीति तत् किमर्थमिन्धेःपरस्य लिटऋ कित्त्वं विधीयते? ज्ञापनार्थम्। एतदनेन ज्ञाप्यते- अनित्योऽयमामिति। नित्ये ह्रामि तेन व्यवधानादेवेन्धेः परो लिण्न सम्भवतीति कित्त्वविधानं नोपपद्यते; तस्मादनित्योऽयमामिति। तेन भाषायामपि "समीधे" इति प्रयोग उपपन्नो भवति। "बभूव, बभूविथ" इति। कित्त्वाद् यथाक्रमं वृद्धिगुणौ न भवतः।"भुवो वुग् लुङलिटोः" ६।४।८८ इति वुक्। "भवतेरः" ७।४।७३ इत्यभ्यासस्यात्त्वम्। ननु च कृतयोरपि गुणवृद्ध्योर्वुका भवितव्यम्, अकृतयोरपीति नित्यो वुक्; कृताकृतप्रसङ्गित्वात्, तत्र नित्यत्वाद् वुकि कृते गुणवद्धयोः प्राप्तिरेव नास्ति, भवतेरलघूपधत्वात्, अनजन्तत्वाच्चेति भवतिग्रहणमनर्थकम्? नैतदस्ति; "शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति" (व्या।प।१००) इति वुगप्यनित्यः। ततश्च परत्वात् गुणवृद्ध्योः कृतयोर्वङ न स्यात्। तस्माद् भवतिग्रहणं कत्र्तव्यम्। अथ कृतयोरपि गुणवृद्ध्योरेकदेशविकृतमनन्यवद्भवतीति नास्ति शब्दान्तरत्वम्? एवं सति शक्यं भवतिग्रहणमकर्तुम्। तत् क्रियते विस्पष्टार्थम्। अथ "बभूव" इत्यत्र "अचो ञ्णिति" ७।२।१५ इति वृद्धेः कथं प्रतिषेधः, यावतेक इत्यनुवत्र्तते? क्ङिति च" १।१।५ इत्यनेनेग्लक्षणा वृद्धिः प्रतिषिध्यते, न चेयमिग्लक्षणा वृद्धिः, निर्दिष्टस्थानिकत्वात्। अत्र कित्त्वविधानसामथ्र्यादनिग्लक्ष णा अपि वृद्धेर्भविष्यति प्रतिषेधः; अन्यथा कित्त्वविधानमनर्थकं स्यादिति चेत्, न; तस्य थल्युत्तमणलि च गुणुप्रतिषेधार्थत्वात्। एवं तर्हि ङिद्ग्रहणमप्यनुवत्र्तते, तदनुवत्र्तमाने न विद्यमानमन्यत् प्रयोजनम्, तेनानिग्लक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति। "इन्धेः संयोगार्थं (ग्रहणम्-- काशिका) वचनम्" इति। तस्य संयोगान्तत्वात् पूर्वेणासिद्धेः। "भवतेः पिदर्थम्" इति। नापिदर्थम्; तस्यासंयोगान्तत्वादपिदिति पूर्वेण सिद्धेः। भवतेरिह श्तिपा निर्देशो यङलुग्()निवृत्त्यर्थः-- यङलुगन्तल्लिटः कित्त्वं मा भूदिति। "बोभाव" इति। तथा चोक्तम्---- श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च। यत्रैकाज्ग्रहणं किञ्चित् पञ्चैतानि न यङलुकि॥ (पु।प।९४) इति। "अन्थिग्रन्थि" इत्यादि। "श्रन्थ ग्रन्थ सन्दर्भे" (धा।पा।१५१२,१५१३), "दम्भ,द्म्भे" (धा।पा। १२९०) "ष्वन्ज परिष्वङ्गे" (धा।पा।९७३) एषामपि श्रन्थिग्रन्थिप्रभृतीनां लिटः कित्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- चकारोऽनुक्तसमुच्चयार्थः क्रियते, तेन श्रन्थिप्रभृतीनामपि संयोगान्तानां लि टः कित्त्वं भविष्यतीति। "श्रेथतुः" इत्यादि। कित्त्वात् "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपः। "तृ()फलभजत्रपश्च" ६।४।१२२ इति चकारस्यानुक्तसमुच्चयार्थत्वादनेकहल्मध्यस्याप्येत्वाभ्यासलोपौ। "परिषस्वजे" इति। अनुदात्तेत्त्वादात्मनेपदम्। पूर्वस्य सकारस्य "स्थादिष्वभ्यासेन चाभ्यासस्य" ८।३।६४ इति वत्र्तमाने, "उपसर्गात् सुनोति" ८।२।६५ इत्यादिना षत्वम्। परस्य तु सकारस्य "सदिस्वञ्जयोः परस्य लिटि" इति षत्वप्रतिषेधः।

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ मृडमृदगुधकुषक्लिशवदवसः ५।१ क्त्वा १।१ कित् १।१

समासः॥

मृडश्च मृदश्च गुधश्च कुषस्य क्लिशश्च वदश्च वस् च मृडमृद॰वस्, तस्मात् मृड॰वसः, समाहारो द्वन्द्वः।

अर्थः॥

{मृड सुखने (तुदा॰ प॰)}, {मृद क्षोदे (क्र्या॰ प॰)}, {गुध रोषे (क्र्या॰ प॰)}, {कुष निष्कर्षे (क्र्या॰ प॰)}, {क्लिशू विबाधने (क्र्या॰ प॰)}, {वद व्यक्तायां वाचि (भ्वा॰ प॰)}, {वस निवासे (भ्वादि प॰)}, इत्येतेभ्यः धातुभ्यः परः क्त्वाप्रत्ययः किद्वत् भवति।

उदाहरणम्॥

मृडित्वा, मृदित्वा, गुधित्वा, कुषित्वा, क्लिशित्वा, उदित्वा, उशित्वा।
काशिका-वृत्तिः
मृडमृदगुधकुषक्लिशवदवसः क्त्वा १।२।७

मृड मृद गुध कुष क्लिश वद वस इत्येतेभ्यः परः क्त्वाप्रत्ययः किद् भवति। न क्त्वा सेट् १।२।१८ इति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः। गुधकुषक्लिशीनां तु रलो व्युपधाद्धलादेः संश्च १।२।२६ इति विकल्पे प्राप्ते नित्यार्थं वचनम्। मृडित्वा। मृदित्वा। गुधित्वा। कुषित्वा। क्लिशित्वा। उदित्वा। उषित्वा।
न्यासः
मृडमृदगुधकुषक्लिशवदवसः क्त्वा। ल् , १।२।७

"मुड सुखने", (धा।पा।१५१६) "मृद क्षोदे" (धा।पा।१५१५) , "गुध रोषे " (धा।पा।१५१७) , "कुष निष्कर्षे" (धा।पा।१५१८) "क्लिशू विबाधने" (धा।पा।१५२२), "वद व्यक्तायां वाचि" (धा।पा। १००९), "वस निवासे" (धा।पा।१९४२)। "न क्त्वा सेट् इति कित्त्वप्रतिषेधं वक्ष्यति" इति। नन्वेदतदेव नियमार्थं भविष्यतीति--- मृडादिभ्य एव सेट् क्त्वा किद् भवति, नान्येभ्य इति, ततश्च सिद्धं देवित्वा, सेवित्वेत्यादि, तत् किमर्थं "न क्त्वा सेट्"(१।२।१८) इति प्रतिषेधं वक्ष्यतिर? विस्पष्टार्थम्; अन्यथा हि केचिद्विपरीतनियमं सम्भावयेयुः-- मृडादिभ्यः क्त्वाप्रत्यय एव किद् भवति, नान्य इति। "पुरस्तादपकर्षः" इत्यादि। अपकर्ष इत्यपवाद इत्यर्थः। "क्लिशित्वा" इति। "क्लिशः क्त्वानिष्ठयोः" ७।२।५० इतीट्। "उदित्वा"इति, "उषित्वा" इति। वच्यादिसूत्रेण ६।१।१५ संप्रसारणम्। वसतेः "शासिवसिधसीनाञ्च" ८।३।६० इति षत्वम्, "वसतिक्षुधोः" ७।२।५२ इतीट्।
तत्त्व-बोधिनी
मृडमृदगुधकुषक्लिशवदवसः क्त्वा १५९१, १।२।७

मृडमृद। मृड सुखने, मृद क्षोदे, गुध परिवेष्टने, गुध रोषे च, कुष निष्कर्षे, क्लिश हिंसायां --दिवादिः, क्लिशू विबाधने--- क्र्यादिः, वद व्यक्तायां वाचि, वस निवासे। किदिति। "असंयोगाल्लिट् कि"दित्यतः किदित्यनुवर्तत इति भावः। उदित्वेति। यजादित्वात्संप्रसारणम्। उषित्वेति। "वसतिक्षुधो"रितीट्। यजादित्वात्संप्रसारणम्। "शासिवसी"ति षः। गृहीत्वेति। "ग्रहिज्ये"ति संप्रसारणम्, "ग्रहोऽलिटी"ति इटो दीर्घः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ रुदविदमुषग्रहिस्वपिप्रच्छः ५।१ सन् १।१ १० क्त्वा १।१ कित् १।१

समासः॥

रुदश्च, विदश्च, मुषश्च, ग्रहिश्च, स्वपिश्च, प्रच्छ च, रुद॰प्रट्, तस्मात् रुद॰प्रच्छः, समाहारो द्वन्द्वः।

अर्थः॥

{रुदिर् अश्रुविमोचने (अदा॰ प॰)}, {विद ज्ञाने (अदा॰ प॰)}, {मुष स्तेये ( क्र्या॰ प॰)}, {ग्रह अपादाने (क्राय॰ उ॰)}, {ञिष्वप् शये (अदा॰ प॰)}, {प्रच्छ ज्ञीप्सायाम् (तुदा॰ प॰)}, इत्येतेभ्यः धातुभ्यः परौ क्त्वा-सनौ प्रत्ययौ किद्वत् भवतः।

उदाहरणम्॥

रुदित्वा, रुरुदिषति। विदित्वा, विविदिषति। मुषित्वा, मुमुषिषति। गृहीत्वा, जिघृक्षति। सुप्त्वा, सुषुप्सति। पृष्ट्वा, पिपृच्छिषति।
काशिका-वृत्तिः
रुदविदमुषग्रहिस्वपिप्रच्छः संश् च १।२।८

रुद विद मुष ग्रहि स्वपि प्रच्छ इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः। रुदविदमुषीणां रलो व्युपधाद्धलादेः संश्च १।२।२३ इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्। ग्रहेर् विध्यर्थम् एव। स्वपिप्रच्छ्योः सन्नर्थं ग्रहणम्। किदेव हि इत्वा। रुदित्वा, रुरुदिषति। विदित्वा, विविदिशति। मुषित्वा, मुमुषिषति। गृहीत्व, जिघृक्षति। सुप्त्वा, सुषुप्सति। पृष्ट्वा, पिपृच्छिषति। ग्रहाऽदीनां कित्त्वात् सम्प्रसारणं भवति। किरश्च पञ्चभ्यः ७।२।७५ इति प्रच्छेरिडागमः।
लघु-सिद्धान्त-कौमुदी
मुखनासिकावचनोऽनुनासिकः ९, १।२।८

मुखसहतिनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्॥
न्यासः
रुदविदमुषग्रहिस्वपिप्रच्छः संश्च। , १।२।८

"रुदिर् अश्रुविमोचने" (धा।पा।१०६७), "विद ज्ञाने" (धा।पा।१०६४), "मुष स्तेये" (धा।पा।१५३०), "ग्रह उपादाने" (धा।पा।१५३३), "ञिष्वप् शये (धा।पा। १०६८) "प्रच्छ ज्ञीप्सायाम्" (धा।पा।१४१३)। "ग्रहेर्विध्यर्थमेव" इति। "न क्त्वा सेट" १।२।१८ इति प्रतिषिद्धस्य कित्त्वस्य पुनर्विधिर्यथा स्यात्। "स्वपिर्विध्यर्थमेव" इत्यादि। "सन्नर्थम्" इति। अथ क्त्वार्थं वचनं कस्मान्न भवतीत्याह--- "किदेव हि क्त्वा" स्वपिप्रच्छयोर्हि "एकाच उपदेशेऽनुदात्तात्" ७।२।१० इतीट्प्रतिषेधात् क्त्वा सेड् न भवतीत्यतः "न क्त्वा सेट्" १।२।१८ इति निषेधो न प्रवत्र्तते। तेन किदेव हि क्त्वेति। "रुदित्वा" इति। "समानकर्तृकयोः पूर्वकाले" ३।४।२१ इति क्त्वा। "गृहीत्वा" इति। "ग्रहोऽलिटि दीर्घः" ७।२।३७ ग्रह्रादिसूत्रेण ६।१।१६ संप्रासरणम्। "जिघृक्षति" इति। "हो ढः" ८।२।३१ इति तत्वम्, "ष()ढोः कः सि" ८।२।४१ इति कत्वम्; "एकाचो बसो भष्" ८।२।३७ इत्यादिना गकारस्य घकारः, "सनि ग्रहगुहोश्च" ७।२।१२ इतीट्प्रतिषेधः। "सुषुप्सति" इति। वच्यादिसूत्रेण ६।१।१५ संप्रसारणम्। "पिपृच्छिषति" इति। अत्रापि ग्रह्रादिसूत्रेण ६।१।१६ संप्रसारणम्; "छे च" ६।१।७१ इति तुक्, "स्तोः श्चुना श्चुः" ८।४।३९ इति श्चुत्वम्॥
बाल-मनोरमा
रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ४३६, १।२।८

रुदविद। इका निर्देशात् संप्रसारणे गृहीति निर्देशः। स्वपीति इकारस्तु उच्चारणार्थः, न त्विका निर्देशः, सुपीति संप्रसारणप्रसङ्गात्। चकारात् "मृडमृदगुधे"ति पूर्वसूत्रस्थं क्त्वेति समुच्चीयते। तदाह -- सन् क्त्वा चेति। किताविति। "असंयोगाल्लि"डित्यतस्तदनुवृत्तेरिति भावः। रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित्। अविशेषात्सर्वस्येत्यन्ये। "हलन्ताच्चे"ति सिद्धे रुदविदमुषां ग्रहणं "रलो व्युपधा"दिति विकल्पबाधनार्थम्। ग्रहेस्तु क्त्वायां "न क्त्वा से"डिति निषेधबाधनार्थम्।स्वपिप्रच्छयोस्तु क्त्वायां कित्त्वेऽपि सनोऽप्राप्तकित्तवविधानार्थम्। रुरुदिषतीत्यादौ सनः कित्वाल्लघूपधगुणाऽभावः।

तत्त्व-बोधिनी
रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ३८०, १।२।८

रुदसाहचर्याद्वेत्तेरेव ग्रहणम्। इह रुदविदमुषाणां ग्रहणं "रलो व्युपधा"दिति विकल्पे प्राप्ते, ग्रहेः "न क्त्वा से"डिति निषेधाक्त्वाया अप्राप्ते, स्वपिप्रच्छयोस्तु क्त्वः कित्त्वेऽपि सनः कित्त्वस्याऽप्राप्तौ वचनम्। रुदित्वा। विदित्वा। मुषित्वा।सुप्त्वा। पृष्ट्वा। एतेषु संप्रसारणमपि फलम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ इकः ५।१ ११ झल् १।१ १३ सन् १।१ कित् १।१

अर्थः॥

इगन्तात् धातोः परः झलादिः सन् किद्वत् भवति।

उदाहरणम्॥

चिचीषति, तुष्टूषति, चिकीर्षति, जिहीर्षति।
काशिका-वृत्तिः
इको झल् १।२।९

सनित्यनुवर्तते। क्त्वा इति निवृतम्। इगन्ताद् धातोः परो झलादिः सन् किद् भवति। चिचीषति। तुष्टूषति। चिकीर्षति। इकः इति किम्? पिपासति। तिष्ठासति। झलिति किम्? शिशयिषते। किम् अर्थम् इदम् उच्यते? गुणो मा भूतिति। अज्झनगमां सनि ६।४।१६ इति दीर्घत्वं गुणस्य बाधकं भविष्यति? यथैव तर्हि दीर्घत्वं गुणं बाधते तथा णिलोपमपि बधेत। तस्माद् दीर्घत्वस्य अवकाशदानाय कित्त्वम् इदम् आरभ्यते। चिचीषति इत्यादिषु सावकाशं दीर्घत्वं पर्त्वाद् णिलोपेन बाध्यते। ज्ञीप्सति। इकः कित्त्वं गुणो मा भूत् दीर्घाऽरम्भात् कृते भतेत्। अनर्थकम् तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते। १। सामर्थ्याद्धि पुनर्भाव्यमृ̄दित्त्वं दीर्घसंश्रयम्। दीर्घाणां नाकृते कीर्घे णिलोपस्तु प्रयोजनम्। २।
लघु-सिद्धान्त-कौमुदी
इको झल् ७१२, १।२।९

इगन्ताज्झलादिः सन् कित् स्यात्। ॠत इद्धातोः। कर्तुमिच्छति चिकीर्षति॥
न्यासः
इको झल्। , १।२।९

"क्त्वेति निवृत्तम्" इति। झलादेः क्त्वाप्रत्ययस्यौपदेशिकं कित्त्वमस्त्येवेति तदनुवृत्तेरपार्थकत्वात्। सन्()ग्रहणन्तु प्रथमान्तमिहानुवत्र्तते, तस्य झलित्यनेन सामानाधिकरण्यमुपपन्नम्। अतः सामथ्र्यात् तदादिविधिर्विज्ञायत इत्यत आह-- "झलादिः सन् किद्भवति" इति। अथ तदन्तविधिः कस्मान्न भवति-- झलन्तः सन्निति? एवं मन्यते-- वृद्धसंज्ञा १।१।७२ सूत्रादिहादिग्रहणमनुवत्र्तते, तेन झल् विशिष्यते; तस्मात् तदादिविधिरेव विज्ञायिते, न तदन्तविधिरिति। यदि पुनस्तदन्तविधिः स्यात् तदा किं स्यात्? यत्रातो लोपे कृते झलन्तत्वं सनस्तत्रैव स्यात्-- चिकीर्षितेत्यादौ; चिकीर्षतीत्यादौ तदु न स्यात्, अदन्तत्वात्। अदन्तत्वन्तु सञ्शबकारयोद्र्वयोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावात्। अथेक इति "इक् स्मरणे" (धा।पा।१०४७) इत्यस्य धातोग्र्रहणं कस्मान्न भवति? झलिति प्रत्याहारस्यैव युक्तत्वात्; किञ्च-- गर्गादिषु जिगीषुशब्दपाठाच्च। धातुग्रहणे हि सति जयतेः परस्य सनः कित्त्वं न स्यात्, तथा च जिगीषुशब्दो न सिद्ध्येत्। किञ्च-- धातुग्रहणे हि सतीको धातोः समीपगतो हल् न सम्भवतीति "हलन्ताच्च" १।२।१० इत्येदप्यघटमानं स्यात्। तस्मात् प्रत्याहारस्यैव ग्रहणं न्याय्यम्, न धातोः। "चिचीषति" इति। "अज्झनगमां सनि" ६।४।१६ इति दीर्घः। "एकाचः" ७।२।१० इत्यादिना पूर्वोक्तेनेट्प्रतिषेधः। उत्तरत्रापि यत्रेटः श्रवणं नास्ति, तत्राप्यनेनैव प्रतिषेधो वेदितव्यः। यत्र तु विशेषोऽस्ति, तत्रासौ वक्तव्य एव। "तुष्टूषति"इति। "शर्पूर्वाः खयः" ७।४।६१ इति खयः शेषः। "शिशयिषते" इति। "पूर्ववत् सनः " १।३।६२ इत्यात्मनेपदम्। एवमुत्तरत्रापीच्छासन्नन्तादात्मनेपदमनेनैव बोद्धव्यम्। "किमर्थ पुनः" इत्यादि। अत्र वक्ष्यमाणोऽभिप्रायः। "गुणो मा भूत्" इति। यदर्थमिदमुच्यते तदाह। येनाभिप्रायेण पृष्टवांस्तमाविष्कर्तुमाह-- "अज्झनगमां सनि" इत्यादि। यदि दीर्घत्वे कृतेऽपि गुणः स्यात् तदा दीर्घत्वस्य वैयथ्र्यं स्यात्। तस्मान्मा भूतस्य वैयथ्र्यमिति दीर्घत्वं तद्()गुणस्य बाधकं भविष्यतीति। अत्र दोषमापादयितुमाह-- "यथैव तर्हि" इत्यादि। असति कित्त्वेऽनवकाशं दीर्घत्वं यता गुणस्य बाधकं भवति, तथा-- "तस्मात्" इत्यादि। यत एवमनारभ्यमाण एतस्मिन्नेष दोषोऽनुषज्येत, तस्माद्दीर्घत्वस्यावकाशदानाय कित्त्वमिदमारभ्यते। अथारभ्यमाणेऽप्येतस्मिन् कस्मादेष दोषो न भवतीत्यत आह----"चिचीषति" इत्यादि। कित्त्वे सति तेनैव गुणस्य बाधितत्वात्। चिचीषति, तुष्टूषतीत्यादिषु सावकाशं दीर्घत्वं भवति; तेन च परत्वाण्णिलोपो न बाध्यते। न हि कित्त्वे सति शक्यमेवं वक्तम्-- यथा दीर्घत्वं गुणं बाधते, तथा णिलोपमपीति; यस्मान्न गुणो दीर्घत्वेन बाध्यते,किं तर्हि? कित्त्वेन। अत्र दीर्घत्वस्यावकाशो दर्शितः णिलोपस्य त्वेषोवकाशः- पाचयतेः पाक्तिः, याजयतेर्याष्टिरित्यादि; ज्ञीप्सतीत्यत्रोभयप्राप्तौ दीर्घत्वं बाधित्वा परत्वात् णिल#ओप एव भवति। "ज्ञा अवबोधने" (धा।पा।१५०७), "मारणतोषणमनिशामनेषु" (धा।पा।८११), "मिच्च" (धा।पा।१६२४)इति चुरादिपाठाण्णिच्। "अर्त्तिह्यी" ७।३।३६ इत्यादिना पुक्। "मितां ह्यस्वः" ६।४।९२ इति ह्यस्वत्वम्। अन्ये तु-- "ज्ञप मारणतोषणनिशामनेषु" (धा।पा।१६२४) इति पठन्ति, ततो णिच्, तत इच्छासन्, "सनीवन्तद्र्ध" ७।२।४९ इत्यादिना पक्षे इडभावः, क"आप्ज्ञपृधामीत्" ७।४।५५ इतीत्वम्, "अत्र लोपोऽभ्यासस्य" ७।४।५८ इत्यभ्यासलोपः। त"णेरनिटि" ६।४।५१ इति णिलोपः। "इकः कित्त्वम्" इत्यादि। अथ किमर्थमिक उत्तरस्य सनः कित्त्वं विधीयते, किमर्थमिको झलिति योगविभागः क्रियते, नन्वेकमेवेदं सूत्रं पठितव्यम्, "इको झल् हलन्ताच्च" इति? प्रयोजनमाह--- "गुणो मा भूत्" इति। चिचीषतीत्यादौ "सार्वधातुकार्धधातुकयोः" ७।३।८४ इति गुणः प्राप्नोति, स मा भूदित्येवमर्थं कित्त्वं विधीयते। नैतदस्ति प्रयोजनम्; यस्मात् "अज्झनगमां सनि" ६।४।१६ इति नाप्राप्ते गुणे दीर्घत्वमारभ्यते, अतो दीर्घारम्भाद् गुणो न भविष्यतीति; अन्यथा हि दीर्घग्रहणमनर्थकं स्यात्। ननु च चुकूषते इत्यत्र दीर्घवचनस्य सार्थकत्वम्, अत्र हि गाङकुटादिसूत्रेण १।२।१ ङित्त्वे सति गुणो न प्रवत्र्तते, नैतदस्ति; न ह्रेकमुदाहरणं प्रति योगारम्भं प्रयोजयति। यदि ह्रेतत् प्रयोजनमभिमतं स्यात्, णिग्रहणमेव कुर्यात्। समुदायामात्रादपेक्षया वा "पुरस्तादपदादाः" इत्यादिका परिभाषा नास्त्येवेति।
बाल-मनोरमा
इको झल् ४३९, १।२।९

इको झल्। इगन्तादिति। सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः। सन् किदिति। "रुदविदमुषग्रही"त्यतः, "असंयोगाल्लिट्कि"दित्यश्च तदनुवृत्तेरिति भावः। बुभूषतीति। कित्त्वान्न गुणः। इकः परत्वान्नेट्। दिदीषते इति। सनः कित्त्वान्न गुणः। दीङो ङित्त्वात् "पूर्ववत्सनः" इत्यात्मनेपदम्। एज्विषयत्वाभवादिति। कित्त्वे गुणनिषेधादिति भावः। अत एवेति। यद्येज्विषयादन्यत्राप्यात्वं स्यात्तदा मीमेति पृथग्ग्रहणमनर्थकं स्यात्, "गामादाग्रहणेष्विशेषः" इत्युक्तेरिति भावः।

तत्त्व-बोधिनी
इको झल् ३८३, १।२।९

इको झल्। "रुदविदे"त्यतः सननुवर्तते, सनाक्षिप्तो धातुरिका विशेष्यते,वशेष्यणेन च तदन्तविधिरित्याह--- इगन्तादिति। इगन्तात्किम्?। पिपासति। तिष्ठासति। झलीति किम्?। शिशयिषते। कित्स्यादिति। "असंयागाल्लिट्कि"दित्तः किदनुवर्तत इति भावः। एज्विषयत्वाऽभावादिति। कित्त्वेन गुणाऽप्राप्तेरित्यर्थः। अत एवेति। यद्येज्विषयादन्यत्राप्यात्वं भवेत्तदा मीग्रहणं तत्र न कुर्यात, गामादाग्रहणेष्वविशेषादिति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ हलन्तात् ५।१ ११ इकः ५।१ झल् १।१ सन् १।१ कित् १।१

समासः॥

हल् चासौ, अन्तश्च, हलन्तः, तस्मात् हलन्तात्, कर्मधारयतत्पुरूषः।

अर्थः॥

इकः समीपात् यः हल् तस्मात् परः झलादिः, सन् किद्वत् भवति। अन्तशब्दः अत्र सामीप्यवाची।

उदाहरणम्॥

बिभित्सति, बुभुत्सते।
काशिका-वृत्तिः
हलन्ताच् च १।२।१०

हलन्तादिको झल् कितिति वर्तते। सनिति निवृत्तम्। इगन्तदिक्समीपाद्धलः परौ झलादी।
लघु-सिद्धान्त-कौमुदी
हलन्ताच्च ७४६, १।२।१०

इक्समीपाद्धलः परो झलादिः सन् कित्। निविविक्षते॥
न्यासः
हलन्ताच्च। , १।२।१०

इक इत्यनुवत्र्तते। अत्र यदि चान्तशब्दोऽवयववाची स्यादिको हला सह सम्बन्धोन स्यात्, न हीको हलवयवः सम्भवति। यो हि येनारभ्यते, अपृथग्()देशभूतः स तस्यावयवो भवति; यथा-- पटस्य तन्तव इति। न च हलेगारभ्यते, तस्मान्नायमन्तशब्दोऽवयववाची; अपि तु समीपवचनो युक्त इति मत्वाऽ‌ऽह-- "समीपवचनोऽ‌ऽयमन्तशब्दः" इति। ननु च धातुरत्र सामथ्र्यादाक्षिप्तः, अत्सतदपेक्षया हलोऽवयवत्वं भविष्यति, नैतदस्ति; एवं तह्र्रन्तशब्दोऽतिरिच्येत, "येन विधिस्तदन्तस्य" (१।१।७२० इत्यनेनैव तदन्तविधेर्लब्धत्वात्। हल् चासावन्तश्चेति विग्रहविशेषेण कर्मधारयत्वं दर्शयति। कस्य पुनरसावन्तः? प्रकृतस्येकः। यद्येवम्, सापेक्षमसमर्थं भवतीतिकमपेक्षमाणस्यान्तशब्दस्य समासो नोपपद्यते, नैष दोषः; अन्तशब्दो ह्रत्र प्रधानः। भवति च प्रधानस्य सापेक्षस्यापि समास #इति द्वितीयेऽध्याये ज्ञापयिष्यति "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" २।१।५५ इत्यत्र सामान्याप्रयोगग्रहणेन। "इगन्तात्िति। षष्ठीसमासोऽयम्। ननु चेक इति पञ्चम्यन्तं प्रकृतम्, तत् कथं षष्ठीसमासः? नैष दोषः; यद्यपि पञ्चम्यन्तं प्रकृतम्, तथापीह समीपसमीपिसम्बन्धे सति विभक्तिविपरिणामेन षष्ठ()न्ततामनुभवति-- "इकः समीपगतात्" इति। इकः समीपवर्तिन इति। "बुभुत्सते" इति। "बुध अवगमने" (धा।पा।११७२), "एकाचो बशो भष्" ८।२।३७ इत्यादिना भष्भावः। एवमुत्तरत्रापि यत्र भष्भावस्तत्रानेनैव बोद्धव्यः। "खरि च" ८।४।५४ इति चत्र्वम् = धकारस्य तकारः। "यियक्षते" इति। यजेव्र्रश्चादिना ६।१।१५ इत्यादिना संप्रसारणं न भवति। यदि समीपवचनोऽमन्तशब्दस्तदा दम्भेः परस्य सनः कित्त्वं न सिध्यति। तथा हि-- तस्य य इकः समीप गतो हल् न तस्मात् परः सन्, यस्मात् परः सन् नासाविकः समीपगत इत्यत आह-- "दम्भेः" इत्यादि। हलित्यनेन हल्जातिरुच्यते, न तु व्यक्तिः। तेन यदा "ता एव व्यक्तयस्त्यक्तभेदा जातिः" इति दर्शनम्; तदा तासां व्यक्तीनां हल्त्वेनाश्रितानां नास्ति व्यवधानम्। अतो यैव हल्जातिरिकः समीपवर्तिनी तत एव परः सन्निति दम्भेर्विहितस्य सनः कित्त्वं सिद्धमेव। यदाप्यर्थान्तरभूता जातिव्र्यक्तिषु प्रत्येकं परिसमाप्ता निरवयवैका, तदापि नास्ति व्यवधानम्; यस्माद्व्यक्तिव्र्यक्त्यन्तरस्य व्यवधायिका भवति, न तु जातेः; तस्या अशरीरिणीत्वात्। तस्मादिहापि दर्शने यैव हल्जातिरिकः समीपगता तत एव परः सन्निति दम्भेः परस्य सनः कित्त्वं भवति। तस्यास्तु व्यक्तिव्यतिरिक्ताया जातेर्यदिकमपेक्ष्य समीपवर्तिनीत्वम्, यच्च तज्जातिमपेक्षमाणस्य सनः परत्वम्-- तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिरपीकः समीपगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन्, न तु जातेव्र्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति। नापि जात्यपेक्षं सनः परत्वम्; तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिपीकः समपीगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन, न तु जातेव्र्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति नापि जात्यपेक्षं सनः परत्वम्; जातेरशरीरिणीत्वात्। यदि तर्हि व्यक्तिद्वारकमेतदुभयम्? एवं तर्हि विपर्ययोऽपि व्यक्तिद्वारकः स्यात्। भकारव्यक्तिरिकः समीपगता न भवतीति जातिरपि न स्यात्; नकारव्यक्तेः परः सन् न भवतीति जातेरपि न स्यात्, ततश्च हल्ग्रहमस्य सत्यपि जातिवाचकत्वे दम्भेः परस्य सनः कित्त्वं न सिध्यत्येव? नैतदस्ति; यद्यपि जातेव्र्यक्तिद्वारकमिकः समीपवर्तिनीत्वं तद्विपर्ययश्च, सनोऽपि यद्यपि व्यक्तिद्वारकं जात्यपेक्षं परत्वं तद्विपर्ययश्च; तथापि यदत्र हल्त्वसामान्यस्येकः समीपगतत्वं यदपेक्षञ्च सनः परत्वं तदाश्रयं कित्त्वं भविष्यतीति विपर्ययस्तु विद्यमानोऽपि नापेक्ष्यत एव, लक्ष्यानुरोधात्। ननु च हल्त्वं नाम जातिर्नासत्येव, तथा हि-- हलिति संज्ञाशब्दः संङ्केतवशादेव प्रवर्तते डित्थादिशब्दवत्। न हि यथा गवादिषु गोत्वादिकं नाम सामान्यमभिन्नमस्ति, तथा हकारादिषु वर्णेषु हल्त्वं नाम सामान्यमभिन्नमस्तीति शक्यमभ्युपगन्तुम्; तन्नबन्धनस्याभावात्। ततश्चायुक्तमुक्तम्-- दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्त सिद्धमिति, नैतदस्ति; जातिपदार्थवादिनां मते येऽपि तावदेकवस्त्वभिधायिनः संज्ञाशब्दा देवदत्तादयस्तदर्थानामप्यवस्थाभेदे परिकल्पितानानात्वेन जातिरभ्युपगम्यते, किं पुनर्हलित्येवमादीनामनेकवर्णविषयाणां संज्ञाशब्दानाम !अन्यथा ह्रतिव्यापिनी शब्दार्थस्य व्यवस्था स्यात्। इदञ्च तावद्भवान् प्रष्टव्यः-- गवादिषु जातेरस्तित्वस्य किं निबन्धनं येनासौ तत्राभ्युपगम्यत इति? भिन्नेष्वभिन्नाभिधानप्रत्ययाविति चेत्, एतावितरत्रापि समानौ।यथैव हि गवादिषु भिन्नेष्वपि प्राक् सह्केतादुत्तरकालमनुयायिनौ तौ भवतः, तथा हकारादिष्वपि। प्राक् सङ्केताद्यथा तेषु तौ न भवतस्तथा गवादिष्वपि। तस्माद् यौ भिन्नेष्वभिन्नाभिधनाप्रत्ययौ जातिसद्भावसम्प्रत्ययहेतुभूतौ हल्ष्वपि स्त इति तत्रापि हल्त्वं नाम जातिरभ्युपेया, न तु गवादिष्वेव गोत्वादिकमस्तीत्येकान्त एव। "धिप्सति, धीप्सति" इति। "सनीवन्तर्ध" ७।२।४९ इत्यादिना यत्र पक्ष इण् नास्ति तत्रेदमुदाहरणम्। "दम्भ इच्च" ७।४।५६ इतीत्त्वम्, ईत्त्वञ्च, "अत्र लोपोऽभ्यासस्य" ७।४।५८ इत्यभ्यासलोपः। "खरि च" ८।४।५४ इति चर्तम् = भकारस्य पकारः। कित्त्वे सति "अनिदिताम्" ६।४।२४ इति न लोपः। दकारस्य भष्भावेन धकारः॥
बाल-मनोरमा
हलन्ताच्च ४४०, १।२।१०

हलन्ताच्च। "इको झ"लिति पूर्वसूत्रमनुवर्तते। "रुदविदमुषे"त्यतः सनिति,"असंयोगाल्लि"डित्यतः किदिति च। "ह"लिति लुप्तपञ्चमीकं पदम्। अन्तशब्दः समीपवाची। तदाह-- इक्समीपादित्यादि। जुघुक्षतीति। सनः कित्त्वान्न गुणः। "सनि ग्रहगुहोश्चे"त्यूदित्त्वेऽपि नित्यं नेट्। हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः। बिभित्सतीति। भिदेः सनः कित्त्वान्न गुणः। यियक्षते इति। अत्र हलः इक्समीपत्वाऽभावान्न कित्त्वम्। सति तु कित्त्वे यजेः संप्रसारणं स्यादिति भावः। विवर्धिषते इति। वृधेः सनि रूपम्। अत्र सन इटि झलादित्वं नेति भावः। ननु "तृंहू हिंसायाम्" तुदादिर्नोपधोऽयम्। कृतानुस्वारस्य निर्देशः। अस्मात्सनः "अनिदिता"मिति नलोपार्थं कित्त्वमिष्यते। तन्नोपपद्यते। न ह्रत्र इक्समीपादनुस्वारात्सन् परो भवति, हकारेण व्यवधानात्। हकारात्तु परः सन् इक्समीपाद्धलः परो न भवति, अनुस्वारेण व्यवधानादित्यत आह-- हल्ग्रहमं जातिपरमिति। हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिपरमित्यर्थः। तृंह्विति। तृंहूधातोः प्रदर्शनामिदम्।तितृक्षतीति।ऊदित्त्वादिडभावपक्षे रूपम्। सनः कित्त्वान्नलोपः, लघूपधगुणाऽभावश्च। ढत्वकत्वषत्वानि। इट्पक्षे आह-- तितृंहिषत#ईति। झलादित्वाऽभावेन कित्त्वाऽभावान्नलोपो नेति भावः।

तत्त्व-बोधिनी
हलन्ताच्च ३८४, १।२।१०

हलन्ताच्च। इगित्यनुर्तते। तदवयवत्वं हलो न संभवतीति समीपवाच्यत्राऽन्तशब्द इत्याशयेन व्याचष्टे--- इक्समीपादिति। सौत्रत्वाद्विशेषणस्याऽन्तशब्दस्य परनिपातः। तितृक्षतीति। कित्त्वे सति "अनिदिता" मिति नलोपः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ लिङ्सिचौ १।२ १३ आत्मनेपदेषु ७।३ १७ हलन्तात् ५।१ १० इकः ५।१ झल् १।१ कित् १।१

समासः॥

लिङ् च सिच् च लिङ्सिचौ, इतरेतरद्वन्द्वः।

अर्थः॥

इक् समीपात् हलः परौ झलादी लिङ्सिचौ, आत्मनेपदविषये किद्वत् भवति।

उदाहरणम्॥

लिङ् - भित्सीष्ट, भुत्सीष्ट। सिच् - अभित्त, अबुद्ध।
काशिका-वृत्तिः
लिङ्सिचौ आत्मनेपदेषु १।२।११

परतः कितौ भवतः। भित्सीष्ट, भुत्सीष्ट। सिचि खल्वपिअभित्त, अबुद्ध। इकः इत्येव। यक्षीष्ट, अयष्ट। सम्प्रसारणं हि स्यात्। आत्मनेपदेषु इति किम्? अस्राक्षित्। अद्राक्षीत्। सृजिदृशोर् झल्यमकिति ६।१।५७ इत्यमागमो न स्यात्। हलन्तातित्येव। चेषीष्ट, अचेष्ट। गुणो न स्यात्। झलित्येव वर्तिषीष्ट, अवर्तिष्ट। गुणो न स्यात्। लिङ्सिचौ इति किम्? द्वेष्टा द्वेक्ष्यति।
लघु-सिद्धान्त-कौमुदी
लिङ्सिचावात्मनेपदेषु ५९२, १।२।११

इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। धुक्षीष्ट॥
न्यासः
लिङ्सिचावात्मनेपदेषु। , १।२।११

"लिङसिचावात्मनेपदेषु परतः"इति। कथं पुनर्लिङात्मनेपदेषु परतो भवति, यावता सिच एवात्मनेपदेषु परत्वं सम्भवति, न लिङः? एवं मन्यते-- लिङेकदेशेऽत्र सीयुटि लिङशब्दो वर्तते, यथा-- "न धातुलोप आर्धधातुके" १।१।४ इत्यत्र धात्वेकदेशे धातुशब्दो वर्तते। तस्मात् सीयुट एवानेन प्रकारेण कित्त्वं विधीयते। अथ वा-- यथा हल्ङ्यादिसूत्रे ६।१।६६ ययोरेव दीर्घत्वं सम्भवति तयोरेव ङ्यापो दीर्घादित्येतद्विशेषणम्, तथेहापि यस्मादात्मनेपदं परं सम्भवति सिचः, तस्यैवैतद्विशेषणम्। आत्मनेपदग्रहणं भवति परस्मैपदव्यवच्छेदार्थम्। "भिस्तीष्ट"इति। "आशिषि लिङलोटौ" ३।३।१७३ इति लिङ्; स्वरितत्वादात्मनेपदम्। एवमुत्तरत्रापि स्वरितञितः कत्र्रयात्मनेपदमनेनैव वेतितव्यम्। "सुट तिथोः" ३।४।१०७ इति सुट्। कर्तरि श्नम्, "लिङ सलोपोऽनन्त्यस्य" ७।२।७९ इति च न भवति, "लिङाशिषि" ३।४।११६ इत्यार्धधातुकत्वात्, तयोश्च सार्वधातुके विधानात्। "भुत्सीष्ट" इति। बुधेः "अनुदात्तङितः" १।३।१२ इत्यात्मनेपदं वेदितव्यम्। उत्तरत्राप्यनुदात्तङिद्भ्यः कर्तर्यात्मनेपदमनेनैव वेदितव्यम्। "अभित्त" इति। "झलो झलि" ८।२।२६) इति सिचो लोपः। "अबुद्ध" इति। "झषस्तथोर्धोऽधः" ८।२।४० इति तकारस्य धकारः, "झलां जश् झशि" ८।४।५२ इति पूर्वधकारस्य दकारः। "यक्षीष्ट" इति। स्वरितेत्त्वादात्मेपदम्। पूर्ववत् षत्वं कत्वञ्च। "संप्रसारणं हि स्यात्" इति। वच्यादिसूत्रेण ६।१।१५। "अद्राक्षीत्" इति। "अस्ति सिचोऽपृक्ते" ७।३।९६ इतीट्, "वदव्रजहलन्तस्याचः" ७।२।३ इति वृद्धिः। पूर्ववत् षत्वकत्वे॥
बाल-मनोरमा
लिङ्सिचावात्मनेपदेषु १४३, १।२।११

लिङ्। इको झलिति, हलन्ताच्चेति च सूत्रमनुवर्तते। "असंयोगा"दित्यतः किदिति च। इक इति सामीप्ये षष्ठी, हलि अन्वेति। तदाह--इक्समीपादित्यादिना। आत्मनेपदपरकत्वं सिच एव विशेषणं, न तु लिङः, लिङादेशस्यात्मनेपदस्य लिङः परत्वाऽसंभवात्। इकः किम्?। "वह्"वक्षीष्ट। सति तु कित्त्वे "वचिस्वपी"ति संप्रसारणं स्यात्। आत्मनेपदेषु किम्?। अद्राक्षीत्। इह कित्त्वे सति "सृजिदृशोर्झल्यमकिती"त्यम्न स्यात्। अतिप्तेति। लुङस्तादेशे, च्लिः, सिच्। "झलो झली"ति लोपः। आत्मनेपदपरकत्वेन सिचः कित्त्वान्न लघूपधगुणः। अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह-- तितेपे इति। इदुदुपधत्वे तु कित्त्वाद्गुणो न स्यादिति भावः। सेट्कोऽयमिति सूचयति-- तेपितेति। तेपिषीष्ट। अतेपिष्ट। ष्टिपृधातोस्तु "धात्वादेः षः स" इति सत्वे ष्टुत्वनिवृत्त्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह-- तिष्टिप इति। "शर्पूर्वाः खयः" इति तकारः शिष्यते, षकारस्य निवृत्तौ ष्टुत्वनिवृत्तेः। कित्त्वान्न गुणः। तिष्टेप इति। ष्टेपृधातो रूपम्। तेपृ कम्पने चेति। चात्क्षरणे। वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात्पू()रवत्रास्य पाटस्त्यक्तुं शक्यः। केचित्तु "देपृ"इति वर्गतृतीयादिं पठन्ति। चात्कम्पने गतौ चेति। अनुक्तसमुच्चयार्थश्चकार इति भाव-। एतच्च टु वेपृ केपृ गेपृ कम्पन इत्येव सिद्धे पृथ"क्पाठाल्लभ्यते। अर्थभेदादिति। ग्लेपृ दैन्ये" इति पूर्वं पठितम्। #इह त्वर्थभेदात्पुनः पाठः। अन्यथा "ग्लेपृ दैन्ये कम्पने गतौ चे"ति गौरवं स्यादिति भावः। त्रपूषिति। ऊकारः षकारश्च इत्। अदुपधः।

तत्त्व-बोधिनी
लिङ्सिचावात्मनेपदेषु ११८, १।२।११

"इको झल्", "हलन्ताच्च" इति वर्तते। "असंयेगाल्लिट् कित्" इत्यतः किदिति च। तदाह-- इक्समीपादित्यादि। इकः किम्?। यक्षीष्ट। सतिकित्त्वे संप्रसारणं स्यात्। आत्मनेपदेति किम्?। अद्राक्षीत्। कित्त्वे सति "सृजिदृशोर्झल्यमकिति" इत्यम्न स्यात्। आत्मनेपदपरत्वं सिच एव विशेषणं न तु लिङ्स्थानिकस्यात्मनेपदस्य। लिङः परत्वाऽसंभवात्। तेपृ कम्पनेच। चकारात्क्षरणार्थस्य लाभादस्य पूर्वत्र पाठस्त्यक्तुं शक्यः। केचित्तु "तिपृ देपृ" इति पठन्ति। टुवेपृ। वेपथुः। केपृ गेपृ ग्लेपृ च। योगविभागात्पूर्वोत्तरार्थौ चकारेणानुकृष्येते। तदाह--चात्कम्पने गतौ चेति। योगविभागसामथ्र्यादेवार्थद्वयलाबे चकारो व्यर्थ इत्यन्ये। पुनः पाठ इति। दैन्ये पठितस्य कम्पनाद्यर्थलाभार्थमिति भावः। तृ()फल। तरतेरकारस्य गुणशब्देन भावितत्वात्फलभजोर्वैरूप्यसंपादकादेशादित्वात्तरपतेस्त्वेकहल्मध्यस्थत्वाऽभावादप्राप्ते विधिरयम्। तेरतुः। तेरुः। फेलतुः। फेलुः। भेजतुः। भेजुः। अबि शब्दे। अस्मात् "गुरोश्च हलः" इति अप्रत्यये अम्बाशब्दः। तिरुआः--अम्बाः= अकारोकारमकारात्मकाः शब्दा यस्य इति बहुव्रीहौ "शेषाद्विभाषे"ति कप्रत्यये त्र्यम्बक इत्येके। केचित्तु त्र#ईणि अम्बकानि नेत्राणि यस्येतिविगृह्णन्ति। अभिरभी इति। "सर्वधातुभ्योऽसु" न्नित्यधिकारे "उदके नुम्-भौ चे"ति वक्ष्यमाणत्वाद्धात्वन्तरेणापि अम्भः-- शब्दः सिध्यतीति बोध्यम्। अम्भः-- तोयम्। तस्यापत्यम् आम्भिः-- भीष्मः। "अम्भसो लोपश्चे"ति बाह्वादिपाठादिञि सलोपः। तद्वीजं त्विति। पूर्वसवर्णप्रवृत्तेः, षत्वाऽप्रवृत्तेश्च बीजमित्यर्थः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ उः ५।१ लिङ्सिचौ १।२ ११ आत्मनेपदेषु ७।३ ११ झल् १।१ कित् १।१

अर्थः॥

ऋवर्णान्तात् धातोः परौ झलादी लिङ्सिचौ, आत्मनेपदविषये किद्वत् भवतः।

उदाहरणम्॥

लिङ् - कृषीष्ट, हृषीष्ट। सिच् - अकृत, अहृत।
काशिका-वृत्तिः
उश् च १।२।१२

ऋवर्णान्ताद् धातोः परौ लिङ्सिचौ आत्मनेपदेशु झलादी कितौ भवतः। कृषीष्ट। हृषीष्ट। सिचः खल्वपि अकृत। अहृत। झलित्येव। वरिषीष्ट। अवरिष्ट। वृऋतो वा ७।२।३८ अवरीष्ट।
लघु-सिद्धान्त-कौमुदी
उश्च ५४६, १।२।१२

ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। भृषीष्ट। भृषीयास्ताम्। अभार्षीत्॥
न्यासः
उश्च। , १।२।१२

लिङसिचाविहानुवर्तमानौ धातुं सन्निधापयतः, तत एव तयोर्विधानात्। न च ऋकारेण विशिष्यते। "येन विधिस्तदन्तस्य " १।१।७१ इति ऋकारेण तदन्तविधिर्विज्ञायत इत्याह--"ऋकारान्ताद्धातोः" इत्यादि। अथ "ऋ गतौ" (धा।पा।१०९८) इत्यस्य धातोग्र्रहणं कस्मान्न भवति? शैलीहेयमाचार्यस्य यत्र यस्य धातोग्र्रहणमिच्छति तत्र यस्य श्तिपा निर्देशः करोति, यथा-- "अर्तिपिपत्र्योश्च" ७।४।७७ "सर्तिशास्त्यर्तिभ्यश्च" ३।१।५६ इति, न चेह श्तिपा निर्देशः कृतः; तस्मादृवर्ण्सयैवेदं ग्रहणम्, न धातोः। "अकृत" इति। "ह्यस्वादङ्गात् ८।२।२७ इति सिचो लोपः। "वरिषीष्ट" इति। वृङो वृञो वैकस्य रूपम्। "लिङसिचोरात्मनेपदेषु" ७।२।४२ इतीट्।
बाल-मनोरमा
उश्च २०५, १।२।१२

आशीर्लिङि भृषीष्टेत्यत्र गुणे प्राप्ते-- उश्च। "लिङ्गिचावात्मनेपदेषु" इति सूत्रमनुवर्तते। "इको झ"लित्यतो झलिति च। तदाह--ऋवर्णादिति। भृषीष्टेति। कित्त्वान्न गुणः। अभार्षीदिति। परस्मैपदे सिचि वृद्धौ रपरत्वम्।

तत्त्व-बोधिनी
उश्च १७७, १।२।१२

उश्च। "इको झ"लित्यतो झल्ग्रहणं , "लिङ्सिचौ" इति पूर्वसूत्रं चानुवर्तते। तदाह-- ऋवर्णादित्यादि। अभार्षीदिति। "सिचि वृद्धि"रिति वृद्धिः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ वा गमः ५।१ लिङ्सिचौ १।२ ११ आत्मनेपदेषु ७।३ ११ झल् १।१ कित् १।१

अर्थः॥

गम्-धातोः परौ झलादी लिङ्सिचौ, आत्मनेपदवीषये विकल्पेन किद्वत् भवतः।

उदाहरणम्॥

संगसीष्ट, संगंसीष्ट। सिच् - समगत, समगंस्त।
काशिका-वृत्तिः
वा गमः १।२।१३

लिङ्सिचावात्मनेपदेषु इति वर्तते। गमेर्धातोः परु लिङ्सिचौ आत्मनेपदेषु झलादी वा कितौ भवतः। संगंसीष्ट, संगसीष्ट। सिचः खल्वपि समगंस्त्, समगत। कित्त्वपक्षे अनुनासिकलोपो भवति अनुदात्तौपदेशवनतितनोत्यादीनाम्६।४।३७ इति।
न्यासः
वा गमः। , १।२।१३

"संगसीष्ट" इति। "समो गमृच्छि" १।३।२९ इत्यादिनात्मनेपदम्। "समगत" इति। ह्यस्वाङ्गात्" ८।२।२७ इति सिचो लोपः।
बाल-मनोरमा
वा गमः ५२४, १।२।१३

वा गमः। "इको झल्" इत्यतो झलिति, "लिङ्सिचावात्मनेपदेषु" इत्यतो लिङ्()सिचाविति, "असंयोगाल्लिट्" इत्यतः किदिति चानुवर्तते। तदाह-- गमः परावित्यादि। समगतेति। लुङि रूपम्। सिचः कित्तवपक्षे "अनुदात्तोपदेशे" ति मकारलोपे "ह्यस्वादङ्गादि"ति सिचो लुक्। समृच्छते इति। "ऋच्छ गतीन्द्रियप्लयमूर्तिभावेषु" इति तौदादिकस्य रूपम्। अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणं, नतु ऋच्छादेशस्येति सूचयितुं लृडन्तमप्युदाहरति-- समृच्छिष्यते इति। विदिप्रच्छिस्वरतीनामिति। सम इत्यनुवर्तते। संपूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थः। वेत्तेरिति। लुग्विकरणस्यैव विदेग्र्रहणमित्यर्थः। व्याख्यानादिति भावः।

तत्त्व-बोधिनी
वा गमः ४४७, १।२।१३

"असंयोगाल्लिट्कि"त्यतः किदनुवर्तते , "इको झ"लित्यतो झल्ग्रहणं, "लिङ्सिचौ" इत्यतो लिङ्सिचाविति चानुवर्तते। कित्त्वपक्षे "अनुदात्तोपदेशे" ति मलोपः। "समृच्छिष्यते" इति लृटः प्रयोगस्तु तौदादिकऋच्छेरत्र ग्रहणं न तु ऋच्छादेशस्येति ध्वननार्थम्। ग्रामं सङ्गच्छतीति। "तच्चैक्यं समगच्छते"त्यत्र तु एकं जातमित्यर्थाद्गमेरकर्मकत्वमेवेति तङ्। एकमेवेक्यम्। स्वार्थे ष्यञ्।

* विदिप्रच्छि। परस्मैपदसाहचर्यादाह--- वेत्तेरेवेति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ हनः ५।१ सिच् १।१ १७ आत्मनेपदेषु ७।३ ११ कित् १।१

अर्थः॥

हन्-धातोः परः सिच् आत्मनेपदविषये विद्वत् भवति।

उदाहरणम्॥

आहत, आहसाताम्, आहसत।
काशिका-वृत्तिः
हनः सिच् १।२।१४

हन्तेर् धातोः परः सिच् किद् भवति। आहत, आहसाताम्, आहसत। सिचः कित्त्वादनुनासिकलोपः। सिज्ग्रहणं लिङ्निवृत्त्यर्थम्। उत्तरत्रानुवृत्तिर् मा भूत्। अत्मनेपदग्रहणम् उत्तरार्थम् अनुवर्तते। इह तु परस्मैपदे हन्तेर् वधभावस्य नित्यत्वात् कित्त्वस्य प्रयोजनं न अस्ति।
न्यासः
हनः सिच्। , १।२।१४

"आहत" इति। " आङो यमहनः" १।३।२८ इत्यात्मनेपदम्। पूर्ववत् सिचो लोपः। "आहसत" इति। "आत्मनेपदेष्वनतः" (७।१।५ इत्यदादेश-। अथ सिज्ग्रहणे प्रकृते पुनः सिज्ग्रहणं किमर्थं क्रियत इत्याह-- "सिज्ग्रहणं लिङनिवृत्यर्थम्" इति। प्रकृतं हि सिज्ग्रहणं लिङा सह सम्बद्धम्, अतस्तदनुवृत्तौ सत्यां तस्याप्यनुवृत्तिराशङ्क्येत; तस्मात् तन्निराकर्तुं सिज्ग्रहणं क्रियते। ननु च हन्तेलिङि वधादेशेन भवितव्यम्; न च तत्र सत्यपि कित्त्वे किञ्चिदनिष्टमापद्यते, तत् कस्माल्लिङनिवृत्त्यर्थं सिज्ग्रहणं क्रियत इत्यत आह-- "उत्तरत्र" इत्यादि। यद्यत्र लिङनुवत्र्तते तत उत्तरत्र तस्यानुवृत्तिः स्यात्, ततश्चोत्तरसूत्रेण तस्यापि कित्त्वं स्यादित्यभिप्रायः। इह तु वृत्तावात्मनेपदेन सिज् न विशेष्यत इत्यात्मनेपदं निवृत्तमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह--- "आत्मनेपदग्रहणम्" इत्यादि। इहापि कस्मान्न भवतीत्यत आह-- "इह तु" इत्यादि। "लुङि च" २।४।४३ इति हन्तेः परस्मैपदेषु लुङि वधादेशः क्रियते, स च नित्यः। नित्यत्वन्तु तस्य "आत्मनेपदेष्वन्यतरस्याम्" २।४।४४ इत्यत्तरसूत्रेऽन्यतरस्यां ग्रहणात्। नच नित्ये वधादेशे कित्त्वस्य किञ्चित् प्रयोजनमस्ति अतो नेहात्मनेपदस्यानुवृत्तिरुपपद्यते। अथ किमर्थं हन्तेः परस्य सिचः, कित्त्वं विधीयते, यावता "सार्वधातुकमपित्" (१।२।४) इति सिचः परस्य सार्वधातुकस्य ङित्त्वमस्त्येव? तत्र "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपः सिद्धः। सिच इदित्त्वान्न सिध्यतीति चेत्? न; सिच इकारस्योच्चारणार्थत्वात्। तथा हि "च्लेः सिच्" ३।१।४४ इत्यत्र वक्ष्यति-- "इकार उच्चारणार्थः" इति। एवमपि च्लेरिदित्वात् सिचोऽपि स्थानिवद्भावेनेदित्त्वमतो न सिध्यतीति चेत्, न ; च्लेरकारस्योच्चारणार्थत्वात्। तथा हि "च्लि लुङि" ३।१।४३ इत्यत्र वक्ष्यति--- "इकार उच्चारणार्थः" इति। एवं तर्हि सिद्धे ङित्त्वे सति यत् पुनरिह हनः सिजिति सिचः कित्त्वं विदधाति तज्ज्ञापयति--बाह्र सार्वधातुकमाश्रित्य सिजन्तस्य "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपो न भवतीति; तेनारंस्त,अमंस्त आयंस्त पादमिति सिद्धं भवति; अन्यथा ह्रनुनासिकलोपे कृत आयतेत्यनिष्टं रूपं स्यात्।
बाल-मनोरमा
हनः सिच् ५२१, १।२।१४

हनः सिच्। "कित्स्या"दिति शेषपूरणम्। "असंयोगाल्लिट्कि"दित्यतस्तदनुवृत्तेरिति भावः। हनधातोः परः सिच् कित्स्यादिति फलितम्। अनुनासिकलोप इति। "अनुदात्तोपदेशे" इति नकारलोप इत्यर्थः। उत् आ यम् स् त इति स्थिते---


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ यमः ५।१ १६ गन्धने ७।१ सिच् १।१ १४ आत्मनेपदेषु ७।३ ११ कित् १।१

अर्थः॥

गन्धने अर्थे वर्त्तमानात् यम्-धातोः परह् सिच् आत्मनेपदविषये किद्वत् भवति। गन्धनम् = सूचनम्, परस्य दोषाविष्करणम्

उदाहरणम्॥

उदायत, उदायसाताम्, उदायसत।
काशिका-वृत्तिः
यमो गन्धने १।२।१५

सिच आत्मनेपदेषु इति वर्तते। यमेर् धातोर् गन्धने वर्तमानात् परः सिच् प्रत्ययः किद् भवति आत्मनेपदेषु परतः। गन्धनं सूचनं, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम्। अनेकार्थत्वाद् धातूनां यमिस् तत्र वर्तते। उदयत, उदायसाताम्, उदायसत। सूचितवानित्यर्थः। सिचः कित्त्वादनुनासिकलोपः। आङो यमहनः १।३।२८ इत्यात्मनेपदम्। गन्धन इति किम्? उदायंस्त पादम्। उदायंस्त कूपादुदकम्। उध्दृतवानित्यर्थः। सकर्मकत्वे ऽपि समुद्दाङ्भ्यो य्मो ऽग्रन्थे १।३।७५ इत्यात्मनेपदम्।
न्यासः
यमो गन्धने। , १।२।१५

ननु च "यम उपरमे" (धा।पा।९८४) इति पठ()ते, तत् कथमयं गन्धने वर्तते, इत्यत आह-- "अनेकार्थत्वात्" इति। "आङो यमहनः" १।३।२८ इत्यत्र "अकर्मकाच्च" १।३।२६ इत्यतोऽकर्मकग्रहणमनुवर्तते। तत् कथमिह सकर्मकत्वे सत्यात्मनेपदमित्यत आह-- "सकर्मकत्वेऽपि इत्यादि। सकर्मकत्वन्तु पदादेः क्रमणोऽत्र विद्यमानत्वात्। "उदायंस्त पादम्" इति। आकृष्टवानित्यर्थः॥
बाल-मनोरमा
यमो गन्धने ५२२, १।२।१५

यमो गन्धने। सिच्कित्स्यादिति। शेषपूरणम्। सिचः कित्त्वे मकारस्य "अनुदात्तोपदेशे" ति लोपः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ विभाषा १।१ उपयमने ७।१ यमः ५।१ १५ सिच् १।१ १४ आत्मनेपदेषु ७।३ ११ कित् १।१

अर्थः॥

उपयमने अर्थे वर्त्तमानात् यम्-धातोः परः सिच्-प्रत्ययः आत्मनेपदविषये विकल्पेन किद्वत् भवति। उपयमनं पाणिग्रहणम्।

उदाहरणम्॥

उपायत कन्याम्, उपायंस्त कन्याम्।
काशिका-वृत्तिः
विभाषाउपयमने १।२।१६

यमः सिजात्मनेपदेषु इति वर्तते। यमेर् धातोः उपयमने वर्तमानात् परः सिच्प्रत्ययओ विभाषा किद् भवति आत्मनेपदेषु परतः। उपायत कन्याम्, उपायंस्त कन्याम्। उपायत भार्याम्, उपायंस्त भार्याम्। उपयमनं स्वीकरणं, विवाहः, दारकर्म, पाणिग्रहणम् इत्यर्थः। उपाद्यमः स्वकरणे १।३।५६ इत्यात्मनेपदम्।
न्यासः
विभाषोपयमने। , १।२।१६

"दारकर्म" इति। कर्मशब्दः क्रियावाची। दारक्रियेत्यर्थः॥ १७। स्थाघ्वोरिच्च। १।२।१७ सिच्च किद्भवतीति चकारेण कित्त्वं समुच्चीयत इति दर्शयति। किमर्थं पुनः सिचः कित्त्वं विधीयते; यावता गुणप्रतिषेधस्तस्य फलम्, इकारविधानसामथ्र्यादेव गुणो न भविष्यति; अन्यथा ह्रेकारमेव विदध्यात्? नैतदस्ति; लाघवार्थं हीकारविधानं स्यात्। दीर्घोच्चारणाद्ध्रस्वोच्चारणं लघु भवति। "उपास्थित" इति। "समप्रविभ्यः स्थः" १।३।२२ इत्यतः स्थग्रहणेऽनुवर्तमाने "उपान्मन्त्रकरणे" १।३।२५ इत्यत उपादिति तेन "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" (व्या।प।१२) इतीत्त्वं नोत्सहते सिचं विहन्तुम्, तत् कुतो लोपः? नैतदस्ति;न हीत्त्वं सिचीत्युच्यते, किं तर्हि? इकारश्चान्तादेशो भवति सिच्च किद्भवतीति। अथापि सिज्निमित्तकं स्यात्? एवमप्यदोषः; तस्याः परिभाषायाश्चानित्यत्वात्। अनित्यत्वन्तु सप्तमेऽध्याये ज्ञापयिष्यते(काशिका।७।१।१३)। "इच्च" इत्यादि। हेतुशब्दोऽत्राध्याहार्यः। तेन "षष्ठी हेतुप्रयोगे" २।३।२६ इति हेतुशब्दप्रयोगे कस्येति षष्ठी भवति। तकार इत् तकारेत्, तकार एव वा इद् यस्य स तकारेत्, तकारेतो भावस्तकारेत्त्वम्। इच्चेत्यत्र निर्देशे कस्य हेतोरिकारस्य तकारेत्त्वं क्रियते? किमर्थमिकारस्तपरः क्रियत इत्यर्थः। शेषलक्षणा वा कार्यसम्बन्धविवक्षायां षष्ठीयम्। कस्य कार्यस्य निष्पत्त्यर्थमिकारस्तपरः क्रियत इति यावत्। "दीर्घो मा भूत" इति, असति हि तपरत्वेऽण् गृह्रमाणः सवर्णान् गृह्णातीतीकारेण सवर्णानां ग्रहणे सति स्थानेन्तरतमपरिभाषयोपास्थित, अदितेत्यत्र दीर्घस्थाने दीर्घो भवति, स मा भूदिति तपरत्वं क्रियते। "ऋतेऽपबि सः" इति। स इत्यनेन दीर्घस्य प्रत्यवमर्शः। ऋतेऽप्यस्मादेव वचनाद् घुमास्थादिसूत्रेण ६।४।६६ दीर्घः सिद्धः, तस्माद् वचनसामथ्र्याद्दीर्घो न भविष्यतीत्यभिप्रायः। "भाव्यमानोऽण् सवर्णान् न गृह्णाति" (व्या।प।३०) इत्यतो दीर्घो न भविष्यतीति। एष तु परिहारो नोक्तः, भाव्यमानेनाप्यणा क्वचित् सवर्णानां ग्रहणात्। तथा हि-- अदस औप्रत्यये परतस्त्यदाद्यत्वे "वृद्धिरेचि" ६।१।८५ इति वृद्धौ कृतायाम् भवति। "अदसोऽसेर्दादु दो मः" ८।२।८० इत्युकारो विधीयमानः सवर्णानां ग्रहणादौकारस्य दीर्घस्य स्थाने दीर्घ एव भवति-- अमू इति। "अनन्तरे प्लुतो मा भूत्" इति। अनन्तरार्थे विसदृशार्थ आरम्भे सति।कुत एतत्? विसदृशस्य आकारस्य स्थाने क्रियमाणो ह्यस्वो भवति, न पुनः प्लुतः। तस्मात् प्लुतबाधनार्थं तपरत्वं कर्तव्यम्। एतदपि नास्ति प्रयोजनम्। "प्लुतश्च विषये स्मृतः" इति। चशब्दो हेतौ। प्लुतो हि दूराद्धूतादिविषयविशेषे ८।२।८४ उक्त एव। तत्र यद्यनेन प्लुतो विधीयते तदा सर्वत्र दूराद्धूतादिविषयेऽन्यत्र चानेन भवितव्यम्, ततश्च दूराद्धूतादिविषयेऽपि तस्मिन् भवत्युक्तानुवाददोषः स्यात्; तस्य कृतस्य करणात्। तस्मात् पक्ष उक्तानुवाददोषो मा भूदिति ह्यस्व एव भविष्यति, न प्लुतः इति प्रत्याख्यातं भाष्ये तपरत्वम्। अन्ये तु वर्णयन्ति-- "प्लुतश्च विषये स्मृतः" इत नानेन तपरत्वं प्रत्याख्यायते, किं तर्हि? तस्य प्रयोजनमाख्यायते। दूराद्धूतादिविषये प्लुत इष्टोऽभिप्रेतः, स न प्राप्नोति। स्थानेऽन्तरतमपरिभाषया( १।१।५०) दीर्घस्यैव स्थाने दीर्घ एव विधीयते। ननु चोक्तं सिद्ध एव दीर्घ इति? सिद्धस्य पुनर्वचनं प्लुतस्य बाधनार्थं स्यात्। इष्यते च प्लुतो दूरादधूतादिविषये। तस्मात् तस्य बाधको दीर्घो मा भूदिति तपरत्वं कर्तव्यम्। तेन विचार्यमाणानामित्याष्टमिको भवत्येव प्लुत इति।

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ स्थाघ्वोः ६।२ इत् १।१ सिच् १।१ १४ आत्मनेपदेषु ७।३ ११ कित् १।१

समासः॥

स्था च घुश्च स्थाघू, तयोः स्थाघ्वोः, इतरेतरद्वन्द्वः।

अर्थः॥

स्था-धातोः घु-संज्ञकानां च इकारादेशः भवति, तेभ्यः परः सिच् किद्वत् अपि भवति।

उदाहरणम्॥

उपास्थित, उपास्थिषाताम्, उपास्थिषत। घुसंज्ञकानाम् - अदित, अधित।
काशिका-वृत्तिः
स्थाघ्वोरिच्च १।२।१७

सिजात्मनेपदेषु इति वर्तते। तिष्ठतेर् धातोः घुसंज्ञकानां च इकारश्च अन्तादेशः सिच् च किद् भवति आत्मनेपदेषु परतः। उपास्थित, उपास्थिषाताम्, उपास्थिषत। घुसंज्ञकानम् अदित। अधित। इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृते ऽपि सः। अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः।
लघु-सिद्धान्त-कौमुदी
स्थाघ्वोरिच्च ६२७, १।२।१७

अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे। अदित। अदास्यत्, अदास्यत॥ डु धाञ् धारणपोषणयोः॥ १०॥ दधाति॥
बाल-मनोरमा
स्थाध्वोरिच्च २२६, १।२।१७

लुङि सिचि अदास् त इति स्थिते-- स्थाध्वोरिच्च। "असंयोगाल्लिट्" इत्यतः किदिति, "हनस्सि"जित्यतः सिजिति चानुवर्तते। तदाह--- अनयोरित्यादिना। परस्मैपदेषु नेदं प्रवर्तते, तत्र "गातिस्थे" ति सिचो लुका लुप्तत्वात्। अत एव "लिङ्()सिचौ" इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, व्यवर्त्त्याऽभावात्। अदितेति। इत्त्वेकृते "ह्यस्वादङ्गा"दिति सिचो लुक्। त इत्यस्य ङित्त्वादिकारस्य न गुणः। आतामादौ तु इत्वे कृतेऽपि सिचो न लुक्, झलिपरतएव लुग्विधेः। सिचः कित्त्वादिकारस्य न गुणः। अदिषाताम् अदिषत। अदिथाः अदिषाथाम्। अदिढ्वम्। अदिषीति। अदिष्वहि अदिष्महि। अदास्यदित्यपि ज्ञेयम्। श्यैङ् गतौ। श्यायते इति। शपि आयादेशः। शिद्विषत्वादात्वं नेति भावः। शश्ये इति। एशि आत्वे आतो लोपः। शश्याते शश्यिरे। क्रादिनियमादिट्। शश्यिषे शश्याथे शश्यिध्वे। शश्ये शश्यिवहे शश्यिमहे। श्याता। श्यास्यते। श्यायताम्। अश्यायताम्। अश्यायत। श्यायेत। श्यासीष्ट। अश्यास्त। अश्यास्यत। प्यैङ्धातुरपि श्यैङ्वत्। त्रैङप्येवम्। पूङ् पवने इति। पवते इति। सेट्, ऊदन्तानामनिट्()सु पर्युदासात्। पवते इति। शपि गुणः। अवादेशः। पुपुवे इति। कित्त्वाद्गुणाऽभावे उवङ्। पुपुवाते पुपुविरे। पुपुविषे पुपुवाथे पुपुविध्वे। पुपुवे पुपुविवहे पुपुविमहे। पविता। पविष्यते। पवताम्। सेडयम्, अनिट्सु डीङः पर्युदासात्। डयते इति। शपि ईकारस्य गुणेऽयादेश इति भावः। डिड()ए डिडि()वहे डिडि()महे। डयिता। डयिष्यते। डयताम्। अडयत। डयेत। डयीषीष्ट डयिषीयास्ताम्। डयिषीरन्। डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्-डयिषीध्वम्। डयिषीय डयिषीवहि डयिषीमहि। अडयिष्ट।अडयिष्यत। इति स्मिङादयो डीङन्ता ङितः। तृ()धातुः सेट् परस्मैपदी। अनिट्सु ॠदन्तपर्युदासात्सेट्।

तत्त्व-बोधिनी
स्थाध्वोरिच्च १९८, १।२।१७

स्थाध्वोरिच्च। इह "लिङ्सिचौ"इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, परस्मैपदेषु "गातिस्थे" तिलुकः प्रवृत्तेव्र्यावर्त्त्याऽलाभात्। अस्थित। अस्थिषाताम्। "भाव्यमानोऽण् क्वचित्सवर्णान् गृह्णाती"त्यत्रेदमपि तपरकरणं लिङ्गमित्याहुः। अत्र वदन्ति-- विधीयमानस्य सवर्णग्राहकत्वेऽपि तपरकरणमिह व्यर्थम्। न चात्र दीर्घः स्यादिति वाच्यं, "घुमास्थे" त्यनेनैव तत्सिद्धा विधिवैयथ्र्यापत्तेः। न चैवमपि प्लुतः स्यादिति वाच्यं, "प्लुताऽप्लुतप्रसङ्गे "प्लुतश्च विषये स्मृतः" इति सिद्धान्तादिति। डीङ्। विहायसा-- आकाशेन। "विहायसा" मिति पाठस्त्वनाकर इत्याहुः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ २६ क्त्वा १।१ सेट् १।१ २६ कित् १।१

समासः॥

सह इटा सेट्, {तेन सहेति॰ (२।२।२८)} इति बहुव्रीहिसमासः।

अर्थः॥

सेट् क्त्वाप्रत्ययः कित् न भवति।

उदाहरणम्॥

देवित्वा, वर्त्तित्वा, वर्धित्वा।
काशिका-वृत्तिः
न क्त्वा सैट् १।२।१८

क्त्वा प्रत्ययः सेण् न किद् भवति। देवित्वा। वर्तित्वा। सेटिति किम्? इऋत्वा ऽ गुत्वा ऽ क्त्वाग्रहणं किम्? निगृहीतिः। उपस्निहितिः। निकुचितिः। न सेडिति कृते ऽकित्त्वे निष्ठायाम् अवधारणात्। ज्ञापकान्न प्रोक्षायां सनि झल्ग्रहणं विदुः। इत्त्वं कित्वंनिहोगेन रेण तुल्यं सुधीवनि। वस्वर्थं किदतीदेशान्नि गृहीतिः प्रयोजनम्।
लघु-सिद्धान्त-कौमुदी
न क्त्वा सेट् ८८३, १।२।१८

सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम्? कृत्वा॥
न्यासः
न क्त्वा सेट्। , १।२।१८

क्त्वाप्रत्ययस्यौपवेशिकं कित्त्वमस्त्येवेति तदिटः क्त्वाप्रत्ययेन ग्रहणात् सेटोऽपि प्राप्नोतीत्यतः प्रतिषेधऽयमारभ्यते। "क्त्वाप्रत्ययः सेट् किन्न भवति" इति। अथ किं ककारस्येत्संज्ञाप्रतिषेधात् कित्त्वन्न भवति? कित्कार्यस्य प्रतिषेधाद्वा? यदि ह्रत्र ककारस्येत्संज्ञाप्रतिषेधादकित्त्वं विधित्सितं स्यादित्संज्ञाप्रकरणे "लशक्वसेट्क्त्वातद्धितयोः" इति सूत्रं कुर्यात्। एवं हि द्विष्प्रतिषेधो न कत्र्तव्यो भवति। तस्मात् कित्त्वप्रतिबद्धं यत् कार्यं तत्प्रतिषेधादकित्त्वं सेटः क्त्वाप्रत्यस्यानेन क्रियते, न तु ककारस्येत्संज्ञाप्रतिषेधात्। अथ सानुबन्धकस्य ग्रहणं किमर्थम् "न त्वा" इत्येवोच्येत,एवं हि लघु सूत्रं भवति? नैतदस्ति; ककारानुच्चारणे हि कश्चिद्द्वेष्यमपि विजानीयात्। सेटः क्त्वाप्रत्ययस्य ककारानुबन्ध एव नास्ति, निरनुबन्धकस्योच्चारणादिति। तदेवं मा विज्ञायीति सानुबन्धकस्योच्चारणम्।कः पुनः सेटो निरनुबन्धकत्वे विधौ निरनुबन्धक उच्चार्यते? एवमपि सेट एव ग्रहणं स्यात्, नानिटः;सानुबन्धकत्वात्। "निगृहीतिः"इति। "स्त्रियां क्तिन्" ३।३।९४ "तितुत्रतथ" (७।२।९) इति "ग्रहादीनां प्रतिषेधो वक्तव्यः (वा।८३१।?) इति तितुत्रतथेत्यादिनेट्प्रतिषेधो न भवति।"उपस्निहितिः" इति। "स्निह प्रीतौ" (धा।पा।१२००),"निकुचितिः" इति। "कुन्चु क्रुन्चु कौटिल्याल्पीभावयोः"(धा।प।१८५,१८६) एषु त्रिषूदाहरणेषु यथाक्रमं संप्रसारणगुणप्रतिषेधौ। "अनिदितां हल उपधायाः क्ङिति" ६।४।२४ इत्यनुनासिकलोपश्च कित्त्वाद्भवति। "न सेट्" इत्यादि। न सेडित्येतावता योगेनाकित्त्वे सति सिद्धं देवित्वेत्यादि,क्त्वाग्रहणं तु किमर्थम्, तेन विनाऽकित्त्वे सति "गुध परिवेष्टने" (धा।पा।११२०) निगुधितो निगुधितो निगुधितवानित्यत्र निष्ठायां प्राप्नोतीति चेत्? नैतदस्ति; निष्ठायामवधारणात्। "निष्ठा शीङस्विदिमिदि" १।२।१९ इत्यत्रावधारणान्निष्ठायां न भविष्यति-- शीङादिभ्य एव निष्ठा सेट् किन्न भवति नान्येभ्यो धातुभ्य इति। शीङादिभ्यो निष्ठैवेति विपरीत नियमस्तु नाशङ्कनीयः, न ह्रनिष्टार्था शास्त्रे प्रक्लृप्तिरिति न भविष्यति। लिटस्तर्हि कित्त्वस्य प्रतिषेधः स्यात्, ततश्च जग्मिव,जग्मित्येतत्र "गमहन" ६।४।९८ इत्यादिनोपधालोपो न स्यादित्यत आह-- "ज्ञापकान्न परोक्षायाम्" इति। परोक्षे विहितत्तवाल्लिटः श्रुतिः परोक्षेत्युच्यते, तस्यां कित्त्वप्रतिषेधो न भविष्यति। कथम्? ज्ञापकात्। किं तज्ज्ञापकम्? इत्याह-- "सनि झल्ग्रहणं विदुः" इति। यदयम् "इको झल्" १।२।९ इति सन्()विशेषणं करोति,ततो ज्ञायते-- औपदेशिकस्य कित्त्वस्यन सेडिति प्रतिषेधोऽयम् नातिदेशिकस्येति। झल्ग्रहणं हिशिशयिषत इत्यत्र कित्त्वं मा भूदित्येवमर्थः क्रियते। यदि च न सेडिति प्रतिष#एधः आतिदेशिकस्यापि कित्त्वस्य स्यात्; झल्ग्रहणमनर्थकं स्यात्। अस्त्वत्र कित्त्वम्, तस्य न सेडिति प्रतिषेधो भविष्यतीति तस्मादौदेशिकस्य कित्त्वस्य प्रतिषेधोऽयं नातिदेशिकस्येति। अस्यार्थस्य ज्ञापकं झल्ग्रहणं स्यात्, "स्थाध्वोरिच्च" १।२।१७ इत्यत्र झलादौ सिचीत्वं यथा स्यात्, अजादौ मा भूदिति-- उपास्थायिषातामिति। अत्र हि "स्यसिच्सीयुट्तासिषु" ६।४।६२ इत्यादिना चिष्वद्भावः प्राप्नोति, इत्त्वञ्च; तत्र परत्वाच्चिण्वद्भावादिट्। चिण्वद्भावे सति "आतो युक् चिण्कृतोः" ७।३।३३ इति युक्; तत्रासति झल्ग्रहण इडादावपीत्त्वं यकारस्थाने प्राप्नोति, नैतदस्ति; यस्मादित्त्वं कित्सन्नियोगेन विधीयते। कित्त्वं हि प्रधानभूतम्, इत्त्वमन्वाचयशिष्टम्। अतः कित्त्वाभावे तदित्त्वं न भविष्यतीति। अथ "स्थाध्वोरिच्च" (१।२।१७) इत्यत्रापि कित्त्वं कस्मान्न भवति? "न सेट्" इत्येतावता योगेन प्रतिषिद्धत्वात्। "रेण तुल्यं सुधीवनि" इति। रेफेण तुल्यमेतदित्त्वम्। क्व चोदाहरणे? सुधीवनीत्यत्र। शोभना धीवानो यस्यां सा सुधीवा। "अनो बहुव्रीहेः" ४।१।१२ इति ङीपोऽत्र प्रतिषेधे कृते यथा "वनो र च" ४।१।७ इति रेफो ङीप्सन्नियोगेन विधीयमानस्तदभावे न भवति, तथा कित्तवसन्नियोगेन विधायमानमित्त्वं तदभावे न भविष्यति। किमर्थं तर्हि क्त्वाग्रहणम्? क्वसौ कित्त्वप्रतिषेधो मा भूदित्येवमर्थं क्त्वाग्रहणं कत्र्तव्यम्। क्वसौ त्वौपदेशिकं कित्त्वमस्ति, तस्य "न सेट्" इत्येतावता योगेन प्रतिषेधः स्यात्। ततश्च जग्मिवान्-- इत्यत्रोपधालोपो न स्यात्। "वस्वर्थं किदतीदेशात्" इति। न भविष्यतीत्यध्याहार्यम्। अस्तु क्वसावौपदेशिकस्य कित्त्वस्य प्रतिषेधः, सत्यपि तस्मिन् "असंयोगाल्लिट् कित्" १।२।५ इति यदातिदेशिकं कित्त्वम्, तेनोपधालोपो भविष्यति। झल्ग्ररहणादातिदेशिकस्य कित्त्वस्य प्रतिषेधो न भविष्यतीत्युक्तं ह्रेतत्। तस्माद्वस्वर्थं क्त्वाग्रहणं न भविष्यतीति। एवं तर्हि-- निगृहीतिः प्रयोजनम्। क्तिनि तु प्रतिषेधो मा भूदित्येवमर्थं क्त्वाग्रहणमित्यर्थः। जग्मिवानित्यत्र "विभाषा गमहनविदविशाम्" ७।२।६८ इति क्वसोरिट्, "उगिदचाम्" ७।१।७० इति नुम्, हलङ्यादिसंयोगान्तलोपौ (५।१।६८; ८।२।२३) "सान्तमहतः" ६।४।१० इत्यादिना दीर्घः।

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ निष्ठा १।१ २२ शीङ्स्विदिमिदिक्ष्विदिधृषः ५।१ १८ सेट् १।१ १८ कित् १।१

समासः॥

शीङ् च स्विदिश्च मिदिश्च क्ष्विदिश्च धृट् च, शीङ्॰धृट्, तस्मात् शीङ्॰धृषः, समाहारो द्वन्द्वः।

अर्थः॥

{शीङ् स्वप्ते (अदा॰ आ॰)}, {ञिष्विदा गात्रप्रक्षरणे (दिवा॰ प॰)}, {ञिमिदा स्नेहने (दिवा॰ प॰)}, {ञिक्ष्विदा स्नेहन-मोचनयोः (देवा॰ प॰)}, {ञिधृषा प्रागल्भ्ये (स्वा॰, प॰)}, इत्येतेभ्यः धातुभ्यः परः सेट् निष्ठाप्रत्ययः कित् न भवति।

उदाहरणम्॥

शयितः, शयितवान्, प्रस्वेदितः, प्रस्वेदितवान्, प्रमेदितः, प्रमेदितवान्, प्रक्ष्वेदितः, प्रक्ष्वेदितवान्, प्रधर्षितः, प्रधर्षितवान्।
काशिका-वृत्तिः
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः १।२।१९

न सेटिति वर्तते। शीङ् स्विदि मिदि क्ष्विदि धृषित्येतेभ्यः प्रो निष्ठाप्रत्ययः सेण् न किद् भवति। शयितह्, शयित्वान्। प्रस्वेदितः, प्रस्वेदितवान्। प्रमेदितः, प्रमेदितवान्। प्रक्ष्वेदितह्, प्रक्ष्वेदितवान्। प्रधर्षितः प्रधर्षितवान्। सेटित्येव स्विन्नः, स्विन्नवान्। स्विदादीनम् आदितश्च ७।२।१६ इति निष्ठायामिट् प्रतिषिध्यते। विभाषा भावाऽदिकर्मणोः ७।२।१७ इति पक्षे ऽभ्यनुज्ञायते स विषयः कित्त्वप्रतिषेधस्य।
न्यासः
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः। , १।२।१९

"शीङ स्वप्ने" (धा।पा।१०३२) , "ञिष्विदा गात्रप्रक्षरणे" (धा।पा।११८८), "ञिमिदा स्नेहने" (धा।पा।१२४३), "ञिक्ष्विदा स्नेहनमोचनयोः" (धा।पा।१२४४), "ञिधृषा प्रागल्भ्ये" (धा।पा।१२६९)। "शयिततवान्" इति। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। "शयितः" इति। "गत्यथाकर्मक" ३।४।७२ इत्यादिना कर्तरि क्तः। "प्रस्वेदितः" इत्यादौ "आदिकर्मणि क्तः कर्तरि च" ३।४।७१ इत्यनेन प्रशब्द आदिकर्म = प्रारम्भं द्योतयति।"प्रधर्षितः" इति। वैयात्यादन्यत्रेदमुदाहरणम्। तत्र हि "धृषिशसीवैयात्ये" ७।२।१९ इतीट्प्रतिषेधेन भवितव्यम्। प्रकृतिग्रहणे यङलुको ग्रहणं स्मरति। अतो यङलुको "एरनेकाचः" ६।४।८२ इत्यादिना यणादेशः॥
बाल-मनोरमा
निष्ठा शीङ्?स्विदिमिदिक्ष्विदिधृषः ८५९, १।२।१९

निष्ठा शीङ्। "न क्त्वा से"डित्यतो न सेडित्यनुवर्तते। "असंयोगा"दित्यतः किदिति च। तदाह-- एभ्यः सेडिति। शीङिति ङकारस्य फलमाह-- अनुबन्धेति। यङ्? लुकि"श्तिपा शपे"ति निषेधार्थ इत्यर्थः। सेश्यितवानिति। अत्र कित्त्वनिषेधाऽभावात्कित्त्वान्न गुण इति भावः। आदिकर्मणि निष्ठा वक्तव्येति। दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियाया आरम्भकालविशिष्टोंऽश आदिकर्म। तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः। तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाऽभावाद्भूते विहिता निष्ठा न प्राप्तेत्यारम्भः।

तत्त्व-बोधिनी
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ७०४, १।२।१९

शेश्यित इति। "एरनेकाचः" इति यण्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ मृषः ५।१ तितिक्षायाम् ७।१ निष्ठा १।१ १९ १८ सेट् १।१ १८ कित् १।१

अर्थः॥

तितिक्षायाम् अर्थे वर्त्तमानात् मृष्-धातोः परः सेट् निष्ठा-प्रत्ययः न कित् भवति। तितिक्षा = क्ष्मा।

उदाहरणम्॥

मर्षितः, मर्षितवान्।
काशिका-वृत्तिः
मृषस् तितिक्षायाम् १।२।२०

मृषेर् धातोः तितिक्षायाम् अर्थे निष्ठा सेण् न किद् भवति। तितिक्षा क्षमा। मर्षितः, मृषितवान्। तितिक्षायाम् इति किम्? अपमृषितं वाक्यम् आह।
न्यासः
मृषस्तितिक्षायाम्। , १।२।२०

तितिक्षा = क्षमा, क्षान्तिरिति। यद्येवम्, क्षान्तिग्रहणेव कत्र्तव्यम्,लघु ह्रेवं सूत्रं भवति? सत्यमेतत्; वैचित्र्यार्थं तु न कृतम्। "अपमृषितम्" इति। अपरामृष्टमित्यर्थः, अनेकार्थत्वातद्धातूनाम्। अनेकार्थत्वं तु तितिक्षाग्रहणाद्विज्ञायते। असति हि तत्र मृषस्तितिक्षायामेव पठ()त इति तन्न कुर्यात्, व्यवच्छेद्याभावात्।
बाल-मनोरमा
मृषस्तितिक्षायाम् ८६२, १।२।२०

मृषस्तितिक्षायाम्। तितिक्षा -- क्षमा। सेण्निष्ठा किन्नेति -- शेषपूरणमिदम्। "निष्ठा शी"ङित्यतो निष्ठेति, "न क्त्वा से"डित्यतः सेण्नेति, "असंयोगा"दित्यतः किदिति चानुवर्तत इति भावः।

तत्त्व-बोधिनी
मृषस्तितिक्षायाम्। ७०७, १।२।२०

अविस्पष्टमिति। मृषधातोस्तितिक्षायामेव वृत्तिसत्त्वेऽपि सूत्रस्थतितिक्षाग्रहणमेव ज्ञापयत्यनेकार्था धातव इति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ ऊदुपधात् ५।१ भावादिकर्मणोः ७।२ अन्यतरस्याम् ७।१ निष्ठा १।१ १९ १८ सेट् १।१ १८ कित् १।१

समासः॥

उत् उपधायां यस्य सः उदुपधः, तस्मात् उदुपधात्, बहुव्रीहिः।
भावश्च, आदिकर्म च भावादिकर्मणी, तयोः भावादिकर्मणोः, इतरेतरद्वन्द्वः।

अर्थः॥

उदुपधात् धातोः परः भावे, आदिकर्मणि च वर्त्तमानः सेट् निष्ठा-प्रत्ययः अन्यतरस्याम् (विकल्पेन) कित् न भवति।

उदाहरणम्॥

भावे - द्योतितमनेन, द्युतितमनेन। मोदितमनेन, मुदितमनेन। आदिकर्मणि - प्रद्योतितः, प्रद्युतितः। प्रमोदितः, प्रमुदितः।
काशिका-वृत्तिः
उदुपधाद् भावाऽदिकर्मणोरन्यतरस्याम् १।२।२१

निष्ठा सेण् न कितिति वर्तते। उदुपधाद् धातोः परो भावे आदिकर्मणि च वर्तमानो निष्ठाप्रत्ययः सेडन्यतरस्यां न किद् भवति। द्युतितत्मनेन, द्योतितमनेन। प्रद्युतितः, प्रद्योतितः मुदितमनेन, मोदितमनेन। प्रमुदितः, प्रमोदितः। उदुपधातिति किम्? लिखितमनेन। भावाऽदिकर्मणोः इति किम्? रुचितं कार्षापणं ददाति। सेटित्येव। प्रभुक्त ओदनः। व्यवस्थितविभाषा चैयम्। तेन शब्विकरणानाम् एव भवति। गुध परिवेष्टने, गुधितम् इत्यत्र न भवति।
न्यासः
उदुपधाद्भावदिकर्मणोरन्यतरस्याम्। , १।२।२१

"आदिकर्मणि वर्तमानः" इति। आदिभूतक्रियाक्षण आदिकर्म, तस्मिन् भूतत्वेन विवक्षते यः क्तो भवति, स आदिकर्मणि वर्तते। "द्योतितमनेन, द्युतितमनेन" इति। "द्युत दीप्तौ" (धा।पा।७४१) नंपुसके भावे क्तप्रत्ययः। एवं "मोदितमनेन, मुदितमनेन" इत्यत्रापि ; "मुद हर्षे" (धा।पा।१६) इत्यस्मात्। "प्रद्युतितः" इत्यादिषु तु "आदिकर्मणि क्त कत्र्तरि च" ३।४।७१ इति क्तः कत्र्तर्येव विधीयते, न कर्मणि; धातोरकर्मकत्वात्। नापि भावे; भावोदाहरणादविशेषप्रसङ्गात्।कत्र्तर्यव्युत्पन्नः क्त आदिकर्मसम्बन्धादादिकर्मणीत्युच्यते।आदिकर्मसम्बन्धस्त्वर्थद्वारकः। "रुचितम्" इति। "रुच दीप्तौ" (धा।पा। ७४५) अस्याकर्मकत्वात् "गत्यर्थाकर्मक" ३।४।७२) इत्यादिना कत्र्तरि क्तः। दीप्तिमत् कार्षापणमित्यर्थः। आदिकर्मात्र न विवक्षितम्। "प्रभुक्त ओदनः" इति। "भुज पालनाभ्यवहारयोः" (धा।पा।१४५४) "तयोरेव कृत्यक्तखलर्थाः" ३।४।७० इति कर्मणि क्तः। तस्यादिकर्मसम्बन्धादादिकर्मणि वृत्तिः। "गुध परिवेष्टने" (धा।पा।११२०) इति दौवादिकः। निगुधितमिति भावे क्तः। यदि व्यवस्थितविभाषया शब्विकरणानामेव भवति, सेड्ग्रहणेन किमर्थमिह निष्ठा विशिष्यते? अशब्विकरणत्वादेव हि प्रभुक्त इत्यत्र न भवति। न हि भुजिः शब्विकरणः, अपि तु श्नम्विकरणः, सत्यमेतत्; उत्तरार्थं सेड्ग्रहणमनुवत्र्तनीयम्। अतस्तदुत्तरार्थयनुवत्र्तमानमिहापि मन्दधियां सुखप्रतिपत्तिर्यथा स्यादित्येवमर्थम्। तकारोऽत्र मुखसुखार्थः, न दीर्घनिवृत्त्यर्थः; अलघूपधत्वादेव हि दीर्घोपधानां गुणप्रसङ्गाभावात्॥
बाल-मनोरमा
अन्यपदार्थे च संज्ञायाम् ६६७, १।२।२१

अन्यपदार्थे च। संख्येति निवृत्तम्। नदीभिरित्यनुवर्तते। तदाह--सुबन्तं नदीभिरिति। समस्यत इति। सोऽव्ययीभाव इत्यपि बोध्यम्। संज्ञानवगमादिति। सम्यक्ज्ञायते इति संज्ञा। "आतश्चोपसर्गे" इति कर्मण्यङ्। उन्मत्ता गङ्गा यस्मिन्निति वाक्येन देशविशेषस्यानवगमादिह नित्यसमास इत्यर्थः। ततश्च नास्ति लौकिकविग्रहः। अस्वपदविग्रहो वेति फलति। वस्तुतस्तु विभाषाधिकारादयमपि समासो वैकल्पिक एव। अत एव "द्वितीयतृतीये"ति सूत्रेऽन्यतरस्याङ्ग्रहणेन उत्सर्गापवादयोर्महाविषाविभाषयत्वादपवादाऽभावे उत्सर्गस्याऽप्रवृत्तिरिति ज्ञापितेऽर्थे उन्मत्तगङ्गमित्युदाह्मतम्। "अव्ययीभावेन मुक्ते बहुव्रीहिर्ने"ति चोक्तं भाष्ये। अस्य समासस्य नित्यत्वे तु तदसङ्गतिः स्पष्टैव, कदाप्यव्ययीभावमुक्त्यसंभवात्।

बाल-मनोरमा
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ८६३, १।२।२१

उदुपधाद्भावादिकर्मणोः। भावे उदाहरति-- मुदितमित्यादि। आदिकर्मण्युदाहरति-- प्रद्युतितः प्रद्योतितः साधुरिति। आदिकर्मणि कर्तरि क्तः। उदुपधा()त्क , विदितमिति।"विद ज्ञानेट इति वेत्तेः रूपम्। गुध्यतेर्गुधितमिति। "गुध परिवेष्टने"दिवादिः सेट्कः।

तत्त्व-बोधिनी
अन्यपदार्थे च संज्ञायाम् ५९१, १।२।२१

अन्यपदार्थे च। सङ्ख्येति नुवृत्तम्। नदीग्रहणमनुवर्तते। तदाह--सुबन्तं नदीभिः सहेति। अन्यपदार्थ इति किम्()। कृष्णवेणी। संज्ञानवगमादिति। सम्यक् ज्ञायते इति संज्ञा। "आतश्चोपसर्गे" इति कर्मण्यङ्। संज्ञिनो देशविशेषस्याऽनवगमादित्यर्थः। अन्यपदार्थानवगमादिति तु नोक्तं, यस्येत्यादिपदान्तरसमभिव्याहारेणाऽन्यपदार्थप्रतीतेः। अथएव बहुव्रीहिर्न नित्यसमास इति भावः। संज्ञायां किम्()। शीघ्रगङ्गो देशः। अथाऽव्ययीभावेऽसाधारणान्समासान्तनाह--अव्ययी। "शरदादिभ्य"इति वक्तव्ये पर्यायेषु लाघवचिन्ता नाद्रियत इति प्रभृतिग्रहणं कृतम्। टच् स्यादिति। "राजहःसखिभ्यः--"इत्यतष्टजनुवर्तत इति भावः।

तत्त्व-बोधिनी
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ७०८, १।२।२१

रुचितमिति। रुच दीप्तौ। "गत्यर्थाऽकर्मके"ति कर्तरि क्तः। क्रुष्टमिति। क्रुश आह्वाने रोदने च। व्रश्चादिना षत्वे ष्टुत्वम्।

* शब्विकरणेभ्य एवेष्यते। गुधितमिति। गुध परिविष्टने दिवादिः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ पूङः ५।१ क्त्वा १।१ २६ निष्ठा १।१ १९ १८ सेट् १।१ १८ कित् १।१

अर्थः॥

{पूङ् पवने (भ्वा॰ आ॰)} अस्मात् धातोः परः सेट् निष्ठा क्त्वा च कित् न भवति।

उदाहरणम्॥

पवितः, पवितवान्। पवित्वा।
काशिका-वृत्तिः
पूङः क्त्वा च १।२।२२

अन्यतरस्याम् इति न स्वर्यते। उतरसूत्रे पुनर् वा वचनात्। न सेटिति वर्तते। पूडश्च इट् विहितः किल्शः क्त्वानिष्ठयोः ७।२।५०, पूङश्च ७।२।५१ इति। पूडः परो निष्ठाप्रत्ययः इत्वा च सेण् न किद् भवति। पवितः, पवितवान्। क्त्वाप्रत्ययसय न क्त्वा सेट् १।२।१८ इति सेद्ध एव प्रतिषेधः। तस्य ग्रहणमुत्तरार्थम्। तथा चौक्तं नित्यम् अकित्त्वम् इडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणम् उत्तरार्थम् इति।
न्यासः
पूङः क्त्वा च , १।२।२२

"न सेट् वत्र्तते" इत्यक्तम्। "न क्त्वा सेट्" १।२।१८ इत्यतः। ननु च पूङः परयोः क्त्वानिष्ठयोरिटा न भवितव्यमेव; "श्रयुकः किति" ७।२।११ इति प्रतिषेधात्। तदपार्थिका सेड्ग्रहणानुवृत्तिरिति यश्चोदयेत् तं प्रत्याह-- पूङश्चेड् विहितः" इत्यादि। अत क्त्वाप्रत्ययस्योदाहरणं कस्मान्न प्रदर्शितमित्यत आह-- "क्त्वाप्रत्ययस्य" इत्यादि। यदि ह्रनेन योगेन क्त्वाप्रत्ययस्य कित्त्वं प्रतिषिध्येत, तदा तस्याप्युदाहरणं प्रदर्श्येत, न चानेन प्रतिषिध्यते, किन्तर्हि? "न क्त्()वा सेट्" १।२।१८ इत्यनेनैव प्रतिषिद्धत्वात्। तस्मात तस्योदाहरणं न प्रदर्शितमितित भावः। क्त्वाप्रत्ययस्य "न क्त्वा सेट्" १।२।१८ इत्यनेन प्रतिषेध इत्येतदेव द्रढयितुमाह-- "तथा च " इत्यादि। "पूङ्श्च" ७।२।५१ इत्यत्र सूत्रे द्वयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीति मन्यमानैर्भारद्वाजीयैरिदमुक्तम्-- "नित्यमकित्त्वमिडाद्योः" इति। तौ पुनरिडादी क्त्वानिष्ठाप्रत्ययौ। यदि तर्हि नित्यमकित्त्वमिडाद्योः; तदा क्त्वाग्रहणमनर्थकं स्यात्। विकल्पेन ह्रत्राकित्तवसद्धये तस्य ग्रहणमर्थवद्भवति, नान्यथा। नित्यत्वं कित्त्वप्रतिषेधस्य "न क्त्वा सेट्" १।२।१८ इत्यनेनैव सिद्धत्वादिति चोद्यमाशह्क्येदमुक्तम्-- "क्त्वाग्रहणमुत्तरार्थम्" इति। "पूङः" इति सानुबन्धकस्योच्चारणं किमर्थम्? पोपुवितः, पोपुवितवान्, पोपुवित्वेति यङलुगन्तात् कित्त्वप्रतिषेधो मा भूदिति। पूङनिवृत्यर्थं सानुबन्धक्सयोच्चारणं नोपपद्यते; "श्रयुकः किति" ७।२।११ इतीट्प्रतिषेधात्। पूञः परयोः क्त्वानिष्ठयोः सेटोरभावात्॥
बाल-मनोरमा
पूङ क्त्वा च ८५८, १।२।२२

पूङः क्त्वा च। "न क्त्वा से"डित्यतो न सेडित्यनुवर्तते। "असंयोगा"दित्यतः किदिति, "निष्ठा शीङित्यतो निष्टेति च। तदाह-- पूङः क्त्वा निष्ठा चेत्यादि। ननु "न क्त्वा से"डित्येव सिद्धे किमर्थमिह क्त्वाग्रहणमित्यत आह-- क्त्वाग्रहणमुत्तरार्थमिति। तदेवोपपादयति-- नोपधादित्यत्रेति। तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा। "पूङश्चे"त्येवोक्तौ तु "निष्ठा शी" ङित्योत निष्ठाग्रहणमेवाऽनुवर्तेतेति भावः।

तत्त्व-बोधिनी
पूङः क्त्वा च ७०३, १।२।२२

पूङः क्त्वा च। "न क्त्वा से"डित्यनेनैव सिद्धे क्त्वाग्रहणमिह व्यर्थमित्यत आह--उत्तरार्थमिति। क्त्वैवेति। नतु निष्ठा, चानुकृष्टत्वादिति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ नोपधात् ५।१ थफान्तात् ५।१ वा २६ क्त्वा १।१ २२ १८ सेट् १।१ १८ कित् १।१

समासः॥

न उपधायां यस्य सः नोपधः, तस्मात् नोपधात्, बहुव्रीहिः।
थश्च फश्च थफौ, थफौ अन्ते यस्य सः थफान्तः, तस्मात् थफान्तात्, द्वन्द्वगर्भो बहुव्रीहिः।

अर्थः॥

नकारोपधात् थकारान्तात् फकारान्तात् च धातोः परः सेट् क्त्वा प्रत्ययः वा न कित् भवति।

उदाहरणम्॥

ग्रथित्वा, ग्रन्थित्वा। गुफित्व, गुम्फित्वा।
काशिका-वृत्तिः
नौपधात् थफान्ताद् वा १।२।२३

निष्ठा इति निवृत्तम्। निकारौपधाद् धातोः थकारान्तात् फकरान्ताच् च परः क्त्वा प्रत्ययः सेड् व न किद् भवति। ग्रथित्वा, ग्रन्थित्व। श्रथित्वा, श्रन्थित्वा। गुफित्वा, गुम्फित्वा। नौपधातिति किम्? रेफित्वा। गोफित्वा। थफान्तातिति किम्? स्रंसित्व। ध्वंसित्वा।
न्यासः
नोपधात्थफान्ताद्वा। , १।२।२३

"निष्ठेति निवृत्तम्" इति। पूर्वसूत्रे चानुकृष्टत्वात्। "ग्रथित्वा" इति। कित्त्वपक्षे "अनिदिताम्" ६।४।२४ इत्यनुनासकिलोपः। "गुफित्वा" इति। "गुफ गुन्फ ग्रन्थे" (धा।पा।१३१७,१३१८) "रिफित्वा" इति। "रिफ कत्थनयुद्धनिन्दाहिंसादानेषु" (धा।पा।१३०६)। ननु चैतद्विक्पाभावेऽपि "रलो व्युपधात्" १।२।२६ इत्यादिनैवात्र विकल्पेन भवतव्यम्, न चानयोर्विकल्पयोः कश्चिद्विशेषोऽप्यस्ति? एवं तर्हि नोपधग्रहणसाम- थ्र्याद्योगान्तरकृतोऽपबि विकल्पोऽनेन बाध्यते। ननु च ऋकारोपधो नोपधग्रहणस्य प्रत्युदाहरणविषयो भविष्यति, "ऋफ ऋन्फ हिंसायाम्" (धा।पा।१३१५,१३१६), अर्फित्वेति, नैतद्स्ति; इहास्माभिरनयोर्धात्वो रूपत्रयं साध्यम्-- अर्फित्वा, ऋम्फित्वा, ऋफित्वेति। एतत् तु सत्यसति वा नोपधग्रहणऽनेनैव सिद्ध्यत्येव। सति तावन्नोपधग्रहणे, अनोपधस्य ऋफेः "न क्त्वा सेट्" १।२।१८ इति प्रतिषेधे सत्यर्फित्वेति सिद्ध्यति। नोपधस्य तु ऋम्फेरस्मिन् विकल्पे सति, ऋम्फित्वा ऋफित्वेतीदमपरं रूपद्वयं सिद्धयति। असत्यपि नोपधग्रहणे सर्वथास्मिन् विकल्पे सतीदं रूपत्रयं सिद्ध्यत्येव। तस्माद् युक्तमुक्तं प्रत्युदाहरणं रेपित्वेति। "येन विधिस्तदन्तस्य" १।१।७१ इति तदन्तविधौ सिद्धेऽन्तग्रहणम् "इह क्त्वाप्रत्यकाण्डे यत्नमन्तरेण तदन्तविधर्न भवति" इति ज्ञापनार्थम्। तेनोत्तरसूत्रे "ऋत" इति धातुः स्वरूपेण गृह्रते, न तु तदन्त इति।
तत्त्व-बोधिनी
नोपधात्थफान्ताद्वा १५९२, १।२।२३

नोपधात्थ। अन्तग्रहणं स्पष्टार्थम्। "थफा" दित्युक्तेऽपि धातोरेव क्तवाप्रत्ययविधानाद्विशेष्यसंनिधानेन तदन्तविधिना थफान्तादिति लाभात्। कोथित्वा। रेफित्वेति। कुथ पूतीभावे, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु। इह "रलो व्युपधा" दिति विकल्पोऽपि न भवति, नोपधग्रहसामथ्र्यात्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ वञ्चिलुञ्च्यृतः ५।१ वा २३ क्त्वा १।१ २२ १८ सेट् १।१ १८ कित् १।१

समासः॥

वञ्चिश्च लुञ्चिश्च ऋत् च, वञ्चिलुञ्च्यृत्, तस्मात् वञ्चिलुञ्च्यृतः, समाहारो द्वन्द्वः।

अर्थः॥

{वञ्चु प्रलम्भने (चुरा॰ अ॰)}, {लुञ्च अपनयने (भ्वा॰ प॰)}, {ऋत् सौत्रो धातुः घृणायाम्}, इत्येतेभ्यः धातुभ्यः परः सेट् क्त्वा वा न कित् भवति।

उदाहरणम्॥

वचित्वा, वञ्चित्वा। लुचित्वा, लुञ्चित्वा। ऋतित्वा, अर्तित्वा।
काशिका-वृत्तिः
वञ्चिलुञ्च्यृतश् च १।२।२४

वञ्चि लुञ्चि ऋतित्येतेभ्यः परः क्त्वा प्रत्ययः सेड् वा न किद् भ्वति। वचित्वा, वञ्चित्व। लुचित्वा,। उञ्चित्वा। ऋतित्व, अर्तित्वा। ऋतेरीयङ् ३।१।२९ आर्धधातुके विकल्पितः ३।१।३१। स यत्र पक्षे न अस्ति तत्रैदम् उदाहरणम्। सेटित्येव। वक्त्वा।
न्यासः
वञ्चिलुञ्च्यृतश्च , १।२।२४

"वन्चु प्रलम्भने" (धा।पा।१७०३), "लुन्च अपनयने" (धा।पा।१८७), "ऋत" इति सौत्रौ धातुः, यत्र "ऋतेरीयङ" ३।१।२९ इतीयङ विहितः। "ऋतेरीयङ" आर्धधातुके विकल्प्यते" इति। "आदाय आर्धधातुके वा" ३।१।३१ इत्यनेन। "वचित्वा" इति। "अनिदिताम्। ६।४।२४ इति नलोपः। "वक्तवा" इति। "उदितो वा" ७।२।५६ इतीडभावः पक्षे। चकारो वाग्रहणस्य स्वरितत्वविस्पष्टीकरणार्थः। तेनोत्तरसूत्रे काश्यपग्रहणस्य पूजार्थता; अन्यथा हि तस्य विकल्पार्थता विज्ञायेत। तथा च द्वयोर्विभाषयोर्मध्यवर्त्तित्वान्नित्योऽयं विधिः स्यात।
तत्त्व-बोधिनी
वञ्चिलुञ्च्यृतश्च १५९३, १।२।२४

वचित्वेति। वञ्चु प्रलम्भने। लुचित्वेति। लुञ्च अपनयने। ऋतित्वेति। ऋतिः सौत्रो दातुर्घृणार्थकः, तस्याद्र्धधातुकविषये "ऋतेरीय"ङित्यस्य वैकल्पिकत्वात्तदभाव कित्तवमनेन विकल्प्यते।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तृषि-मृषि-कृशेः ५।१ काश्यपस्य ६।१ वा २३ क्त्वा १।१ २२ १८ सेट् १।१ १८ कित् १।१

समासः॥

तृषिश्च मृषिश्च कृशिश्च, तृषिमृषिकृशि, तस्मात्, तृषि-मृषि-कृशेः, समाहारो द्वन्द्वः।

अर्थः॥

{ञितृष पिपासायाम् (दिवा॰ प॰)}, {मृष तितिक्षायाम् (दिवा॰ उ॰)}, {कृश तनूकरणे (दिवा॰ प॰)}, इत्येतेभ्यः धातुभ्यः परः सेट् क्त्वा वा न कित् भवति, काश्यपस्य आचार्यस्य मतेन।

उदाहरणम्॥

तृषित्वा, तर्षित्वा। मृषित्वा, मर्षित्वा। कृशित्वा, कर्षित्वा।
काशिका-वृत्तिः
तृषिमृषिकृशेः काश्यपस्य १।२।२५

न क्त्वा सेट् १।२।१८ इति प्रतिषेधे प्रापे कित्त्वं विकल्प्यते। तृषि मृषि कृशि इत्येतेभ्यः परः क्र्वा प्रत्ययः सेट् काश्यपस्य आचार्यस्य मते वा न किड् भवति। तृषित्वा, त्र्षित्वा। मृषित्व, म्र्षित्व। कृशित्व, कर्शित्वा। कश्यपग्रहणं पूजार्थम्। वा इत्येव हि वर्तते।
न्यासः
तृषिमृषिकृशेः काश्यपस्य। , १।२।२५

"ञितृषा पिपासायाम्" (धा।पा।१२२८), "मृष तितिक्षायाम्" (धा।पा।११६४), "कृश तनूकरणे" (धा।पा।१२२७)। "काश्यपग्रहणं पूजार्थम्" इति। "काश्यपस्यैवैतद्विषयकं ज्ञानं नान्येषाम्" इत्यसाधारणज्ञानोद्भावनमेव पूजा। तस् तत्पूजाद्वारेण शास्त्रस्यापि महार्थतोद्भावनलक्षणा पूजा कृता भवति। एवन्नाम शास्त्रस्य महार्थत्वं येन तथाविधा मुमुक्षवोऽप्याद्रियन्त इति। तेन विकल्पार्थं काश्यपग्रहणं कस्मान्न भवतीत्यत आह-- वेत्येव हि वत्र्तते" इति॥
तत्त्व-बोधिनी
तृषिमृषिकृशेः काश्यपस्य १५९४, १।२।२५

तृषिमृषि। ञितृषा पिपासायां, मृष तितिक्षायां, कृश तनूकरणे। "नोपधा"दित्यतो वेत्यनुवर्तनात्काश्यपग्रहणं पूजार्थम्। अञ्चेरिति। "उदितो वे"ति विकल्पप्राप्तावयमारम्भः। अञ्चित्वेति। "न क्त्वा से"डिति कित्त्वाऽभावान्नलोपो न। एवं चेह "नाञ्चेः पूजाया"मिति नलोपो नेति प्रसादकारोक्तिर्वृथेत्याहुः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ रलः ५।१ व्युपधात् ५।१ हलादेः ५।१ सन् १।१ वा २३ क्त्वा १।१ २२ १८ सेट् १।१ १८ कित् १।१

समासः॥

उश्च इश्च वी {इको यणचि (६।१।६४) इत्यनेन यणादेशः}। वी उपधे यस्य सह् व्युपधः, तस्मात् व्युपधात्, द्वन्द्वगर्भो बहुव्रीहिः।

अर्थः॥

उकारोपधात् इकारोपधात् च, रलन्तात् हलादेः धातोः परः सेट् सन्, सेट् क्त्वा च वा कितौ न भवतः।

उदाहरणम्॥

द्युतित्वा, द्योतित्वा, लिखित्वा, लेखित्वा। दिद्यतिषते, दिद्योतिषति, लिलिखिषति, लिलेखिषति।
काशिका-वृत्तिः
रलो व्युपधद्धलादेः संश् च १।२।२६

वा इति वर्तते सेटिति च। उश्च इश्च वी। वी उपधेयस्य स व्यौपधः। उकारौपधादिकारौपधच् च धातो रलन्ताद्धलादेः परः संश्च क्त्वा च सेटौ व कितौ भवतः। द्युतित्वा, द्योतित्वा। दिद्युतिषते, दिद्योतिषते। लिखित्वा, लेखित्वा। लिलिखिषति, लिलेखिषति। रलः इति किम्? देवित्वा, दिदेविषति। व्युपधातिति किम्? वर्तित्वा, विवर्तिषते। हलादेः इति किम्? एषित्व, एषिषिष्ति। सेटित्येव। भुक्त्वा, बुभुक्षते।
न्यासः
रलो व्युपधाद्धलादेः संश्च। , १।२।२६

क्त्वाप्रत्ययश्च "न क्त्वा सेट्" १।२।१८ इति कित्त्वे प्रतिषिद्धे सनोऽप्यकित्वे स्वभावत एव व्यवस्थित उभयत्रेदं विधिमुखेनैव प्रवत्र्तत इतिपक्षे कित्त्वं भवतीति। "{दिद्युतिषते" -- काशिका,पदमंजरी च} विदद्युतिषते" इति। "द्युतिस्वाप्योः संप्रासरणम्" ७।४।६७ इत्यभ्यासस्य संप्रासरणम्। "एषिषिषति" इति। "इषु इच्छायाम्" (धा।पा।१३५१), इडागमे कृते "अजादेर्द्वितीयस्य" ६।१।२ इति द्वितीयस्यैकाचो द्विर्वनचम्। "बुभुक्षते" इति। "हलन्ताच्च" २।१।१० इति नित्यं कित्त्वं भवति। लाघवार्थम् "इणुपधात्" इति वाच्ये, इण्ग्रहणानि सर्वाणि परेम णकारेणेति ज्ञापनार्थं "व्युपधात्" इत्युक्तम्। तेन "लण्" इत्यत्र यदुक्तम्-- "इण्ग्रहणानि सर्वाणि परेण णकारेण" इति तदुपपन्नं भवति॥
बाल-मनोरमा
रलो व्युपधाद्धादेः संश्च ४४४, १।२।२६

रलो। क्त्वासनाविति। चकारेण पूङः क्त्वा चे"त्यतः क्त्वाया अनुकर्षादिति भावः। सेटाविति। "न क्त्वा सेडि"त्यतस्तदनुवृत्तेरिति भावः। वा किताविति। "नोपधात्थफान्ताद्वे"त्यतः "असंयोगाल्लिट्कि"दित्यतश्च तनदुवृत्तेरिति भावः। दिद्युतिषते इति। "द्युत दीप्तौ" अनुदात्तेत्। सनि द्वित्वे कित्त्वात् "द्युतिस्वाप्यो"रित्यभ्यासस्य संप्रसारणे पूर्वरूपे सनः कित्त्वान्न लघूपधगुण इति भावः। सनः कित्त्वाऽभावे आह-- दिद्योतषते इति। "पूर्ववत्सनः" इत्यात्मनेपदम्। एषिषिषतीति। इष्()धातोः सन्। इट्। हलादित्वाऽभावेन कित्तवाऽभावाद्गुणे एष् इस ति इति स्थिते "अजादेर्द्वितीयस्ये"ति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम्। नन्विह सत्यपि कित्त्वे नित्यत्वात्परमपि गुणं बाधित्वा षिसित्यस्य द्वित्वे धात्ववयवस्य इकारस्य उपधात्वाऽभावादेव गुणाऽप्रसक्तेर्हलादेरिति व्यर्थमित्यत आह -- इह नित्यमपि द्वित्वं गुणेन बाध्यते इति। कुत इत्यत आह-- उपधाकार्यं हि द्वितवात्प्रबलमिति। तच्च कुत इत्यत आह-- ओणेरिति। ओणेः ऋदित्करणस्य ज्ञापकत्वादित्यन्वयः। तथाहि -- ओणृधातोण्र्यन्ताल्लुङि चङि "णौ चङ्युपधायाः" ह्यस्वस्य "नाग्लोपिशास्वृदित#आ" मिति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम्। अत्र उपधाह्यस्वनिषेधार्थमोणेरृदित्करणम्। उपधाह्यस्वे कृते तु उण् इ अ त् इति स्थिते णीत्यस्य द्वित्वे मा भवानुणिणदिति स्यात्, ओकारो न श्रूयेयेति स्थितिः। यदि तु नित्यत्वादुपधाह्यस्वत्प्रागेव ओण् इ अ त् इत्यस्यां दशायां द्वित्वं स्यात्तदा ओकारस्य उपधात्वाऽभावादेव ह्यस्वाऽप्रसक्तेस्तन्निषेदार्थमृदित्करणमनर्थकं स्यात्।तस्मादुपधाह्यस्वात्मकमुपधाकार्यं द्वित्वात्प्रबलमिति विज्ञायते इत्यर्थः। ननु भवतु उपधाह्यस्वो द्वित्वात्प्रबलः, प्रकृते तु उपधागुणः कथं द्वित्वात्प्रबलः स्यादित्यत आह-- सामान्यापेक्षेति। उपधाह्यस्वस्य उपधाह्यस्वस्य उपधाकार्यत्वेन रूपेण द्वित्वात्प्राबल्यविज्ञानादित्यर्थः। वस्तुतस्तु "णौ चङ्युपधायाः" इति सूत्रे"यदमोणिमृदितं करोति तज्ज्ञापयति द्विर्वचनाद्ध्रस्वत्वं बलीय" इति विशिष्य उपधाह्यस्वग्रहणात्सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम्।

तत्त्व-बोधिनी
रलो व्यपधाद्धलादेः संश्च ३८७, १।२।२६

रलो व्युपधा। "न क्त्वा से"डित्यतः सेडिति वर्तते। चकारेण क्त्वायाः सङ्ग्रहः। "असंयोगा"दित्यतः किदिति, "नोपधा"दित्यतो वेति चानुवर्तते। तदाह- क्त्वासनावित्यादि। सेट् किम्?। भित्त्वा। छित्त्वा। बुभुक्षते।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ ऊकालः १।१ अच् १।१ ३१ ह्रस्व-दीर्घ-प्लुतः १।१ ३१

समासः॥

उ, ऊ, ऊ३कालः इति {अकः सवर्णे दीर्घः (६।१।९७)} इत्यनेन त्रयाणाम् उकाराणां दीर्घत्वम्) ऊकालः। कालशब्दः प्रत्येकम् उकारं प्रति सम्बध्यते, उकालः, ऊकालः, ऊ३कालः इति॥ उ ऊ ऊ३कालः इव कालः यस्य अचः सः ऊकालः, बहुव्रीहिः।
ह्रस्वश्च दीर्घश्च प्लुतश्च, ह्रस्वदीर्घप्लुतः, इतरेतरद्वन्द्वः। ह्रस्वदीर्घप्लुतः इत्यत्र {सुपां सुलुक्॰ (७।१।३९)} इत्यनेन जसः स्थाने सुः॥ यद्वा ह्रस्वदीर्घप्लुतः इत्यत्र स्माहारो द्वन्द्वः, छान्दसत्वात् नपुंसकताऽभावः।

अर्थः॥

उ ऊ ऊ३ मात्रिक-द्विमात्रिक-त्रिमात्रिक इत्येवं कालः यः अच् सः यथासङ्ख्यं ह्रस्व-दीर्घ-प्लुत-संज्ञकः भवति।

उदाहरणम्॥

ह्रस्वः - दधिच्छत्रम्, मधुच्छत्रम्। दीर्घः - कुमारी, गौरी। प्लुतः - देवदत्त३अत्र न्वसि।
काशिका-वृत्तिः
ऊकालो ऽज्झ्रस्वदीर्घप्लुतः १।२।२७

ऊ इति त्रयाणाम् अयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः। ह्रस्वदीर्घप्लुतः इति द्वन्द्वैकवद् भावे पुंल्लिङ्गनिर्देशः। उ ऊ ऊ३ इत्येवं कालो अज् यथाक्रमं ह्रस्वदीर्घप्लुतः इत्येवं संज्ञो भवति। उकालो ह्रस्वः दधि। मधु। ऊकालो दीर्घः कुमारी। गौरी। ऊ३कालः प्लुतः देवदत्त३ अत्र न्वसि। कालग्रहणं परिमाणार्थम्। दीर्घप्लुतयोः ह्रस्वसंज्ञा मा भूत्। आलूय, प्रलूय, ह्रस्वस्य पिति कृति तुक् ६।१।६९ इति तुङ् न भवति। अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्। प्रतक्ष्य, प्ररक्ष्य, ह्रस्वाश्रयस् तुङ् मा भूत्। तितौच्छात्रम्, दीर्घात् ६।१।७३, पदान्ताद् वा ६।१।७३ इति विभाषा तुङ् मा भूत्। ह्रस्वदीर्घप्लुतप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७। अकृत्सर्वधातुकयोर् दीर्घः ७।४।२५। वाक्यस्य टेः प्लुत उदात्तः ८।२।८२
लघु-सिद्धान्त-कौमुदी
ऊकालोऽज्झ्रस्वदीर्घप्लुतः ५, १।२।२७

उश्च ऊश्च ऊ३श्च वः; वां कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादि भेदेन त्रिधा।
न्यासः
ऊकालोऽज्झ्रस्वदीर्घप्लुतः। , १।२।२७

ऊः कालो यस्याचः स ऊकालः। ननु चायुक्तोऽयं निर्देशः, तथा हि-- ऊ इति शब्दः कालस्तु क्रिया, तत् कुतोऽत्र सामानाधिकरण्यम्? नैष दोषः; यस्मात् "ऊ" इत्येतत्सहचरितायामुच्चारणक्रियायामिह साहचर्यात् "ऊ" इत्येष शब्दो वत्र्तते, एवमप्ययुक्तम्; यतः "ऊ" इत्येतत्सहचरितं यदुच्चारणं तदूकारस्यैव, नान्यस्याचः। तत्कथं सोऽन्यसम्ब्नधिन्या क्रियया ऊकारलः स्यात्, न हि यज्ञदत्तसम्बन्धिनीभिश्चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति? अयमप्यदोषः; वत्यर्थस्येह गमयन्तीत्युक्तमेतत्। तदेतदुक्तं भवति-- "ऊ" इत्येतत्सहचिरतयोच्चारणक्रियया तुल्योच्चारणक्रिया कालालख्या यस्याचः स ऊकाल इति। ननु च ऊकाल इत्येकः संज्ञी, संज्ञास्तु तिस्त्रः, ततो वैषम्यात् संख्यातानुदेशो न प्राप्नोतीति यो मन्येत, तं प्रत्याह-- "ऊ इति त्रयाणाम्" इत्यादि। मात्रिकाणां त्रयाणामकः सवर्णे ६।१।९७ दीर्घत्वमेकादेशं कृत्वा "ऊ" इति निर्देशः कृत इत्यर्थः। कुतः पुनरेतद्विज्ञायते त्रयाणामेकः प्रश्लेषनिर्देश इति? तिसृणां संज्ञानां विधानसामथ्र्यात्। न ह्रेकस्य भिन्नप्रयोजनमन्तरेणानेकसंज्ञाविधानमर्थवद्भवति। न चेहैकस्यानेकसंज्ञाकरणे भिन्नप्रयोजनमस्ति। "ह्यस्वदीर्घप्लुत" इति यद्येक एवायं शब्दः संज्ञा स्यात्, लाघवार्थत्वात् संज्ञाकरणस्य, महत्याः संज्ञायाः करणमयुक्तं स्यात्। किञ्च-- आवृत्तिधर्माणः संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदाय संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदायः प्रदेशेष्वावत्र्यते,अपि तु प्रत्येकं ह्यस्वादिशब्दाः। तस्मात् तेषां द्वन्द्वं कृत्वा निर्देश इति मत्वाह- "ह्यस्वदीर्घप्लुतः" इत्यादिः। द्वन्द्वैकवद्भावस्तु "सर्वो द्वन्द्वो विभाषयैकवद्भवति" इति वचनात्। ननु च द्वन्द्वैकवद्भावे "स नपुंसकम्" २।४।१७ इति नुपंसकत्वेन भवितव्यम्, तत्कथं पुंल्लिङ्गेन निर्देशः, सौत्रत्वान्निर्देशस्य। छन्दसि "व्यत्ययो बहुलम्" ३।१।८५ इति लिङ्गव्यत्यय उक्तः। "छन्दोवत्सूत्राणि भवन्ति" (म।भा।१।१।१) इत्यविरुद्धास्य पुंल्लिङ्गता। उ ऊ ऊ३ इत्यनया आनुपूर्व्यैषां प्रश्लेष इति दर्शयति। कुतः पुनरेष निश्चयः-- एषैवैषामानुपूर्वीति? एवं मन्यते-- "विभाषा पृष्टप्रतिवचने हेः" ८।२।९३ इत्येकमात्रिकस्य हेः प्लुतविधानाज्ज्ञायते-- न मात्रिकोऽन्त्य इति। अन्त्यत्वे हि सति तस्य प्लुतसंज्ञा स्यात्। एवञ्च प्लुतविधानमनर्थं स्यात्। द्विमात्रिकोऽप्यन्त्यो न भवति; "ओमभ्यादाने" ८।२।८७ इति द्विमात्रिकस्य प्लुतविधानात्। तस्य चान्त्यत्वे हि सति यदि प्लुतसंज्ञा स्यात्, तदा च प्लुतस्य प्लुतविधानमनर्थकं स्यात्। तसमादन्ते एकमात्रिकद्विमात्रिकौ न भवतः। मध्येऽप्येकमात्रिको न भवति, "अतो दीर्घो यञि" ७।३।१०१ इति "सुपि च" ७।३।१०२ इतिच दीर्घविधानसामथ्र्यात्। यदि मध्य एकमात्रिकः स्यात् तदा तस्य दीर्घसंज्ञा स्यात्,दीर्घस्य दीर्घवचनमकिञ्चित्करं स्यात्, तस्मादादावेकमात्रिकत्वे हि सति पारिशेष्यान्मध्ये द्विमात्रिकः, अन्ते त्रिमात्रिक इति। "उ ऊ ऊ३" इति। अत्राप्युकारादिसहचरितायामुच्चारणक्रियायमुकारादयो वत्र्तन्ते। एवं कालोऽजिति यकारस्य लोपः। ननु चोकारोऽयमण् गृह्रमाणः सवर्णान् गृह्णातीत्यत उकारेण दीर्घप्लुतयोग्र्रहणे सति तयोरपि ह्यस्वसंज्ञा भवतीत्यत आह- "कालग्रहणम्" इत्यादि। कालग्रहणे हि येषामेताःसंज्ञा विधीयते तेषां यथाक्रममेकमात्रिकत्व द्विमात्रिकत्वत्रिमात्रिकत्वानि विशेषणानि लभ्यन्ते। तथा हि, कालग्रहणेसति प्रत्येकं वाक्यपरिसमाप्तौ क्रियमाणायां त्रयो बहुव्रीहयो भवन्ति- उः कालो यसय् स उकालः, ऊः कालो यस्य स ऊकालः, ऊ३#ःकालो यस्य सः ऊ३ कालः। एषां यथार्ममेकमात्रिकद्विमात्रिकत्रिमात्रिका अचोऽन्यपदार्थाः। यस्मान्मात्रिक एवाचः "उ" इत्येतत्सहचारिण्या उच्चारमक्रियायास्तुल्यकालः; एवं द्विमात्रिक एवाच "ऊ" इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः; एवं त्रिमात्रिक एवाच "ऊ३" इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः। एवं च सति मात्रापरिमाणस्याचो ह्यस्वसंज्ञा विधीयमाना सत्यप्युकारेण दीर्घप्लुतयोग्र्रहणे तयोर्न भवति, न हि तौ मात्रा परिमाणौ। तेन आलूय, परिणीयेत्यत्र ह्यस्वाश्रयस्तुङ न भवति। "प्रत्यक्ष्य, प्ररक्ष्य" इति। "तक्षू त्वक्षू तनूकरणे" (धा।पा।६५५, ६५६) "रक्ष पालने" (धा।पा।६५८) "कुगतिप्रादयः" २।२।१८ इति समासे कृते "समासेऽनञ्पूर्वे क्त्वो ल्यप्" ७।१।३७ इति ल्यप्। तत्र परतो द्वयोरर्धमातर्योर्हलोः संयोगसंज्ञिनोरूकाल्त्वमस्तीत्यसत्यज्ग्रहणे ह्यस्वसंज्ञा स्यात्, ततश्च ह्यस्वाश्रयस्तुक प्रसज्येत। "तितौच्छत्रम्" इति। अत्राकारोकारचोः समुदायस्य ऊकालत्वाद् द्विमात्रिकत्वमस्तीति दीर्घसंज्ञा स्यात्। ततश्च "पदान्ताद्वा" ६।१।७३ इति विकल्पितस्तुक् प्रसज्येत। अज्ग्रहणे तु सति दीर्घसंज्ञा न भवति,अच्समुदायस्याज्ग्रहणेनाग्रहणात्। ननु च सत्यामपि तस्यां समुदायाश्रयायां दीर्घसंज्ञायायमवयवाश्रया ह्यस्वसंज्ञा भविष्यति। तदाश्रयस्तुङनित्य एव, नैतदस्ति; परत्वाद्दीर्घाश्रयस्तुग्विकल्पः प्राप्नोति। न चैवं विधविषये पुनः प्रसङ्गविज्ञानमस्ति; यत्र पूर्वो विधिः प्रवत्र्तमानः परविधिविज्ञानं न बाधते तत्रैतद्भवति-- "पुनः प्रसङ्गविज्ञानात् सिद्धम्" इति, इह तु नित्यो विधिः परविधिविकल्पविज्ञानं बाधते; नित्यविकल्पयोर्विरोधात्। ततश्च "सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव" (व्या।प।४०) इति परिभाषयैव विकल्पः स्यात्। तस्मादज्ग्रहणं
बाल-मनोरमा
ऊकालोऽज्झ्रस्वदीर्घप्लुतः ६, १।२।२७

तदेवमणादिसंज्ञासु सिद्धासु अचो ह्यस्वादिसंज्ञां विधत्ते--ऊकालोऽजिति। "ह्यस्वदीर्घप्लुत" इति समाहारद्वन्द्वः। सौत्रं पुंस्त्वम्। इतरेतरयोगद्वन्द्वो वा। तथा सत्येकवचनमार्षम्। उ ऊ ऊ३ इति त्रयाणां एकमात्रद्विमात्रत्रिमात्राणां द्वन्द्वसमासे सति सवर्णदीर्घेण ऊ इति प्रश्लिष्टनिर्देशः। तेषां कालः ऊकालः। कालशब्दो मात्रापर्यायः कालसदृशे लाक्षणिकः। ऊकालः कालो यस्येति विग्रहः। "सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः" इति द्विपदो बहुव्रीहिः। ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह--वां काल इवेत्यादिना। "वः" इति ऊशब्दस्य प्रथमाबहुवचनम्। वामिति षष्टीबहुवचनम्। वां काल इव कालो यस्येति फलितार्थकथनम्। उक्तरीत्या द्विपद एव बहुव्रीहिः। क्रमादिति।

यथासंख्यसूत्रलभ्यमेतत्। इहैव तत्सूत्रमुपन्यसितुमुचितम्। नच उ ऊ ऊ३ इत्युवर्णानां कथं ह्यस्वदीर्घप्लुतसंज्ञाः, तेषामूकालसदृशकालत्वाऽभावात्, सादृश्यस्य भेदनिबन्धनत्वादिति वाच्यम्। ऊ शब्दस्यात्र एकमात्रद्विमात्रत्रिमात्रकुक्()कुटरुतानुकरणत्वात्। स इति। सः=ह्यस्वः दीर्घः प्लुतश्च अच्, प्रत्येकमुदात्तादिभेदेन=उदात्तत्वेनानुदात्तत्वेन स्वरितत्वेन च धर्मविशेषण, त्रिधा = त्रिभिः प्रकारैर्वर्तत इत्यर्थः।

तत्त्व-बोधिनी
ऊकालोऽज्झ्रस्वदीर्घप्लुतः ८, १।२।२७

ऊकालोऽज्झ्रस्वदीर्घप्लुत इति। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। "ऊ" इति त्रयाणां प्रश्लेषेण निर्देश इत्याह-उश्च ऊश्च ऊश्चेति। वः। वामिति। त्रयाणां सवर्णदीर्घे कृते जसि परतो यणि-वः। आमि तु वाम्। वां काल इव कालो यस्येति। फलितार्थकथनमिदम्। विग्रहस्तु वः कालो यस्येति बोध्यः। "ऊ" शब्देन स्वोच्चारणकालो लक्ष्यते। अच् किम्?। संयोगस्य माभूत्, प्रतक्ष्य, प्ररक्ष्य। कषयोरेकमात्रत्वेन ह्यस्वसंज्ञायां "ह्यस्वस्य पिति कृति-" इति तुक् स्यात्। आ ये इति। "निपाता आद्युदात्ताः" इत्याकार उदात्तः। यच्छब्दस्तु "फिष" इत्यन्तोदात्तः। ततः परस्य जसः सुप्त्वादनुदात्तत्वम्, त्यदाद्यत्वे शीभावे आद्गुणे च सति "एकादेश उदात्तेन" इत्येकार उदात्तः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अचः ६।१ अच् १।१ २७ ह्रस्व-दीर्घ-प्लुतः १।१ २७

अर्थः॥

परिभाषेयं स्थानिनियमार्था। ह्रस्व, दीर्घ, प्लुत इत्येवं विधीयमानः यः अच्, सः अचः एव स्थाने भवति।

उदाहरणम्॥

अतिरि, अतिन् अपगु। पूर्वसूत्रस्य अपि उदाहरणानि अत्र बोद्धव्यानि।
काशिका-वृत्तिः
अचश् च १।२।२८

परिभाषा इयं स्थानिनियमार्था ह्रस्वदीर्घप्लुतः स्वसंज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः। वक्ष्यति ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७, रैअतिरि। नौअतिनु। गोउपगु। अचः इति किम्? सुवाग् ब्रह्मणकुलम्। अकृत्सार्वधातुकयोर् दीर्घः ७।४।२५ चीयते। श्रूयते। अचः इति किम्? भिद्यते। धिद्य्ते। वाक्यस्य टेः प्लुत उदात्तः ७।२।८२ देवदत्त३। यज्ञदत्त३। अचः इति किम्? अग्निचि३त्। सोमसु३त्। तकारस्य मा भूत्। स्वसंज्ञया वधाने नियमः। अचिति वर्तते। इह मा भूत्। द्यौः पन्थाः। सः द्यौभ्याम्। द्युभिः। अत्र नियमो न अस्ति।
न्यासः
अचश्च। , १।२।२८

परिभाषेयं लिङ्गवती स्थानिनियमार्था प्रदेशेषु "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इत्येवमादिषूपतिष्ठते;तदुपस्थाने च षष्ठीद्वयं प्रादुर्भवति; विशेषणविशेष्यभावं प्रति कामचारात्। "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इत्यत्राचा प्रातिपदिकं गृह्रमाणं विशिष्यते-- अजन्तस्य प्रातिपदिकस्येति, न तु प्रातिपदिकेना-ज्विशिष्यते। यदि हि प्रातिपदिकेनाज्विशिष्येत-- प्रातिपदिकस्य योऽजिति, तदा मध्यस्थितस्याप्यचो ह्यस्वः स्यात्। "सुवाग् ब्राआहृणकुलम्" इति। अचा तु प्रातिपदिके विशिष्यमाणे प्रातिपदिकस्यैवेत्येषा स्थानषष्ठी भवति, न चावयवषष्ठी, तेनालोऽन्त्यस्यैवाचो ह्यस्वो भवति। "वाक्यस्य टेः प्लुत उदात्तः" ८।२।८२ इत्यत्र गृह्रमाणेन टिशब्देनाज्विशिष्यते-- टेर्योऽजिति। तेन टेर्मध्यवर्तिनोऽप्यचः प्लुतो भवति। यदि त्वचा टिर्विशिष्यते-- अजन्तस्य टेरिति, तदेहैव स्यात्-- देवदत्ता३ इति; इह तु न स्यात्-- अग्निचिदिति। चकारेणाजित्यनुकृष्यते, त्सय प्रयोजनमिहैव वक्ष्यति। अतिरि- इत्यादीन्युदाहरमानि "एच इग्घ्रस्वादेशे" १।१।४७ इत्यत्र व्युत्पादितानि। चीयते इति कर्मणि लकारः। "संज्ञाविधाने नियमः" इत्यत्र युक्तिमाह-- "अजिति वत्र्तते" इति। अज्ग्रहणे ह्रनुवत्र्तमाने ह्यस्वादिशब्दा अनुवत्र्तमाना अच एवोपस्थानं प्रति व्याप्रियन्ते;तस्य स्वयमेवोपस्थितत्वात्। ततश्च स्वरूपमात्रपदार्थकाः सन्तो विधीयमानस्याचो विशेषणतामुपयान्ति। तत्रैवमभिसम्बन्धः क्रियते-- अः स्थानेऽज् भवति "ह्यस्वदीर्घप्लुतः इत्येवं संज्ञया विधीयमान इति। "द्यौः, पन्थाः, सः" इति। एतानि "इको गुणवृद्धी" १।१।३ इत्यत्र व्युत्पादितानि। एषु च यथायोगं "दिव औत्" ७।१।८४ "पथिमथ्यृभुक्षामात्" ७।१।८५ "त्यदादीनामः" ७।२।१०२ इत्येभिरौकारादयः स्वरूपेण विधीयमाना दीर्घादिसंज्ञया न विधीयन्त इति हल एव स्थाने ते भवन्ति, नाचः। द्युभ्याम्, द्युभिरित्यत्रापि "दिव उत् इत्युकारो ह्यस्वसंज्ञया न विधीयत इति हल एव स्थाने भवति, नाचः। ननु च द्यौरित्यादीनि त्रीण्युदाहरणानि "इको गुणवृद्धि" १।१।३ इत्यनेनैव संज्ञाविधाननियमेन सिद्धानि, तत्र हि तस्याप्येतानि प्रत्युदाहरणानि प्रागुपन्यस्तानि, तस्मान्नार्थ एतदर्थेन संज्ञया विधीयमानेन नियमेन? सत्यमेतत्; एवं मन्यते-- द्युभ्याम्, द्युभिरित्येवमर्थं संज्ञाविधाने नियमः कत्र्तव्यः; न ह्रुकारस्य गुणसंज्ञास्ति, नापि वृद्धिसंज्ञा; यतः पूर्वेणैव संज्ञाविधाननियमेनैतदपि सिद्ध्यति। तस्मादन्यार्थोऽयं संज्ञाविधाननियमः क्रियमाणो येऽपि विस्मरणशीलाः पूर्वस्य नियमस्य प्रयोजनं न स्मरन्ति ताननुग्रहीतुम्-- द्यौः, पन्था-, स इत्येवमर्थोऽपि भवति॥
बाल-मनोरमा
अचश्च ३७, १।२।२८

अचश्च। अच इत्यपि षष्ठ()न्तशब्दः स्वरूपपरः, पूर्वसूत्रे इक इतिवत्। ऊकालोऽजित्यतः "अच्" "ह्यस्वदीर्घप्लुत" इत्यनुवर्तते। "इति यत्र विधीयते" इत्यध्याहार्यम्। फलितमाह--ह्यस्वेत्यादिना। "दिव उत्" इत्यादौ तु नेदं प्रवर्तते, ह्यस्वादिशब्दानामश्रवणात्। "ह्यस्वो नपुंसके प्रातिपादिकस्ये"त्याद्युदाहरणम्। श्रीपम्। नेह--सुपात् ब्राआहृणकुलम्।

तत्त्व-बोधिनी
अतश्च ३१, १।२।२८

अतश्च। ह्यस्वदीर्घेत्यादि। एतच्च "ऊकालोऽज्झ्रस्वदीर्घप्लुतः" इति सूत्रादझ्यस्वदीर्घप्लुत इत्यनुवर्त्त्य "ह्यस्वो दीर्घः प्लुत इति योऽ"जिति योजनया लभ्यते। ह्यस्वेत्यादि किम्?, "दिव उत्" द्युभ्याम्। "अष्टन आ विभक्तौ" अष्टौ। "अष्टाभ्य औ"शित्यत्र कृतात्त्वनिर्देशाज्ज्ञापकाज्जश्शसोर्विषये प्रवत्र्तमानस्य "अष्टन" इत्यात्त्वस्याऽच्स्थानिकत्वे सति नैतत्सिद्धयेदिति दिक्। षष्ठ()न्तं पदमिति। तच्च सति संभवे सामानाधिकरण्येनैव संबध्यते न वैयधिकरण्येन। तेन "ह्यस्वो नपुंसके" इत्यजन्तप्रातिपदिकस्यैव ह्यस्वः। श्रीपम्। नेह सुवाग्रब्राआहृणकुलम्। "शमामष्टानां दीर्घः-" इत्यत्र तु सामानाधिकरण्याऽसंभवत्-शमादीनामच" इति संबध्यते , तेन "शाम्यती"त्यादि सिद्धम्। "वाक्यस्य टेः प्लुतः-" इत्यत्र सामानाधिकरण्यसंभवेऽपि टेग्र्रहणसामथ्र्याट्टरेवयवस्याचः प्लुत इति व्याख्यायते। अन्यथा "अलोऽन्त्यस्य" "अतश्चे"ति परिभाषाभ्यामेहि कृष्णेत्यादिवाक्यान्त्यस्याऽचः प्लुतसिद्धौ किमनेन टेग्र्रहणेन?। तेन "आयुष्मानेधीन्द्रवर्मन्" इत्यादि सिध्यतीति दिक्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ उच्चैः उदात्तः १।१ अच् १।१ २७

अर्थः॥

ताल्वादिषु हि भागवत्सु स्थानेषु वर्णाः निष्पद्यन्ते, तत्र यः समाने स्थाने ऊर्ध्वभागनिष्पन्नः अच्, सः उदात्तसंज्ञः भवति। अत्र महाभाष्यकारः आह -- आयामो दारूण्यमणुता खस्येति उच्चैःकराणि शब्दस्य -- इति। आयामः = गात्राणां निग्रहः। दारुण्यम् = स्वरस्य दारुणता, रूक्षता। अणुता स्वस्य = कण्ठस्य संवृतता, उच्चैःकराणि शब्दस्य।

उदाहरणम्॥

औ॒प॒ग॒वः, ते, ते, के॥
काशिका-वृत्तिः
उच्चैरुदात्तः १।२।२९

अचिति वर्तते। उदात्ताऽदिशब्दाः स्वरे वर्णधर्मे लोकवेदयोः प्रसिद्धा एव। ते इह तद्गुणे ऽचि परिभाष्यन्ते। उच्चैरुपलभ्यमानो यो ऽच् स उदात्तसंज्ञो भवति। उच्चैः इति च श्रुतिप्रकर्षो न गृह्यते, उच्चैर् भाषते, उचैः पठति इति। किं तर्हि? स्थानकृतम् उच्चत्वं संज्ञिनो विशेषणम्। ताल्वादिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते। तत्र यः समाने स्थाने ऊर्ध्वभगनिष्पन्नो ऽच् स उदात्तसंज्ञो भवति। यस्मिन्नुचार्यमाणे गात्राणामायामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता क्ण्ठविवरस्य। ये। ते। के। उदात्तप्रदेशाःआद्युदात्तश्च ३।१।३ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
उच्चैरुदात्तः ६, १।२।२९

न्यासः
उच्चैरूदात्तः। , १।२।२९

उदात्तादयो लोकवेदयोः प्रसिद्धाः। तत् किं संज्ञाकरणेनेति यश्चोदयेत् तं प्रत्याह-- "उदात्तादिशब्दाः" इत्यादि। आदिशब्देनानुदात्तस्वरितयोः परिग्रहः। एवकारो भिन्नक्रमो वर्णधर्मे इत्यस्यानन्तरं द्रष्टव्यः। लोकवेदयोरुदात्तादयः शब्दा वर्णनां यो धर्मः = गुणस्तत्रैव प्रसिद्धाः, न तु तद्वित्यचि। तस्मादिह व्याकरण उदात्तादयो धर्मा यस्याचस्तद्गुणेऽचि संज्ञाप्यन्ते = परिभाष्यन्ते; अन्यथा प्रदेशेषूदात्तादिशब्दश्रवणाद्वर्णधर्म एव गृह्रेत, न तद्वानजित्यभिप्रायः। उच्चैरिति श्रुतिप्रकर्षेऽस्ति-- श्रुतिप्रकर्षवत्युच्चैर्भाषते उच्चः पठतीति। अस्ति च प्रमाणाधिकरणवाची उच्चैः स्थितो देवदत्त इति, उच्चैर्नाम प्रमाणम्, तस्य तदधिकरणं तदिहोच्चैः शब्देनोच्यते। तदिह द्वितीयस्योच्चैः शब्दस्यार्थो गृह्रते, नेतरस्येति दर्शयितुमाह-- "उच्चैः" इति। उच्चैर्भाषते इत्येवमादौ तु वाक्ये प्रयुक्तस्योच्चैः शब्दस्य योऽर्थः श्रुतिप्रकर्षः स उच्चैरित्यत्र न गृह्रते। यदि गृह्रेत, उपांशुप्रयोग उदात्तादिसंज्ञा न स्यात्; प्रकर्षाभावात्, प्रकर्षस्थितत्वादुदात्तादयो न विशिष्येरन्। य एव हि कञ्चित् प्रत्युच्चैर्भवति, स एव हि कञ्चित्प्रतति नीचैर्भवति। एवञ्च सर्वमुदात्तं स्यात्, अनुदात्ततमोऽपि चेष्यत इत्यभिप्राय। "स्थानकृतम्" इत्यादि। उच्यता नाम प्रमाणविशेषः, तदधिकरणभूतस्थानमुच्चैर्भवति। एवञ्च सर्वनमुदात्तं न स्यात्। अनुदात्तमुच्चैरुच्यत इत्यर्थः। "भागवत्सु" इति। भागा अवयवा येषां तानि भागवन्ति। ते भागास्ताल्वादिषु स्थानेष्वौत्तराधर्येण व्यवस्थिताः। स्थानमुच्चैः शब्देनोच्यते, तत् कुतः संज्ञिन उच्चैस्त्वविशेषणम्? उच्चैस्थाननिष्पन्नत्वात्। तत्र समाने स्थान उच्चैरूध्र्वभागे यो निष्पन्नः स उदात्तसंज्ञो भवति। यदि स्थाने य ऊध्र्वभागनिष्पन्नोऽच् स उदात्तसंज्ञो भवतीत्येतावदुच्यते, एवञ्च स एवानवस्थितदोषः। तथा हि- अल्पशरीरेषु य एव ताल्वादिभाग उच्चैर्भवति, स एव महाशरीरेषु ताल्वादिभागापेक्षया नीचैर्भवति। अतः "समान" इत्येतत् स्थानविशेषणमुक्तम्। एतच्च् लघ्वर्थत्वात् संज्ञाकरणस्यैकाक्षरायां संज्ञायां कर्तव्यायामनेकाक्षरसंज्ञाकरणाल्लभ्यते। ग्रन्थाधिक्यादर्थाधिक्यं भवतीति। ननु च ग्रन्थाधिक्यादत्र कश्चिदाचार्यस्याधिकोऽर्थोऽभिप्रेत इत्येतावन्मात्रं प्रतीयते, समानत्वमित्येषोऽर्थ विशेषः कुतो लभ्यते? अविच्छिन्नादुपदेशपारम्पर्यात्। तत् पुनः समानत्वं वक्त्रभिन्नत्वाद्वेदितव्यम्; न तु ताल्वादिस्थानस्याभिन्नत्वात्; अन्यथा तालव्यमेवापेक्ष्योदात्तः स्यात्, न तु कण्ठादीन्। वक्तुरभेदात् तद्()द्वारेण भिन्नानामपि ताल्वादीनां समानत्वेऽपि विज्ञायमान एष दोषो न भवति। किंलक्षणः पुनरसावुच्चभागनिष्पन्नोऽजित्याह-- "यस्मिन्" इत्यादि। "आयामः" इत्यस्य विवरणं "निग्रहः" इति। निग्रहः = स्तब्धता। संवृतकण्ठता = कण्ठविवरस्य संवृतता। अत एव शनैर्निष्क्रामन् वायुर्गलावयवाञ्शोषयति। रूक्षता भवत्यस्निग्धता। "ये ते के" इति। यत्त()त्कशब्देभ्यस्त्यदाद्यत्वम्, "अतो गुणे" ६।१।९४ पररूपत्वम्,"जसः शी" ७।१।१७, "आद्गुणः" ६।१।८४। अत्र प्रातिपदिकस्वरेण प्रकृतिरूदात्ता। "अनुदात्तौ सुप्पितौ" ३।१।४ इति विभक्तिस्वरः। एकादेशस्तु "एकादेश उदात्तेनोदात्तः" ८।१।५ इति॥
बाल-मनोरमा
उच्चैरुदात्तः ७, १।२।२९

उदात्तसंज्ञामाह--उच्चैरुदात्तः। नादधर्मविशेष उच्चैस्त्वं नेह विवक्षितम्, उपांशूच्चार्यमाणे अव्याप्तेः। किन्तूच्चैश्शब्दोऽधिकरणशक्ति प्रधान ऊध्र्वभागे इत्यर्थे वर्तते। ऊध्र्वावयवस्य चावयव्यपेक्षायां तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थाल्लभ्यते। उकालोऽजिति सूत्रादजित्यनुवर्तते, तदेतदाह-ताल्वादिष्वित्यादिना। सभागेष्विति। ताल्वादीनां सावयवत्वकथनमूध्र्वभागे इत्यस्योपपादनार्थम्, तेषाम् अखण्डत्वे "ऊध्र्वभागे" इत्यनुपपत्तेः। उदात्तमुदाहरति-आ ये इति। "आये मित्रावरुणा" इत्यृचि आकार एकारश्च उदात्त इत्यर्थः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ नीचैः अनुदात्तः १।१ अच् १।१ २७

अर्थः॥

समाने स्थाने नीचभाग=अधोभागनिष्पन्नः यः अच्, सः अनुदात्तसंज्ञकः भवति। अत्रापि महाभाष्यकारः आह -- अन्ववसर्गो मार्दवमुरुता स्वस्येति नीचैः कराणि शब्दस्य -- इति। अन्ववसर्गः = गात्राणां शिथिलता। मार्दवं = स्वरस्य मृदुता स्निग्धता। उरुता खस्य = महत्ता कण्ठस्येति नीचैःकराणि शब्दस्य।

उदाहरणम्॥

नम॑स्ते॒ दे॒व॒द॒त्त॒, त्व॒, सम॒, सिम॥
काशिका-वृत्तिः
नीचैरनुदात्तः १।२।३०

अचिति वर्तते। नीचैरुपलभ्यमानो यो ऽच् सो ऽनुदात्तसंज्ञो भवति। समाने स्थाने नीचभागे निष्पन्नो ऽचनुदात्तः। यस्मिन्नुच्चार्यमाणे गात्राणाम् अन्ववसर्गो मार्दवं भवति, स्वरस्य मृदुता स्निग्धता, कण्ठविवरस्य उरुता महत्ता। त्व सम सिम इत्यनुच्चानि। नमस्ते रुद्र नीलकण्ठ सहस्राक्ष। अनुदात्तप्रदेशाः अनुदात्तौ सुप्पितौ ३।१।४ इत्येवम् आद्यः।
लघु-सिद्धान्त-कौमुदी
नीचैरनुदात्तः ७, १।२।३०

न्यासः
नीचैरनुदात्तः। , १।२।३०

अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति। शैथिल्यमित्यर्थः। मृदुतेत्यस्य विवरणं स्निग्धतेति। उरुतेत्यस्यापि महत्तेति। महत्त्वादेव कण्ठविवरस्य पुनः शीघ्रं वायुर्निष्क्रामन् गलावयवान्न शोषयतीति। अतः स्वरस्य स्निग्धता भवति। त्व-सम-सिम-नेमेत्यनुच्चानीति सर्वादिष्वेव पठ()न्ते। अनुच्चानि अनुच्चानि अनुदात्तानीत्यर्थः। "नमस्ते रुद्र" इत्यादि। तेशब्दः "तेमयावेकवचने" ८।१।२२ इति "अनुदात्तं सर्वमपादादौ" ८।१।१८ इत्यधिकारादनुदात्तः। रुद्रादयोऽपि "आमन्त्रितस्य च" ८।१।१९ इत्यनेनाष्टमिकेन सर्वेऽनुदात्ता भवन्तीति।
बाल-मनोरमा
नीचैरनुदात्तः ८, १।२।३०

अनुदात्तसंज्ञामाह-नीचैरनुदात्तः। स्पष्टमिति उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यादिति स्पष्टार्थकमित्यर्थः। अर्वाङ्? इति। "अर्वाङ् यज्ञस्संक्राम" इत्यृचि आद्योऽकारोऽनुदात्त इत्यर्थः।

तत्त्व-बोधिनी
नीचैरनुदात्तः ९, १।२।३०

अर्वाङिति। अर्वन्तमञ्चतीति अर्वाङ्। "ऋत्विक्-" आदिना अञ्चतेः सुप्युपपदे क्विन्। "ऋ गतौ" इत्यस्मात् "स्नामद्रिपद्यर्ति" इत्यादिना वनिपि गुणे च निष्पन्नोऽर्वञ्छब्दो धातुस्वरेणाद्युदात्तः। वनिपः पित्त्वेनाऽनुदात्तत्वातच्। अञ्चतेरकारोऽपि धातुस्वरेण नित्स्वरेण वा उदात्तः। "उपपदमतिङ्" इति समासे कृते "समासस्य" इति स्वरेण तदपवादभूतेन "गतिकारकोपपदात्कृत्" इति कृदुत्तरपदप्रकृतिस्वरेण वा अञ्चतेरकार उदात्तः। वनो नलोपे सवर्णदीर्घे च कृते "एकादेश उदात्तेन" इत्याकार उदात्त इति "अनुदात्तं पदमेकवर्जम्" इति शेषनिघातादाद्योऽकारोऽत्रानुदात्तः। एतच्च संभवाभिप्रायेणोक्तम्। वेदभाष्ये तु "अर्वाङ्-अभिमुखः" इति स्थितम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ समाहारः १।१ स्वरितः १।१ अच् १।१ २७

अर्थः॥

समाहारः इत्यत्र सम् आङ् पूर्वात् हृञ्-धातोः घञ्-प्रत्ययः, समाहरणं समाहारः, पश्चात् समाहारः अस्मिन् अस्ति इति समाहारः, {अर्श आदिभ्योऽच् (५।२।१२७)} इत्यनेन मत्वर्थीयोऽच् प्रत्ययः। उदात्तानुदात्तगुणयोः समाहारः यस्मिन् अचि सः अच् स्वरितसंज्ञकः भवति।

उदाहरणम्॥

क्वं, शि॒क्य॑म्, क॒न्या॑, सा॒म॒न्यः॑॥
काशिका-वृत्तिः
समाहारः स्वरितः १।२।३१

अचिति वर्तते। उदात्तनुदात्तस्वरसमाहारो यो ऽच् स स्वरितसंज्ञो भवति। सामर्थ्याच् च अत्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, ना ऽचौ। तौ समाह्रियेते यस्मिन्नचि तस्य स्वरितः इत्येषा संज्ञा विधीयते। शिक्यम्। कन्या। सामन्यः। क्व। स्वरितप्रदेशाः तित् स्वरितम् ६।१।१६९ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
समाहारः स्वरतिः ८, १।२।३१

स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा॥
न्यासः
समाहारः स्वरितः , १।२।३१

उदात्तानुदात्तशब्दावज्विशेषयोः संज्ञे। संज्ञा हि प्रदेशेषूच्चारिताः संज्ञिनं प्रत्याययन्ति। ताभ्यामिहानुवृत्ताभ्यामुदात्तानुदात्तयोरचोरुपस्थापितयोः प्रत्ययः। तस्मात् समाहारात्मकस्याचः स्वरितसंज्ञा विधीयते। समाहारशब्दश्चसमाहरणं समाहार इति भावसाधनोऽयं लोके समुदाये रूढः। न चोदात्तानुदात्तात्मकः कश्चिदच्समुदायः सम्भवतीति, ततश्च संज्ञिनोऽसम्भवात् संज्ञापि न सम्भवीति यश्चोदयेत्, तं प्रत्याह-- "सामथ्र्याच्च" इत्यादि। उच्यते चेदम्-- उदात्तानुदात्तसमाहारः स्वरितसंज्ञो भवतीति, न च पारिभाषिकोदात्तानुदात्तसमाहारत्मनोऽचः सम्भवोऽस्ति। तत्र सामथ्र्याल्लोकवेदप्रसिद्धौ यौ धर्मावुदात्तानुदात्तौ तावेव गृह्रेते; नाचौ। नन्वेवमपि स एव दोषः, लोके प्रसिद्धोदात्तानुदात्तात्मनोऽच एषा संज्ञा विधीयते, कस्य तर्हि? लोकवेदप्रसिद्धावुदात्तानुदात्तौ समाह्यियेते यस्मिन्नचि तस्य। सम्भवति चैकस्मिन्नप्यचि तयोः समाहार इति कुतः संज्ञिनोऽसम्भवः। "समाह्यियेते यस्मिन्" इति ब्राउवताऽधिकरण साधनोऽयं समाहारशब्दो न भावसाधन इति दर्शितम्। समाह्यियेते = संहन्येते, सहितावुपलभ्येते इत्यर्थः। "शिक्यम्" इति। "पूञो यण्णुग् ह्यस्वश्च" (द।उ।१६) इति यदिति वत्र्तमाने "श्रन्सेः शि कुट् किच्च" (द।उ।८१७) इति श्रंसतेर्यत्प्रत्यये शिशब्दादेशे कुडागमे च कृते रूपम्। तित्त्वात् स्वरितम्। "कन्या" इति। "तिल्यशिक्यमत्र्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः" (फि।सू।४।७६) इत्यन्तः स्वरितम्। "सामान्यः" इति। सामनि साधुः। "तत्र साधुः" ४।४।९८ इति यत्प्रत्ययः। क्वेति किंशब्दात् सप्तम्यन्तात्"किमोऽत्" ५।३।१२ इत्यत्()प्रत्ययः। "क्वाति" ७।२।१०५ इति क्वादेशः॥

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तस्य ६।१ आदितः उदात्तम् १।१ अर्धह्रस्वम् १।१

समासः॥

अर्धं ह्रस्वस्य अर्धह्रस्वम्, {अर्धं नपुंसकम् (२।२।२)} इत्यनेन तत्पुरुषसमासः।

अर्थः॥

तस्य इति सापेक्षकं पदं स्वरितः इत्येतम् अनुकर्षति। {आदितः} इत्यत्र {तसिप्रकरणो आद्यादिभ्य उपसङ्ख्यानम् (वा॰ ५।४।४४)} इत्यनेन वार्त्तिकेन तसिः प्रत्ययः, {तद्धितश्चास॰ (१।१।३७)} इत्यनेनाव्ययत्वम्। अर्धह्रस्वमात्रम् अर्धह्रस्वं, मात्रचोऽत्र {प्रमाणे लो वक्तव्यः (वा॰ ५।२।३७)} इत्यनेन वार्त्तिकेन लोपः द्रष्टव्यः। तस्य स्वरितस्य आदौ, अर्धह्रस्वम् उदात्तं भवति, शेषम् अनुदात्तम्।

उदाहरणम्॥

क्व॑, क॒न्या॑॥
काशिका-वृत्तिः
तस्याऽदित उदात्तम् अर्धह्रस्वम् १।२।३२

उदात्तानुदात्तस्वरसमाहारः स्वरितः इत्युक्तम्। तत्र न ज्ञायते कस्मिन्नंशे उदात्तः कस्मिन्ननुदात्तः, कियान् वा उदात्तः कियान् वा अनुदात्तः इति। तदुभयम् अनेनाऽख्यायते। तस्य स्वरितस्य आदावर्धह्रस्वम् उदात्तम्, परिशिष्टम् अनुदात्तम्। अर्धह्रस्वम् इति च अर्धमात्रौपलक्ष्यते। ह्रस्वग्रहणम् अतन्त्रम्। सर्वेषाम् एव ह्रस्वदीर्घप्लुतानां स्वरितानाम् एष स्वरविभागः। शिक्यम् इत्यत्र अर्धमात्रा आदित उदात्त, अपरार्धमात्रा अनुदात्ता, एकश्रौतिर् वा। कन्या इत्यत्र अर्धमात्रा आदित उदत्ता अध्यर्धमात्रा अनुदात्ता। माणवक३ माणवक ८।२।१०३ इत्यत्र अर्धमात्रा आदित उदात्ता अर्धतृतीयमात्रा अनुदात्ता।
न्यासः
तस्यादित उदात्तर्धह्यस्वम्। , १।२।३२

आदौ = आदितः, सप्तम्य्रथे तसिः। अयमेव निर्देशो ज्ञापकः-- "आद्यादिभ्यस्तसिर्भवति" इत्यत्र। तेन तसिप्रकरणे "आद्यादिभ्यः उपसंख्यानम्" (वा।६३४) इत्येतन्न व्कतव्यं भवति। "अद्र्धह्यस्वम्" इति। ह्यस्वस्याद्र्धमित्यर्थः। "अर्धं नपुंसकम्" २।२।२ इति समासः। ततश्च "परवल्लिङ्गम्" २।४।२६ इत्यादिना पुंल्लिङ्गेन भवितव्यम्, ह्यस्वशब्दस्य पुंल्लिङ्गत्वात्, नैतदस्ति; ह्यस्वशब्दो हि प्रमाणविशेषं गुणमुपादाय प्रवृत्तः, "गुणवनचानाञ्चाश्रयलिङ्गवचनानि" इति गुणवचनत्वाच् शुक्लशब्द एव ह्यस्वशब्दस्त्रिलिङ्गः। "ह्यस्वः" इति मात्रिकस्य संज्ञा कृता, तस्यैव विभागः स्यात्, न तु दीर्घप्लुतयोरित्याशङ्क्याह-- "अद्र्धह्यस्वम्" इत्यादि। ह्यस्वस्याद्र्धमद्र्धमात्रा भवति, अतोऽद्र्धमात्रा भवति, अतोऽद्र्धह्यस्वग्रहणेनाद्र्धमात्रोपलक्ष्यते। तत एव च तस्येत्युक्तम्। त्रयाणां ह्यस्वदीर्घप्लुतानां स्वरितानां निर्देशार्थम्। यदि चाद्र्धह्यस्वग्रहणमद्र्धमात्रोपलक्षणम्, अतस्त्रयाणां निर्देशोऽर्थवान् भवति; नान्यथा। "ह्यस्वग्रहणमतन्त्रम" इति। अतन्त्रप्रधानम्, उपलक्षणार्थत्वात्। यथा काकेभ्यो दधि रक्ष्यतामित्यत्रकाकाः। तेन सर्वेषामेव ह्यस्वादीनामेष स्वरितविभागो भवति। नन्वेवमप्याष्टमिकस्य स्वरितस्य विभागो न सिध्यति, तस्यासिद्धत्वात्, नैतदेवम्; यस्मात् परविधिः पूर्वविधावसिद्धः। न चायं विधिः, किं तर्हि? तस्य विहितस्य विभागाख्यानार्थः। अथ वा-- "न मु ने" ८।२।३ इत्यत्र नेति योगविभागात् सिद्धं भवति॥।"एवश्रिर्वा" इति। पूर्वो भागोऽयमुदात्तः पटुतरः। तेनोपरज्यमानस्तद्रूपतामिवापन्नः परो भागः स्फटिकमणिरिवोपधानेनोपरक्तः शुद्धेनोदात्तेन भिन्नश्रुतिकत्वादनुदात्तव्यपदेशं नार्हति। उदात्तव्यपदेशमपि नार्हति; उपरागमात्रत्वात्। तस्मादेकश्रुतिरिति केचित्। अन्ये त्वाहुः-- पूर्वेण भागेनानुपजातरूपातिशयेन नोपरज्यते यदोत्तरभागस्तदा स्वेन रूपेण प्रतिभानादनुदात्त इति व्यपदिश्यते। यदा तूपधानेन स्फटिकमणिरिव पूर्वेण भागेन पटीयसोदात्तेनाभिभूयानुरज्यमानस्तद्रूपतामिवोपपद्यते तदैकश्रुतिरिति व्यपदिश्यते। पूर्वभागश्रुतेरभिन्नैका तुल्याकारा श्रुतिर्यस्येति कृत्वा। न हि तदानीं पूर्वोत्तरयोः स्वरितश्रुतिं प्रति कश्चित् भेदोऽस्ति; द्वयोरप्युदात्तगुणवत्तया प्रतीयमानत्वनादिति।
बाल-मनोरमा
तस्यादित उदात्तमर्धह्यस्वम् १०, १।२।३२

फलितमाह--उदात्तत्वानुदात्तत्वे इत्यादिना। ननु उदात्तत्वानुदात्तत्वयोरेकस्मिन्नपि मेलने कस्मिन्भागे उदात्तत्वस्य समावेशः , कस्मिन्भागे अनुदात्तत्वस्य समावेश इत्यत आह-तस्यादितः। तस्य = स्वरितस्य आदितः = पूर्वभागे अर्धह्यस्वमुदात्तमित्यर्थः प्रतीयते। एवं सति दीर्घस्वरिते इयं व्यवस्था न स्यात्। अत आह - ह्यस्वग्रहणतन्त्रमिति। तन्त्रं = प्रधानम्। "तन्त्रं प्रधाने सिद्धान्ते" इति कोशः। न विद्यते तन्त्रं वाच्यार्थलक्षणं प्रधानं यस्य तत् अतन्त्रं। अविवक्षितार्थकमित्यर्थः। ह्यस्वग्रहणं न कर्तव्यमिति यावत्। दीर्घस्वरितेऽप्युत्तरभागस्य वेदे अनुदात्तत्वदर्शनादिति भावः। ततश्च फलितमाह--स्वरितस्यादितोऽर्धमुदात्तं बोध्यमिति। ननु अनुदात्तत्वस्य निवेशव्यवस्था कुतो नोक्तेत्यत आह--उत्तरार्धं त्विति। ननु एवं सति अग्निमील इत्यत्र ईकारे स्वरिते कथमुत्तरार्धमनुदात्तं नेत्यत आह--तस्य चेति। चकारो वाक्यालङ्कारे। तस्य अनुदात्तभागस्य उदात्तस्वरितपरत्वे उदात्तस्वरितौ परो यस्मात् सः उदात्तस्वरितपरः। तस्य भावः उदात्तस्वरितपरत्वम्। उदात्तपरकत्वे स्वरितपरकत्वे वा सति श्रवणं स्पष्टं भवतीत्यर्थः। अन्यत्रेति। उदात्तस्वरितपरकत्वाभावे अनुदात्तप्रचयपरकत्वे, अनुदात्तभागस्य उदात्ततरत्वापरपर्याया उदात्तश्रुतिः ऋग्वेदप्रातिशाख्ये विहितेत्यर्थः। तत्र त्वेवमुक्तम्--अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत्।उदात्तं वोच्यते किंचित्स्वरितं वाऽक्षरं परम्॥"

--इति स्वरिते पूर्वभागस्य उदात्तत्वे सति परः शेष उत्तरभागः अनुदात्तः प्रत्येतव्यः। सः परः शेषः उदात्तश्रुतिः क्वचिद्भवति। किं सर्वत्र एवं(), नेत्याह--न चेदित्यादिना। उदात्तं स्वरितं वा किञ्चिदक्षरं परं नोच्यते चेदिति योजना। तत्र अनुदात्तभागस्य स्पष्टं श्रवणमुदाह्मत्य दर्शयति--केत्यादिना इत्यादिष्वनुदात्त इत्यन्तेना तत्र "क्व" इति ह्यस्वस्वरितः। स तावत् "वो" इत्योकारात्मकोदात्तपरकः। "येऽरा" इत्येकारो दीर्घस्वरितः। स च "रा" इत्याकारात्मकोदात्तपरः। "शतचक्रं यो" इत्योकारः कम्पस्वरितः। स तु "ह्र" इत्यकारात्मकस्वरितपरकः। इत्येवमादिप्रदेशेषु अनुदात्तभागः स्पष्टं श्रूयत इत्यर्थः। अन्यत्र तूदात्तश्रुतिरित्येतदुदाह्मत्य दर्शयति-अग्निमीळे इत्यादावुदात्तश्रुतिरिति। पदकाले अग्निमित्यन्तोदात्तम्। ईळ इति अनुदात्तम्। तत्र "उदात्तादनुदात्तस्य स्वरितः" इति संहितायामीकारः स्वरितः। "स्वरितात्संहितायामनुदात्तानाम्" इत्येकारः प्रचयः। ततश्च ईकारः स्वरित उदात्तस्वरितपरको न भवतीति तदुत्तरभागस्य उदाह्मतप्रातिशाख्यवचनेन उदात्ततरत्वात्मिका उदात्तश्रुतिरेव भवतीत्यर्थः। तदेवमुदात्तह्यस्वः अनुदात्तह्रस्वः स्वरितह्यस्व इति ह्यस्वस्त्रिविधः। एवं दीर्घोऽपि त्रिविधः। तथा प्लुतोऽपि। ततश्च एकैकोऽच्? नवविध इति स्थितम्। स नवविधोऽपीति। उक्तरीत्या नवविधोऽपि सः = अच्, अनुनासिकत्वेन अननुनासिकत्वेन च द्विधा = द्वाभ्यां प्रकाराभ्यां वर्तते इत्यर्थः।

तत्त्व-बोधिनी
तस्यादित उदात्तमर्धह्यस्वम् १०, १।२।३२

अतन्त्रमिति। अविवक्षितमित्यर्थः। तस्य चोदात्तस्वरितपरत्व इति। उदात्तस्वरितौ परौ यस्मात्तदुदात्तस्वरितपरं, तस्य भावस्तत्त्वं, तस्मिन् सति=उदात्तो वा स्वरितो वा परश्चेत्पूर्वस्य स्वरितस्य यदुत्तराद्र्धमनुदात्तं तस्य श्रवणं स्पष्टमित्यर्थः। अन्यत्रेति। उदात्तस्वरितपरत्वाऽभावे। क्वेति। "किमोऽत्"। "तित्स्वरितम्"। व इति। अनुदात्तं सर्वमपादादौ" इत्यधिकारादनुदात्तः। अ()आआ इति। अशे क्वनि नित्स्लकेणाद्युदात्तम्। संहितायां तु "एकादेश उदात्तेनोदात्तः" इत्योकार उदात्तः। उदात्तपरत्वे ह्यस्वस्वरितस्योदाहरणमुक्त्वा दीर्घस्वरितस्योदाहरणमाह-रथानां न ययिति। "ये" "अरा" इति पदद्वयमपि फिट्स्वरेणान्तोदात्तम्। एकादेशस्तु पक्षे स्वरितः, "स्वरितो वानुदात्ते पदादौ" इत्युक्तेः। स्वरितपरत्वे उदाहरणमाह-शतचक्रमिति। य इति--फिट्स्वरेणान्तोदात्तः, ततः परस्य सकारस्य रुत्वे उत्वे कृत आद्गुणे च उदात्तेनैकादेशादोकार उदात्तः॥ अह्र इति। स्वरितान्तत्वादकारस्य शेषनिघातत्वे, ओकारेण सह एकादेशे च कृते "स्वरितो वानुदात्ते पदादौ" इत्योकारः स्वरितः॥ कथमह्रस्य स्वरितान्तत्वमिति चेदत्राहुः-"अह व्याप्तै" इत्यस्मात्कर्मणि ण्यत्। "तित्स्वरितम्"। वृद्धाभावस्तु संज्ञापूर्वकविधेरनित्यत्वादिति। "नोदात्तस्वरित-" इति निषेधस्त्वनन्तरस्येति न्यायात् "उदात्तात्-" इति प्राप्तस्य। यदाऽहेरित्यर्थेऽह्रः वृत्रस्येत्यर्थः , तदा "छन्दसि वा वचनम्" इति गुणाऽभावः। "उदात्तस्वरितयोः" इति स्वरितः। "उदात्तयण" इति तु न, छान्दसत्वात्। अग्निमील इति। ईकारः स्वरितः, ले इति तु प्रचयापरपर्याया एकश्रुतिरिति च स्वरप्रक्रियायां मूल एव स्फुटीभविष्यति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ एकश्रुति १।१ ३९ दूरात् ५।१ सम्बुद्धौ ७।१

समासः॥

एका श्रुतिः श्रवणं यस्य तत् एकश्रुति, बहुव्रीहिः॥ श्रवणं श्रुतिः॥ सम्यक् बोधनं ज्ञापनं सम्बुद्धिः॥

अर्थः॥

दूरादाह्वाने सति, उदात्तानुदत्तस्वरितस्वराणाम् एकश्रुतिः भवति। यत्र उदात्तानुदात्तस्वरितानां पृथक् २ स्वरः न श्रूयते सः एकश्रुतिस्वरः।

उदाहरणम्॥

आगच्छ भो माणवक देवदत्त३। अत्रोदात्तानुदात्तस्वरितस्वराः पृथक् २ नोच्चारिता भवन्ति।
काशिका-वृत्तिः
एकश्रुति दूरात् सम्बुद्धौ १।२।३३

त्रैस्वर्ये पदानां प्राप्ते दूरात् सम्बुद्धावैकश्रुत्यं विधीयते। एका श्रुतिर् यस्य तदिदम् एकश्रुति। एकश्रुति वाक्यं भवति। दूरात् सम्बोधयति येन वाक्येन तत् सम्बोधनं सम्बुद्धिः। न एकवचनं सम्बुद्धिः। स्वराणाम् उदात्तादीनाम् अविभागो भेदति रोधानम् एकश्रुतिः। आगच्छ भो माणवक देवदत्त३। दूरातिति किम्? आगच्छ भो माणवक देवदत्त।
न्यासः
एकश्रुति दूरात्सम्बुद्धौ। , १।२।३३

"एकश्रुति वाक्यं भवति" इति। वाक्यग्रहणेन पदपदैकदेशयोर्निरासं करोति; तयोःसम्बोधनं प्रत्यसामथ्र्यात्। वाक्यस्य सम्बुद्धौ कर्तव्यायां करणभावोपगमादस्ति सामथ्र्यम्। ततस्तस्यैकश्रुत्यं विधीयते। कुतः पुनस्तद्वाक्यमित्याह-- "दूरात् सम्बोधयति येन" इति। एतेन सम्बुदिं()ध प्रति वाक्यस्य करणभावो दर्शितो भवति। दूरादिति-- "दूरान्तिकार्थेभ्यो द्वितीया च" २।३।३५ इति पञ्चमी। "सम्बोधनं सम्बुद्धिः" इत्यादिना सम्बुद्धिरित्कयन्वर्थग्रहणम्, न पारिभाषिकं सम्बुद्धिग्रहणमिति दर्शयति। यदि पारिभाषिक्याः सम्बुद्धेग्र्रहणं स्यात् तदा "देवा {ब्राआहृणाः इति पदंजरीपाठः} ब्राहृआणःट इत्यत्रैकश्रुत्यं न स्यात्; पारिभाषिक्याः सम्बुद्धेरसत्त्वात्। अन्वर्थग्रहणे तु भवति; सम्बोधनलक्षणक्रियारूपायाः सम्बुद्धेरिहापि विद्यमानत्वादिति भावः। कुतः पुनरेतदन्वर्थग्रहणं व्यवसितम्? दूरग्रहणात्। अन्वर्थग्रहणे दूरादित्यनेन सम्बुद्धिरुत्पद्यते। "{पंक्तिरियं नास्ति-काशिका} दूरात् सम्बोधने कत्र्तव्ये" इति। तेनार्थवद्भवति दूरशब्दस्यपादानम्। पारिभाषिक्यास्तु ग्रहणे तदसम्बद्धमेव स्यात्। न ह्रामन्त्रितविभ्कतेर्दूरत्वमस्ति। दूरत्वञ्च यद्यप्यनवस्थितम्, तथापि यत्र प्राकृतप्रयत्नसंस्थापितं वचनं न श्रूयते, तदिह दूरं वेदितव्यम्। "स्वराणाम्" इत्यादि। "{पंक्तिरियं नास्ति-काशिका}एकश्रुतिस्वरूपाख्यानमविभागः" भेदतिरोधानमित्यनन्तरं विवरणम्। उदात्तादिस्वरविशेषानुपलब्धिरकारादिवर्णमात्रावबोध एकश्रुतिरित्युक्तं भवति। "आगच्छ भो माणवक देवदत्ता३" इति। "दूराद्धूते च" ८।२।८४ इत्यत्रैवार्थे प्लुतः, स चोदात्तः; "वाक्यस्य टेः प्लुतः उदात्तः" ८।२।८२ इत्यधिकारात्। तस्यैकश्रुत्योदात्तस्य समावेश इष्यते, प्लुतनिवृत्त्यर्थम्। यथा चासौ लभ्यते तथा वक्ष्यति। प्रत्युदाहरणे त्रैस्वर्यमेव भवतीति तत्र आकारः "निपाता आद्युदात्ताः" (फि।सू।४।८०) "उपसर्गाश्चाभिवर्जम्" (फि।सू।४।८१) इत्युदात्तः। गच्छेत्यस्य "तिङङतिङः" ८।१।२८ इति निघातः। भो इति "निपाता आद्युदात्ताः" इत्युदात्तः। माणवक-- देवदत्तशब्दयोः "आमन्त्रतस्य च" ८।१।१९ इत निघातः।

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ यज्ञकर्मणि ७।१ ३५ अजपन्यूङ्खसामसु ७।३ एकश्रुति १।१ ३३

समासः॥

यज्ञस्य कर्म यज्ञकर्म, तस्मिन् यज्ञकर्मणि, षष्ठीतत्पुरुषः। जपश्च न्यूङ्खश्च साम च, जपन्यूङ्खसामानि, न जपन्यूङ्खसामानि अजपन्यूङ्खसामानि तेषु अजपन्यूङ्खसामसु द्वन्द्वगर्भनञ्तत्पुरुषः।

अर्थः॥

यज्ञकर्मणि, उदात्तानुदात्तस्वरितस्वराणाम् एकश्रुतिः भवति, जयन्यूङ्खसामानि वर्जयित्वा। जप उपांशुप्रयोगः। नूङ्खा निगदविशेषाः, आश्वलायनश्रौतसूत्रे {७।११} व्याख्यातास्तत्र द्रष्टव्याः॥

उदाहरणम्॥

समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्। आस्मिन् हव्या जुहोतन॥ यजु॰३।१॥ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम्। अपां रेतांसि जिन्वतो३म्॥ यजु॰ ३।१२॥ अत्रैकश्रुतिरभूत्।
काशिका-वृत्तिः
यज्ञकर्मण्यजपन्यूङ्खसामसु १।२।३४

त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते। तेषां यज्ञक्रियायाम् अपि तथैव प्रयोगे प्राप्ते एकश्रुतिर् विधीयते जपन्यूङ्खसामानि वर्जयित्वा। यज्ञकर्मणि मन्त्राणाम् ऐकश्रुत्यं भवति। अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम्। अपां रेतंसि जिन्वतो३म्। यज्ञकर्मणि इति किम्? सम्पाठे मा भूत्। अजपेष्विति किम्? ममाग्ने वर्चो विहवेष्वस्तु। जपो ऽनुकरणमन्त्र उपांशुप्रयोगः। अन्यूङ्खाइति किम्? न्यूङ्खा ओकाराः षोडश। तेषु केचिदुदात्ताः केचिदनुदात्ताः। असामसु इति किम्? विश्वं समत्रिणं दह। सामानि वाक्यविशेषस्थगीतय उच्यन्ते। तत्रैकश्रुतिर् न भवति।
न्यासः
यज्ञकर्मण्यजपन्यूङ्खसामसु। , १।२।३४

"अग्निर्मूर्धा दिवः" इत्यादि। "अगि रगि गत्यर्थाः" (धा।पा।१४६,१४४)। "वीज्याज्वरिभ्यो निः" (द।उ।१।१८) इत वत्र्तमाने "अङ्गेर्निर्नलोपश्च" (द।उ।१।२०) इति निप्रत्ययः; नलोपश्च भवति। अग्निशब्दः प्रत्ययस्वरेणान्तोदात्तः। "मुर्वी बन्धने" (धा।पा।५७५),"अकनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः" (द।उ।६।५१) इत्यतः कनिन्निति वत्र्तमाने "()आन्नुक्षन्पूषन्()प्लीहन्क्लेदन्()स्नेहन्()मूर्धन्मज्जन्नर्यमन्वि()आप्सन्परिज्मन्मातरि()आन्मघवन्" (द।उ।६।५५) इति मूर्धन्शब्दः कनिन्प्रत्यान्तो निपातित इति निपातनादाद्युदात्तः। वकारस्य धकारोऽत्र निपातनादेव। "दिवु क्रीडादौ" (धा।पा।११०७) डिविन् प्रत्ययः। इकार उच्चारणार्थः। डित्यभस्याप्यनुबन्धकरणसामथ्र्यात् "ट #ए#ः" ६।४।१४३ इति टिलोपः। "दिव्" इति स्थिते "ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः" ६।१।१६५ इति विभक्तेरन्तोदात्त्वम्। ककुच्छब्दः "{फिषोन्त उदात्तः- #इति मुद्रितं सूत्रम्}प्रातिपदिकमन्तोदात्तं भवति" (फि।सू। १।१)इत्यन्तोदात्तः। पतिशब्दः "पातेर्डतिः" (द।उ।१।२७) इति डतिप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः, ततः ककुदः पतिः ककुत्पतिरिति षष्ठीसमासः, स"समासस्य" ६।१।२१७ इत्यन्तोदात्तत्वम्। "प्रथ प्रख्याने" (धा।पा।१५५३), "प्रथेः षिवन् संप्रसारणञ्च" (द।उ।८।१२४)। "षिद्गौरादिभ्यश्च"४।१।४१ इति पृथिवशब्दान्()ङीष्। प्रत्ययस्वरेण धातुप्रत्यङीष आद्युदात्तोदात्तः। षष्ठ()ऐकवचनम् ङस्। "आण्नद्याः"इत्यनुदात्तत्वम्। सवर्णदीर्घः। "इको यणचि" ६।१।७४ इति यणादेशः। "उदात्तयणो हल्पूर्वात्" ६।१।१६८ इति विभक्तिरुदात्ता। "अयम" इति। "इदि परमै()आर्ये" (धा।पा।६३) "इदितो नुम् धातोः" ७।१।५८ इति नुम्, "इन्देः कमिर्नलोपश्च" (पं।उ।५९६) इति कमिप्रत्ययो नलोपश्च; इदम्शब्दः कमिप्रत्ययेनान्तोदात्तः। सौ परतः "इदोऽय् पुंसि" इतीदम इद्रूपस्यादेशः। "अपाम्" इति। "आप्लृव्याप्तौ" (धा।पा।१२६०), "आप्नोतेह्र्यस्वश्च" (द।उ।१।१२७) इति क्विप्, ह्यस्वश्च, षष्ठीबहुवनचम्। "ऊडिदं पद" ६।१।१६५ इति विभक्तेरुदात्तत्वम्। तेनापामित्यस्यान्तोदात्तत्वम्। "रि गतौ" (धा।पा।१४०४), "स्त्रुरिभ्यां तुट् च" (द।उ।९।६२) इत्यसुन् प्रत्ययः। तुडागमः। "रेतांसि" इति नित्स्वरेणाद्युदात्तः। "जिन्वति" इति। "जि जये" (धा।पा।५६१) लट्,शत्रादेशः। "व्यत्ययो बहुलम्" ३।१।८५ इति व्यत्ययेन श्नुप्रत्ययः।"हुश्नुवोः सार्वधातुके" ६।४।८७ इति यणादेशः। "उगितश्च" ४।२।६ इति ङीप्। "अम्बार्थनद्योह्र्यस्वः" ७।३।१०७ इति ह्यस्वः। "एङ ह्यस्वात् सम्बुद्धेः" ६।१।६७ इति सुलोपः। "ये यज्ञकर्मणि" ८।२।८८ इति वत्र्तमाने "प्रणवष्टेः"८।२।८९ इति प्रणवादेशः। स च प्लुत उदात्तश्च,"वाक्यस्य टेः प्लुत उदात्तः" ८।२।८२ इत्यधिकरात्। प्रणव इत्योकारम्, ओङ्कारं वाऽ‌ऽचक्षते। प्रणवस्योदात्तविधानसामथ्र्यादसिद्धत्वाच्च पदादुत्तरस्य "आमन्त्रितस्य च" ८।१।१९ इत्यनुदात्तं न भवति; शेषस्य तु भवति। एषु स्वरेषु प्राप्तेष्वेकश्रुतिर्विधीयते। "संपाठे मा भूत्" इति। संपाठ= स्वाध्यायकालः। "ममाग्ने" इत्यादि। "असु क्षपणे" (धा।पा।१२०९), "युष्यसिम्यां मदिक्" (द।उ।६।५०) इति मदिक्। अस्मच्छब्दः प्रत्ययस्वेरणान्तोदात्तः। षष्ठ()एकवचनस्य "युष्मदसमद्भ्यां ङसोऽश्" ७।१।२७ इत्यशादेश-, "तवममौ ङसि" ७।२।९६ इत्यस्मदो ममादेशः। स्था४निवद्भावादन्तोदात्तः। "अतो गुणे" ६।१।९४ पररूपत्वम्। "एकादेश उदात्तेनोदात्तः" ८।२।५ अग्निशब्दस्य "आमन्त्रितस्य च" ८।१।१९ इति निघातः। "वर्च दीप्तौ" (धा।पा।१६२), "असुन्" (द।उ।९।४९) इतिअसुन् प्रत्ययः। वर्चशब्दो नित्स्वरेणाद्युदात्तः। "ह्वेञ् स्पर्धायाम्" (धा।पा।१००८)। "ह्वः संप्रासारणञ्च न्यभ्युपदिषु ३।३।७२ इत्यप् प्रत्ययः। "उपपदमतिङ" २।२।१९ इति समासः। "गतिकारकोपपदात् कृत्" ६।२।१३८ इत्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते, "अन्तः" ६।२।१४२ इत्यनुवर्तमाने "थाथघञ्क्ताजवित्रकारणाम्" ६।२।१४३ इत्यन्तोदात्तत्वम्, सप्तमीबहुवचने "बहुवचने झल्येत्"७।३।१०३ इत्येत्त्वम्, स्थानिवद्भावादेकारोऽपब्यदात्त एव। "अस भुवि" (धा।पा।१०६५) , लोट्, तिप्, "एरुः" ३।४।८६ इत्युत्वम्, अदादित्वाच्छपो लुक्। "तिङङतिङः" ८।१।२८ इति निघातेन "अस्तु" शब्दोऽनुदात्तः। "जपोऽनुकरणमन्त्रः" इति। "जप" इत्यक्तेरर्थकथनमनुकरणमन्त्र इति। अनुकृतिः = अनुकरणम्। सर्वत्र मन्त्रे स्फुटमुच्चारणमित्यनुकरणमन्त्रः। अत एवाह-- "उपांशुप्रयोगः" इति। यता जले निमग्नस्य पाठः। क्वचिदकरणमन्त्र इति पाठः। तत्रायमर्थः-- ईषत् करणमुच्चारणं यस्य सोऽकरणमन्त्र इति; नञ ईषदर्थत्वात्। एशब्दो निपातः। "निपाता आद्युदात्ताः" (फि।सू।४।८०)। "विश प्रवेशने" (धा।पा।१४२४),"अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्" (द।उ।१२५) इति क्वप्रत्ययान्तत्वाद्वि()आशब्दो नित्स्वरेणाद्युदात्तः। समञ्च तत् अत्रिणञ्चेति विशेषणसमासः। समासान्तोदात्तत्वम्। "दह भस्मीकरणे" (धा।पा।९९१), लोट्,सिप्, सेर्हिरादेशः,"अतो हेः" ६।४।१०५ इति हेर्लुक्, "तिङङतिङ" ८।१।२८ इति निघातविधानात् दहशब्दोऽनुदात्तः। केचिद् वहा३ इति प्लुतान्तं पठन्ति; तेषां साहसमनिच्छतां "सर्वत्र विभाषा प्लुतो वक्तव्यः" (म।भा।३।४२०) इत्यतो वचनात् प्लुतो वक्तव्यः, स चोदात्तः। अन्ये त्वाकारान्तं पठन्ति, तेषां छान्दसत्वादाकारः। ह्यस्वोऽपि हि वर्णो व्यत्ययेन दीर्घो भवति,"पुरुषः" "नारकः" इति यथा। "वाक्यविशेषस्था गीतयः" इति। यथोक्तं जैमिनिना-- "गीतिषु सामाख्या" इति। गीतिः = ध्वनिविशेषः। कर्मग्रहणं किमर्थम्,यज्ञ इत्येवोच्येत, यज्ञमन्त्राणां यज्ञक्रियार्थत्वाद्यज्ञकर्मणि भविष्यति? सत्यमेतत्; विस्पष्टार्थ हि कर्मग्रहणम्। अथ वा -- योऽपि न प्रसिद्धो यज्ञः पञ्चयजनादिः, तत्रापि यथा स्यादित्येवमर्थम्; अन्यथा "यज्ञे" इच्युच्यमाने प्रसिद्धो यो यज्ञोऽ()आमेधादिस्त्तत्रैव स्यात्॥

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ उच्चैस्तराम् १।१ वा वषट्कारः १।१ यज्ञकर्मणि ७।१ ? एकश्रुति १।१ ३३

अर्थः॥

उच्चैः इत्यनेन उदात्तः गृह्यते, अयम् उदात्तः अयम् उदातः अयम् अनयोः अतितराम् उदात्तः, उच्चैस्तराम्, {द्विवचनविभ॰ (५।३।४७)} इत्यनेन तरप्प्रत्ययः॥ यज्ञकर्मणि वषट्कारः मन्त्रः, उच्चैस्तराम् = उदात्ततरः विकल्पेन भवति, पक्षे एकश्रुतिः भवति। वषट्कारशब्देन अत्र वौषट्-शब्दः गृह्यते। यदि एवं वौषड्ग्रहणम् एव, कस्मात् न कृतम्? वैचित्र्यार्थम्। विचित्रा हि सूत्रस्य कृतिः पाणिनेः॥

उदाहरणम्॥

सोमस्याने वीही३ वौ३षट्। पक्षे एकश्रुतिः -- सोमस्याने वीही३ वौ३षट्॥
काशिका-वृत्तिः
उच्चैस्तरां वा वषट्कारः १।२।३५

यज्ञकर्मणि इति वर्तते। यज्ञकर्मणि वषट्कारः उच्चैस्तरां वा भवति एकश्रुतिर् वा। वषट्शब्देन अत्र वौषट् शब्दो लक्षयते। वौषटित्यस्यैवैदं स्वरविधानम्। यद्येवं वौषड्ग्रहणम् एव कस्मान् न कृतम्? वैचित्र्यार्थम्। विचित्र हि सूत्रस्य कृतिः पाणिनेः। सोमस्य अग्ने वीही३षट्। सोमस्य अग्ने वीही३ वौ३षट्।
न्यासः
उच्चैस्तरां वा वषट्कारः। , १।२।३५

"वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते"इति। समानाथ्र्वादित्यभिप्रायः। द्वावपि तौ देवानां दानवचनौ। यथा "वषट्" शब्देन देवानां दानं दीयते तथा वौषट्शब्देनापि। तस्मात् समानार्थत्वात् "वषट्" शब्दो "वौषट्" शब्दं लक्षयति। कारशब्दग्रहणमर्थपदार्थकत्वं विहाय शब्दपदार्थकत्वेन दानक्रियायामुपयुज्यमानस्य तस्योदात्ततरत्वं यथा स्यादित्येवमर्थम्। कारग्रहणे शब्दपदार्थतया दृष्टा, यथा एवकार इति। अन्ये कारग्रहणमन्यस्यापि यथा स्यादिति वर्णयन्ति। तेन "अस्तु श्रौषट्" इत्यत्रायमुदात्ततरो भवति। उच्चैस्तरामिति प्रकर्षप्रत्ययो वौषट्()शब्दे "ब्राऊहिप्रेष्यश्रौषडावहानामादेः" ८।२।९१ इति यः प्लुतो विहितस्तदपेक्षया वेदितव्यः; स ह्रुदात्तः, "याज्यान्तः" ८।२।९० इत्यनेन य उदात्तः प्लुतो विहितस्तदपेक्षया प्रकर्षस्य सत्त्वात्। अथ वा-- प्रकर्षप्रत्यान्तः स्वरूपशब्दान्तरमेवैतदिति। अपरे त्वाहु-- "अनुदात्तं पदमेकवर्जम्" ६।१।१५२ इति वचनेन प्लुतश्चोदात्तः। अन्यस्त्वनुदात्ततर इति।

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ विभाषा १।१ छन्दसि ७।१ एकश्रुति १।१ ३३

अर्थः॥

छन्दसि विषये, उदात्तानुदात्तस्वरितस्वराणाम् एकश्रुतिः भवति विकल्पेन, पक्षे त्रैस्वर्यमेव॥

उदाहरणम्॥

अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम् (ऋ॰ १।१।१)॥ इषे त्वोर्जे त्वा वयवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण॰ (य॰ १।१।१)॥ अग्न आ याहि वीतये गृणानो हव्यदातये। निहोता सत्सि बर्हिषि (सा॰ १।१।१)॥ ये त्रिषप्ताः परियन्ति विश्वा रूपाणि विभ्रतः। वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे (अथ॰ १।१।१)॥
काशिका-वृत्तिः
विभाषा छन्दसि १।२।३६

छन्दसि विषये विभाषा एकश्रुतिर् भवति। पक्षान्तरे त्रैस्वर्यम् एव भवति। वा इति प्रकृते विभाषाग्रहनं यज्ञकर्मणि इत्यस्य निवृत्त्यर्थम्। तेन अयं स्वाध्यायकाले ऽपि पाक्षिक ऐकश्रुत्यविधिर् भवति। इषे त्वोर्जे त्वा। इषे त्वोर्जे त्वा। अग्न आयाहि वीतये। अग्न आयाहि वीत्ये। अग्निमीले पुरोहितम्। अग्निमीले पुरोहितम्। शं नो देवीरभैष्टये। शं नो देवीरभैष्टये।
न्यासः
विभाषा छन्दसि , १।२।३६

"इषे त्वा" इत्यादि। "इषु इच्छायाम्" (धा।पा।१३५१), "अन्येभ्योऽपि दृश्यते" ३।२।१७८ इति क्विप्। इडस्यास्तीति लुगधिकारस्य "अप्रत्ययः" (वा। ४९२) इत्यनेनोपसंख्यानेन अकारप्रत्ययः, प्रत्ययस्वरेणाद्युदात्तः, इषशब्दात् सप्तम्येकवचनम्, "आद्गुणः" ६।१।८४ , "एकादेश उदात्तेनोदात्तः" ८।२।५। युष्मच्छब्दस्य द्वितीयान्तस्य "त्वामौ द्वितीयायाः" ८।१।२३ इति त्वामादेशः, स त्वनुदात्तः; "अनुदात्तं सर्वमपादादौ" ८।१।१८ इत्यधिकारात्। "अग्ने" इति। "आमन्त्रितस्य च" ६।१।१९२ इति षाष्ठिकमाद्युदात्तत्वम्। आङपूर्वात् "या प्रापणे" (धा।पा।१०४९) इत्यस्माल्लोट, सिप्, सेर्हिरादेशः, आङ "उपसर्गाश्चाभिवर्जम्" (फि।सू।४।८१) इत्युदात्तः। "तिङङतिङ" ८।१।२८ इति याहीत्यस्य निघातः। "वी गत्यादिषु" (धा।पा।१०१९) "मन्त्रेवृषेषपच" ३।३।९६ इत्यादिना क्तिन्नुदात्तः, चतुर्थ्येकवचने प्रत्यये "घेर्ङिति" ७।३।१११ इति गुणः, अयादेशः, द्वावपि स्थानिवद्भावेनोदात्तौ, शेषमनुदात्तम्। अग्निशब्दः पूर्ववन्निप्रत्ययस्वरेणान्तोदात्तः। द्वितीयैकवचनेऽमि पूर्वत्वम्। "एकादेश उदात्तेनोदात्तः" ८।२।५। "ईड स्तुतौ" (धा।पा।१०१९)। अनुदात्तेत्त्वादात्मनेपदम्। "तिङङततिङः" ८।१।२८ इतीडेशब्दस्य निघातः। पुरः पूर्वस्मिन् देश इति विगृह्र "पूर्वापराधरावराणामसि पुरधवश्चैषाम्" ५।३।३९ इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः। पुरः शब्दः प्रत्ययस्वरेणान्तोदात्तः। दधातेर्निष्ठायां "दधातेर्हिः" ७।४।४२ इति हिरादेशः। "पुरोऽव्ययम्" १।४।६६ इति गतिसंज्ञायां सत्यां "कुगतिप्रादयः" २।२।१८ इति समासः। समासस्यान्तोदात्तत्वे प्राप्ते "गतिरनन्तरः" ६।२।४९ इति पूर्वपदप्रकृतिस्वरेण पुरः शब्दोऽन्तोदात्तः। शंशब्दश्चादित्वान्निपातः। निपातस्वरेणाद्युदात्तः। अस्मच्छब्दस्य षष्ठी, "बहुवचनस्य वस्न सौ" ८।१।२१ इत#इ नसादेशोऽनुदात्तः,अनुदात्ताधिकारात्। दिवः पचाद्यच्॥ पचादिषु देवडिति पठ()ते। "टिड्()ढाणञ्" ४।१।१५ ङीप् अनुदात्तः,"यस्येति च" ६।४।१४८ इत्यकारलोपः। "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इति ङीबुदात्तः। द्वितीयाबहुवचने "प्रथमयोः पूर्वसवर्णः" ६।१।९८ इति पूर्वसवर्णदीर्घत्वम्। "एकादेश उदात्तेनोदात्तः" ८।२।५। "ष्टुञ् स्तुतौ" (धा।पा।१०४३), अभिपूर्वात्ृदोरप्" ३।३।५७ इत्यप्, गुणावादेशौ। वर्णव्यत्ययेन वकारस्य यकारः। "गतिकारक" ६।२।१३८ इत्त्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते "अन्तः" ६।२।१४२ इति वर्तमाने "थाथघञ्क्ताजवित्रकाणाम्" ६।२।१४३ इत्त्युत्तरपदान्तोदात्तत्वम्। सप्तम्येकवचम्। "आद्गुणः" ६।१।८४ "एकादेश उदात्तेनोदात्तः" ८।२।५ तस्मात् "अभिष्टये" शब्दोऽन्तोदात्तः॥

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ सुब्रह्मण्यायाम् ७।१ स्वरितस्य ६।१ ३८ तु उदात्तः १।१

काशिका-वृत्तिः
न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः १।२।३७

सुब्रह्मण्या नाम निगदस् तत्र यज्ञकर्मणि इति विभाषा छन्दसि १।२।३६ इति च एकश्रुतिः प्राप्ता प्रतिषिद्यते। सुब्रह्मण्यायाम् एकश्रुतिर् न भवति। यस् तु लक्षणप्राप्तः स्वरितस् तस्यौदात्त आदेशो भवति। सुब्रह्मन्योम्। इन्द्रागच्छ, हरिव आगच्छ, मेधातिथेर्मेष वृषणश्वस्य मेने। गौरावस्कन्दिन्नहल्यायै जार कौशिकब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन्। अत्र सुब्रह्मण्योम् इत्योकारस् तित्स्वरेण स्वरितस् तस्यौदात्तो विधीयते। इन्द्र आगच्छ इत्यामन्त्रितम् आद्युदत्तम्। द्वितीयो वर्णो ऽनुदात्तः। उदात्तादनुदातस्य स्वरितः इति स्वरितः प्रसक्तस् तस्य अनेनौदात्तः त्रियते। तदेवम् इन्द्र आगच्छ इति चत्वार उदात्ताः। पश्चिम एको ऽनुदात्तः। हरिव आगच्छ इत्यनयैव प्रक्रियया चत्वार उदात्ताः द्वावनुदात्तौ। मेधातिथेः इति षष्ट्यन्तं परमामन्त्रितम् अनुप्रविशति सुबामन्त्रिते पराङ्गवत्स्वरे २।१।२ इति। ततः सकलस्या मन्त्रिताद्युदात्तत्वे इऋते द्वितीयम् अक्षरम् अनुदात्तं, तस्य उदात्तादनुदात्तस्य स्वरितः ८।४।६५ इति स्वरितत्वे प्राप्ते इदमुदात्तत्वं विधीयते। तेन द्वावप्युदात्तौ भवतः। शेषमनुदात्तम्। वृषणश्वस्य मेने इति समानं पूर्वेण। गौरावस्कन्दिनिति तथैव द्वे आद्ये अक्षरे उदात्ते, शेषम् अनुदात्तम्। अहल्यायै जार इति सुबन्तस्य अमन्त्रितानुप्रवेशात् तद्वदेव स्वरः। द्वावुदात्तौ शेषम् अनुदात्तम्। कौशिकब्रह्मण इति समस्तमामन्त्रितमाद्युदात्तं तत्र पूर्ववद् द्वावुदात्तौ शेषम् अनुदात्तम्। एवम् गौतमब्रुवाण इति द्वावुदात्तौ शेषम् अनुदात्ताम्। श्वः सुत्यामागच्छ मघवनिति श्वःशब्द उदात्तः सुत्याम् इत्यन्तोदात्तः। संज्ञायां समजनिषदनिपतमनविदषुञ् शीङ्भृञिणः ३।३।९९ इति क्यपो विधाने उदात्तः इति वर्तते। अगच्छ इति द्वौदात्तौ। अन्त्यो ऽनुदत्तः। मघवनिति पदात् परमामन्त्रितं निहन्यते।
न्यासः
न सुब्राहृण्ययां स्वरितस्य तूदात्तः। , १।२।३७

"सुब्राहृण्या नाम निगदः" इति। अपादबन्धे गदतिर्वर्तते। अपादबन्धं हि गद्यमुच्यते। निशब्दः प्रकर्षे। यदुच्चैरविच्छिन्नमपादबन्धं मन्त्रवाक्यं निगद इति तस्य व्यपदेशः। तस्य च सुब्राहृण्योपलक्षमत्वात्, "सुब्राहृण्या" इति स्त्रीलिङ्गनिर्देशः। "सुब्राहृण्योम्" इति। सुब्राहृणि साधुः।"तत्र साधुः" ४।४।९८ इति यत्। "तत् स्वरितम्" ६।१।१७९ इति स्वरितत्वम्, "प्रणवष्टेः" ८।२।८९ इत्योङ्कार आदेश इति केचित्, तदयुक्तम्; "पादस्य वाद्र्धर्चस्य वान्त्यमक्षरमुपसंह्मत्य तदाद्यक्षरशेषस्य स्थाने? त्रिमात्रमोकारमोङ्कारं वा विदधति तं प्रणवमित्याचक्षते" इति {काशिका-८।२।८९}वक्ष्यति। न च निगदे पादव्यवस्था, नाप्यद्र्धर्चव्यवस्था। तस्मादोशब्दोऽस्ति निपातोऽनर्थकः। तस्य स्वरितेन सहैकादेशः स्वरितः। "आमन्त्रितमाद्युदात्तम्" इति। "आमन्त्रितस्य च" ६।१।१९२ इत्यनेन षाष्ठिकेन। "त्सयानेनोदात्तः क्रियते" इति। ननु चासिद्धोऽसौ स्वरितः; वचनात् तस्यासिद्धत्वं न भवति। ननु च वचनस्य सुब्राहृण्योमिति प्रयोजनं वक्तुं शक्यम्? न हि समस्ते निगदे सुब्राहृण्याशब्दनोपलक्षिते सतीदमेकमुदाहरणं युक्तम्। "अकार उदात्तः" इति। निपातस्वरेण। "ततः परोऽनुदात्तः स्वरितः" इति। "तिङङतिङ" ८।१।२८ इति निघाते कृते, "उदात्तादनुदात्तस्य स्वरितः" ८।४।६५ इत्यनेन। "पश्चिम एकः" इति। छकाराकारः। "चत्वार उदात्ताः" इति। वकारच्छाकाराभ्यामन्ये। "द्वावनुदात्तौ" इति। वकारच्छकारौ। "द्वितीयमक्षरम्" इति। मेधाशब्दाकारः। "शेषमनुदात्तम्" इति। मेधाशब्दे यावचौ ताभ्यामन्यत्। "पूर्वेण" इति। मेधातिथेर्मेषेत्यनेन। "तथैव द्वे आद्ये अक्षरे उदात्ते" इति। "यदि गौरावस्कन्दिन्" इति समस्तमामन्त्रितमाद्युदात्तमिति। अथापि गौरेति शब्दान्तरमामनन्ति, तथापि तस्यापि प्रवेशे कृते सकलस्यामन्त्रितस्याद्युदात्तत्वे "उदात्तादनुदात्तस्य" ८।४।६५ इत्यादिना पूर्वोक्तेन विधिना द्वे उदात्ते भवतः। "अहल्यायै जार" इति। षष्ठ()र्थे चतुर्थी, "बहुलं छन्दसि" २।३।६२ इत्यत्र "षष्ठ()र्थे चतुर्थी वक्व्या" (वा।१४२) इत्युपसङ्ख्यानात्; "व्यत्ययो बहुलम्" ३।१।८५ इति व्यत्ययेन वा। "समस्तमामन्त्रितमाद्युदात्तम्" इति। कौशिकशब्दस्य परामन्त्रितानुप्रवेशात्। "एवं गौतमब्राउवाण" इति। एतदपि कौशिकब्राआहृणेत्यनेन तुल्यमित्यर्थः। "द्वावुदात्तौ" इति। अनन्तरयोरुदाहरणयोः प्रत्येकमाद्यवित्यर्थः। "()आः शपब्द उदात्तः" इति। प्रातिपदिकस्वरेण। "उदात्त इति वर्तते" इति। "मन्त्रे वृष" ३।३।९६ इत्यादेः सूत्रात्। "द्वावुदात्तौ" इति। तौ पुनरादी आगच्छेत्यत्र दर्शितौ। "पदात् परमामन्त्रितं निहन्यते" इति। "आमन्त्रितस्य च" ८।१।१९ इत्यनेन।

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ देवब्रह्मणोः ६।२ अनुदात्तः १।१ स्वरितस्य ६।१ ३७

काशिका-वृत्तिः
देवब्रह्मणोरनुदात्तः १।२।३८

सुब्रह्मण्यायाम् एव देवा ब्रह्माणः इति पठ्यते, तत्र पूर्वेण स्वरितस्य उदात्ते प्राऽप्ते ऽनेनानुदात्तो विधीयते। देवब्रह्मणोः स्वरितस्य अनुदात्त आदेशो भवति। देवा ब्रह्माण आगच्छत। द्वयोरपि पदयोरामन्त्रिताऽद्युदात्तत्वे शेषनिघाते च उदात्तादनुदात्तस्य स्वरितः कृतस् तस्यानुदात्तो भवति।
न्यासः
देवब्राहृणोरनुदात्तः। , १।२।३८

"द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे कृते" इति। "विभाषितं विशेषितं विशेषवचने बहुवचनम्" ८।१।७४ इति पूर्वस्याविद्यामानत्वात् "आमन्त्रितस्य च" ८।१।१९ इति पदात् परस्यापि निघातो न भवति। तेन द्वयोरपि पृथगेव षाष्ठिकमाद्युदात्तत्वं भवति। "शेषनिघातः" इति। "अनुदात्तं पदमेकवर्जम्" ६।१।१५२ इत्यनेन।

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ स्वरितात् ५।१ संहितायाम् ७।१ अनुदात्तानाम् ६।३ ४०

काशिका-वृत्तिः
स्वरितात् संहितायाम् अनुदात्तानाम् १।२।३९

एकश्रुतिः इति वर्तते। संहितायं विशये स्वरितात् परेषाम् अनुदात्तानाम् एकश्रुतिर् भवति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। माणवक जटिलकाध्यापक क्व गमिष्यसि। इमम् इत्यन्तौदात्तं, मे इति अनुदात्तं विधिकाल एव निघातविधानात्। तत् पुनः उदात्तादनुदातस्य स्वरितः ८।४।६५ इति स्वरितं सम्पद्यते। तस्मात् स्वरितात् परेषाम् अनुदात्तानां गङ्गेप्रभृतीनाम् एकश्रुतिर् भवति। सर्व एते आमन्त्रितनिघातेन अनुदात्ताः। माणवक जटिलक इति प्रथमम् आमन्त्रितमाद्युदात्तं, तस्य द्वितीयम् अक्षरम् स्वरितं, ततः परेषाम् अनुदात्तानाम् एकश्रुतिर् भवति। संहिताग्रहणं किम्? अवग्रहे मा भूत्। इमम् मे गङ्गे यमुने सर्स्वति।
न्यासः
स्वरितात्संहितायामनुदात्तानाम्। , १।२।३९

"अनुदात्तानाम्" इति जातौ बहुवचनम्। तेन द्वयोरपि भवति। "इममित्यन्तोदात्तम्" इति। इदंशब्दस्य कमिप्रत्ययान्तत्वात् प्रत्ययस्वरेणान्तोदात्त्त्वम्, तस्य त्यदात्यत्वे "अतो गुणे" ६।१।९४ पररूपत्वे तस्याप्येकादेश ८।२।५ उदात्तेनोदात्तत्वात्। "विधिकल एव" इति। "तेमयावेकवचनस्य" ८।१।२२ इति विधिकाल एव निघातविधानात्। "सर्व एत आमन्त्रितनिघातेनानुदात्ताः" इति। यद्यपि ""आमन्त्रितं पूर्वमविद्यमानवत्" ८।१।७२ इति, तथापि मेशब्दापेक्षया सर्वेषां निघातापत्तेः। "प्रथमामन्त्रितमाद्युदात्तम्" इति। "आमन्त्रितस्य च" ६।१।१९२ इति षाष्ठिकेन। "तस्य द्वितीयमक्षरं स्वरितम्" इति। "उदात्तादनुदात्तस्य स्वरितः" ८।४।६५ इति। "ततः परेषामनुदात्तानाम्" इति। "नामन्त्रिते समानाधिकरणे सामान्यवचनम्" ८।१।७३ इत्यविद्यमानत्वस्य प्रतिषेधे सति माणवकात् परयोः "आमन्त्रितस्य च" ८।१।१९ इति निघातविधानात् परेऽनुदात्ताः। "अवग्रहे मा भूत" इति। अवग्रहः = असंहितापाठः। ननु च स्वरितादिति पञ्चमी, तेन "तस्मादित्युत्तरस्य" १।१।६६ इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थकत्वादवग्रहे प्राप्तिरेव नास्ति, यथैव हि वर्णो व्यवधायकस्तथा कालोऽपि, तत् किं संहिताग्रहणम्? पञ्चमीनिर्देशकालो न व्यवधायक इति ज्ञापनार्थम्। तेन "तिङङतिङः" ८।१।२८ इत्यत्रावग्रहेऽतिङन्तात् परं तिङन्तं निहन्यते॥
तत्त्व-बोधिनी
नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ७९८, १।२।३९

नपुंसकमन। अन्यतरस्याङ्ग्रहणम् "एकवच्चे"त्यनेनैवानन्तर्यात्संबन्ध्यते, न त्वेकशेषेणेत्याशयेनाह--क्लीबं शिष्यते तच्च वा एकवदिति। अनपुंसकेनेति किम्()। शुक्लं च शुक्लं च शुक्ले। अत्र "एकवच्चे"ति न भवति। "अस्य"ग्रहणम् "अस्यैवैकशेषस्य एकवद्भावो यथा विज्ञायेते"त्येवमर्थम्। अन्यथा उत्तरत्राप्येकवदित्यस्यानुवृत्तिः शङ्क्येत। शुक्लः पट इत्यादि। "शुक्लः शुक्ला शुक्ल"मित्येव विग्रहः, "पटः पटी"त्यादिप्रदर्शनं तु शुक्ल शब्दस्य गुणुलिङ्गत्वस्फोरणाय।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ उदात्तस्वरितपरस्य ६।१ सन्नतरः १।१ अनुदात्तानाम् ६।३ ३९

काशिका-वृत्तिः
उदात्तस्वरितपरस्य सन्नतरः १।२।४०

अनुदात्तग्रहणम् अनुवर्तते। उदात्तः परो यस्मात् स उदात्तपरः स्वरितः परो यस्मात् स स्वरितपरः। उदात्तपरस्य स्वरितपरस्य च अनुदात्तस्य सन्नतर आदेशो भवति। अनुदात्ततरः इत्यर्थः। देवा मरुतः पृश्निमातरो ऽपः। मातरः इत्यनुदात्तः। अपः इत्यन्तौदात्तः ऊडिदंपदाद्यप्पुम्रैद्युभ्यः ६।१।१६५ इति। तत्र अनुदात्तयोरेकादेश ओकारो ऽनुदात्तः तस्यौदात्ते परभूते सन्नतर आदेशो भवति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। इकारो ऽनुदात्तः। शुतुद्रि इत्येतदामन्त्रितं पादादौ तस्मान् न निहन्यते, अनुदात्तं सर्वम् अपादादौ ८।१।१८ इति। तस्य प्रथमम् अक्षरम् उदात्तं तस्मिन् परभूते पूर्वस्य सरस्वति इति इकारस्य सन्नतर आदेशो भवति। माणवक जटिलकाद्यापक क्व गमिष्यसि। क्व इति स्वरितस् तस्मिन् परभूते क इति अनुदत्तस् तस्य सन्नतर आदेशो भवति।
न्यासः
उदात्तस्वरितपरस्य सन्नतरः। , १।२।४०

"मातर इत्यनुदात्तः" इति। अनुदात्तत्वं तु विभक्तिस्वरेण। मातर इति मातृशब्दाज्जस्, "ऋतो ङिसर्वनामस्थानयोः" ७।३।११० इति गुणः। जसः सकारस्य रुत्वम्। तस्याप्यशब्दे शसन्ते परतः "अतो रोरप्लुतादप्लुते" ६।१।१०९ इत्युत्वम्। "आद्गुणः" ६।१।८४ "उडिदम्" ६।१।१६५ इत्यादिना विभक्तेरन्तोदात्तत्वे कृते "एङः पदान्तादति" (६१।१०९) इतिय ओकारः, सोऽपि स्थानिवद्भावेनानुदात्तो भवति। "तस्योदात्ते परभूते" इति। विभक्त्यकारे। "इकारोऽनुदात्तः" इति। सरस्वतीतिशब्दसम्बन्धी; "आमन्त्रित्सय च" ८।१।१९ इति सरस्वतीशब्दस्य निघातविधानात्। "तस्मान्न निहन्यते" इति। "अनुदात्तं सर्वमपादादौ" ८।१।१८ इत्यत्रापादादाविति निघातप्रतिषेधात्। "प्रथममक्षरम्" इति। शकारोकार उदात्तः, "आमन्त्रितस्य च" ६।१।१९२ इति षाष्ठिकेन।

प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अपृक्त १।१ एकाल् १।१ प्रत्ययः १।१

समासः॥

एकश्च असौ अल् च, एकाल्, कर्मधारयः तत्पुरुषः

अर्थः॥

एकाल् प्रत्ययः अपृक्तसंज्ञकः भवति। असहायवाची एकशब्दः।

उदाहरणम्॥

वाक्, लता, कुमारी। घृतस्पृक्, अर्धभाक्, पादभाक्॥
काशिका-वृत्तिः
अपृक्त एकाल् प्रत्ययः १।२।४१

अपृक्तः इति इयं संज्ञा भवति एकाल् यः प्रत्ययस् तस्य। असहायवाची एकशब्दः। स्प्शो ऽनुदके क्विन् ३।२।५८ धृतस्पृक्। भजो ण्विः ३।२।६२ अर्धभक्। पादभाक्। एकालिति किम्? दर्विः। जागृविः। प्रत्यय इति किम्? सुराः। अपृक्तप्रदेशाः वेरपृक्तस्य ६।१।६५ इत्येवम् आद्यः।
लघु-सिद्धान्त-कौमुदी
अपृक्त एकाल् प्रत्ययः १७८, १।२।४१

एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्॥
न्यासः
अपृक्त एकाल्प्रत्ययः। , १।२।४१

"घृतस्पृक्" इति। "क्विन्प्रत्ययस्य कुः" ८।२।६२ इति कुत्वम् = शकारस्य खकारः, तस्य जश्त्वम् = खकारस्य गकारः। "अद्र्धभाक्" इति। "चोः कुः" ८।२।३० इति जकारस्य गकारः। उभयत्र "वाऽवसाने" ८।४।५५ इत चर्त्वं ककारः। त्तरापृक्तसंज्ञायां सत्याम् " वेरपृक्तस्य" ६।१।६५ इति वकारलोपो भवति। प्रत्युदाहरणेषु हि तदभावान्न भवति। "दर्विः" इति। "दृ विदारणे" (धा।पा।१४९३) "वृ दृभ्यां विन्" (द।उ।१।२३) इति विन्। "जागृविः" इति। "जागृ निद्राक्षये" (धा।पा।१०७२), "जृशृस्तृजागृभ्यः क्विन्" (द।उ।१।२४) इति क्विन्। "सुराः" इति। "षूञ् अभिषवे" (धा।पा।१२४७), सुरां सुनोतीति "अन्यभ्योऽपि दृश्यते" ३।२।१७८ इति क्विप्; सुरासुत्, ह्यस्वस्य तुक्। "तमाचष्टे " (वा। २०१) इति णिच्। "णाविष्टवत् कार्यं प्रातिपदिकस्य" (वा।८१३) इति टिलोपः। सुरासवतेः पुनः क्विप्, णिलोपः, प्रथमैकवनचम्, हल्ङ्यादिना६।१।६६ सुलोपः; रुत्वविसर्जनीयौ। अत्रापि णिलोपे कृतेऽसति प्रत्ययग्रहणे धातुकारस्यापृक्तसंज्ञा स्यात्। तस्यां च सत्यां "हल्ङ्याब्भ्यः" ६।१।६६ इति धातुसकारलोपऋः स्यात्। ननु चासत्यपि प्रत्ययग्रहणे "प्रत्याप्रत्ययोः प्रत्ययस्यैव ग्रहणम्" (व्या।प।७२) इति संज्ञा विज्ञास्यते, तत् किमर्थं प्रत्ययग्रहणम्? क्रियते विस्पष्टार्थम्। अथैकग्रहणं किमर्थम्? अल्समुदायस्य मा भूदिति, नैतदस्ति; अल्ग्रहणसामथ्र्यान्न भविष्यति, अन्यथा ह्रल्ग्रहणमनर्थकं स्यात्- यदि हल्समुदायस्यापि संज्ञा स्यात्। एवं तह्र्रल्ग्रहणेनात्र जातिग्रहणं भवतीति ज्ञापनार्थमेकग्रहणमम्। तेन "हलन्ताच्च" १।२।१० इत्यत्र यदुक्तम्--"दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम्" इति तदुपपन्नं भवति।
बाल-मनोरमा
अपृक्त एकाऽल्प्रत्ययः २४९, १।२।४१

सखान् स् इति स्थिते अपृक्तकार्यं वक्ष्यन्नपृक्तसंज्ञामाह--अपृक्तः। एकालिति कर्मधारयः। अत्रैकशब्दो।ञसहायवाची। "एके मुख्यान्यकेवलाः" इत्यमरः। "स्" इत्यस्याऽपृक्तसंज्ञायाम्।

तत्त्व-बोधिनी
अपृक्त एकाऽल्प्रत्ययः २१०, १।२।४१

अपृक्त एकाल्। असहायावाच्यत्रैकशब्दः सङ्ख्यावाची वा। न च सङ्ख्यावाचित्वे "अभैत्सी"दित्यत्र हलन्तात्परस्य सिचोऽपृक्तत्वाल्लोपः स्यादिति वाच्यं, विभक्तिसाहचर्याद्विभक्तेरेव लोप इति व्याख्यानात्। एकालिति किम्? जागृविः। "वरेपृक्तस्ये"ति लोपो न। "अ"लित्यनेनैकत्वे लब्धे इदमेकग्रहण वर्णग्रहणं ज्ञापयतीति। फलं दम्भितुमिच्छति धिप्सतीत्यत्र सनो "हलन्ताच्चे"ति कित्त्वम्। तत्र हल्ग्रहणस्य व्यक्तिपरत्वे योऽत्रैकः समीपबर्ती हल्नकारस्ततः परः सन् न, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात्। ततश्च नलोपो न स्यादित्यभ्युपगम्य "निपात एकाजना" ङित्यत्र एकाज्ग्रहणं त्युक्तुं शक्यमित्यवोचान।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तत्पुरुषः १।१ समानाधिकरणः १।१ कर्मधारयः १।१

समासः॥

समानम् अधिकरणं यस्य समानाधिकरणः तत्पुरुषः, बहुव्रीहिः॥

अर्थः॥

समानाधिकरणः तत्पुरुषः कर्मधारयसंज्ञकः भवति। तत्पुरुषः इति समासविशेषस्य संज्ञा।

उदाहरणम्॥

पाचकवृन्दारिका, परमराज्यम्, उत्तमराज्यम्॥
काशिका-वृत्तिः
तत्पुरुषः समानाधिकरणः कर्मधारयः १।२।४२

तत्पुरुषः इति समासविशेषस्य संज्ञां वक्ष्यति। स तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति। अधिकरणशब्दो ऽभिधेयवाचि। समानाधिकरणः समानाभिधेयः। परमराज्यम्। उत्तमराज्यम्। अकर्मधारये राज्यम् ६।२।१२९ इत्युत्तरपदाऽद्युदात्तं न भवति। पाचकवृन्दारिका। तत्पुरुषः इति किम्? पाचिकाभार्यः। समानाधिकरणः इति किम्? ब्राह्मणराज्यम्। कर्मधारयप्रदेशाः कर्मधारये ऽनिष्ठा ६।२।४६ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तत्पुरुषः समानाधिकरणः कर्मधारयः ९४३, १।२।४२

न्यासः
तत्पुरुषः समानाधिकरणः कर्मधारयः , १।२।४२

"तत्पुरुषः" इति समासविशेषस्याख्या। स च एक एवशब्दः। अनेकस्य च शब्दस्य भिन्नप्रवृत्तिनिमित्तकस्यैकस्मिन्नर्थे वृत्तिः =सामानाधिकारण्यम्। ततश्च यत्र बाह्रेन पदेन तत्पुरूषस्य सामानधिकरण्यम्(), तत्रैवेयं संज्ञा स्यात्--राजपुरुषः शोभन इत्यादौ,अस्ति ह्रत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति; शोभनशब्देन सह। पाचकवृन्दारिकेत्यादौ तु न स्यात्, न ह्रत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति; शब्दान्तरस्य प्रयोगाभावादिति चोद्यमपाकर्त्तुमाह- "समानाधिकरणपदः" इति। समानम् = अभिन्नम्, एकमधिकरणम् = वाच्यं येषां पदानां तानि समानाधिकरणानि पदानि, तान्याश्रयभूतानि यस्य तत्पुरुषस्य स समानाधिकरणपदस्तत्पुरुषः। एतेन तत्पुरुषार्थानां पदानां समानाधिकरणत्वादुपचारेण तत्पुरुषोऽत्र सूत्रे समानाधिकरणशब्देनोक्त इति दर्शयति। कथं पुनर्बाह्रन्यपदापेक्षया तत्पुरुषस्य मुख्ये सामानाधिकरण्ये सम्भवति सत्यौपचारिकस्य ग्रहणमुपपद्यते? "कर्मधारयः" इति महत्याः संज्ञायाः करणात्। इह हि लाघवार्थत्वात् कसंज्ञाकरणस्य, लघीयस्यां संज्ञायां कत्र्तव्यायां "कर्मधारयः" इति महतीं संज्ञां कुर्वता-- "अन्योऽप्यत्र कश्चित् विपर्ययः संज्ञायामाश्रितः" इत्येषोऽर्थः सूचितः। तेन "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः" (व्या।प।४) इति मुख्यस्य समानाधिकरणस्य ग्रहणं न विज्ञायते। "समानाभिधेयः" इति। तदर्थानां पदानां समानाभिधेयत्वात् तत्पुरुषोऽप्युपचारेण समानाभिधेय इत्युक्तः। "परमराज्यम्, उत्तमराज्यम्" इति। "सन्महत्" २।१।६० इत्यादिना समासः। कर्मधारये सति "अकर्मधारये राज्यम्" ६।२।१२९ इत्युत्तरपदाद्युदात्तमत्वं न भवति। "पाचकवृन्दारिका" इति। वृन्दारकनागकुञ्जरैः" २।१।६१ इति पुंवद्भावः। "पाचिकाभार्यः" इति। बहुव्रीहिरयम्। तेनात्र "न कोपधायाः" ६।३।३६ इति प्रतिषेधो भवत्येव। "ब्राआहृणराज्यम्" इति। षष्ठीतत्पुरुषोऽयम्। तेनात्र समासान्तोदात्तमेव न भवति, अपि तूत्तरपदाद्युदात्तत्वम्॥
बाल-मनोरमा
तत्पुरुषः समानाधिकरणः कर्मधारयः ७३५, १।२।४२

अथ कर्मधारयकार्यं वक्ष्यन्करमधारयसंज्ञामाह--तत्पुरुषः समाना। समानम्-एकमधिकरणं=वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्त इति समानाधिकरणः, मत्वर्थीयोऽर्शाअद्यच्। समानाधिकरणानेकपदावयवकस्तत्पुरुषः कर्मधारयसंज्ञको भवतीत्यर्थः। तत्पुरुषाधिकारे इयं संज्ञा न कृता, तथा सत्येकसंज्ञाधिकारात्कर्मधारधारयसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्याहुः।

तत्त्व-बोधिनी
तत्पुरुषः समानाधिकरणः कर्मधारयः ६५०, १।२।४२

तत्पुरुषः। समानाधिकरणशब्दोऽर्साअद्यजन्तः। समानाधिकरणपा()क इत्यर्थः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ प्रथमा-निर्दिष्टम् १।१ समासे ७।१ ४४ उपसर्जनम् १।१ ४४

समासः॥

प्रथमया विभक्त्या निर्दिष्टं प्रथमानिर्दिष्टम्, तृतीयातत्पुरुषः।

अर्थः॥

समासे = समासविधायके सूत्रे प्रथमया विभक्त्या विर्दिष्टं यत् पदं तद् उपसर्जनसंज्ञकं भवति।

उदाहरणम्॥

कष्टश्रितः, शङ्कुलाखण्डः, यूपदारु, वृकभयम्, राजपुरुषः, अक्षशौण्डः॥
काशिका-वृत्तिः
प्रथमानिर्दिष्टं समास उपसर्जनम् १।२।४३

प्रथमया विभाक्त्या यन् निर्दिश्यते समासशास्त्रे तदुपसर्जनसंज्ञं भवति। समासे इति समासविधायि शास्त्रं गृह्यते। वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपन्नैः २।१।२३ इति। द्विदीयासमासे द्वितीया इत्येतत् प्रथमानिर्दिष्टं, तृतीयासमासे तृतीया इति, चतुर्थीसमासे चतुर्थी इति, पञ्चमीसमासे पञ्चमी इति, षष्ठीसमासे षष्ठी इति, सप्तमीसमासे सप्तमी इति। कष्टश्रितः। शङ्कुलाखण्डः। यूपदारु। वृकभयम्। राजपुरुषः। अक्षशौण्डः। उपसर्जनप्रदेशाः उपसर्जनं पूर्वम् २।२।३० इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
प्रथमानिर्दिष्टं समास उपसर्जनम् ९१२, १।२।४३

समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात्॥
न्यासः
प्रथमानिर्दिष्टं समास उपसर्जनम्। , १।२।४३

"समासे" इत्यधिकरणनिर्देशोऽयम्। कष्टश्रितादयः समासाः न किञ्चित् प्रथमानिर्दिष्टं शब्दरूपमस्ति। तथा हि-- समासे कृते तत एव समासाद् विभक्तिरुत्पद्यते, न तु तत्र स्थाच्छब्दात्। न च वाक्यकाले समासार्थात् पदाद् या प्रथमोत्पन्ना तदाश्रयं प्रथमानिर्दिष्टत्वं समासावयवस्य कल्पयितुं युक्तम्, यतः "समासे" इत्यधिकरणनिर्देशोऽयम्। तत्र समासे कृते यस्मात् प्रथमोत्पद्यते, तदेव समासे प्रथमानिर्दिष्टं भवति; न तु यस्मात् वाक्यकाले विभक्तिकाले विभक्तिरुत्पद्यते। तद्धि वाक्य एव प्रथमानिर्दिष्टम्, न तु समासे; प्रागेव समासात् तस्य प्रथमानिर्दिष्टत्वात्। ततश्च समासे कृते प्रथमानिर्दिष्टस्य संज्ञिनोऽसम्भवात् संज्ञा न सम्भवीत्येतच्चोद्यमपाकर्तुमाह- "प्रथमया विभक्त्या यन्निर्दिश्यते" इति। समासार्थं यच्छास्त्रं तत् समासशास्त्रं गृह्रते। तत्र प्रथमानिर्दिष्टस्येयं संज्ञा विधीयते, न तु कष्टश्रितादौ; समासे प्रथमानिर्दिष्टस्याविद्यामानत्वात् विद्यते च समासशास्त्रे प्रथमानिर्दिष्टं संज्ञीति कुतः संज्ञाया अप्रसिद्धिः? कथं पुनः "समासे" इत्युच्यमाने समासशास्त्रे यत् प्रथमया निर्दिश्यते तस्य संज्ञित्वं लभ्यत इत्यत आह-- "समासे" इति। "समासशास्त्रं गृह्रते इति। कथं पुनः "समासे" इत्युच्यमाने समासशास्त्रं ग्रहीतुं शक्यम्? तादथ्र्यात् तत्र समासशब्दस्य प्रवृत्तेः। भवति हि तादथ्र्यात् तावच्छब्द्यम् , यथा-- प्रदीपार्था मल्लिका "प्रदीपः" इति, इन्द्रार्था स्थूणा "इन्द्रः" इति। कष्टश्रितादिषूपसर्जनसंज्ञयायाः कार्यम्-- "उपसर्जनं पूर्वम्" २।२।३० इति पूर्वनिपातः। तत्रेदं चोद्यते-- राज्ञः कुमारीं पश्य राजकुमारीं पश्येत्यत्र राजन्()शब्दः "षष्ठी" २।२।८ इति समासशास्त्रे प्रथमानिर्दिष्टः; "द्वितीया श्रितातीतपतित" २।१।२३ इति द्वितीयासमासशास्त्रे कुमारीशब्दश्च। समसाशास्त्रे तत्रोभयोरप्यस्यां संज्ञायां सत्यां पूर्वनिपातानियम उपसर्जनह्यस्वस्वत्वञ्चेत्येतद्दोषद्वयं प्राप्नोतीति। इह च राज्ञः कुमार्याः स्वं राजकुमारीस्वमिति द्वयोरपि षष्ठ()न्तयोः समासशास्त्रे प्रथमानिर्दिष्टत्वादुभयोरप्युपसर्जनसंज्ञायां सत्यां तदेव दोषद्वयं प्राप्नोति? नैष दोषः; यस्मादुसर्जनमिति महत्याः संज्ञायाः करणस्यैतदेव प्रयोजनम्-- अन्वर्थसंज्ञा यथा विज्ञायेतेति। अप्रधनामुपसर्जनम्, प्रधानमनुपसर्जमिति। अप्रधानञ्च प्रधानमपेक्षते; सम्बन्धिशब्दत्वात्। तत्र सम्नब्धादेतवगन्तव्यं यत् प्रति यदप्रधानं तत् प्रतितदुपसर्जनमिति। श्रितादींश्चापेक्ष्य द्वितीयान्तमुपसर्जनं भवति, न तु द्वितीयान्तमात्रम्। न चेह श्रितादयः सन्ति। राज्ञः कुमार्याः स्वं राजकुमारीस्वमित्यात्राप्येष परीहारः। अत्रापि कुमारीशब्दमपेक्ष्य राजन्शब्दस्याप्राधान्यम्; न तु राजन्()शब्दमपेक्ष्य कुमारीशब्दस्य। तस्मात् राजन्()शब्दस्योपसर्जनसंज्ञा, न तु कुमारीशब्दस्य। यदि ह्रन्वर्थसंज्ञेयम्, पाचकवृन्दारिका, पुरुषव्याघ्रः, अर्धपिप्पली, पूर्वकायः-- इत्येतेषु पूर्वपदार्थ एव प्रधानमिति पाचिकादीनामिह प्राधान्यम्। अतो यद्यप्येते "वृन्दारकनागकुञ्जरैः पूज्यमानम्" २।१।६१, "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" २।१।५५, "अर्धं नपुंसकम्" २।२।२, "पूर्वापराधरोत्तरमेकदेशिकनैकाधिकरणे" २।२।१ इत्येतेषु समासशास्त्रेषु प्रथमानिर्दिष्टाः, तथापि तेषामुपसर्जनसंज्ञा न प्राप्नोति; कुतः? तेषां प्राधान्यात्। एवं तर्ह्रुत्तरसूत्रेऽनुक्तसमुच्चयार्थत्वाच्चकारस्य भविष्यतीत्यदोषः। अन्यस्त्वेवं मन्यते-- "पाचकवृन्दारिकेत्येवमादिषु पूर्वोक्तेषु समासेष्वाद्यौ "विशेषणं विशेष्येण बहुलम्" २।१।५६, "उपमानानि सामान्यवचनैः" २।१।५४ इत्येताभ्यामेव सिद्धौ; शेषौ तु "षष्ठी" २।२।८ इत्यनेनैव। तस्मात् "वृन्दारकनागकुञ्जरैः" २।१।६१ इत्यादीनां न तदर्थ आरम्भः; किं तर्हि? उपसर्जन संज्ञार्थः; तेनासत्यपि पाचिकादीनामप्रधानत्वे तेषामियं संज्ञा भविष्यति" इति, एतच्चासम्यक्, तथा हि -- "पूज्यमानम्", "सामान्याप्रयोगे", "नपुंसकम्", "एकाधिकरणम्"-- इत्येतान् विशेषान् वक्ष्यामीत्येतदर्थ आरम्भः स्यात्। सति चैतदर्थ आरम्भेऽत्राप्रधानस्योपसर्जनसंज्ञा विधीयमाना प्रधानस्य न स्यात्॥
बाल-मनोरमा
प्रथमानिर्दिष्टं समास उपसर्जनम् ६४५, १।२।४३

अत्र उपसर्जनकार्यं वक्ष्यन्नुपसर्जनसंज्ञामाह-प्रथमानिर्दिष्टम्। ननु समासे प्रतमानिर्दिष्टमुपसर्जनमिति व्याख्याने असंभवः, समाससे सति "सुपो धातु" इति प्रथमाया लुप्तत्वात्। समासे चिकीर्षिते प्रथमानिर्धिष्टमिति व्याख्याने तु कृष्णं श्रितः कृष्णश्रित इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वं न स्यात्। श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्यात्। अतो व्याचष्टे-समासशास्त्रै इति। समास पदं समासविधायकशास्त्रपरमिति भावः। एवंच "द्वितीया श्रिते"ति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम्। एवंच "अव्यय"मिति समासविधावपेत्यस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्थितम्।

तत्त्व-बोधिनी
प्रथमानिर्दिष्टं समास उपसर्जनम् ५७२, १।२।४३

प्रथमानिर्दिष्टम्। अत्र समासपदं तद्विधायके लाक्षणिकम्। अन्यथा "चिकीर्षिते समासे यत्प्रथमान्त"मिति व्याख्यानप्रसक्त्या कृष्णश्रित इत्यादौ श्रितादिष्वतिप्रसङ्ग इत्याशयेनाह समासशास्त्र इथि। विग्रह इति। अनुवर्तमानेन समासग्रहणेन विग्रहे लक्ष्यत इति भावः। नतु तस्येति। "अनन्तरस्य--"इति न्यायात्पूर्वसूत्रेण विहितस्य पूर्वनिपातत्वं न निषिध्यते। तेन कुमारीश्रित इत्यादौ न दोषः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ एकविभक्ति १।१ अपूर्वनिपाते ७।१ समासे ७।१ ४३ उपसर्जनम् १।१ ४३

समासः॥

एका विभक्तिः यस्य तत् एकविभक्ति (पदं), बहुव्रीहिः॥ पूर्वः च असौ निपातः च इति पुर्वनिपातः, कर्मधारयः तत्पुरुषः। न पूर्वनिपातः अपूर्वनिपातः तस्मिन् अपूर्वनिपाते, नञ्तत्पुरुषः॥

अर्थः॥

समासे विधीयमाने, एकविभक्तिकं = नियतविभक्तिकं पदम् उपसर्जनसंज्ञं भवति, तत्सम्बन्धिपदं सर्वाभिः विभक्तिभिः युज्यमाने अपि, पूर्वनिपातम् उपसर्जनकार्यं वर्जयित्वा॥

उदाहरणम्॥

निष्कौशाम्बिः, निर्वाराणसिः। निष्त्रान्तः कौशाम्ब्या निष्कौशाम्बिः। निष्त्रान्तं कौशाम्ब्या निष्कौशाम्बिम्। निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना। निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये। निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ। हे निष्क्रान्त कौशाम्ब्या निष्कौशाम्बे। सर्वत्र एव अत्र -- कौशाम्ब्याः -- इति नियतविभक्तिकं पञ्चम्यन्तं पदं वर्त्तते, यद्यपि तत्सम्बन्धि -- निष्क्रान्त -- इति पदं बहुभिः विभक्तिभिः युज्यते। एवं -- निर्वाराणसिः -- इत्यपि बोध्यम्॥
काशिका-वृत्तिः
एकविभाक्ति च अपूर्वनिपाते १।२।४४

एक विभाक्तिर् यस्य तदिदम् एकविभाक्ति। समासे विधीयमाने यन् नियतविभक्तिकं, द्वितीये सम्बन्धिनि बहुभिर्विभक्तिभिर् युज्यमाने ऽप्येकयैव विभक्त्या युज्यते तदुपसर्जनसंज्ञं भवति अपूर्वनिपाते, पूर्वनिपतं पूर्वनिपाताऽख्यम् उपसर्जनकार्यं वर्जयित्वा। निरादयः क्रान्ताऽद्यर्थे पञ्चम्या। पूर्वपदे नानाविभक्तिके ऽप्युत्तरपदं पञ्च्म्यन्तम् एव भवति। निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः। निष्त्रान्तं कौशाम्ब्या निष्कौशाम्बिम्। निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना। निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये। निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ। एवं निर्वाराणसिः। एकविभक्ति इति किम्? राजकुमारी। अपूर्वनिपाते इति किम्? न हि भवति कौशाम्बीनिः इति।
लघु-सिद्धान्त-कौमुदी
एकविभक्ति चापूर्वनिपाते ९५४, १।२।४४

विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः॥
न्यासः
एकविभक्ति चापूर्वनिपाते। , १।२।४४

अप्रधमानिर्दिष्टार्थोऽयमारम्भः। विभक्तिशब्दः सुपां वाचकः, विभागवचनो वा। कारकशक्तिर्विभागः--विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। "समासे विधीयमाने" इति। समासार्थवाक्यकाले। तदा हि तस्य समासस्य विधीयमानता भवति। एतेन समासग्रहणमनुवर्तमानं समासार्थे वाक्ये वत्र्तते, न समासशास्त्र इति दर्शयति। समासशास्त्रे हि सर्वमेव शब्दरूपमेकविभक्तिकमेव भवतीत्येकविभक्तिग्रहणमनर्थकं स्यादिति भावः। सर्वमेव हि प्रातिपदिकं पर्यायेणैकया विभक्त्या प्रयुज्यते। तस्मादेकविभक्तिग्रहणसामथ्र्यादवधारणमत्र विज्ञायत इत्यत आह-- "यन्नियतविभक्तिकम्" इति। तदेव स्पष्टीकुर्वन्नाह-- "द्वितीये सम्बन्धिति" इत्यादि। "पूर्वपदेनानाविभक्तिकेऽपि" इति। निष्क्रान्तशब्दः कर्तृशक्त्युपसर्जनीभूतं द्रव्यमाह। तच्चानेकसाधनशक्त्युपचितमिति क्रियान्तरसम्बन्धादेनेकसाधनविभक्तिकं भवति। "उत्तरपदंद तु पञ्चम्यन्तमेव भवति" इति। निषक्रमणक्रियापेक्षयाऽ‌ऽविर्भूतापादानशक्तिकत्वात्। "निष्कौशाम्बिः" इत्यत्रोपसर्जनसंज्ञाकार्यम्"गास्त्रियोरुपसर्जनस्य" १।२।४८ इति हस्वत्वम्। अथ निसोऽत्र केनोपसर्जनसंज्ञा विधीयते, ययोऽस्य पूर्वनिपातः? पूर्वसूत्रेणेति चेत्, नैतदस्ति; तेनाप्रधानस्योपसर्जनसंज्ञाविधानात्, निसश्चात्र प्राधान्यात्। एवं तर्हि चकारस्यानुक्तसमुच्चायार्थत्वात् भविष्यति। अन्ये त्वाहुः-- मा भून्निस उपसर्जनसंज्ञा, असत्यामपि तस्यां पूर्वनिपातो भविष्यति, "एकविभक्ति चापूर्वनिपाते" १।२।४४ इति वचनादिति, एतच्चायुक्तम्; पूर्वनिपाते हि कत्र्तव्य एकविभक्तिकस्योपसर्जनसंज्ञा नास्त्येव। तत्र यदि निस उपसर्जनसंज्ञा न स्यात्, तदोदहरणे द्वयोरप्यसत्यां तस्यां पर्यायेणानियः पूर्वनिपातः प्रसज्येत। अथ कथमर्धपिप्पल्यादीनामूपसर्जनसंज्ञा न भवति? अत्र च "विभाषा च्छन्दसि" १।२।३६ इत्यतो विभाषाग्रहणं मम्डूकप्लुतन्यायेनानुवर्तते, सा च व्यवस्थितविभाषा। तेनार्ध पिप्पल्या अर्धपिप्पलीत्यादौ विषये पिप्पल्यादीनामेकविभक्तियुक्तानामप्युसर्जनसंज्ञा न भवति। यदि हि स्यात्, तदा ह्यस्वत्वं स्यात्॥
बाल-मनोरमा
एकविभक्ति चापूर्वनिपाते ६४७, १।२।४४

अत्र दिशाशब्दस्यापि उपसर्जनत्वमाह-एकविभक्ति। "प्रथमानिर्दिष्टं समास उपसर्जन"मित्यतः "समास" इति, "उपसर्जन"मिति चानुवर्तते। "समास" इत्यनेन विग्रहवाक्यं लक्ष्यते। एकैव विभक्तिर्यस्य तदेकंविभक्ति। नियतविभक्तिकमिति यावत्। एवंच विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्नकार्ये कर्तव्ये उपसर्जनं स्यादित्यर्थः। फलितमाह-विग्रहे यन्नियतेति। "निष्कौशाम्बि"शब्द उदाहरणम्। तत्र कौशाम्ब्या निष्क्रान्तः। निष्क्रातं निष्क्रान्तेन निष्क्रान्ताय निष्क्रान्तात् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषु "निरादयः क्रान्ताद्यर्थे पञ्चम्या" इति समासे निष्कौशाम्बिः निष्कौशा()म्ब निष्कौशाम्बिना इत्यादीति स्थितिः। अत्र "कौशाम्बी"शब्द एव विग्रहे नियतविभक्तिक इति तस्योपसर्जनत्वमनेन भवति। समासशास्त्रे कौशाम्बीशब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति प्रथमानिर्दिष्टमित्यनेनोपसर्जनत्वाऽप्राप्तौ वचनम्। तत्र कौशाम्बीशब्दस्याऽनेन उपसर्जनत्वेऽपिन "पूर्वनिपातः तत्तद्विभक्त्यन्तैरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम्। "तुल्यार्थै"रिति सूत्रे भाष्ये स्पष्टमिदम्। प्रथमान्तपदेनैव समास इत#इ "अनेक"मिति सूत्रे भाष्ये स्थितम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अर्थवत् १।१ अधातुः १।१ अप्रत्ययः १।१ प्रातिपदिकम् १।१

समासः॥

न धातुः, अधातुः, नञ्तत्पुरुषः।
न प्रत्ययः, अप्रत्ययः, नञ्तत्पुरुषः।

अर्थः॥

अर्थः अस्य अस्ति इति अर्थवत्, {तदस्यास्त्य्॰ (५।२।९४)} इति मतुप्प्रत्ययः।
अर्थवत्, शब्दरूपं प्रातिपदिकसंज्ञं भवति, धातुं प्रत्ययं च वर्जयित्वा।

उदाहरणम्॥

पुरुषः, डित्थः, कपित्थः, कुण्डम्, पीठम्
काशिका-वृत्तिः
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् १।२।४५

अभिधेयवचनो ऽर्थशब्दः। अर्थवच्छब्दरूपं प्रातिपदिकसंज्ञं भवति धातुप्रत्ययौ वर्जयित्वा। डित्थः। कपित्थः। कुण्डम्। पीठम्। अर्थवतिति किम्? वनम्, धनम् इति न अन्तस्य अवधेर् मा भूत्। नलोपो हि स्यात्। अधातुः इति किम्? हन्तेर् लङ्। अहन्। अलोपः स्यत्। अप्रत्ययः इति किम्? काण्डे। कुड्ये। ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७ इति ह्रस्वः स्यात्। अनर्थकस्य अपि निपातस्य प्रातिपदिकसंज्ञा इष्यते। अध्यागच्छति। प्रलम्बते। प्रातिपदिकप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७ इत्येवम् आद्यः।
लघु-सिद्धान्त-कौमुदी
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ११६, १।२।४५

धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥
न्यासः
अर्थवदगधातुरप्रत्ययः प्रातिपदिकम्। , १।२।४५

"अभिधेयवचनोऽयमर्थशब्दः" इति। एतेन प्रयोजनादिवचनाद्वयवच्छिनत्ति। अर्थशब्दो हि प्रयोजनवचनोऽप्यस्ति, यथा-- अनेनार्थनागतः, अनेन प्रयोजनेनेति गम्यते। निवृत्तिवचनोऽप्यस्सि, यथा-- मशकारर्थो धूम इति, मशकनिवृत्त्यर्थ इति गम्यते। धनवचनोऽप्यस्ति,यथा--अर्थवान् देवदत्त इति, धनवानिति गम्यते। अभिधेयवचनोऽप्यस्ति, यथा-- अस्य वचनस्यायमर्थ इति, इदमस्याभिधेयमिति गम्यते। इह त्वभिधेयवचनस्यैव ग्रहणम्। तत् पुनरभिधेयं जातिगुणक्रियाद्रव्यभेदेन चतुर्विधम्।अत एव चतुष्टयी शब्दानां प्रवृत्तिर्भवति। तत्र जातिशब्दानां जातिरभिधेया-- गौरिति। यद्यर्थवतः प्रातिपदिकसंज्ञा विधीयते तदाऽभाववचनशशविषाणादिशब्दानां प्रातिपदिकसंज्ञा नोपपद्यते, अर्थाभावात्, नैतदस्ति; "अर्थशब्दोऽभिधेयवचनः" (का।१।२।४५) इत्युक्तम्, अभावोऽप्यभिधेयो भवत्येव। अन्यथा ह्रर्थाभावादितीदं वचनमनुच्चारणीयं स्यात्, अनर्थकत्वात्, न ह्रनर्थकं वचनं प्रयोगर्हति। तस्मादबाववचनानामपि प्रातिपदिकसंज्ञा भवत्येव। "नान्तस्याधेर्मा भूत्" इति। ननु चाधातुरिति प्रतिषेधो भविष्यति, तथा हि "वन सम्भ्कतौ" (धा।पा।४६३), "धन धान्ये" (धा।पा।११०४) इत्येतयोः धरात्वोरेते रूपे, नैतदस्ति; अव्युत्पन्नावपि वनधनशब्दौ स्तः, तयोरेवायं प्रयोगः। अत्र यदि नान्तस्यावधेः प्रातिपदिकसंज्ञा स्यात् तदा सुबुत्पत्तिः स्यात्, ततश्च पदसंज्ञायां सत्यां नलोपः स्यात्। ननु च "अधातुः" "अप्रत्ययः"-- नैतदस्ति; अनर्थकस्यापि धातोर्विद्यमानत्वात् यथा-- "इङ अध्ययने" (धा।पा।१०४६), "इक् स्मरणे" (धा।पा।१०४७) इति-- एतयोरधिपूर्वयोरेवार्थवत्त्वम्, न केवलयोः। यस्तु गणपाठेऽनयोरर्थनिर्देशः, स समुदायार्थमवयवेऽध्यारोप्य कृत इति वेदितव्यम्। अध्यारोपितार्थयोरपि तयोर्गणपाठसामथ्र्याद्धातुसंज्ञा भवत्येव। एवं प्रत्ययोऽप्यनर्थकोऽप्यस्ति। यथा-- "यावादिभ्यः कन्" ५।४।२९, याव एव यावक इति। न ह्रत्र प्रत्ययस्यान्वयव्यतिरेकाभ्यां शक्यतेऽर्थवत्त्वं प्रत्येतुम्। विनापि तेन कन्प्रत्ययेन यावशब्दादेव तदर्थः प्रतीययते। तस्मादर्थवदिति युक्तमुक्तम्। "अहन्" इति। अदादित्वाच्छपो लुक्, तिपो हल्ङ्यादिना ६।१।६६ लोपः, अट्। स च हन्तिग्रहणेन गृह्रत इति कृतेऽपि तस्मिन् हन्तिर्दातुरेव। अत्र विना धातुग्रहणेन प्रागेव प्रत्ययोत्पत्तेः प्रातिपदिकसंज्ञा स्यात्। नलोपस्तु प्रत्ययोत्पत्तौ पदत्वे सत्युत्तरकालम्। अथ वा-- प्रातिपदिकसंज्ञाऽपि प्रत्ययोत्पत्तेरुत्तरकालमेव स्यात्, तस्माद्धातुग्रहणं कर्तव्यम्। ननु चात्र प्रत्ययलक्षणेन "अप्रत्ययः" इति प्रतिषेधेन भवितव्यम्,तत् किमधातुग्रहणेन? नैतदस्ति; प्रातिपदिकसंज्ञायां नलोपः कार्यः, नलोपे च "न ङिसम्बुद्धयोः" ८।२।८ इति प्रतिषेधो ज्ञापकः- प्रत्ययलक्षणेन "अप्रत्ययः" इति प्रतिषेधो न प्रवर्तत इति। यदि ह्रप्रत्यय इति प्रत्ययलक्षणेन हे राजन्नित्येवमादिषु प्रातिपदिकसंज्ञायाः प्रतिषेधः स्यात्, "न ङिसम्बुद्धयोः" ८।२।८ इति प्रतिषेधो अनर्थकः स्यात्; प्राप्त्यभावात्। अथ भिद्-छिद्-लूः- पूरित्येवमादीनां कथं प्रातिपदिकसंज्ञा, यावता क्विबन्ता धातुत्वं न जहतीति धातव एवैत इति, अत्राधातुरिति प्रतिषेधेन भवितव्यम्? नैष दोषः; मा भूदनेन, कृदन्तत्वादुत्तर सूत्रेण भविष्यति। न चोत्तरस्याः प्राप्तेरयं बाधकः; वाक्यान्तरस्थत्वात्। "मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्" (व्या।प।१०) इति वा। "काण्डे, कुड()ए" इति। प्रथमाद्विवचनान्ते एते रूपे। "नपुंसकाच्च" ७।१।१९ इति शीभावः। अत्र च "प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य" (भा।प।सू।७) इति तदन्तस्य प्रतिषेधो भविष्यति, न प्रत्ययमात्रस्य। ननु च "सुप्तिङन्तं पदम्" १।४।१४ इत्यत्रान्तग्रहणेन "अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति" इति ज्ञापितत्वात् "अप्रत्ययः" इति प्रत्ययान्तस्य प्रतिषेधो न लभ्यते, नैष दोषः; संज्ञाविधौ स प्रतिषेधः, न चायं संज्ञाविधिः, किं तर्हि? प्रतिषेधविधिः। अथ किमर्थमप्रत्यय इत प्रतिषेध उच्यते, यावतोत्तरसूत्रे कृत्तद्धितग्रहणं नियमार्थं भविष्यति-- "कृत्तद्धितान्तस्यैव प्रातिपदिकसंज्ञा, नान्यप्रत्ययान्तस्य-- काण्डे,कुड()ए इत्येवमादेः"इति? नैतदस्ति, असत्यस्मिन् प्रतिषेधेऽन्यत्र"संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति" इति कृत्तद्धितयोरेव प्रातिपदिकसंज्ञा स्यान्न तदन्तस्य; तदन्तस्य चैवेष्यते-- भिच्छिल्लूःपूरित्येवमादीनां प्रातिपदिकसंज्ञार्थम्। सत्यप्रत्यय इत्येतस्मिन् प्रतिषेधे प्राप्ते यथा कृत्तद्धितान्तस्य प्रातिपदिकसंज्ञा लभ्यते तथोत्तरसूत्रे प्रतिपादयिष्यामः। ननु च "काण्डे" "कुड्ये"-- इत्येतयोः पूर्वमेव प्रकृतेः प्रातिपदिकसंज्ञा प्रवृत्ता, विभक्त्या च सहैकादेशे कृतेऽन्तादिवद्भावादस्त्येव प्रातिपदिकत्वमिति सत्यप्यप्रत्ययग्रहणे ह्यस्वत्वं प्राप्नोत्येव, नैतदस्ति; अप्रत्ययग्रहणसामथ्र्यान्न भविष्यति,अन्यथा ह्रप्रत्ययग्रहणमनर्थकं स्यात्()। "अधातुरप्रत्ययः" इति द्विष्प्रतिषेधः षष्ठीतत्पुरुषाशङ्कानिरासार्थः "अधातुप्रत्ययः" इत्युच्यमाने षष्ठी तत्पुरुषोऽप्याशङ्क्येत-- धातोर्यः प्रत्ययस्य न भवतीति॥
बाल-मनोरमा
अर्थवदधातुप्रत्ययः प्रातिपदिकम् १७७, १।२।४५

अथ स्वौजसमौडित्यादिना स्वादिप्रत्ययान्वक्ष्यति। तत्र ङ्याप्प्रातिपदिकादित्यधिकृतम्। किं तत्प्रातिपदिकमिति जिज्ञासायामाह--अर्थवदधातुः। अर्थोऽस्यास्तीत्यर्थवत्। नपुंसकलिङ्गनुसारात्-"शब्दस्वरूप"मिति विशेष्य मध्याहार्यम्। अधातुरिति, अप्रत्यय इति च तद्विशेषणम्। न धातुरधातुरिति नञ्()तत्पुरुषः। "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" इति पुंस्त्वम्। "अप्रत्यय" इत्यावर्तते। प्रत्ययभिन्नं प्रत्ययान्तभिन्नं च विवक्षितम्। पूर्ववत्पुंस्त्वम्। "संज्ञाविधा"विति निषेधस्तुं प्रत्ययस्य यत्र संज्ञा तद्विषय इति भावः। तदाह--धातु प्रत्ययमित्यादिना। अव्युत्पन्ना डित्थादिशब्दा इहोदाहरणानि। अर्थवदिति किम्?। दनं वनमित्यादौ प्रतिवर्णं प्रातिपदिकसंज्ञा मा भूत्। सत्यां हि प्रातिपदिकसंज्ञायां प्रतिवर्णं सुवुत्पत्तिः स्यात्, सङ्ख्याकारकाभावेऽपि प्रथमैकवचनस्य सोर्दुर्वारत्वात्प्रथमाविभक्तेः कारकानपेक्षत्वात्तदेकवचनस्य सङ्ख्यानवगमे।ञपि प्रवृत्तेर्भाष्ये सिद्धान्तितत्वाच्च। नच हल्ङ्यादिना सुलोपात्प्रतिवर्णं सोरुत्पत्तावपि न क्षतिरिति वाच्यम्, एवमपि नलोपस्य दुर्वारत्वादकारात्सो रुत्वविसर्गापत्तेश्चेत्यलम्। अधातुरिति किम्?। हनधातोर्लङि, तिपि, शपि लुकि, इतश्चेतीकारलोपे, अडागमे, हल्ङ्यादिलोपेऽहन्निति रूपम्। अत्र धातोः प्रातिपदिकसंज्ञायां सुबपबादे तिङि उत्पन्ने लुप्ते तस्मिन् प्रातिपदिकसंज्ञायाः प्रागुत्पन्नाया अनपगमान्नलोपः स्यात्। नच प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासादेव न प्रातिपदिकत्वमिति वाच्यम्। एवमपि प्राक्()प्रवृत्तप्रातिपदिकत्वस्यानपगमात्। नचैवमपि कार्यकालपक्षे नलोपार्थं प्रातिपदिकसंज्ञायां क्रियमाणायां प्रत्यलक्षणेन प्रत्ययान्तस्य प्रातिपदिकसंज्ञा न स्यादिति वाच्यम्। तर्हि हे राजन्नित्यत्रापि प्रत्ययलक्षणेन प्रत्ययान्तत्वात्प्रातिपदिकत्वाभावे सति नलोपस्याऽप्रसक्तौ "न ङिसंबुद्ध्योः" इति तन्निषेधवैयथ्र्यप्रसङ्गात्। नच राजन्शब्दस्यौणादिककनिन्प्रत्ययान्तस्य कृत्तद्धितेति प्रातिपदिकत्वान्नलोपप्रसक्तौ "न ङिसंबुद्धयोः" इति निषेधो।ञर्थवानिति वाच्यम्, उणादीनामव्युत्पत्तिपक्षे कृत्तद्धितेत्यस्याऽप्रवृत्तेः। एवं चास्मादेव निषेधात्प्रत्ययलक्षणमाश्रित्याऽप्रत्ययान्त इति पर्युदासो न प्रवर्तत इति विज्ञायते। एवं च अह न्नित्यत्राप्यप्रत्ययान्तत्वात्प्रातिपदिकत्वप्राप्तौ तन्निवृत्त्यर्थमधातुग्रहणम्। अप्रत्यय इति किम्?। हरिषु करोषीत्यत्र सुप्सिपोरर्थवत्त्वादप्रत्ययान्तत्वाच्च प्रातिपदिकत्वे प्राप्ते तन्निवृत्त्यर्थमप्रत्यय इति प्रत्ययपर्युदासः। नचात्र सुप्सिपोव्र्यपदेशिवद्भावेन प्रत्ययान्तत्वात्प्रत्ययान्तपर्युदासेनैव प्रातिपदिकत्वनिवृत्तिसंभवा()त्क प्रत्ययपर्युदासेनेति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया प्रकृतिप्रत्ययसमुदायस्यैव प्रत्ययान्ततया केवलप्रत्यययोः सुप्सिपोः पर्युदासाऽलाभात्। अप्रत्ययान्त इति किम्?।हरिषु करोषि अत्र प्रक-तिप्रत्ययसमुदाययोः प्रत्ययभिन्नत्वादर्थवत्त्वाच्च प्रातिपदिकत्वं मा भूत्।

तत्त्व-बोधिनी
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् १४७, १।२।४५

अथाजन्तपुंलिङ्गप्रकरणम्। अर्थवदधातु। प्रत्ययं प्रत्ययान्तं चेति। सूत्रे तन्त्रादिनोभयं विवक्षितमिति भावः। अर्थव"दिति नपुंसकनिर्देशस्याऽनुगुणं विशेष्यमध्याहरति--शब्दस्वरूपमिति। "अधातुरप्रत्यय" इति पुंलिङ्गनिर्देशस्तु "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" इत्युत्तरपदलिङ्गवत्त्वाद्बोध्य इत्याहुः। यदि तु धातुभिन्नमित्यर्थं परित्यज्यारोपितो धातुरधातुरिति व्याख्यायते, तदा नपुंसकत्वप्राप्तेराशङ्कैव नास्तीति ज्ञेयम्। अर्थवदिति किम्?। "धनं" "वन"मित्यादौ प्रतिवर्णं संज्ञा मा भूत्। तस्यां च सत्यां स्वादयः स्युः। ननु सङ्ख्याकर्मादेरभावान्न भविष्यतीति चेन्न; "एकवचनमुत्सर्गतः करिष्यते" इति सिद्धान्ताद्धुंफडादिभ्य इव सोर्दुर्वारत्वात्। न चार्थवद्ग्रहणपरिभाषया अनर्थके न स्यादिति वाच्यं, तस्या विशिष्टरूपोपादानविषयत्वात्। "प्रादूहोढ"इत्यत्र तु "ऊढ" इति विशिष्टरूपमुपात्तमितिक्तवत्वन्तैकदेशस्यानर्थकस्योढशब्दस्य ग्रहणं नेत्युक्तम्। न ह्रत्र तथा विशेषरूपस्योपादानमस्ति। यद्यप्यधातुरित्यादिपर्युदासेनार्थवत्त्वं लभ्यते, तथाप्युत्तरार्थमर्थवह्ग्रहणं स्पष्टप्रतिपत्तये इहैव कृतम्। न चैकाज्द्विर्वचनन्यायेन समुदायस्यैव संज्ञा स्यान्नावयवानामित्यर्थवद्ग्रहणमिह व्यर्थमिति शङ्क्यं ; समुदाये द्विरुक्ते अवयवा अपि द्विरुक्ता भवन्ति। "वृक्षः प्रचलन्सहावयवैः प्रचलती"ति न्यायात्। इह तु समुदाये प्रवृत्तया प्रातिपदिकसंज्ञया नावयवानां तत्कार्यसिद्धिरिति वैषम्यात्। अतएव "यत्र बहवो हलः संश्लिष्टास्तत्र द्वयोर्बाहूनां चाऽविशेषेण संयोगसंज्ञे"ति सिद्धान्तः सङ्गच्छते। अन्यथा त्वदुपन्यस्तन्यायेन समुदाय एव संयोगसंज्ञा प्रवर्तेत। अत्र केचित्-"धनं" "वन"मित्यादौ प्रतिवर्णं सत्यामपि संज्ञायां सत्स्वपि स्वादिषु न क्षतिः। "हल्ङ्या"बित्यादिना सुलोपात्। न च नलोपो धस्य जश्त्वं च स्यादिति शङ्क्यम्, धातुपाठे "धन" "वने"त्युच्चारणसामथ्र्यात्तदप्रवृत्तेरित्याहुः। तदसत्।?कारात्सोरुत्पत्तौ रुत्वप्रवृत्तेः। यद्यपि समुदितप्रातिपदिकस्यावयवत्वेन सुपो लुकि रुत्वं न भवेत्तथापि "चिकीर्षति" "विद्म" इत्यादौ रेफदकारयोः पदान्तत्वे सति "खरवसानयो"रिति विसर्गस्य "यरोऽनुनासिके" इत्यनुनासिकस्य च प्रसङ्गादिति दिक्। अधातुः किम्?, अहन्। धातोः प्रातिपदिकसंज्ञायां सत्यां तिङां स्वाद्यपवादत्वादहन्नित्यत्र हन्तेस्तिपि सिप#इ वा कृते "इतश्चे"तीकारलोपे हल्ङ्यादिलोपे च प्राक्कृता प्रातिपदिकसंज्ञा नापगतेति "नलोपः प्रातिपदिकान्तस्ये"ति नलोपः स्यात्तन्मा भूत्। "अहन्" इति रुत्वं "रोऽसुपी"ति रत्वं चेह नाशङ्क्यम्, लाक्षणिकत्वात्। न च कार्यकालपक्षे प्रत्ययान्तत्वेन पर्युदासात्प्रातिपदिकसंज्ञाऽभावेन नलोपो न भवेदिति वाच्यं, प्रत्ययलक्षणेन उक्तपर्युदासाऽप्रवृत्तेः "न ङिसंबुध्द्यो"रिति निषेधेन ज्ञापितत्वात्। कथमन्यथा "राज"त्यादौ नलोपः स्यात्। यद्यपि व्युत्पत्तिपक्षे राजञ्शब्दस्य कनिन्प्रत्ययान्ततया "कृत्तद्धिते"ति प्रातिपदिकसंज्ञायां राजेत्यादौ नलोपःस्यात् , तथा च "न ङिसबनध्द्यो"रिति निषेधो न ज्ञापक इति कार्यकालपक्षेऽधातुग्रहणं व्यर्थं, तथाप्यव्युत्पत्तिपक्षे ज्ञापक एवेति कार्यकालेऽपि तत्स्वीकर्तव्यम्, न च "सुपो धा"त्विति सूत्रे प्रातिपदिकात्पृथग्धातुग्रहणाद्धातोर्नेयं संज्ञेति वाच्यम्, "पुत्रीयती"त्यादौ प्रत्ययान्ते धातुग्रहणस्य चरितार्थत्वात्। अप्रत्ययः किम्?, हरिषु, करोषि। अत्र सुप्सिपोर्मा भूत्। अप्रत्ययान्तः किम्?। तत्रैव विभक्तिविशिष्टयोर्मा भूत्। न चान्तवद्भावेन "काण्डे" "कुड()ए"इत्यादौ प्रातिपद#इकत्वं स्यादेव। तथा च "ह्यस्वो नपुंसके-" इति ह्यस्वः सोरुत्पत्तिश्च स्यादिति वाच्यम्, "सप्तम्यधिकरणे चे"त्यादिनिर्देशेन विभक्तयेकादेशस्यान्तवद्भावानभ्युपगमादिति दिक्। ननु प्रत्ययपर्युदासो न कर्तव्यः, प्रत्ययान्तपर्युदासेनैव गतार्थत्वात्। व्यपदेशिवद्भावेन तस्यापि प्रत्ययान्तत्वादिति चेन्मैवं, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेग्र्रहणात्, केवलस्य चाऽतथात्वात्। अन्यथा सुप्तिङोरपि तदन्तत्वात्पदत्वं स्यात्। तथा च "हरिषु" "करोषी"-त्यादौ षत्वं न स्यात्, "साप्तपदाद्यो"रिति निषेधात्। न च षत्वविधेर्निरवकाशाता, "सर्पिषे" "एष" इत्यादौ चरितार्थत्वात्। अन्ये तु व्याचक्षते-"कृत्तद्धिते"त्यत्र हि तदन्तविधिर्वक्ष्यते। तथा च "तद्धितग्रहणस्य तद्धितान्तानामेव नत्वन्यप्रत्ययान्तानां संज्ञे"ति नियमार्थतामाश्रित्य प्रत्ययान्तपर्युदासोऽत्र न कर्तव्यः। अथवा "सात्पदाद्यो"रिति सूत्रे सातिग्रहणात्प्रत्ययो न प्रातिपदिकमिति सिद्धे प्रत्ययग्रहणं सामथ्र्यात्तदन्तपरम्। उत्तरसूत्रे तद्धितग्रहणं तु विध्यर्थमेवाऽस्तु। यद्वा सातिग्रहणात्प्रत्ययस्य प्रातिपदिकत्वाऽभावे तद्धितग्रहणस्योक्तरीत्या नियमार्थत्वे च "अर्थवदधातुः प्रातिपदिक"मित्येव सुवचमिति, तेषाम् "इको यणची"ति सूत्रं व्यर्थं स्यात्। "तस्मादित्युत्तरस्य" "वाय्वृतुपित्रुषसः"-इत्यादिनिर्देशाज्ज्ञापकादिष्टसिद्धेः। "नाज्झलौ" इत्यत्राकारसहितोऽच् आजित्ययं मूलग्रन्थोऽपि विरुध्येत, "कालसमयवेलासु"-इत्यादिज्ञापकादेव ढत्वाऽभावसिद्धे। यदि ज्ञापकेन प्रत्याख्यानमयुक्तमिति, यदि चाऽ‌ऽकारप्रश्लेषे एव तल्लिङ्गमित्यभ्युपगमे सूत्राक्षरैरेवेष्टं सिध्यतीत्युच्येत, तर्हि "अप्रत्यय" इत्येतदभ्युपगम्य प्रत्ययपर्युदासे "साति"ग्रहणं लिङ्गं, प्रत्ययान्तपर्युदासे तु तद्धितग्रहणमित्यप्रत्ययग्रहणमेवावर्त्त्य व्याख्यायतां, किमनया कुसृष्टयेति दिक्। "अधातुप्रत्यया"विति सिद्धे नञ्द्वयोपादानमप्रत्यय इत्यस्यावृत्तिसोकर्यार्थम्। महासंज्ञाकरणं श्रुत्यनुरोधात्। तथा चाथर्वणे पट()ते--"को धातुः, किं प्रातिपदिकं, कः प्रत्ययः" इति। डित्थादीन्यव्युत्पन्नानीहोदाहरणम्। अव्युत्पत्तिपक्षस्य चेदमेव ज्ञापकमिति प्राञ्चः। वस्तुतस्तु व्युत्पत्तिपक्षे "बहुपटव" इत्याद्यर्थं सूत्रमिति नव्याः। न चैवं "बहुच्पूर्वः प्रातिपदिक"मित्येव सूत्र्यतामिति वाच्यम्, "मूलकेनोपदंश"मित्यादौ कृदन्तत्वेनातिप्रसङ्गात्, गतिकारकपूर्वस्यापि कृदन्तत्वात्। न च समासग्रहणं नियमार्थमिति निस्तारः, अर्थवत्सूत्रारम्भं विना समासग्रहणस्य नियमार्थत्वाऽयोगात्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ कृत्-तद्धित-समासाः १।३ प्रातिपदिकम् १।१ ४५

समासः॥

कृत् च तद्धितश्च समासश्च कृत्तद्धितसमासाः, इतरेतरद्वन्द्वः

अर्थः॥

कृत्प्रत्ययान्ताः तद्दितप्रत्ययान्ताः समासाश्च प्रातिपदिकसंज्ञकाः भवन्ति

उदाहरणम्॥

कृत् - कारकः, हारकः, कर्त्ता, हर्त्ता॥ तद्दितः - शालीयः, औपगवः, ऐतिकायनः॥ समासः - राजपुरुषः, कष्टश्रितः
काशिका-वृत्तिः
कृत्तद्धितसमासाश् च १।२।४६

कृतस् तद्धिताः समासाश्च प्रातिपदिकसंज्ञा भवन्ति। अप्रत्ययः इति पूर्वत्र पर्युदासत् कृदन्तस्य तद्धितान्तस्य च अनेन प्रातिपदिकसंज्ञा विधीयते। अर्थवत्समुदयानां समासग्रहणं नियमार्थम्। कृत् कारकः। हारकः। कर्ता। हर्त। तद्धितः औपगवः। कापटवः। समासः राजपुरुषः। ब्राह्मणकम्बलः। समासग्रहणस्य नियमार्थत्वाद् वाक्यस्य अर्थवतः संज्ञा न भवति।
लघु-सिद्धान्त-कौमुदी
कृत्तद्धितसमासाश्च ११७, १।२।४६

कृत्तद्धितान्तौ समासाश्च तथा स्युः॥
न्यासः
कृत्तद्धितसमासाश्च। , १।२।४६

अत्र "अन्यत्र संज्ञाविधौ प्रत्ययग्रणे तदन्तविधिर्नास्ति" इत्यतन्नोपतिष्ठते, यस्मादप्रत्यय इति प्रतिषेधे प्राप्ते वचनमिदम्। "अप्रत्ययः" इति प्रत्ययान्तस्य प्रतिषेधः उक्तः। तेन यत्र संज्ञायाः प्रतिषेधस्तत्रेयमारभ्यमाणा तदन्तस्यैव भवतीत्येतच्चेतसि कृत्वाऽ‌ऽह-- "अप्रत्यय इति पूर्वसूत्रे पर्युदासात् कृदन्तस्य" इत्यादि। अथ समासग्रहणं किमर्थम्? यावता समासस्यार्थवत्त्वात् पूर्वेणैव संज्ञा सिद्धेत्यत आह-- "अर्थवत्समुदायानाम्" इत्यादि। निर्धारणषष्ठीयम्-- अर्थवन्तो ये समुदायास्तेषां मध्ये समासस्यार्थवतः समुदायस्य प्रातिपदिकसंज्ञा यथा स्यादिति नियमार्थं समासग्रहणम्। यद्येवम्, प्रकृतिप्रत्ययसमुदायस्यार्थवतः प्रातिपदिकसंज्ञा न स्यात्-- बहुपटव उच्चकैरिति? कोऽत्र दोषः? "चितः" ६।१।१५७ इत्यस्मिन् सूत्रे चितः सप्रकृतेर्बहुजकजर्थमिति वचनादेतद्वयवस्थाप्यते-- प्रकृतिमन्तर्भाव्य चित्स्वरो विधीयत इति। बहुपटव इत्यत्र बहुचि विहिते यदि प्रातिपदिकसंज्ञा न स्यात्,तदा प्रातिपदिकत्वाभावात् यथा सुबुत्पत्तिर्न स्यात् तथोत्पन्नाया अपि विभक्तेः "सुपो धातुप्रातिपदिकयोः" २।४।७१ इति लुका न भवितव्यम्। ततश्च बहुपटव इत्यत्र जस्विभक्तेरकारस्य स्वरः स्यात्; उकारस्य चेष्यते। प्रातिपदिकत्वे तु सति पूर्वोत्पन्नाया विभक्तेर्लुकि कृते याऽन्या विभक्तिरुत्पद्यते, सा बहुजुत्पत्तेरुत्तरकालभाविनीत्वात् प्रकृतौ नान्तर्भवति। तेन तामुत्सृज्य पूर्वो भागः स्वरभाग भवति। अत उकारस्य स्वरः सिध्यति। उच्चकैरित्यत्र प्रातिपदिक्तवाभावाकज्वतः समुदायाद्विभक्तिर्न स्यात्, तस्याञ्चासत्यां पदत्वं न स्यात्। ततश्चोच्चकैः पठतीति "तिङङतिङः" ८।१।२८ इति निघातो न स्यात्। तस्मात् प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा वक्तव्या? न वक्तव्या, यस्मात् तुल्यजातीयानां नियमः, तेन तुल्यजातीयो नियमेन व्यवच्छ#इद्यते। तुल्यजातीयश्चच समाससुबन्तसमुदायादन्यः वाक्यसमुदाय एव, न तु प्रकृतिप्रत्ययसमुदायः। तेनायं तस् नियमेन व्यवच्छेदो न करिष्यते, नैतदस्ति; सुबन्तासुबन्तसमुदायोऽपि समासोऽस्ति, यथा-- प्रकत्र्ता, प्रकारक इति। अत्र हि "गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्()सुबुत्पत्तेः" (व्या।,प।वृ १३८) इति कृदन्तेनासुबन्तेन गतिकारकं सुबन्तं समस्यते, तेन सुबन्तासुबन्तसमुदायोऽयं समास इति तुल्यजातीयस्यापि नियमे विज्ञायमाने बहुपटवः, उच्चकैरित्यत्र प्रातिपदिकसंज्ञा न स्यात्। एवं तह्र्राचार्यप्रवृत्तिज्र्ञापयति-- भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञेति; यदयमप्रत्यय इति प्रत्ययान्तस्य प्रतिषेधं शास्ति॥
बाल-मनोरमा
कृत्तद्धितसमासाश्च १७८, १।२।४६

कृत्तद्धित। कृच्च तद्धितश्च समासश्चेति विग्रहः। पूर्वसूत्रात् "प्रातिपदिक"मित्यनुवर्तते, तच्च बहुवचनान्ततया विपरिणम्यते। प्रत्ययग्रहणपरिभाषया कृत्तद्धितेति तदन्तग्रहणम्। तदाह--कृत्तद्धितान्ताविति। कृत्तद्धितान्तयोः प्रत्ययान्तत्वात्पूर्वसूत्रेणा।ञप्राप्तौ कृत्तद्धितग्रहणम्। केवलयोः कृत्तद्धितयोः संज्ञायां प्रयोजनाऽभावात्संज्ञाविधाविति निषेधोऽत्र न भवति। अस्मादेव पूर्वसूत्रे संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभात्प्रत्ययान्तपर्युदासः। केचित्तु अर्थवदित्यनुवर्त्त्य तत्सामथ्र्यात्तदन्तविधिमाहुः। कृदन्ते यथा--"कर्ता" "भर्ता" इत्यादि। तद्धिते यथा--"औपगव" इत्यादि। समासे यथा--"राजपुरुष" इत्यादि। ननु समासग्रहणं व्यर्थं, समासे "राजपुरुष" इत्यादि। ननु समासग्रहं व्यर्थं, समासे "राजपुरुष" इत्यादिशब्दानां पूर्वसूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात्। न च उत्तरपदोत्तरलुप्तप्रत्ययं प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्तपर्युदासः शङ्क्यः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याऽप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्, प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति "न ङिसम्बुद्धयोः" इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चितत्वाच्चेत्यत आह--पूर्वसूत्रेणेत्यादिना। नियमशरीरं दर्शयति-यत्रेति। "पूर्वो भागः पद"मित्युपलक्षणम्। "उत्तरभागस्तु प्रत्ययो ने"त्यपि द्रष्टव्यम्। अन्यथा जन्मवानित्यादौ प्रातिपदिकत्वं न स्यात्, स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात्। नचात्र कृत्तद्धितेति तद्धितग्रहणसामथ्र्यादेव प्रातिपदिकत्वं संभवतीति वाच्यम्, दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात्। तत्र हि प्रकृतिभागो न पदम्, भत्वेन तद्बाधात्। "पूर्वो भागः पद"मित्यनुक्तौ "बहुपटव" इत्यत्र प्रातिपदिकसंज्ञा न स्यात्। ईषदसमाप्तावित्यनुवृत्तौ "विभाषा सुपो बहुच्पुरस्तात्तु" इति सूत्रेण "पटव" इति प्रथमाबहुवचनान्तात्पूर्वतो बहुच्प्रत्यये कृतेऽर्थवदिति प्रातिपदिकत्वात्तदवयवजसो लुकि "चितः सप्रकृतेर्बह्वजर्थ"मिति टकारादुकारस्य उदात्तत्वे चित्स्वरे कृते पुनर्जसि "बहुपटव" इति रूपम्। अत्र टकारादकार उदात्त इति स्थितिः। जसन्तात्पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वा।ञभावे तु ततो जसन्तरं नोत्पद्येत। नचेष्टापत्तिः, तथ#आ सति बहुच्प्रकृतिभूतजसन्ते जसःप्रातिदिकावयवत्वा।ञभावेन"सुपो धातुप्रातिपदिकयो"रिति लुगभावाद्बहुपटव इति जसन्तस्यैव बहुच्प्रक-तितया चितस्सप्रकृतेर्विधीयमानश्चित्स्वरः जस एवाकारस्य स्यात्। इष्यते तु टकारादुत्तरस्य। "बहुपटव" इति समुदायस्य प्रातिपदिकावयवत्वाज्जसो लुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्तं निर्बाधमिति भावः। नियमस्य फलमाह--तेनेति। उक्तनियमेनेत्यर्थः। अन्यथा "देवदत्त गामभ्याज शुक्लां दण्डेने"त्यादिवाक्यस्यापि प्रातिपदिकत्वापत्तौ सुब्लुक् स्यात्। न च वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणादिति भावः। कृत्तद्धितसमासाश्चेति चकारोऽनुकसमनुच्चयार्थः। तेन "निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये"ति वार्तिकं गतार्थम्

तत्त्व-बोधिनी
कृत्तद्धितसमासाश्च १४८, १।२।४६

कृत्तद्धितसमासाश्च। "अर्थव"दित्यनुवर्तते, तत्सामथ्र्यात्तदन्तविधिः। ननु यद्यर्थवत्ता पारमार्थिकीं विवक्ष्यते, सा पदस्य वाक्यस्य वाऽस्ति, न तु कृत्तद्धितान्तस्य, यदि तु प्रक्रियादशायां या कल्पिता सा विवक्ष्यते, तर्हि कृत्तद्धितयोरपि साऽस्तीति कथमर्थवद्ग्रहणानुवृत्त्या तदन्तग्रहणमिति चेदत्राहुः,-अतएवार्थवद्ग्रहणसामथ्र्यमुक्तम्। प्रत्ययान्तेन ह्रोकार्थीभूतेन प्रतीयमानोऽर्थ इह गृह्रते। तस्य लोकिकार्थं प्रति प्रत्यासन्नतरत्वान्मतुपः प्राशस्त्यपरतया तस्यैव ग्रहणात्। अतएव च तदुपादानं सार्थकं, पूर्वसूत्रे "अधातु"रिति "कर्ता " "औपगव" इत्यादौ "अप्रत्ययान्त" इति च पर्युदासे प्राप्ते "कृत्तद्धिते"त्यारम्भः। नियमार्थमिति। न च प्रत्ययान्तत्वेन पर्युदासे प्राप्ते विध्यर्थमस्त्विति शङ्क्यम् ; वाक्यस्याऽप्रत्ययान्तत्वात्। प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्। न चैवमप्यनुपसर्जनस्त्रीप्रत्यये तदादिनियमाऽभावाद्राजकुमारीत्यादौ ङीबन्ते विध्यर्थमस्त्विति वाच्यम्, "अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते" इति लुग्विषये हल्ङ्यादिलोपाऽप्रवृत्त्या श्रूयमाण एव सुपि समासप्रवृत्तेः। तत्र च कुमारीशब्दस्य सुबन्तत्वेऽपि राजशब्दसहित[कुमारी]शब्दस्याऽतथात्वादप्रत्ययान्तत्वेन प्रवृत्तायाः संज्ञाया एकदेशविकृतन्यायेन विभक्तिलुक्यपि सुलभत्वात्। अतएव "गोमत्प्रिय"इत्यादौ नुमादयो न, लुकः प्रागन्तरङ्गस्य हस्ङ्यादिलोपस्य प्रवृत्तौ तु स्युरेवेति दिक्। नियमशरीरमाह-यत्र सङ्घात इति। नियमश्चात्र सजातीयापेक्ष इत्याह-पूर्वो भागः पदमिति। षड्विधेऽपि समासे पूर्वभागस्य पदत्वाऽव्यभिचाराद्भवत्ययं सजातीयः। "पूर्वो भाग" इत्युपलक्षणम्, "उत्तरस्तु प्रत्ययो ने"त्यपि बोध्यम्। अन्यथा "जन्मवा"नित्यादौ संज्ञा न स्यात्, "स्वादिष्वि"त्यनेन पूर्वभागस्य पदत्वात्। न च तद्धितग्रहणसामथ्र्यात्तत्र स्यादेवेति वाच्यं, तद्धितग्रहणस्य "भानव" इत्यादौ कृतार्थत्वात्। तत्र हि पूर्वभागस्य भत्वं, न तु पदत्वम्। न चैवमयमियानित्यादिसमुदायस्य प्रातिपदिकत्वं स्यादेव, पूर्वभागस्य पदत्वेऽप्युत्तरस्य प्रत्ययत्वादनेन नियमेन वारयितुमशक्यत्वादिति वाच्यम् ; "उत्तरस्तु प्रत्ययो ने"त्यत्र "तद्विहितप्रत्ययो ने"ति व्याख्यानात्। पूर्वो भागः पदमिति किम्?, बहुज्विशिष्टस्य प्रातिपदिकसंज्ञा यथा स्यात्। तेन "बहुपटव" इत्यत्र उपोत्तमोदात्तत्वं सिध्यति। प्रथमजसो लुकि "चितः सप्रकृतेर्बह्वकजर्थ"मिति चित्स्वरे कृते पुनर्जस उत्पत्तेः। प्रातिपदिकसंज्ञायामसत्यां तु जसेवोदात्तः स्यात्। यद्वा "प्रकृतिप्रत्ययभावानापन्नसङ्घातस्य चेद्भवति तर्हि समासस्यैवे"ति नियमार्थं "समास"ग्रहणम्। तेन गवित्ययमाहे"त्यादौ नातिप्रसङ्ग इति दिक्। नियमफलमाह-तेन वाक्यस्य नेति। "गांमभ्याज शुक्ला"मित्यादिवाक्यस्य न भवतीत्यर्थः। सत्यां हि संज्ञायां सुब्लुक्स्यात्। नन्वेवमपि "मूलकेनोपदंशं भुङ्क्ते" इत्यादिवाक्यस्य संज्ञा दुर्वारा, "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणा"दिति चेन्मैवम्। समासग्रहणरृतनियमेन परत्वाद्बाधात्। एवंच "कृत्तद्धिते"ति सूत्रे कृद्ग्रहणपरिभाषा निष्फलत्वान्नोपतिष्ठते। तस्याश्च परिभाषायाः "व्यावक्रोशी" "व्यावहासी"त्यत्रावकाशः। तत्र हि "कर्मव्यतिहारे णच्स्त्रिया"मिति धातोर्णचि कृते गतिपूर्वस्य णजन्तत्वात् "णचः स्त्रिया"मित्यञिसत्युपसर्गाकारस्यादिवृद्धिस्वरौ भवतः। कृद्ग्रहणे कारकपूर्वस्याप्युदाहरणम्-अवतप्ते नकुलस्थितमित्यादि स्फुटीभविष्यति। चकारोऽनुक्तसमुच्चयार्थः। तेन "निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये"ति वार्तिकं गतार्थम्। येषां द्योत्योऽप्यर्थो नास्ति तदर्थमिदम्,-अवद्यति। अनुकरणेषु तु अनुकार्येण सहाऽभेदविवक्षायामर्थवत्त्वाऽभावादेव न प्रातिपदिकत्वम्। "भू सत्ताया"मिति यथा। भेदविवक्षायां तु संज्ञा स्यादेव-"भुवो वु"गिति यथा।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ ह्रस्वः १।१ ४८ नपुंसके ७।१ प्रातिपदिकस्य ६।१ ४८

अर्थः॥

नपुंसकलिङ्गेऽर्थे वर्त्तमाने यत् प्रातिपदिकं तस्य ह्रस्वः भवति॥ अत्र {अचश्च (१।२।२८)} इति परिभाषासूत्रम् उपतिष्ठते, तेन अजन्तस्य प्रातिपदिकस्य ह्रस्वः भवति॥

उदाहरणम्॥

अतिरि कुलम्, अतिनु कुलम्॥
काशिका-वृत्तिः
ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७

नपुंसकलिङ्गे ऽर्थे यत् प्रातिपदिकं वर्तते तस्य ह्रस्वो भवति आदेशः अलो ऽन्यस्य अचः। अतिरि कुलम्। अतिनु कुलम्। नपुंसके इति किम्? ग्रामणीः। सेनानीः। प्रातिपदिकस्य इति किम्? काण्डे तिष्ठतः। कुड्ये तिष्ठतः। प्रातिपदिकग्रहणसामर्थ्यतेकाऽदेशः पूर्वस्य अन्तवन्न भवति।
न्यासः
ह्यस्वो नपुंसके प्रातिपदिकस्य। , १।२।४७

"नपुंसकलिङ्गे" इति। नुपुंसकं लिङ्गं यस्येति बहुव्रीहिः। स पुनर्नपुंसकलिङ्गोऽर्थो द्रव्यभूतो वेदितव्यः; न पुंसकिलिङ्गस्य द्रव्यधर्मत्वात्। "अलोऽन्त्यस्य" इति। "अलोऽन्त्यस्य" १।१।५१ इति परिभाषा। "ग्रामणीः" इति। "सत्सूद्विष" ३।२।६१ इत्यादिना क्विप्। "अग्रग्रामाभ्यां च" (का।वा।५०६४) इत्युपसंख्यानाण्णत्वम्। काण्डे, कुड()ए-- इत्यत्रापि "अप्रत्ययः" इति प्रतिषेधात्प्रातिपदिकसंज्ञा नास्ति, तेन ह्यस्वत्वं न भवति। ननु च प्रातिपदिकाप्रातिपदकयोरेकादेशोऽन्तादिवद्भावात् प्रातिपदिकग्रहणेन गृह्रते, ततश्च क्रियमाणे प्रातिपदिकग्रहणे ह्यस्वत्वं प्राप्नोतीत्यत आह-- "प्रातिपदिकगर्हणसमथ्र्यात्" इत्यादि। इह यदन्तवद्भावः स्यात्, प्रातिपदिकगर्हणमनर्थकं स्यात्,व्यवच्छेद्याभावादिति भावः॥
बाल-मनोरमा
ह्यस्वो नपुंसके प्रातिपदिकस्य ३१६, १।२।४७

अथ आदन्ताः। श्रियं पातीति श्रीपाशब्दो वि()आपाशब्दवद्विजन्तः क्विबन्तो वा। तस्य न पुंसकत्वे ह्यस्वविधानमाह--ह्यस्वो नपुंसके। ह्यस्वश्रुत्योपस्तितेनाऽच इत्यनेन प्रातिपदिकस्य विशेषणात्तदन्तविधिरित्याह--क्लीब इत्यादिना। नच कुले इति द्विवचने एकादेशस्य पूर्वान्तत्वेन ग्रहणादजन्तप्रातिपदिकत्वाद्ध्रस्वः स्यादिति वाच्यम्, अर्थवदधातुरित्यतः प्रातिपदिकग्रहणानुवृत्तौ पुनः प्रातिपदिकग्रहणेनाऽन्तवद्भावतः प्रातिपदिकत्वे ह्यस्वाऽभावबोधनात्। ज्ञानवदिति। ह्यस्वविधानाद्दीर्घान्तत्वप्रयुक्तो न कश्चिद्विशेष इति भावः। "जश्शसोः शिः"। श्रीपाणीति रूपम्। भिन्नपदस्थत्वेऽपि "एकाजुत्तरपदे णः" इति णत्वप्रवृत्तेः। श्रीपेण। इनादेशे गुणे तस्य पूर्वान्तत्वादुत्तरपदस्य एकाच्त्वात्स्यादेव णत्वम्। श्रीपायेति। श्रीपाशब्दस्य "ह्यस्वो नपुंसके" इति ह्यस्वत्वे ङेर्यादेशे "सुपि चे"ति दीर्घे रूपम्। संनिपातपरिभाषा तु कष्टायेति निर्देशान्न प्रवत्र्तत इति प्रागुक्तम्। नन्वत्र ह्यस्वत्वे कृतेऽपि "पे"त्यस्य एकदेशविकृतन्यायेन धातुत्वानपायाद्दीर्घे कृते आकारान्तत्वाच्च "आतो धातोः" इत्याल्लोपः स्यात्, यादेशस्य स्वतो यकारादितया स्थानिवत्त्वेन स्वादिप्रत्ययतया च तस्मिन् परे भत्वस्यापि सत्त्वादित्यत आह-अत्र संनिपातेति। ननूपजीव्यविघातकं प्रति उपजीवकं निमित्तं न भवतीति संनिपातपरिभाषया लभ्यते। प्रकृतेच अदन्तमुपजीव्य प्रवृत्तस्य यादेशस्य आल्लोपं प्रति कथं न निमित्तत्वम्। यादेशस्य आकारमुपजीव्य प्रवृत्तत्वाऽभावेन आकारलोपं प्रति निमित्तत्वे बाधकाऽभावादिति चेत्, मैवम्-यादेशस्तावद्ध्रस्वमवर्णमुपजीव्य प्रवर्तते, तद्विधावत इत्यनुवृत्तेः। ततश्च ह्यस्वत्वमवर्णत्वं च समुदितं यादेशस्योपजीव्यम्। तत्र कष्टायेति निर्देशात्संनिपातपरिभाषां बाधित्वा कृते।ञपि दीर्घे ह्यस्वत्वांश एव निवृत्तः। अवर्णत्वांशस्त्वनुवृत्त एव। तस्याप्याल्लोपेन निवृत्तौ उपजीव्यविघातः स्यादेवेति भवेदेव संनिपातपरिभाषाविरोधः। अतो न भवत्याल्लोप इति कौस्तुभे समाहितम् "इको गुणवृद्धी" इत्यत्र। वस्तुतस्त्वातो धातोरित्यत्र लक्षणप्रतिपदोक्त परिभाषया प्रतिपदोक्त एवाकारान्तदातुर्गृह्रते। इह तु पाधातोह्र्यस्वत्वे तु पुनर्दीर्घे सति अवगम्यमानं पास्वरूपं लाक्षणिकमेवेति न तस्यात्र ग्रहणमित्यास्तां तावत्। इत्यादन्ताः।

तत्त्व-बोधिनी
ह्यस्वो नपुंसके प्रातिपदिकस्य २७८, १।२।४७

ह्यस्वो नपुंसके। इह ह्यस्वश्रुत्योपस्थितेनाऽच इत्यनेन प्रातिपदिकविशेषमात्तदन्तविधिरित्यह--अजन्तस्येति। प्रातिपदिकस्याच इति वैयधिकरण्येन व्याख्यायां तु "सुवाग्ब्राआहृआणकुल"मित्यत्रातिप्रसङ्गः स्यात्। एतच्च "अचश्चे"ति सूत्र एवास्माभिः स्पष्टीकृतम्। प्रातिपदिकस्येति किम्()। काण्डे। कुड()ए। ज्ञानवादिति। श्रीपाणी"त्यादौ "एकाजुत्तरपदे"इति णत्वं तु विशेषः। श्रीपेणे" त्यत्रापीनादेशेन सहाद्गुणे कृते एकादेशस्य पूर्वान्तत्वेन ग्रहणात् "अचः परस्मि"न्निति सूत्रे पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासपक्षाश्रयेण स्थानिवत्त्वाद्वा एकाजुत्तरपदमस्तीति स्यादेव णत्वम्। संनिपातेति। अवर्णमाश्रित्य कृतो यादेशः कथमवर्णलोपे निमित्तं स्यात्। न च "सुपि चे"ति दीर्घार्थं संनिपातपरिभाषाया अनित्यात्वाभ्युपगम आवश्यक एवेति वाच्यम्, "कष्टाये"ति निर्देशेन दीर्घविधौ अनित्यात्वाभ्युपगमेऽप्यवर्णलोपे कार्ये तदनभ्युपगमात्। कृतेऽपि दीर्घे ह्यस्वव्यक्त्यपायेऽप्यत्वजातेरनपायादिति दिक्। एतेन "श्रीपशब्दान्ङयि श्रीत्ये"ति केषाञ्चिद्व्याख्यानं परास्तम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ गोस्त्रियोः ६।२ ४९ उपसर्जनस्य ६।१ ४९ ह्रस्वः १।१ ४७ प्रातिपदिकस्य ६।१ ४७

समासः॥

गोश्च स्त्री च, गोस्त्रियौ, तयोः गोस्त्रियोः, इतरेतरद्वन्द्वः॥

अर्थः॥

उपसर्जनगोशब्दान्तस्य प्रातिपदिकस्य, उपसर्जनस्त्रीप्रत्ययान्तान्तस्य च प्रातिपदिकस्य ह्रस्वः भवति॥ स्त्रीशब्दः {स्त्रियां (४।१।३)} इत्यधिकारात् टाप्, डाप्, चाप्, ङीप्, ङीन् स्त्रीप्रत्ययाः, न तु स्त्रीशब्दः॥

उदाहरणम्॥

गोशब्दान्तस्य -- चित्रगुः, शबलगुः। स्त्रीप्रत्ययान्तस्य -- निष्कौशाम्बिः, निर्वाराणसिः, अतिखट्वः, अतिमालः॥
काशिका-वृत्तिः
गोस्त्रियोरुपसर्जनस्य १।२।४८

प्रातिपदिकस्य इति वर्तते। गो इति स्वरूपग्रहणं स्त्री इति प्रत्ययग्रहणं स्वरितत्वात्। उपसर्जनग्रहणं तयोर् विशेषणम्। गोरुपसर्जनस्य स्त्रीप्रत्ययान्तस्य उपसर्जनस्य इति। ताभ्यां प्रातिपदिकस्य तदन्तविधिः। उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति। चित्रगुः। शबलगुः। स्त्रियाः निष्कौशाम्बिः। निर्वाराणसिः। अतिखट्वः। अतिमालः। उपसर्जनस्य इति किम्? राजकुमारी। स्वरितत्वं किम्? अतितन्त्रीः। अतिलक्ष्मीः। अतिश्रीः। ईयसो बहुव्रीहेः प्रतिषेधो वक्तवयः। बहुश्रेयसी। विद्यमानश्रेयसेई।
लघु-सिद्धान्त-कौमुदी
गोस्त्रियोरुपसर्जनस्य ९५५, १।२।४८

उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्। अतिमालः। (अवादयः क्रुष्टाद्यर्थे तृतीयया)। अवक्रुष्टः कोकिलया - अवकोकिलः। (पर्यादयो ग्लानाद्यर्थे चतुर्थ्या)। परिग्लानोऽध्ययनाय पर्यध्ययनः। (निरादयः क्रान्ताद्यर्थे पञ्चम्या)। निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः॥
न्यासः
गोस्त्रियोरुपसर्जनस्य। , १।२।४८

"स्त्रीति स्त्रीप्रत्ययग्रहणम्" इति। अत्र हेतुमाह-- "स्वरितत्वात्" इति। स्त्रीग्रहणस्येह स्वरितत्वं क्रियत इति स्वरितेनाधिकारादवगतिर्भवति। तेन "स्त्रियाम्" ४।१।३ इत्यधिकृत्य ये प्रत्यया विहिताष्टावादयस्तेषां ग्रहणं भवति; न स्त्रर्थाभिधायिनः शब्दमात्रस्य, नापि स्त्रीशब्दस्यैव स्वरूपस्य उपसर्जनग्रहणं द्वयोर्विशेषणमित्यादेः स्पष्टीकरणयाह-- "गोरुपसर्जनस्य, स्त्रीप्रत्ययस्योपसर्जनस्य" इत्यादि। ताभ्यां प्रातिपदिकस्यत्यादेरपि स्फुटीकरणायाह--"उपसर्जनगोशब्दान्तस्य" इत्यादि। उपसर्जनगोशब्दोऽन्तो यस्येति विग्रहः। एवं गोशब्देनोपसर्जनेन स्त्रीप्रत्ययेन च प्रातिपदिकस्य तदन्तविधो सति गोः कुलं गोकुलम्, राज्ञः कुमार्याः पुत्रो राजकुमारीपुत्र इत्यत्र गोशब्द्य कमारीशब्दस्य च ह्यस्वत्वं न भवति, अन्यथा इहापि स्यात्। भवति ह्रत्र गोशब्दस्य राजकुमारीशब्दस्य चोपसर्जनत्वमित्यभिप्रायः। "चित्रगुः" इति। "प्रथमानिर्दिष्टम्" १।२।४३ इत्यादिना गोशब्दसयोपसर्जनसंज्ञा, निष्कोशाम्बिरित्यादौ तु "एकविभक्ति चापूर्व" १।२।४४ इत्यादिना। "अतितन्त्रीः" इत्यादि। "तत्रि कुटुम्बधारणे" (धा।पा।१६७८), "इदितो नुम्" ७।१।५८, "अवितृस्तृतन्त्रीभ्यः" (द।उ।१।८२) इतीः- तन्त्रीः। "लक्ष दर्शनाङ्कनयोः" (धा।पा।त१५३८), "लक्षेर्मुट् च" (द।उ।१।८४) इति मुट् ईप्रत्ययश्च-- लक्ष्मीः। "श्रिञ् सेवायाम्" (धा।पा। ८९७), "क्विब वचिप्रच्छि"(वा।२८८) इत्यादिना क्विप्, दीर्घः- श्रीः। "अत्यादयः क्रान्त्याद्यर्थे द्वितीयया" (वा।९१) इति प्रादिसमासः। यदि स्त्रीति स्त्र्यधिकारविहिताः प्रत्यया गृह्रन्ते ततश्च "प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य" (भो।सू।७) इति तदन्तग्रहणेऽतिराजकुमारीरित्यत्र ह्यस्वत्वं न सिध्यति; न हि राजकुमारशब्दात् "वयसि प्रथमे" ४।१।२० इति ङीप्प्रत्ययो विहितः,किं तर्हि? कुमारशब्दात्, नैष दोषः; एषा परिभाषा "यस्मात्प्रत्ययविधिस्तदादि" १।४।१३ इत्यत्र सूत्रे प्रतिपादिता। तत्र च "वाऽ‌ऽमि १।४।५ इत्यतः "वा" ग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन व्यवस्थिविभाषावतीयं क्वचिन्नोपतिष्ठत एव। अथ वा-- "कृत्तद्धितसमासाश्च" १।२।४६ इत्यतश्चकारोऽनुवर्तते,स चानुक्तसमुच्चयार्थः, तेनातिराजकुमारिरित्यत्रापि ह्यस्वत्वं भविष्यतीत्यदोषः। "ईयसो बहुव्रीहौ प्रतिषेधः" इति। ईयसन्ताद्यो विहितः स्त्रीप्रत्ययः,तदन्तस्य बहुव्रीहौ प्रतिषेध इति। कथं पुनरसौ लभ्यते? " विभाषा च्छन्दसि" १।२।३६ इत्यतो विभाषाग्रहणानुवृत्तेः। न चैवं सत्यतिप्रसङ्गः; व्यवस्थितविभाषाविज्ञानात्। "बहुश्रेयसी" इति। अतिशयेन प्रशस्येति "द्विवचनविभज्योपपदे तरबीयसुननौ" ५।३।५७ इतीयसुन्प्रत्ययः। "प्रशस्यस्य" ५।३।६० इति प्रशस्यशब्दस्येयसुनि परतः श्रादेशो भवति, "प्रकृत्यैकाच्" ६।४।१६३ इति प्रकृतिवद्भावः, "आद्गुणः" ६।१।८४, "उगितश्च" ४।१।६ इति ङीप्। बह्व्यःश्रेयस्यो यस्येति बहुश्रेयसीति "नद्युतश्च" ५।४।१५३ इति कप् न भवति; "ईयसश्च" ५।४।१५६ इति कपो निषेधात्।
बाल-मनोरमा
गोस्त्रियोरुपसर्जनस्य ६४८, १।२।४८

प्रकृते च दिशयोर्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात्समासविधौ प्रथमानिर्दिष्टत्वाऽभावेऽपि अनेनोपसर्जनत्वं भवति। पूर्वनिपातस्तु न भवतीति स्थितम्। गोस्त्रियोः। "ह्यस्वो नपुंसके प्रातिपदिकस्ये"त्यतो "ह्यस्व" इति "प्रातिपदिकस्ये"ति चानुवर्तते। उपसर्जनस्येति गोस्त्रिर्विशेषणम्। प्रत्येकाभिप्रायमेकवचनम्। स्त्रीशब्देन स्त्रीप्रत्ययो गृह्रते। प्रत्ययग्रहणपरिभाषया तदन्तविधिः। उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते। तदुभयं प्रातिपदिकस्य विशेषणम्। तेन तदन्तविधिः। तदाह--उपसर्जनमित्यादिना। अत्र च शास्त्रीयमेवोपसर्जनं गृह्रते,न त्वप्रधानमात्रं, कुमारीमिच्छन् कुमारीवाचरन्वा ब्राआहृणः कुमारीत्यत्रातिप्रसङ्गात्। अव्ययीभावश्चेत्यव्ययत्वमिति।

तत्त्व-बोधिनी
गोस्त्रियोरुपसर्जनस्य ५७३, १।२।४८

गोस्त्रियोः। उपसर्जनस्येति गोस्त्रियोर्विशेषणम्। एकवचनं तु प्रत्येकाभिप्रायेण। गोस्त्रीभ्यां तु प्रातिपदिकं विशेष्यते। विशेषणेन तदन्तविधिरित्याशयेनाह--उपसर्जनंय इति। उपसर्जनमिह शास्त्रियं गृह्रते, न त्वप्रधानलक्षणम्। तेन कुमारीवाऽ‌ऽचरन्ब्राआहृणः कुमारीत्यत्र न दोष इत्युक्तम्। स्त्रीप्रत्ययान्तमिति। रुयधिकारोक्तटाबाद्यन्तमित्यर्थः। तेनातिलक्ष्मीरित्यादौ नातिप्रसङ्गः। नन्वेवमपि "राजकुमारीपुत्र"इत्यादावतिप्रसङ्ग इति चेत्। अत्राहुः--उपसर्जनस्य ससंबन्धिकतया यस्य प्रातिपदिकस्य ह्यस्वो विधीयते तदर्थं प्रति यद्युत्तरपदभूतयोर्गोस्त्रियोर्गुणीभावस्तदैव ह्यस्वत्वमिति भाष्यादावुक्तत्वान्न दोषः। भाष्यदावपि उत्तरपदभूतयोरित्यर्थलाभस्तु "कृत्तद्धिते"त्यतः समासपदानुवर्तनादिति बोध्यमिति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ लुक् १।१ तद्धितलुकि ७।१ ५० स्त्री १।१ ४८ उपसर्जनस्य ६।१ ४८

समासः॥

तद्धितस्य लुक् तद्धितलुक्, तस्मिन् तद्धितलुकि, षष्ठीतत्पुरुषः।

अर्थः॥

तद्धितलुकि सति उपसर्जनस्य स्त्रीप्रत्ययस्यापि लुक् भवति॥

उदाहरणम्॥

पञ्चेन्द्रः, दशेन्द्रः। पञ्चशष्कुलं, आमलकं, बकुलं, कुवलं, बदरम्॥
काशिका-वृत्तिः
लुक् तद्धितलुकि १।२।४९

स्त्रीग्रहणम् अनुवर्तते उपसर्जनस्य इति च। पूर्वेण ह्रस्वत्वे प्राप्ते लुग् विधीयते। तद्धितलुकि सति स्त्रीप्रत्ययस्य उपस्र्जनस्य लुग् भवति। पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः। दशेन्द्रः। पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः। आमलक्याः फलमामलकम्। बदरम्। कुवलम्। तद्धितग्रहणं किम्? गार्ग्याः कुलं गार्गीकुलम्। लुकि इति किम्? गार्गीत्वम्। उपसर्जनस्य इत्येव। अवन्ती। कुन्ती। कुरूः।
न्यासः
लुक्तद्धितलुकि। , १।२।४९

अदर्शनं १।१।५९ लुक्, तच्चाभावः। अभावे पौवापर्यन्नोपपद्यते। तस्माल्लुकीति सति सप्तमीयम्, न परसप्तमीति मत्वाहऽ‌ऽह-- "तद्धितलुकिसति" इति। "पञ्चेन्द्रः" इति। "तद्धितार्थ" २।१।५० इत्यादिना समासे कृते "साऽस्य देवता" ४।२।२३ इत्यण्, तस्य "द्विगोर्लुगनपत्ये" ४।१।८८ इति लुक्, "इन्द्रवरुण" ४।१।४९ इत्यादिना विहितस्य ङीषोऽनेन लुक्। तस्मिन्निवृत्ते सन्नियोगशिष्टानामेकतरापाय उभयोरप्यपाय इत्यानुको निवृत्तिः। "पञ्चशष्कुलिः" इति। "अध्यद्र्धपूर्वद्विगोर्लुगसंज्ञायम्" ५।१।२८ इत्यार्हीयस्य ठकस्तेन क्रीतार्थे विहितस्य लुक्। "आमलकम्" इति। आमलक्याः फलं विकार इति "नित्यं वृद्धशरादिभ्यः" ४।३।४४ इत्यञ्। पूर्ववल्लुक्। शष्कुली, बदरी, आमलकी, कुवली-- गौरादिपाठदेते ङीषन्ताः। "गार्गीकुलम्िति। गाग्र्यशब्दात् "यञश्च" ४।१।१६ इति ङीप्; "यस्येति च" ६।४।१४८ इत्यकारलोपः; "हलस्तद्धितस्य" ६।४।१५० इति यकारस्य च लोपः, गार्ग्याः कुलमिति षष्ठीसमासः, षष्ठ()आ लुक्। गार्गीशब्दस्य समासशास्त्रे प्रथमानिर्दिष्टत्वाच्छास्त्रीयमुपसर्जनत्वम्, मूलोदाहरणेषु त्विन्द्रणी प्रभृतीनां लौकिकमात्रोपसर्जनमत्वम्। उभयगतिरिह शास्त्रे सम्भवतीति लौकिकमप्रधानत्वमुपसर्जनत्वम्। लोके ह्रप्रधानमुपसर्जनमित्यच्यते। "गार्गीत्वम्" इत्यत्रापि गार्गीशब्दस्य लौकिकमेवोपसर्जनत्वम्। "अवन्ती, कुन्ती कुरूः" इति। अवन्तेरपत्यं गोत्रं स्त्री, कुन्तेरपत्यं गोत्रं स्त्री-- "वृद्धेत्कोशलाजादाञ्ञ्यङ" ४।१।१६९। कुरोरपत्यं स्त्री-- "कुरुनादिभ्यो ण्यः" ४।१।१७० इति ण्यः। "स्त्रियामवन्तिकुन्तिकुरुभ्यश्च" ४।१।१७४ इति लुक्। अवन्तिकुन्तुशब्दाभ्याम्, "इतो मनुष्यजातेः" ४।१।६५ इति ङीष्। कुरुशब्दात् "ऊङुतः" ४।१।६६ इत्यूङ। अत्र ङीषा ऊङा च तद्धितार्थो गोत्रापत्यं स्त्रीप्रधानमेवाभिधीयत इत्युपसर्जनत्वं नासति लौकिकम्। शास्त्रीयमपि नास्ति; अप्रथमानिर्दिष्टात् समासशास्त्र इति॥
बाल-मनोरमा
लुक्तद्धितलुकि १३८७, १।२।४९

लुक्तद्धितलुकि। प्रथमस्य द्वितीये इदं सूत्रम्। उपसर्जनस्त्रीप्रत्ययस्येति। "गोस्त्रियोरुपसर्जनस्ये"त्यतस्तदनुवृत्तेरिति भावः। श्रविष्ठ इति। ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः। "लुक्तद्धितलुकी"त्यत्र अप्रधानमेवोपसर्जनम्, नतु शास्त्रीयम्, असंभवादिति भावः। फल्गुन इति। फल्गुन्योर्जात इत्यर्थः।?णो लुकि स्त्रीप्रत्ययनिवृत्तिः। इत्यादीति। अनुराधासु जातोऽनुराधः। नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः। एवमग्रे लुकि स्त्रीप्रत्ययनिवृत्तिः। इत्यादीति। अनुराधासु जातोऽनुराधः। नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः। एवमग्रेऽपि। "अनुराधान् हविषा वर्धयन्तः" इत्यादौ छान्दसं पुंस्त्वम्। स्वात्यां जातः-स्वातिः। तिष्ये जातस्तिष्यः। पुनर्वस्वोर्जातः--पुनर्वसुः। पस्ते जातो-हस्तः। विशाखयोर्जातो-विशाखः। अषाढासु जातोऽषाढः। बहुलासु जातो बहुलः।

चित्रेति। चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः। रेवती रोहिणीति। जातायां नक्षत्राऽणो लुकि सति प्रकृतेर्गौरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्ङीष्। ननु "रेवती नक्षत्रे" "रोहिणी नक्षत्रे" इति गौरादौ पाठादिह जातार्थवृत्तिभ्यां कतं ङीषित्यत आह--आभ्यामिति। रेवतीरोहिणीशब्दाभ्यामित्यर्थः। "परस्य स्त्रीत्वविशिष्टजातार्थप्रत्ययस्ये"ति शेषः। आकृतिगणत्वादिति। स्त्रीत्वविशिष्टजातार्थवृत्त्योरनयोः पिप्पल्यादौ निवेसे बाष्योदाहरणमेव प्रमाणम्। स्त्रियामित्येवेति। तथा भाष्यादिति भावः। फल्गुनी, आषाढा इत्याभ्यां क्रमाट्टः अन् च स्त्रीत्वविशिष्टजातार्थे वक्तव्यावित्यर्थः

फल्गुनीति। फल्गुन्योर्जातेत्यर्थः। नक्षत्राऽणोऽपवादष्टप्रत्ययः। "यस्येति चे"ति ईकारलोपः। जातार्थस्त्रीत्वे टित्त्वान्ङीप्। अषाढेति। अषाढासु जातेत्यर्थः। नत्रत्राऽणोऽपवादोऽन्। "यस्येति च " इत्याकारलोपः। जातार्थे स्त्रीत्वे टाप्। "श्रविष्ठाफल्गुनी" त्यादिना टाऽनोर्लुक् तु न, विधानसामथ्र्यात्। छण्वक्तव्य इति। नक्षत्राऽणोऽपवादः। विधिसामथ्र्यादस्यापि न लुक्। अस्त्रियामपीति। अत्र स्त्रियामिति न संबध्यते, भाष्ये तथोदाहरणादिति भावः।

श्राविष्ठीय इति। श्रविष्ठासु जात इत्यर्थः। छण्। ईयः "यस्येति चे"त्याकारलोपः। णित्त्वादादिवृद्धिः। आषाढीय इति। अषाढासु जात इत्यर्थः।

तत्त्व-बोधिनी
लुक्तद्धितलुकि १०९०, १।२।४९

लुक्त। उपसर्जनेति। अप्रधानमिहोपसर्जनं गृह्रते , न शास्त्रीयम्, असंभवात्। ननु "गोस्त्रियो"रिति सूत्रेऽप्यप्रधानलक्षणमेवोपसर्जनं गृह्रताम् "एकविभक्ति चे"ति शास्त्रीयं न गृह्रताम्। मैवम्। हरीतक्याः फलानि हरीतक्य इत्यत्र ह्यस्वप्रसङ्गात्। उपसर्जनस्य किम्()। अवन्ती, कुन्ती, कुरूः।

श्रविष्ठाऽषाढाभ्यां छण्वक्तव्यः। श्रविष्ठास्विति। श्रविष्ठा=धनिष्ठाः। इत्यादीति। आदिशब्दादनूराधः। स्वातिः। तिष्यः। पुनर्वसुः। हस्तः। विशाखः। अषाढः। बहुलः। कृत्तिकावाची बहुलाशब्दष्टाबन्तः, तस्य समाहारद्वन्द्वेन ह्यस्वनिर्देशः सूत्रे। उपशङ्ख्यानमिति। "लुक"इति शेषः। चित्रेति। "लुक्तद्धिते"ति लुकि पुनष्टाप्। टाऽनाविति। विधानसामथ्र्यादनयोर्न लुक्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ इत् १।१ गोण्याः ६।१ तद्धितलुकि ७।१ ४९

अर्थः॥

तद्धितलुकि सति गोणीशब्दस्य इकारादेशः भवति। पूर्वसूत्रेण लुकि प्राप्ते तदपवादः इकारः विधीयते॥

उदाहरणम्॥

पञ्चगोणिः, दशगोणिः॥
काशिका-वृत्तिः
इद्गोण्याः १।२।५०

पूर्वेण लुकि प्राप्ते इकारो विधीयते। गोण्यास्तद्धितलुकि सति इकाराऽदेशो भवति। पञ्चभिर् गोणीभिः क्रीतः पटः पञ्चगोणिः। दशगोणिः। इतिति योगविभागः। पण्चभिः सूचीभिः क्रीतः पञ्चसूचिः। दशसूचिः। स च एवं विषय एव।
न्यासः
इद्गोण्याः। , १।२।५०

"पञ्गोणिः" इति। "तद्धितार्थ" २।१।५० इति समासे कृत आर्हीयष्ठक्। तस्य पूर्ववल्लुक्। "इदिति योगविभागः" इति। एतस्येद्ग्रहणमेव लिङगम्। तथा हि गोणी इत्येतावति सूत्रे ह्यस्वग्रहणानुवृत्तौ ह्यस्वत्वे कृते पञ्चगोणिरिति सिद्ध्यत्येव;किमिद्ग्रहणेन? तदेतदिद्ग्रहणं क्रियमाणं योगविभागर्थं विज्ञायते। ननु चानन्तरसूत्राल्लुक एवानुवृत्तिः स्यात्, न ह्यस्वस्य, नैतदस्ति; लुगनुवृत्तौ हि सूत्रमिदमनर्थकं स्यात्; लुकोऽनन्तरसूत्रेणैव सिद्धत्वात्। तस्माद्ध्रस्वग्रहणमेवानुवत्र्तते, न लुग्ग्रहणम्। "पञ्चसूचिः" इति। पञ्चगोणिरित्यनेन तुल्यम्। यदि योगविभागः क्रियते, तदातिप्रसङ्गः स्यात्। अन्येषामपि प्रसज्यत इत्यत आह-- "स च" इत्यादि। यदि सर्वत्रेत्त्वं पूर्वयोगेणैव स्यात्, तदा "गोण्याः" इति वचनमनर्थकम्। तस्मादगोणीग्रहणादस्यासर्वविषयत्वम्। तेन योगविभागः सूचीविषय एव, नान्यविषय इति। तपरकरणं दीर्घानिवृत्त्यर्थम्। दीर्घस्य दीर्घकरणमनर्थकं स्यात्। अतो विना तपरकरणेन दीर्घो न भविष्यीति चेत्, न; लुघ्यस्वबाधनार्थत्वाद्दीर्घकरणस्य। भाव्यमानोऽण् सवर्णान् न गृह्णातीति, तस्माददीर्घनिवृत्त्यर्थं तपरत्वं नोपपद्यत इति चेत्, न; तस्याभाव्यमानत्वात्। अपूर्वस्य हि विधानं भाव्यमानत्वम्। न चात्रापूर्वस्य विधानम्। तथा हि-- लुग्घ्रस्वयोः प्राप्तयोः पुनः स एव ईकारः प्रतिप्रसूयते। तस्मात् तपरकरणं कत्र्तव्यम्॥
बाल-मनोरमा
इद्गोण्याः १६८०, १।२।५०

इद्गोण्याः। लुकोऽपवाद इति। "लुक्तद्धितलुकी"ति प्राप्तस्येत्यर्थः। पञ्चगोणिरिति। आर्हीयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः। नच उपसर्जनह्यस्वत्वेनैव इदं सिद्धमिति वाच्यम्, इत्त्वविध्यभावे "सुक्तद्धितलुकी"ति ङीषो निवृत्तावदन्तत्वाट्टापि पञ्चगोणेत्यापत्तेः। मूलद्रव्यवाचिन एव तृतीयान्तात्क्रीतार्थे प्रत्यया भवन्ति, नतु "देवदत्तेन क्रीत"मित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
इद्गोण्याः १२९९, १।२।५०

लुकोऽपवाद इति। "लुक्ताद्धितलुकी"ति प्राप्तस्य स्त्रीप्रत्ययस्य लुकोऽपवाद इत्यर्थः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ लुपि ७।१ ५२ युक्तवत् ५२ व्यक्तिवचने १।२ ५२

समासः॥

व्यक्तिश्च वचनञ्च व्यक्तिवचने, इतरेतरद्वन्द्वः॥

अर्थः॥

लुपि सति व्यक्तिवचने = लिङ्गसङ्ख्ये युक्तवत् = प्रकृत्यर्थवद्भवतः, अर्थात् तद्धितप्रत्ययोत्पत्तेः पूर्वस्य प्रकृत्यर्थस्य ये लिङ्गसङ्ख्ये स्तः ते तद्धितप्रत्ययस्य लुपि सत्यपि भवतः। युक्तह् प्रकृत्यर्थः प्रत्ययार्थेन सम्बद्धः तद्वत् लुपि सत्यपि भवतः॥ व्यक्तिः = लिङ्गम्। वचनं = सङ्ख्या, एकत्वद्वित्यबहुवचनानि। व्यक्तिवचने इति लिङ्गसङ्ख्ययोः पूर्वाचार्याणां निर्देशः।

उदाहरणम्॥

पञ्चालाः, कुरवः, मगधाः, मत्स्याः, अङ्गाः, वङ्गाः, सुह्माः, पुण्ड्राः। गोदौ ग्रामः। कटुकवदरी ग्रामः॥
काशिका-वृत्तिः
लुपि युक्तवद्व्यक्तिवचने १।२।५१

लुपि इति लुप्सन्ंज्ञया लुप्तस्य प्रत्ययस्य अर्थ उच्यते। तत्र लुपि युक्तवद्व्यक्तिवचने भवतः। युक्तवतिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते। स हि प्रत्ययार्थम् आत्मना युनक्ति। तस्य युक्तवतो व्यक्तिवचने लुबर्थे विधीयेते। अथ वा युक्तः प्रकृत्यर्थः प्रत्ययार्थेन सम्बद्धः, तस्मिन्निव व्यक्तिवचने लुबर्थे भवतः। सप्तम्यर्थे वतिः। व्यक्तिवचने इति च लिङ्गसङ्ख्ययोः पूर्वाचर्यनिर्देशः, तदीयम् एव इदं सूत्रम्। तथा च अस्य प्रत्याख्यानं भविष्यते, तदशिष्यं संज्ञाप्रमाणत्वात् १।२।५३ इति। व्यक्तिः स्त्रीपुम्नपुंसकानि। वचनम् एकत्वद्वित्वबहुत्वानि। पञ्चलाः क्षत्रियाः पुंलिङ्गा बहुवचनविशयाः। तेषां निवासो जनपदः। यथा तेषु क्षत्रियेषु व्यक्तिवचने तद्वज्जनपदे भवतः। पञ्चालाः। कुरवः। मगधाः। मत्स्याः। अङ्गाः। वङ्गाः। सुग्माः। पुण्ड्राः। लुपि इति किम्? लुकि मा भूत्। लवणः सूपः। लवणा यवागूः। लवणं शाकम्। व्यक्तिवचने इति किम्? शिरीषाणाम् अदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनम्। विभाषाओषधिवनस्पतिभ्यः ८।४।६ इति णत्वं न भवति। हरितक्यादिषु व्यक्तिः। हरीतक्याः फलानि हरीतक्यः फलानि। खलतिकादिषु वचनम्। खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकं वनानि।
लघु-सिद्धान्त-कौमुदी
जनपदे लुप् १०६३, १।२।५१

जनपदे वाच्ये चातुरर्थिकस्य लुप्॥
लघु-सिद्धान्त-कौमुदी
लुपि युक्तवद्व्यक्तिवचने १०६४, १।२।५१

लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः। अङ्गाः। वङ्गाः। कलिङ्गाः॥
न्यासः
लुपि यक्तवद्वयक्तिवचने। , १।२।५१

अभिधेयस्य लिङ्गसङख्ययोः प्राप्तयोरयमारम्भः। लुबिति प्रत्ययस्यादर्शनम्,तच्चाभावात्मकम्। न चाभावे व्यक्तिवचनयोः शक्यतेऽतिदेशः कर्त्तुम्। तस्माल्लुप्संज्ञया लुप्तस्य प्रत्ययस्यार्थो लुप्शब्देन विवक्षित इति मत्वाऽह--"लुपीति लुप्संज्ञया" इत्यादि। कथं पुनरेतल्लभ्यते, यावता प्रत्ययादर्शनस्यैषा संज्ञा, न तु प्रत्ययार्थस्य? साहचर्यात्। साहचय्र्यन्तु यत्र लुप्, तत्रावश्यं प्रत्ययार्थस्य सद्भावात्। "युक्तवदिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते" इति। अत्र कारणमाह-- "स हि" इत्यादि। युनक्ति = अभिसम्बध्नाति, विशेषणविशेष्यभावलक्षणसम्बन्धेनात्मसम्बन्धिनं करोतीत्यर्थः। तत्र "तस्य निवासः" इत्यादि प्रत्ययार्थो विशेष्यः,पञ्चालादिशब्दस्यार्थः प्रकृत्यर्थो विशेषणम्। तेन हि पूर्व विज्ञातेन स्वाम्यन्तरव्यवच्छेदेन प्रत्ययार्थो विशिष्यते। "अथ वा" इत्यादि। पूर्वं "युजिर् योगे" (धा।पा।१४४४) इत्यस्माद्धातो क्तवतुप्रत्यये सति युक्तवदित्यतद्रूपं प्रदर्शितम्, इदानीं तस्यैव धातोः क्तप्रत्ययाद्वतिप्रत्यये सति युक्तवदित्येतद्रूपं दर्शयति। यद्यपि द्विष्ठत्वात् सम्बन्धस्य -- यथा प्रत्ययार्थेन प्रकृत्यर्थो युक्तः, तथा प्रकृत्यर्थेनापि प्रत्ययार्थः; तथापि प्रत्ययार्थसम्बन्धिनोव्र्यक्तिवचनयोः प्रत्ययार्थ एवातिदेशोऽनर्थक इति प्रकृत्यर्थ एवात्र युक्तशब्देन विवक्षित इति मत्वाऽह-- "युक्तः प्रकृत्यर्थः" इति। "सप्तम्यर्थे वतिः" इति। लुपीति सप्तमीनिर्देशात्। व्यक्तिशब्दः प्रादुर्भावादावप्यर्थे वत्र्तते, वचनशब्दो हि भाषणादिषु, अतस्तत्संप्रत्ययो मा भूदित्यत आह-- "व्यक्तिवचने" इति। किं पुनः कारणं पूर्वाचार्यनिर्देश आश्रीयत इत्यत्र आह-- "तदीयम्" इत्यादि। कुत एतदित्यत आह-- "तथा च" इत्यादि। न हि स्वकीयस्यैव प्रत्याख्यानं युक्तमिति भावः। "पञ्चालाः क्षत्रियाः" इति। पञ्()चालस्यापत्यानि बहूनीति विवक्षायाम् "जनपदशब्दात् क्षत्रियादञ्" ४।१।१६६, तस्य "तद्राजस्य बहुषु तेनैवास्त्रियाम्" २।४।६२ इति लुक्। "तेषां निवासो जनपदः" इत्यस्य वक्ष्यमाणेन "पञ्चालानाम्" इत्यनेन सम्बन्धः। "पञ्चालानां निवासो जनपदः" इति। तस्य "जनपदे लुप्" ४।२।८० इति लुक्। कुरुशब्दादपत्यार्थे "करुनादिभ्यो ण्यः" ४।१।१७० इति ण्यप्रत्ययः। मत्स्यादिशब्देभ्योऽप्यपत्यार्थे "द्वयञ्मगध" ४।१।१६८ इत्यादिनाण्। शेषं पूर्ववत्। "लवणः सूपः" इति। लवणेन संसृष्ट इति प्राग्वहतीष्ठक् ४।४।१, तस्य "लवणाल्लुक्" ४।४।२४ इति लुक्। अत्राभिधेयवल्लिङ्गवचने भवतः। शिरीषाणामदूरभदो ग्राम इति शिरीषाः। "अदूरभवश्च" ४।१।७० इति शरीषशब्दादण्, तस्य "वरणादिभ्यश्च " ४।२।८१ इति लुप्। णत्वन्न भवतीति व्यक्तिवचनग्रहणस्य फलम्। यदि "व्यक्तिवचने" इति नोच्येत, तदा शिरीषेषु यद्वनस्पतित्वं तस्यापि ग्रामेऽतिदेशः स्यात्। एवञ्च शिरीषवनमित्यत्र "विभाषौषधिवनस्पतिभ्यश्च" ८।४।६ इति णत्वं प्रसज्येत्। "हरीतक्यः फलानि" इति। हरीतकीशब्दो गौरादिषु पिप्पल्यादिदर्शनान्ङीषन्तः। ततः फले विकारे "अनुदात्तादेरञ्" ४।२।४३ इत्यञ्; तस्य "हरीतक्यादिभ्यश्च" ४।३।१६५ इति लुप्। अत्र व्यक्तिरेव युक्तवद्भावेन भवति, वचनन्त्वभिधेयवदिति। एतच्च विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्च लभ्यते। "खलतिकं वनानि" इति। "अदूरभवश्च" ४।२।६९ इत्यण्, तस्य "वरणादिभ्यश्च" ४।२।८१ इति लुप्। अत्र वचनमेव युक्तवद्भावेन भवति, व्यक्तिस्त्वभिधेयवदेवेति। एतदपि पूर्ववदेव लभ्यते॥
बाल-मनोरमा
लुपि युक्तवद्व्यक्तिवचने १२७५, १।२।५१

लुपि यक्तवत्। प्रकृतिभूतः शब्दः=युक्तः, व्यक्तिः=लिङ्गं, वचनं=सङ्ख्येति पूर्वाचार्यसङ्केतः। तदाह--लुपि सति प्रकृतिवल्लिङ्गवचने स्त इति। "लु"बिति प्रत्ययाऽदर्शनमुच्यते। लुपः प्रवृत्तेः प्राक्प्रत्ययप्रकृतेर्यल्लिङ्गं वचनं ते एव लुपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः। पञ्चालानामिति। पञ्चालसंज्ञकानां राज्ञामित्यर्थः। पञ्चाला इति। "तस्य निवास" इति विहितस्याऽणः "जनपदे लु"बिति लुपि प्रकृतिबद्बहुवचनमिति भावः। कुरव इत्यादि। कुरूणाम्, अङ्गाना, वङ्गानां, कलिङ्गानां च निवासो जनपद इति विग्रहः। लिङ्गातिदेशे तु "कटिबदर्या अदूरभवो जनपदः कटुबदरी"त्युदाहार्यम्।

तत्त्व-बोधिनी
लुपि युक्तवव्द्यक्तिवचने १०३१, १।२।५१

लुपि युक्तवदिति। व्यक्तिवचने किम्()। शिरीषाणामदूरभवो ग्रामः शिरीषाः। "वारणादिभ्यश्चे"ति लुप्। तस्य वनं शिरीषवनम्। इह वनस्पतित्वमतिदिश्येत। ततश्च "विभाषौषधिवनस्पतिभ्यः"इति णत्वं स्यात्। नन्वत्र शिरीषाणामिति षष्ठीबहुवचनं कृतो नातीदिश्यत इति चेत्। अत्राहुः--वचनमिह सङ्क्या, न त्वेकवचनाद्विवचनादि। न चैवमपि सह्ख्याबोधकत्वेन श्रुतैव षष्ठी परिगृह्रतामिति वाच्यं, षष्ठ()र्थस्य तद्धितवृत्त्यन्तर्गतत्वादुक्तार्थे प्रथमाया एव युक्तत्वादिति। पञ्चला इत्यादि। यद्यप्यत्राभिधेयलिङ्गवत्त्वेऽपीष्टसिद्धिस्तथापि कटुबदर्या अदूरभवो ग्रामः कटुबदरीत्यादिसिद्धये प्रकृतिलिङ्गातिदेश इति भावः। पूर्वाचार्यानुरोधेन कृतं सूत्रं संप्रति प्रतायचष्टे।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ विशेषणानाम् ६।३ जातेः ५।१ लुपि ७।१ ५१ युक्तवत् ५१ व्यक्तिवचने १।२ ५१

अर्थः॥

तद्धितप्रत्ययस्य लुपि = लुबर्थस्य यानि विशेषणानि तेषाम् अपि युक्तवत् (प्रखृत्यर्थवत्) लिङ्गसङ्ख्ये भवतः, आ जातेः = जातेः पूर्वम्, आजातिप्रयोगात् इत्यर्थः। यदा तु विशेषणत्वेन विशेष्यत्वेन वा जातिः विवक्ष्यते तदा युक्तवद् भावः न भवति॥

उदाहरणम्॥

पञ्चालाः रमणीयाः बह्वन्नाः बहुक्षीरघृताः बहुमाल्यफलाः। गोदौ रमणीयौ बह्वन्नौ बहुक्षीरघृतौ बहुलाल्यफलौ। कटुकबदरी शोभना बहुमाल्यफला बहुक्षीरघृता॥
काशिका-वृत्तिः
विशेषणानां च अजातेः १।२।५२

लुपि इति वर्तते। लुबर्थस्य यानि विशेषणानि तेषाम् अपि च युक्तवद् व्यक्तिवचने भवतः जातिं वर्जयित्वा। पञ्चालाः रमणीयाः, बह्वन्नाः, बहुक्षीरघृताः, बहुमाल्यफलाः। गोदौ रमणीयौ, बह्वन्नौ, बहुक्षीरघृतौ, बहुमाल्यफलौ। अजातेः इति किम्? पञ्चालाः जनपदः। गोदौ ग्रामः। जात्यर्थस्य चायं युक्तवद्भावप्रतिषेधः। तेन जातिद्वारेण यानि विशेषणानि तेषाम् अपि युक्तवद्भावो न भवति। पञ्चालाः जनपदो रमणीयो, बह्वन्नः। गोदौ ग्रामो रमणीयो, बह्वन्नः इति। मनुष्यलुपि प्रतिषेधो वक्तव्यः। चञ्चा अभिरूपः। वर्ध्रिका दर्शनीयं।
न्यासः
विशेषणानां चाजातेः। , १।२।५२

पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसंख्ययोर्लुबर्थेऽतिधेशात् तद्विशेषणानामपि रमणीयादीनां व्यक्तिवचनातिदेशः सिद्ध एव। यद्यपि भिन्नं विशेषणानां प्रवृत्तिनिमित्तम्; तथापि तेन भिन्नेनापि तत्र प्रवत्र्तमानानां स एव लुबर्थोऽतिदिष्टव्यक्तिवचनस्तेषामभिधेयः, तस्मात् तद्गतेनैव लिङ्गसंख्याभिधाने सिद्धे जातिप्रतिषेधार्थमिदं वचनम्। "गोदौरमणीयौ" इति। गोदौ नाम ह्यदौ, तयोरदूरभवो ग्राम इत्यर्थेऽण्। "वरणादिभ्यश्च" ४।२।८१ इति लुप् तस्य। "पञ्चालाः जनपदः"। "गोदौ ग्रामः "इति। जनपदग्रामशब्दौ जातिवचनौ। ताभ्यां जातिनिमत्ताभ्यां स एव लुबर्थो जातिरूपेणोच्यत इति तयोरपि व्यक्तवचने युक्तवत् स्याताम्। ततो "जातेः" इति प्रतिषेधः। "जात्यर्थस्य" इत्यादि। जातिशब्दस्यार्थो जात्यर्थः, तस्यायम् "अजातेः" इति युक्तवद्भावप्रतिषेधः, न जातिशब्दस्यैवेत्यर्थः। किमेव सति सिद्धं भवतीत्यत आह- "तेन" इत्यादि। अर्थस्य युक्तवद्भावप्रतिषेधे सति यथा जातिशब्दस्य तत्रार्थे वत्र्तमानस्य तदीये लिङ्गसंख्ये न भवतः, तथा तद्विशेषणानामपि युक्तवद्भावो न बह्वन्न इत्यादौ न स्यात्, रमणीयादीनामजातिशब्दत्वात्। द्वारग्रहणं लुबर्थे जातिशब्द्स्य प्रवृत्तत्वात्, लुबर्थे जातिविशेषणानां साक्षादप्रवृत्तेः। तानि हि साक्षाज्जातिमेव विशेषयन्ति। तस्यां तु विशेषितायां लुबर्थोऽपि विशिष्ट एव प्रतीयत इति जातिद्वारेण तस्य तानि विशेषणानि भवन्ति। "मनुष्यलुपि" इति। मनुष्यलक्षणो यो लुप् तस्य विशेषणानां युक्तवद्भावप्रतिषेध इति। स च विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाल्लभ्यते। "चञ्चाभिरूपः" इति। चञ्चेव मनुष्यश्चञ्चा-- "इवे प्रतिकृतौ" ५।३।९६ इति कन्। तस्य "लुम् मनुष्ये" ५।३।९८ इति लुप्। "अभिरूपः" इति विशेषणस्याभिधेयवल्लिङ्गवचनानि भवन्ति। " वर्ध्रिका" इति। पूर्ववत् कँल्लुपौ॥
बाल-मनोरमा
विशेषणानां चाऽजातेः १२८१, १।२।५२

विशेषणानां चाजातेः। कस्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ठ()आ विपरिणतं संबध्यते। लुप्तप्रत्ययार्थस्येति लभ्यते। तदाह--लुबर्थस्येति। तद्वदिति। प्रकृतिवदित्यर्थः। "लुपि युर्तवद्व्यक्तिवचने" इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम्। पञ्चाला रमणीया इति। पञ्चालानां निवासो जनपद इत्यर्थः। अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रममीयशब्दस्य प्रकृतिवद्बहुवचनम्। गोदौ रमणीयाविति। गोदयोर्निवासो जनपद इत्यर्थः। अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवद्द्विवचनम्। पञ्चाला जनपद इति। जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुवचनम्। गोदौ ग्राम इति। अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवद्द्विवचनम्।

हरीतक्यादिषु व्यक्तिरिति। वार्तिकमिदम्। "लुपि लिङ्गं प्रकृतिवद्भवति, न तु वचन"मिति शेषः। हरीतक्य इति। "हरीतक्यादिभ्यश्चे"ति विकारप्रत्ययस्य लुप्। अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचनमिति भावः।

खलतिकादिषु। वार्तिकमिदम्। एषु लुपि प्रकृतिवद्वचनमेव भवति, नतु लिङ्गमित्यर्थः। खलतिकं वनानीति। "वरणादिभ्यश्चे"ति लुप्। अत्र खलतिकशब्दस्य लुप्तप्रत्ययान्तस्य प्रकृतिवत्पुंलिङ्गत्वं न भवति, किन्तु एकवचनमेवेति भावः। मनुष्यलुपि प्रतिषेध इति। वार्तिकमिदम्।

मनुष्यलक्षणे इति। मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गवचनप्रतिषेध इत्यर्थः। चञ्चा अभिरूप इति। चञ्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यश्चञ्चा। "इवे प्रतिकृतौ" इत्यधिकारे "संज्ञाया"मिति कनो "लुम्मनुष्ये" इति लुप्। अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्ये वाच्ये प्रकृतिलिङ्गत्वं, न तु तद्विशेषणस्याऽभिरूपशब्दस्येति भावः। इति युक्तवद्भावप्रकरणम्।

तत्त्व-बोधिनी
विशेषणानां चाऽजातेः १०३४, १।२।५२

विशेषणानां। यद्यपि सूत्रपाठे "लुपि युक्तल"दिति सत्रादनन्तरमेतत्सूत्रं पठित्वा "तदशिष्य"मित्याशब्धात्वात्तत्रैवेदं व्याख्यातुमुचितम्, तथापि जातेः प्रतिषेधमात्रपरमिदं, न तु युक्तवद्भावपरिमित्याशयेन तत्र नोक्तमित्याहुः। पञ्चाला रमणीया इति। कथं तर्हि "पञ्चाला जनपदः सुभिक्षः सम्पन्नपानीयः"इति प्रयोग इति चेत्, जनपदविशेषणत्वादित्येवेहि। पञ्चालविशेषणत्वाभ्युपगमे तु तद्वलिङ्गवचने स्त एव ---पञ्चाला जनपदाः सुभिक्षः सम्पन्नपानीया इति।

हरीतक्यादिषु व्यक्तिः। हरीतक्य इति। "हरीतक्यादिभ्यश्चे"त्यणो लुप्। तत्र हि "लुप् चे"त्यतो लुबनुवर्तते।

खलतिकादिषु वचनम्। खलतिकमिति। "वरणादिभ्येश्चे"ति लुप्।

मनुष्यलुपि प्रतिषेधः। चञ्चेति। "सञ्ज्ञाया"मिति कनो "लुम्मनुष्ये"इति लुप्। "चञ्चा तृणमयः पुमान्"।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तत् १।१ अशिष्यम् १।१ ५७ संज्ञाप्रमाणत्वात् ५।१

समासः॥

शासितुं शक्यं शिष्यं, न शिष्यं अशिष्यं, नञ्तत्पुरुषः।
संज्ञायाह् प्रमाणं संज्ञाप्रमाणं, षष्ठीतत्पुरुषः। संज्ञाप्रमाणस्य भावः संज्ञाप्रमाणत्वं, तस्मात् संज्ञाप्रमाणत्वात्। {तस्य भावस्त्वलतौ (५।१।११८)} इत्यनेन त्वप्रत्ययः। संज्ञानं संज्ञा = लौकिकव्यवहारः। तदित्यनेन युक्तवद्भावः परिगृह्यते। अशक्यम् इत्यनेन शासितुम् अशक्यम् इति वेदितव्यं, न तु शासितुम् अयोग्यं कुतः? शासु अनुशिष्टौ, इत्येतस्मात् धातोह् {एतिस्तुशास्वृदृजुषः क्यप्(३।१।१०९)} इत्यनेन क्यप् प्रत्ययः, सः च शक्यार्थे वेदितव्यः तेन अशिश्यम् इत्यस्य पूर्णतया शासितुम् अशक्यम् इत्यर्थः॥

अर्थः॥

तद् = युक्तवद्भावकथनम् अशिष्यं = शासितुम् अशक्त्यम्। कुतः? संज्ञाप्रमाणत्वात् = लौकिकव्यवहाराधीनत्वात्॥

उदाहरणम्॥

पञ्चालाः, वरणाः, जनपदादीनां संज्ञा एताः तत्र लिङ्गं वचनं च स्वभावसिद्धम् एव॥
काशिका-वृत्तिः
तदशिष्यं संज्ञाप्रमाणत्वात् १।२।५३

ततिति प्रकृतं युक्तवद्भावलक्षणं निर्दिश्यते। तदशिष्यं न वक्तव्यम् कस्मात्? संज्ञाप्रमाणत्वात्। संज्ञाशब्दा हि नानालिङ्गसङ्ख्याः प्रमाणम्। पञ्चालाः, वरणा इति च, न एते योगशब्दाः। किं तर्हि? जनपदादीनां संज्ञा एताः। तत्र लिङ्गं वचनं च स्वभावसंसिद्धम् एव न यत्नप्रतिपाद्यम्, यथा आपः, दाराः, गृहाः, सिकताः, वर्षाः इति।
न्यासः
तदशिष्यं संज्ञाप्रमाणत्वात्। , १।२।५३

"तदशिष्यम्" इति प्रतिज्ञा, "संज्ञाप्रमाणत्वात्" - इति हेतुः। यस्मात् संज्ञाभूतानां पञ्चालादिशब्दानां प्रमाणत्वम्, तस्मात् तदशिष्यम्। प्रमाणत्वं पुनः प्रत्ययलक्षणम्। सर्वेषामेव शब्दानामेवं विधे स्वविषये प्रमाणत्वमस्ति, उच्यते चेदम्, तत्र विशेषो विज्ञायते, स पुनरभिधेयगतलिङ्गसंख्यानपेक्षया भिन्नलिङ्गसंख्यानामपि तेषां स्वार्थे प्रत्यायकत्वम्। अत एवाह-- "संज्ञाशब्दा हि नानालिङ्गसंख्याः" इति। "प्रमाणम्िति। प्रमाणं प्रत्यायका वाचका इत्यर्थः। तत्रैतत् स्यात्-- संज्ञाशब्दा एवामी पञ्चालादयो न भवन्ति, किं तर्हि? योगनिमित्तका इत्यत आह-- "पञ्चाला वरणाः" इत्यादि। योगनिमित्तकाः शब्दा योगशब्दाः। न हि पञ्चालादयः शब्दाः क्षत्रियादिसम्बन्धेन जनपदादौ वत्र्तन्ते; किं तर्हि? संज्ञा एता जनपदादीनाम्। यदि संज्ञाशब्दा एते, ततः किमिति? तदशिष्यमित्यत आह-- "तत्र लिङ्गं वचनञ्च" इत्यादि। कुत एतत्? यत् संज्ञाशब्दानां लिङ्गं वचनञ्च तत्स्वभावसिद्धमित्यत आह-- "यथा" इत्यादि। एकस्यामपि जलकणिकायां बहुवचनान्तः स्त्रीलिङ्गोऽप्शब्दः प्रयुज्यते, एकस्यामपि योषिति दारशब्दः पुंल्लिङगो बहुवचनान्तः, गृहशब्दश्चैकस्मिन् वेश्मनि बहुवचनान्तः पुंल्लिङ्गश्च, एकस्यामपि वालुकायां बहुवचनान्तः सिकताशब्दः स्त्रीलिङ्गः, वर्षा इत एकस्मिन् विशिष्टकालेऽपि प्रवत्र्तमानः स्त्रीलिङ्गो बहुवचनान्तश्च वत्र्तते। तस्मात् यथैवेषामप्प्रभृतिशब्दानां स्वाभाविकं लिङ्गं वचनञ्च तथा पञ्चालादिशब्दानामपीति नार्थो युक्तवद्भावचनेन। यद्येवम्, कस्मात् पूर्वं तदुक्तम्? प्रतिषेधविषयोपदर्शनार्थम्। न ह्रनिर्दिष्टविषयस्य प्रतिषेधः शक्यते कर्त्तु ज्ञातुं वा॥
बाल-मनोरमा
तदशिष्यं संज्ञाप्रमाणत्वात् १२७६, १।२।५३

तदेतत्पूर्वाचार्यसूत्रं पाणिनिः प्रत्याचष्टे--तदशिष्यं। यथा "दाराः" इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्य भानं, तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्गसङ्ख्याविशिष्टस्यैव स्वार्थस्य सोकव्यवहारादेव भानं संभवति, न तु तदंशे शास्त्रव्यापारापेक्षेति भावः। संज्ञानामिति। लोकव्यवहाराणामित्यर्थः।

तत्त्व-बोधिनी
तदशिष्यं संज्ञाप्रमाणत्वात् १०३२, १।२।५३

तदशिष्यमिति। पञ्चालाः, अङ्गाः, वङ्गाः, कलिङ्गाः---इत्यादयो जनपदस्य यथायथं बहुवचनाद्यन्ता एव संज्ञा, न त्वत्र यत्नेन लिङ्गसङ्ख्ये प्रतिपादनीये। "आपः" "दारा" इत्यादिषु यथा। न हि तत्र शास्त्रेण लिङ्गसङ्ख्ये प्रतिपाद्येते इति भावः। उपजीवकं प्रत्याख्यायोपजीव्यं प्रत्याचष्टे--।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ लुप् १।१ योगाप्रख्यानात् ५।१ अशिष्यम् १।१ ५३

समासः॥

न प्रख्यानम् अप्रख्यानं, नञ्तत्पुरुषः। योगस्य अप्रख्यानं योगाप्रख्यानं, तस्मात् योगाप्रख्यानात्, षष्ठीतत्पुरुषः।

अर्थः॥

लुब्विधायकं {जनपदे लुबित्यादिकं} सूत्रम् अपि अशिष्यं = शासितुम् अशक्यम्। कुतः? योगस्य = सम्बन्धस्य, अप्रख्यानात् = अप्रतीतत्वात् इत्यर्थः॥

उदाहरणम्॥

पञ्चालाः, वरणाः इति देशविशेषस्य संज्ञाः, नहि निवाससम्बन्धात् एव पञ्चालाः, वृक्षयोगात् एव वरणाः इति व्यवह्रियन्ते, तत्र अशक्यं लुब्विधानम्। अनन्तरसूत्रम् अपि इदम् एव सूत्रं दॄढीकरोति॥
काशिका-वृत्तिः
लुब् योगाप्रख्यानात् १।२।५४

लुबप्यशिष्यः। यो ऽयं जनपदे लुप् ४।२।८०, वरणाऽअदिभ्यश्च ४।२।८१ इति लुबुच्यते,अयं न वक्तव्यः। किं कारणम्? योगाप्रख्यानात्। न हि पञ्चाल वरणाः इति योगः सम्बधः प्रख्यायते। नएतदुपलभामहे वृक्षयोगान्नगरे वरणाः इति। किं तर्हि? संज्ञा एताः। तस्मादत्र तस्य निवासः (*४,२ ६९), अदूरभवश्च ४।२।६९ इति तद्धितो न एव उत्पद्यते, किं लुपो विधानेन।
न्यासः
लुब्योगाप्रख्यानात्। , १।२।५४

"योगप्रख्यानात्" इति।योगो जनपदादेः क्षत्रियादिभिः सह सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः। ये हि योगनिमित्तिकाः शब्दा योगमभिधाय तद्वति द्रव्ये वत्र्तन्ते, तेभ्यो योग उपलभ्यते; यथा-- दण्डिशब्दादिभ्यः। न च पञ्चालादिभ्यो दण्ड()आदिशपब्दवद्योग उपलभ्यते, तस्मान्नैते योगशब्दा इत्यत आह- "न हि" इत्यादि। प्रख्यायते = कथ्यते, प्रकाश्यते, बुद्धेर्विषय आपद्यत इति यावत्। यत एवं पञ्चाला वरणा इति सम्बन्धो न प्रख्ययते अत एव नैतदुपलभामहे वृक्षयोगान्नगरे वरणा इति, किं तर्हि? संज्ञा एता अनपेक्षितप्रवृत्तिनिमित्ताः। यदि संज्ञाश्बदा एते, ततः किमित्याह-- "तस्मादत्र" इत्यादि। गतार्थम्। ननु च संज्ञा शब्दानामपि व्युत्पत्त्यर्थ तद्धित उत्पद्यत ए, यथा "हस्ताज्जातौ" ५।२।१३२ हस्ती, "कम्बलाच्च संज्ञायाम्" ५।१।३ कम्बल्यमिति, तत्किमुच्यते-- " तस्मादत्र "तस्य निवासः" ४।२।६८ "अदूरभवश्च" (४।२।७०) इति तद्धितो नोत्पद्यते" इति? सत्यम्, संज्ञाशब्दव्युत्पत्त्यर्थं तद्धित उत्पद्यते। स च क्वोत्पद्यते? यत्र श्रुतिकृतो विशेषो विद्यते, न चेह तद्धितोत्पत्तौ लुपि सति कश्चिद्विशेष इति न तद्धितोत्पत्तिः॥
बाल-मनोरमा
लुव्योगाऽप्रख्यानात् १२७७, १।२।५४

एवंच सुवपि न विदे इत्याह--लुव्योगाप्रख्यानात्। "अशिष्य"मित्यनुवृत्तं पुंलिङ्गेन तविपरिणतं "लु"वित्यनन्तरं संबध्यते। तदाह--लुबपि न कर्तव्य इति। योगः=अवयवार्थः, तस्य--अप्रख्यानात्प्रतीतेरित्यर्थः। तदाह--अवयवेति। नहि पचालाङ्गवङ्गादिसंबन्धित्वेन पञ्चाला अङ्गा वङ्गा इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः।

तत्त्व-बोधिनी
लुब्योगाऽप्रख्यानात् १०३३, १।२।५४

लुब्योगेति। "जनपदे लुप्", "वरणादिभ्यश्चे"ति द्विसूत्री "लुप्शब्देन विवक्षिता। "अशिष्य"मिति सम्बध्यत एव। तदाह--लुबपीति। प्रकृतिप्रत्ययार्थयोः सम्बन्धोयोग इत्याशयेन फलितमाह---अवयवार्थस्येति। अप्रख्यानाद्विति व्याचष्टे---अप्रतीतेरिति। पञ्चालादयः शब्दाः क्षत्रियेषु यथा रूढास्तथा जनपदेऽपीति "तस्य निवासः" "अदूरभवश्च" इति तद्धितो नैवोत्पद्यते किमनेन लुपो विधानेनेत्यर्थः। न दृश्येतेति। विनापि क्षत्रियसम्बन्धं पञ्चालादिशब्दोजनपदेषु प्रयुज्यते इति नार्थः सूत्रेणेत्यर्थः। प्रसङ्गात्पूर्वाचार्यपरिभाषितकमन्यदपि प्रत्याचष्टे--प्रधानेत्यादिना।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ योगप्रमाणे ७।१ तदभावे ७।१ अदर्शनम् १।१ स्यात् विधिलिङ् १।१ अशिष्यम् १।१ ५३

समासः॥

योगस्य प्रमाणं योगप्रमाणं, तस्मिन् योगप्रमाणे, षष्ठीतत्पुरुषः।
न भावः अभावः, नञ्तत्पुरुषः। तस्य अभावः तदभावः, तस्मिन् तदभावे, षष्ठीतत्पुरुषः।
न दर्शनम् अदर्शनं, नञ्तत्पुरुषः।

अर्थः॥

यदि पञ्चालादिशब्दाः निवासाद्यर्थस्य वाचकाः स्युः तदा निवासादिसम्बन्धाभावे, पञ्चालादीनाम् अदर्शनं अप्रयोगः स्यात्, न चैव भवति, तेन ज्ञायते न एते योगनिमित्तिकाः, परं संज्ञा एताः देशविशेषस्य। पूर्वसूत्रार्थम् एव दृढीकरोति॥

उदाहरणम्॥

काशिका-वृत्तिः
योगप्रमाणे च तदभावे ऽदर्शनम् स्यात् १।२।५५

पञ्चालाऽदयः संज्ञाशब्दाः, न योगनिमित्ताः इत्युक्तम्। तच्चावश्यम् एव अभ्युपगन्तव्यम्। योगप्रमाणे हि तदभावे ऽदर्शनं स्यात्। यदि पञ्चालादिशब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात् ततस् तदभावे ऽदर्शनम् अप्रयोगः स्यात्। दृश्यते च सम्प्रति वनैव क्षत्रियसम्बन्धेन जनपदेषु पञ्चालादिशब्दाः, ततो ऽवसीयते नायं योगनिमित्तकः। किं तर्हि? रूढिरूपेणैव तत्र प्रवृत्तः इति।
न्यासः
योगप्रमाणे च तदभावेऽदर्शनं स्यात्। , १।२।५५

"योगप्रमाणे" इति। योगस्य प्रमाणं योगप्रमाणम्, येन योगः प्रत्याय्यते। तत् पुनरिह प्रकृतत्वात् पञ्चालादिशब्दः। स हि परमतेन पञ्चालादिसम्बन्धं स्वप्रवृत्तिनिमित्तमभिधायैव जनपदादौ वत्र्तते, नानभिधाय। तेन योगस्य प्रमाणं प्रत्यायको वाचक इत्यर्थः। "तदभावेऽदर्शनं स्यात्" इति। यो हि योगनिमित्तकः स योगाभावे न प्रयुज्यते, दणड()आदिशब्दवदित्यभिप्रायः। "योगप्रमाणे हि" इत्यादि। हिशब्दं हेत्वर्थं प्रयुञ्जानश्चशब्दो हेत्वर्थवृत्तिः सूत्रे उपात्त इति दर्शयति। स्यादेतत्, भवत्येव योगाभावे पञ्चालादिशब्दस्यादर्शनमित्यत आह-- "दृश्यते च" इत्यादि। गतार्थम्।
बाल-मनोरमा
योगप्रमाणे च तदभावेऽदर्शनं स्यात् १२७८, १।२।५५

प्रत्ययस्वीकारे बाधकमाह--योगप्रमाणे च। पञ्चालाऽङ्गवङ्गादिशब्देषु योगस्य=अवयवार्थस्य प्रमापकत्वे सति तदभावे=पञ्चालाङ्गादिक्षत्रियसम्बन्धाऽभावे संप्रति शूद्रादिराजके जनपदे पञ्चालादिशब्दो न प्रयुज्यते, प्रयुज्यते च यतः, अतः पञ्चालादिशब्दा जनपदविशेषेषु केवरूढा इति युक्तमित्यर्थः। तदाह-यदि हि योगस्येति।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ प्रधानप्रत्ययार्थवचनम् १।१ अर्थस्य ६।१ अन्यप्रमाणत्वात् ५।१ अशिष्यम् १।१ ५३

समासः॥

प्रधानं च प्रत्ययः च प्रधानप्रत्ययौ, इतरेतरद्वन्द्वः। अर्थस्य वचनम् अर्थवचनं, षष्ठीतत्पुरुषः। प्रधानप्रत्यययोः अर्थवचनं, प्रधानप्रत्ययार्थवचनं, षष्ठीतत्पुरुषः॥ अन्यस्य प्रमाणम्, अन्यप्रमाणं, षष्ठीतत्पुरुषः। अन्यप्रमाणस्य भावः, अन्यप्रमाणत्वं, तस्मात् अन्यप्रमाणत्वात्॥

अर्थः॥

प्रधानार्थवचनं प्रत्ययार्थवचनम् अपि अशिष्यं शासितुम् अशक्यं, कुतः? अर्थस्य अन्यप्रमाणत्वात् = लोकप्रमाणत्वात्। शास्त्रापेक्षया अन्यशब्दः। केषाञ्चित् आचार्याणाम् इदं मतम् अभूत् -- प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः, प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः -- तदेतत् पाणिन्याचार्यः प्रत्याचष्टे। अर्थात् ये व्याकरणं न जानन्ति तेऽपि प्रधानार्थं प्रत्ययार्थम् एव प्रयुञ्जते, तस्मात् लोकाधीनम् एव एतत्, अस्य लक्षणं कर्त्तुम् अशक्यम्॥
काशिका-वृत्तिः
प्रधानप्रत्ययार्थवचनम् अर्थस्य अन्यप्रमाणात्वात् १।२।५६

अशिष्यम् इति वर्तते। प्रधानं समासे किंचित् पदं, प्रत्ययस्तव्यदादिः। ताभ्याम् अर्थवचनम् अर्थाभिधानम् अनेन प्रकारेण भवति इति पूर्वाऽचार्यैः परिभाषितम्। प्रधानौपसर्जने च प्रधानार्थं सह ब्रूतः, प्रक्र्तिप्रत्ययौ सहार्थं ब्रूतः इति। तत् पाणिनिराचर्यः प्रत्याचष्टे, अशिष्यम् एततर्थस्य अन्यप्रमाणत्वातिति। अन्यः इति शास्त्रापेक्षया लोको व्यपदिश्यते। शब्दैरर्थाभिधानम् स्वाभाविकं न पारिभषाकम् अशक्यत्वात्। लोकत एव अर्थावगतेः। यैरपि व्याकरणं न श्रुतं ते ऽपि राजपुरुषम् आनय इत्युक्ते राजविशिष्टं पुरुषम् आनयन्ति न राजनम् न अपि पुरुषमात्रम्। औपगवम् आनय इत्युक्ते उपगुविशिष्टम् अपत्यम् आनयन्ति, न उपगुं न अप्यपत्यमात्रं, न उभौ। यश्च लोकतो ऽर्थः सिद्धः किं तत्र यत्नेन।
न्यासः
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्। , १।२।५६

"अन्यप्रमाणत्वात्" इति। अन्यत् प्रमाणम् अवगतिहेतुर्यस्यार्थाभिधानलक्षणस्य तदन्यप्रमाणम्, तस्य भावोऽन्यप्रमाणत्वम्। "प्रधानं समासे किञ्चित् पदम्" इति। यथा राजपुरुषशब्दे पुरुष इत्येतत्। "प्रधानोपसर्जने" इत्यादि। राजपुरुष इत्यत्र पूर्ववदुपसर्जनम्, इतरत् प्रधानम्। ते च प्रधानार्थ सह ब्राऊतः। "प्रकृतिप्रत्ययौ" इत्यादि। अशक्यत्वं त्वनन्तप्रकारत्वात्। तथा हि-- चित्रगुरिति बहुव्रीहौ कृते गुणगुणिभ्यामन्यपदार्थ उच्यते। अत्र गुणपदं चित्रशब्दोऽप्रधानम्, विशेषणत्वात्; गुणिपदं गोशब्दः प्रधानम्, विशेष्यत्वात्। क्वचिदुपसर्जनाभ्यामन्योऽर्थोऽभिधीते-- प्लक्षन्यग्राधाविति। तथा हि, न केवलं प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्राऊतः अपि तु, क्वचित् प्रकृत्यर्थमपि, यथा-- स्वार्थिकेषु शुक्लतरम्, शुक्लतममिति। तथा केचिदाख्यातेषु स्वभावात् प्रधानमाहुः प्रकृत्यर्थम्-- "क्रियाप्रधानमाख्यातम्" इति। अन्ये तु मन्यन्ते- आख्यातेषु प्रधानभूतः प्रत्ययार्थ एव शक्तिरूपेणोच्यते, यथा विभक्तिभिः क्वचित् प्रत्यये; न तु शक्तिमान् पदार्थो द्रव्यभावमापन्न उच्यते। अतः क्रियान्तरेण च सम्बन्धे शक्त्यन्तरमाविर्भवति कत्र्तारं पश्येति। एवमाद्यनन्तप्रकारमर्थाभिधानशक्यं सर्वमुपदेष्टुम्, तस्माल्लोकत एवार्थावगतिः। कथं पुनरेतद्विज्ञायत इत्यत आह-- "यैरपि" इत्यादि। सुगमम्॥
बाल-मनोरमा
विभाषोपयमने ५५४, १।२।५६

विभाषोपयमने। "यमो गन्धने" इत्तो यम इति, "हनः सिच्" इत्यतः सिजिति, "असंयोगा"दित्यतः किदिति चानुवर्तते। तदाह-- यमः सिच्किद्वा स्याद्विवाहे इति। उपयमशब्दो विवाहे वर्तते इति भावः। रामः सीतामुपायतेति। भार्यात्वेन स्वीकृतवानित्यर्थः। सिचः कित्त्वपक्षे "अनुदात्तोपदेशे"ति मकारलोपे "ह्यस्वादङ्गा"दिति सिचो लोपः। उदवोढेति। भार्यात्वेन स्वीकृतवानित्यर्थः। सिचः कित्त्वपक्षे "अनुदात्तोपदेशे"ति मकारलोपे "ह्यस्वादङ्गा"दित सिचो लोपः। उदवोढेति। भार्यात्वेन परिग्रहः-- उद्वाहः। गन्धनाङ्गे उपयमे त्विति। हिंसापूर्वके विवाहे त्वित्यर्थः। राक्षसविवाहे त्विति यावत्। "हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदतो हरेत्। स राक्षसो विवाहः-" इति स्मृतेः। नित्यं कित्त्वमिति। "यमो गन्धने" इति पूर्वसूत्रेणे"ति शेषः। यदि गन्धनाङ्गकेऽप्युपयमने परत्वादियं विभाषा स्यात्तर्ह एषा प्राप्तविभाषा स्यात्। ततश्च "न वेति विभाषे"त्यत्र भाष्येऽप्राप्तविभाषास्वस्याः परिगणनं विरुध्येत। अतः पूर्वविप्रतिषेध आश्रयणीय इति भावः।

बाल-मनोरमा
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् १२७९, १।२।५६

अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे--प्रधानप्रत्ययार्थ। प्रत्ययार्थ इति। "प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं=विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषण"मित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः।

तत्त्व-बोधिनी
विभाषोपयमने ४६१, १।२।५६

गन्धनाङ्गे इति। पूर्वविप्रतिषेधश्च "नवेति विभाषा" सूत्रे भाष्ये उक्तः। नित्यं कित्त्वमिति। "यमो गन्धने" इति पूर्वसूत्रेणेत्यर्थः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ कालोपसर्जने १।२ तुल्यम् १।१ अशिष्यम् १।१ ५३

समासः॥

कालः च उपसर्जनं च, कालोपसर्जने, इतरेतरद्वन्द्वः॥

अर्थः॥

कालः परोक्षादिः॥ कालः, उपसर्जनं च अशिष्यं शासितुम् अशक्यम्। कुतः? तुल्यहेतुत्वात्, अर्थात् लोकप्रमाणत्वात्। तुल्यशब्दः पूर्वोक्तस्य सूत्रस्य हेतोः अनुकर्षणार्थः॥
काशिका-वृत्तिः
कालौपसर्जने च तुल्यम् १।२।५७

अशिष्यम् इति वर्तते। कालौपसर्जने च अशिष्ये। कस्मात्? अर्थस्य अन्यप्रमाणत्वात्। तुल्यशब्दो हेत्वनुकर्षणार्थः। अशिष्यविशेषणं चैतत्। कालौपसर्जने च तुल्यम् अशिष्ये भवतः। इह अन्ये वैयाकरणाः कालौपसर्जनयोः परिभाषां कुर्वन्ति। आन्याय्यादुत्थानादान्याय्याच् च संवेशनात्, एषो ऽद्यतनः कालः। अपरे पुनराहुः। अहरुभयतो ऽर्धरात्रम् , एषो ऽद्यतनः कालः इति। तथा उपसर्जनपरिभाषां कुर्वन्ति अप्रधानम् उपसर्जनम् इति। तत् पाणिनिराचार्यः प्रत्याचष्टे लोकतो ऽर्थवगतेः। यैरपि व्याकरणम् न श्रुतं ते ऽप्याहुरिदम् अस्माभिरद्य कर्तव्यम् इदं श्वः कर्तव्यम् इदम् हयः कृतम् इति। नैवं व्युत्पाद्यन्ते। तथाउपसर्जनम्, वयमत्र गृहे ग्रामे वा उपसर्जनम् अप्रधानम् इति गम्यते। य्श्च लोकतो ऽर्थः सिद्धः किं तत्र यत्नेन। यद्येवं पूर्वसूत्र एव कालौपसर्जनग्रहणम् कस्मान् न क्रियते? किमर्थो योगविभागः? प्रदर्शनार्थः। अन्यदप्येवं जातीयकमशिष्यम् इति। तथा च पूर्वाचार्याः परिभषन्ते मत्वर्थे बहुव्रीहिः, पूर्वपदार्थप्रधानो ऽव्ययीभावः, उत्तरपदार्थप्रधानस् तत्पुरुषह्, उभयपदार्थप्रधानो द्वन्द्वः इत्येवम् आदि, तदशिष्यम् इति।
न्यासः
कालोपसर्जने च तुल्यम्। , १।२।५७

अर्थस्यान्यप्रमाणत्वादित्युक्तम्। कथं पुनरत्राप्ययं हेतुर्लभ्यत इति प्रश्नावसर इत्याह-- "तुल्यशब्दो हेत्वनुकर्षणार्थः" इति। कथं पुनस्तुल्यशब्दो हेत्वनुकर्षणार्थो भवति? मन्यते-- तुल्यमिति प्रत्याख्यानक्रियाविशेषणमेतत्। अनन्तरोक्तेन प्रत्याख्यानेन तुल्यमेतत् प्रत्याख्यानम्। एवञ्च् तुल्यं भवति यदि यस्तस्य हेतुः स एवास्यापि भवति। तस्मात् तुल्यग्रहणसामथ्र्यात् पूर्वको हेतुत्रानुवत्र्तते। तेन तुल्यशब्दो हेत्वनुकर्षणार्थो भवतीति। "आन्याय्यादुत्थानात्" इत्यादि। उत्थानं शयनाद्रात्रेः पश्चिमे यामे न्याय्यमुक्तम्। संवेशनम् = शयनम् तदपि रजन्याः प्रथमे यामे न्याय्यम्। तदेवं सकलो दिवसः; पूर्वस्याश्च रात्रेः पश्चिमो यामः, आगमिन्याश्च प्रथमो याम इत्येषोऽद्यतनः काल इत्युक्तं भवति। "अहरुभयतोऽद्र्धरात्रम्" इत्यादि। कृत्स्नो दिवस उभयश्चाद्र्धरात्रम्। अतिक्रान्तायाश्च रात्रेरागामिन्याश्च रात्रेरद्यतनः काल इत्यपरे॥
बाल-मनोरमा
कालोपसर्जने च तुल्यम् १२८०, १।२।५७

कालोपसर्जने च। कालश्च उपसर्जनं चेति समाहारद्वन्द्वाद्विषयसप्तमी। "अशिष्य"मित्यनुवृत्तं भावप्रधानमाश्रीयते। कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनं, तत्राप्यशिष्यत्वं समानमित्यर्थः। तद्विशेषवचनं विशदन्यञ्याचष्टे-अतीताया इत्यादिना।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ जात्याख्यायाम् ७।१ एकस्मिन् ७।१ ५९ बहुवचनम् १।१ ६० अन्यतरस्याम् ७।१ ६२

काशिका-वृत्तिः
जात्याख्यायम् एकस्मिन् बहुवचनम् अन्यतरस्याम् १।२।५८

अशिष्यम् इति निवृतम्। जातिर् नाम अयम् एको ऽर्थः। तदभिधाने एकवचनम् एव प्राप्तम् अत इदम् उद्यते। जातेराख्या जात्याख्या। जात्याख्यायाम् एकस्मिन्नर्थे वहुवचनम् अन्यतरस्यां भवति। जात्यर्थो बहुवद् भवति इति यावत्। तेन तद्विशेषणानाम् अजातिशब्दानाम् अपि सम्पन्नादीनां बहुवचनम् उपपद्यते। सम्पन्नो यवः, सम्पन्ना यवाः। सम्पन्नो व्रीहिः, सम्पन्ना व्रीहयः। पूर्ववया ब्राह्मणः प्रत्युत्थेयः, पूर्ववयसो ब्राह्मणाः प्रत्युत्थेयाः। जातिग्रहणं किम्? देवदत्तः। यज्ञदत्तः। आख्यायाम् इति किम्? काश्यपप्रतिकृतिः काश्यपः। भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते। किं तर्हि? प्रतिकृतिः। एकस्मिनिति किम्? व्रीहियवौ। सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः। एको ब्रीहिः सम्पन्नः सुभिक्षं करोति।
न्यासः
जात्याख्यामेकस्मिन्बहुवचनमन्यतरस्याम्। , १।२।५८

"जातिर्नामायमेकोऽर्थः इत्यादिना सूत्रारम्भस्य प्रयोजनमाह। ननु जातेः संख्या न विद्यते? तस्या द्रव्यधर्मत्वात्। यद्यपि वैशेषिकसिद्धान्तप्रसिद्धा गुणपदार्थसंगृहीता या संख्या सा न विद्यते; तथापि "भेदका गुणाः" इत्यस्मद्दर्शने" भेदमात्रा या संख्या सा विद्यत एवेत्यदोषः। "जातेराख्या" इति। आख्यानमाख्या = प्रत्यायनम्। "एकस्मिन्नर्थे" इति। जात्याख्योऽर्थो "जात्यर्थो बहुवद्भवतीति यावत्" इति। एतेनैतद्दर्शयति-- न हि जातिविशेषणेभ्यः सम्पन्नादिभ्यस्तन्न स्यात्। तेषामजातिशब्दत्वादित्यभिप्रायः। कथं पुनर्जात्यर्थस्य बहुवद्भावो लभ्यते? अन्वर्थग्रहणात्। बहुवचनमिह न पारिभाषिकं बहुवचनं गृह्रते, किं तर्हि? अन्वर्थम्। उक्तिः = वचनम्। बहूनां वचनं बहुवचम्। न चैकस्मिन्नर्थे बहूनां वचनं सम्भवति, अतः सामथ्र्याद्वित्यर्थो गम्यते-- एकस्मिन्नर्थे बहुविदिति। तदनेन प्रकारेण जात्यर्थो बहुवद्भवति। "तेन" इत्यादि। यत ए जात्यर्थस्य बहुवद्भावो विधीयते, तेन जातिविशेषणानामजातौ वर्तमानानां बहुवचनमुपपद्यते, जातिशब्दवत्। "देवदत्तः" इति। देवदत्तशब्दो यदृच्छाशब्दः। नानेनैकं वस्त्वनेकव्यक्त्यनुगतमभिधीयते। अनेकव्यक्त्याधारा हि जातिः। ततो न देवदत्तत्वं नाम जातिरस्तीति न भवत्यत्र बहुवद्भावः। ननु चात्रावस्थाभेदेनानेकाधारं देवदत्तत्वमस्ति, नैतदस्ति; एवं हि जातिग्रहणमनर्थकं स्यात्, सर्वत्र जातेः सम्भवात्। तस्माज्जातिग्रहणसामथ्र्याल्लोके ये जातिशब्दाः, प्रतीताः, तदर्था एवात्र जातिशब्देन विवक्षिता इति विज्ञायते, न च देवदत्तशब्दो लोके जातिशब्दः प्रतीतः। "काश्यपप्रतिकृतिः काश्यपः" इति। काश्यपस्यापत्यम् "अनृष्यानन्तर्ये विदादिभ्योऽञ्" ४।१।१०४ इत्यञ्-- काश्यप इति। तत इवार्थे "एवे प्रतिकृतौ"५।३।९६ इति कन्। "लुम् मनुष्ये" ५।३।९८इति लप् भवति। "अयं जातिशब्दः" इति। "गोत्रञ्च चरणैः सह" (४।१।६३म।भा) इति लक्षणात्, तस्य च गोत्रप्रत्ययान्तत्वात्। न त्वयं जातिरूपेणोच्यते, किं तर्हि? प्रतिकृतिरिति। एवं तर्हि जातिप्रत्यायने हि चिकीर्षिते बहुवद्भावेन भवितव्यम्। न चेह जातिप्रत्यायनं चिकीर्षितम्, किं तर्हि? प्रतिकृतिप्रत्यायनम्।"व्रीहियवौ" इति। एकस्मिञ्जात्यर्थे बहुवद्भावोऽनेन विधीयते। इह तु द्वौ जात्यर्थो विवक्षितौ। वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- अन्यतरस्यामिति व्यवस्थितविभाषेयम्। तेन संख्याप्रयोगे न भविष्यति। अथ वा- एको व्रीहिः सम्पन्न इत्यत्रैकशब्दः प्रयुज्यमानो जात्यर्थस्यैकत्वमुद्भावयति,तच्च बहुत्वेन विरुध्यते। तस्मादेकत्वबहुत्वयोर्विरोधाद्बहुवद्भावो नेह भविष्यति॥
बाल-मनोरमा
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ८०७, १।२।५८

जात्याख्यायाम्। आकृत्यधिकरणमन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः। जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः। तथा सति "ब्राआहृणा भोज्या" इत्यादौ विशेषणान्न स्यादित्याशङ्क्य एकस्मिन्नर्थे विद्यमानः शब्दो बहूनर्थान् वक्ति, एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति। बहुत्वप्रयुक्तं कार्यं लभत इत्यर्थः।

तत्त्व-बोधिनी
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ७०९, १।२।५८

एकोऽप्यर्थो वा बहुबदिति। एवंच विशेषणादपि सिद्धमिति ध्वनयन्नुदाहरति---ब्राआहृणाः पूज्या इति। जात्याख्यायां किम्()। दोवदत्तो यज्ञदत्तः। एकस्मिन्किम्()। व्रीहियवौ। अस्मदो द्वयोश्च। चात् "एकस्मिन् बहुवचनमन्यतरस्या"मिति च वर्तते। तदेतदाह---एकत्वे द्वित्वे च विवक्षित इत्यादि।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ अस्मदः ६।१ द्वयोः ७।२ ६१ एकस्मिन् ७।१ ५८ बहुवचनम् १।१ ५८ अन्यतरस्याम् ७।१ ५८

काशिका-वृत्तिः
अस्मदो द्वयोश् च १।२।५९

अस्मदो यो ऽर्थस् तस्य एकत्वे द्वित्वे च बहुवचनम् अन्यतरस्यां भवति। अहं ब्रवीमि , वयं व्रूमः। आवां ब्रूवः, वयं व्रूमः। सविशेषणस्य प्रतिषेधो वक्तव्यः। अहं देवदत्तो ब्रवीमि। अहं गार्ग्यो व्रवीमि। अहं पटुर् ब्रवीमि। युष्मदि गुरावेकेषाम्। त्वं मे गुरुः, यूयं मे गुरवः।
न्यासः
अस्मदो द्वयोश्च। , १।२।५९

अत्राप्यर्थस्य बहुत्वातिदेशः। "अस्मदो योऽर्थः स बहुवद्भवति" इति। तेन तिङन्तस्यापि तत्र वर्तमानस्य बहुवचनान्तत्वं भवति। "वयं ब्राऊमः" इति। "एकत्वे द्वित्वे च" इत्यादि। युक्तं यदेकत्वे भवति, द्वित्वे तु कथम्? न हि द्वित्वमस्मदर्थस्य सम्भवति; अस्मच्छब्दस्यात्मविषयत्वात्, आत्मनश्चैकत्वात्, नैष दोषः; आत्मत्वं परत्र यदोपचर्यते "अयं मे द्वितीय आत्मा" इति तदा अस्मच्छब्दस्य तत्रापि वृत्तेद्वर्यर्थविषयत्वं सम्भवति। अथ वा-- त्यदादीनां मिथो यद्यत् परं तच्छिष्यत इत्यस्मच्छब्द एव शिष्यमाणो युष्मदर्थमप्याहेति द्वयर्थतोपपद्यत इति युज्यते द्वयर्थता। अथ यद्यस्मच्छब्दो बहुवचनान्तः प्रयुज्यते तदैकार्थविषयोऽयम्, न द्वयर्थविषय इति; अथ द्व्यर्थविषयोऽयं नैकार्थविषय इति कुतस्यस्यैकार्थद्वयर्थविषये वृत्तिरवसीयते? प्रकरणात्। यथा-- आराच्छब्दस्य दूरान्तिकार्थयोर्वृत्तिरिति। "अहम्" इति। "ङे प्रथमयोरम्" ७।१।२८ इत्यम्भावः, "त्वाहौ सौ" ७।२।९४ इत्यहारदेशः। "वयम्" इति। जसि "मपर्यन्तस्य" ७।२।९१ "यूयवयौ जसि" ७।२।९३ इत वयादेशः, "शेषे लोपः" ७।२।९० "आवाम्" इति। औप्रत्यये "युवावौ द्विवचने" ७।२।९२ इत्यावादेशः। "प्रथमायाश्च" ७।२।८८ इत्यादिनात्वम्। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानां तु-- अन्यतरस्यांग्रहणं यदनुवर्ततते तस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। "युष्मदि गुरावेकेषाम्" इति। एतदपि चकारस्यानुक्त समुच्चयार्थत्वात् सूत्रेणैव संगृहीतम्॥
बाल-मनोरमा
अस्मदोद्वयोश्च ८०८, १।२।५९

अस्मदो द्वयोश्च।

सविशेषणस्येति। "त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमान्नोन्नताः" इत्यत्र तु अवयवगतबहुत्वाभिप्रायं बहुवचनम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ फल्गुनीप्रोष्ठपदानाम् ६।३ नक्षत्रे ७।१ ६२ द्वयोः ७।२ ५९ बहुवचनम् १।१ ५८ अन्यतरस्याम् ७।१ ५८

काशिका-वृत्तिः
फल्गुनीप्रोष्ठपदानां च नक्षत्रे १।२।६०

चकारो द्वयोः इत्यनुकर्षणार्थः। फल्गुन्योर् द्वयोः प्रोष्ठपदयोश्च द्वयोर् नक्षत्रयोर् बहुवचनम् अन्यतरस्यां भवति। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। नक्षत्रे इति किम्? पल्गुन्यौ मणविके।
न्यासः
फल्गुनीप्रोष्ठपदानाञ्च नक्षत्रे। , १।२।६०

"चकारो द्वयोरनुकर्षनार्थः" इति। ननु च फल्गुन्यौ नक्षत्रे द्वे एव, तथा प्रोष्ठपदे अपि द्वे; अत्रानयोर्दित्वाद्वित्व एव बहुवचनं भविष्यति, तत् किं चकारेण द्वयोरित्यनुकर्षणार्थेन? एवं तह्र्रेतज्ज्ञापयति-- नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति। तेनैतदपि सिद्धं भवति-- उदिताः पूर्वाः फल्गुण्यः, उदिते पूर्वे फल्गुन्याविति। यदि नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति न ज्ञाप्यते, तदिह तु न स्यात्, यतो ज्योतिषामावस्थिकी नक्षत्रता चन्द्रमसा योगे सति भवति, नान्यदा; अन्यदा तु ज्योतिष्ट्वमेव। न च नक्षत्राभिधायिनः "उदिताः पूर्वाः फल्गुन्यः" इत्यत्र फल्गुनीशब्दस्य प्रयोगः, किं तर्हि? ज्योतिर्मात्राभिधायिन इति। अत्र ज्योतिष्ट्वमेक्सयाप्यस्तीति तन्निवृत्यर्थं द्वयोरित्यनुकर्षणार्थं चकारकरणं युक्तम्। यदि पुनज्र्योतिष उपलक्षणार्थं नक्षत्रग्रहणं न स्यात्, तदा क्व स्यात्? तदेहैव स्यात्-- अद्य पूर्वाः फल्गुन्यः, अद्य पूर्वे फल्गुन्याविति। अस्ति ह्रत्र फल्गुन्योर्नक्षत्रता, चन्द्रमसा युक्तत्वात्। तथा ह-- "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यण् भवति। श्रवणं तस्य न भवति; "लुबविशेषे" ४।२।४ इति लुप्तत्वात्। "फल्गुन्यौ माणविके" इति। फल्गुन्योर्जाते इति। "फल्गुन्याषाढाभ्यां टानौ" (वा।४५१) इत्युपसंख्यानाट्टप्रत्ययः। "टिड्()ढाणञ्" ४।१।१५ इति ङीप्॥
बाल-मनोरमा
फल्गुनीप्रोष्ठपदानां च नक्षत्रे ८०९, १।२।६०

फल्गुनी। "नक्षत्रे" इति प्रथमाद्विवचनम्। नक्षत्रे यद्यभिधीयते इत्यर्थः। चेन द्वयोरित्यनुकर्षः। तदाह--द्वित्वे इति। पूर्वं प्रोष्ठपदे इति। स्त्रीत्वादौङः शीभावः। "प्रोष्ठपदा भाद्रपदा स्त्रिया"मित्यमरः। फल्गुन्यौ माणविके इति। फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः। "नक्षत्रेण युक्तः" इत्यण्। "लुबविशेषे" इति लुप्। ततो जातार्थे "फल्गुन्यषाढाभ्यां टाऽनौ" इति टः। टित्त्वान्ङीप्।

तत्त्व-बोधिनी
फल्गुनीप्रोष्ठपदानां च नक्षत्रे ७१०, १।२।६०

फल्गुनीप्रोष्ठपदानां च। चकारेण द्वयोरनुकर्षणादाह--द्वित्व इति। फल्गुन्यौ माणविके इति। फल्गुनीशब्दात् "नक्षत्रेण युक्तः कालः " इत्यण्। तस्य "लुबविशेषे"इति लुप्। ततो जातार्थे "फल्गुन्यषाढाभ्यां टाऽनौ"इति टः। टित्त्वन्ङीप्। न चायं गौणः, यौगिकत्वात्। तथा च गौणमुख्यन्यायऽप्रवृत्त्यानक्षत्रग्रहणमावश्यकमिति भावः।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ छन्दसि ७।१ ६२ पुनर्वस्वोः ६।२ एकवचनम् १।१ ६२ नक्षत्रे ७।१ ६० द्वयोः ७।२ ५९ अन्यतरस्याम् ७।१ ५८

काशिका-वृत्तिः
छन्दसि पुनर्वस्वोरेकवचनम् १।२।६१

अन्यतरस्याम् इत्यनुवर्तते। द्वयोर् द्विवचने प्राप्ते पुनर्वस्वोश् छन्दसि विषये एकवचनम् अन्यतरस्यां भवति। पुनर्वसुर् नक्षत्रम् अदितिर् देवता। पुनर्वसू नक्षत्रम् अदितिर् देवता। नक्षत्रे इत्येव। पुनर्वसू माणवकौ। छन्दसि इति किम्? पुनर्वसू इति।
न्यासः
छन्दसि पुनर्वस्वोरेकवचनम्। , १।२।६१


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ विशाखयोः ६।२ छन्दसि ७।१ ६१ एकवचनम् १।१ ६१ नक्षत्रे ७।१ ६० अन्यतरस्याम् ७।१ ५८

काशिका-वृत्तिः
विशाखयोश् च १।२।६२

छन्दसि इति वर्तते। द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनम् अन्यतरस्यां भवति। विशाखं नक्षत्रम् इन्द्राग्नीं देवता। विशाखे नक्षत्रम् इन्द्राग्नी देवता।
लघु-सिद्धान्त-कौमुदी
पूर्ववत्सनः ७४५, १।२।६२

सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिष्यते॥
न्यासः
विशाखयोश्च। , १।२।६२


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ तिष्यपुनर्वस्वोः ६।२ नक्षत्रद्वन्द्वे ७।१ बहुवचनस्य ६।१ द्विवचनम् १।१ नित्यम् १।१

काशिका-वृत्तिः
तिष्यपुनर्वस्वोर् नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् १।२।६३

छन्दसि इति निवृत्तम्। निष्यः एकः, पुनर्वसू द्वौ, तेषं द्वन्द्वो बह्वर्थः। तत्र बहुवचने प्राप्ते द्विवचनं विधीयते। निष्यपुनर्वस्वोः नक्षत्रविषये द्वन्द्वे बहुवचनप्रसङ्गो नित्यं द्विवचनं भवति। उदितौ तिष्यपुनर्वसू दृश्येते। तिष्यपुनर्वस्वोः इति किम्? विशाखानुराधाः। नक्षत्रे इति किम्? तिष्यश्च माणवकः, पुनर्वसू माणवकौ, तिष्यपुनर्वसवो माणवकाः। ननु च प्रकृतम् एव नक्षत्रग्रहणं किमर्थं पुनरुच्यते। पर्यायाणाम् अपि यथा स्यात्। तिष्यपुनर्वसू। पुष्यपुनर्वसू। सिद्ध्यपुनर्वसू। द्वन्द्वे इति किम्? यस्तिष्यस्तौ पुनर्वसू येषां ते इमे तिष्यपुनर्वसवः। उन्मुग्धाः तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते। तेन नक्षत्रसमास एव अयम्। बहुवचनस्य इति किम्? एकवचनस्य मा भूत्। निष्यपुनर्वसु इदम् इति। सर्वो द्वन्द्वो विभाषा एकवद् भवति इत्यस्य एतद एव ज्ञापकम्। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्।
न्यासः
तिष्यपुनर्ववस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्। , १।२।६३

"तिष्यपुनर्वसवो माणवकाः" इति। तिष्यपुनर्वसुशब्दाभ्यां "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यण् भवति। तस्य "लुबविशेषे" ४।२।४ इति लुप्। ततस्तिष्ये जातो माणवकः पुनर्वस्वोर्जातौ माणवकाविति "सन्धिवेलादि" ४।३।१६ इत्यादिनाऽण्, तस्य "श्रविष्ठाफल्गुन्यनुराधा" ४।३।३४ इत्यादिना लुप्। "पर्यायाणामपि यथा स्यात्" इति। नक्षत्रग्रहणे सत्यर्थग्रहणादेतद्भवति। शब्दग्रहणे च "स्वं रूपम्" १।१।६७ इत्यषा परिभाषा भवतीत्युक्तमेतत्। तदभावे पर्यायाणामपि भवति। "सिद्ध्यपुनर्वसू" इति। सिद्ध्यशब्दस्तिष्यपर्यायः। "यस्तिष्यस्तौ पुनर्वसू येषाम्" इत्यवयवेन विग्रहं दर्शयति। समुदायस्तु समासार्थो वेदितव्यः। अथ तिष्यपुनर्वसव इति? बहुव्रीहिणा विपर्यस्तमतयः पुरुषा एवैवमुच्यन्ते। ततश्च नक्षत्रसमास एवायं न भवति। तत् किमेतन्निवृत्त्यर्थेन द्वन्द्वग्रहणेनेत्येवं यो देशयेत् तं प्रत्याह-- "तिष्यादय एव" इत्यादि। स्वदर्णनापराधादन्यथा तिष्यादीन् दृष्ट्वा प्रतिपत्तृभिस्त ए तिष्यादयो विपर्ययेण दृश्यमाना बहुव्रीहिणैवमुच्यन्ते, न तु पुरुषाः। तस्मान्नक्षत्रसमास एवायम्। "तिष्यपुनर्वस्विदम्" इति। केन पुनरत्रैकवद्भावः? "जातिरप्राणिनाम्" २।४।६ इति चेत्, न; संज्ञाशबद्त्वात्, देवदत्तादिशब्दवत्। नायं जातिशब्दः,अनेकधारा हि जातिर्भवति, न च तिष्यादिस्तथा। किञ्च वक्ष्यति-- "जातिप्रधानपरत्वे च जातिद्रव्याणामयमेकवद्भावः, न नियतद्रव्यविवक्षायाम्" इति; नियतद्रव्यविवक्षा चात्र, तस्मान्न "जातिरप्राणिनाम्" इत्यनेनैकवद्भाव उपपद्यते। न चान्यदेकवद्भावलक्षणमस्ति। तत्र तिष्यपुनर्वस्वोर्नक्षत्रे द्वन्द्वसमासे बहुत्वाद्बहुवचनेन भवितव्यम्। एवञ्च बहुवचनग्रहणमनर्थकमित्यत आह-- "सर्वो द्वन्द्वो विभाषा" इत्यादि। यदयमेकवचननिवृत्त्यर्थं बहुवचनग्रहणं करोति, ततोऽवसीयते-- अस्तीयम्परिभाषा "सर्वो द्वन्द्वो विभाषैकवद्भवतिट (व्या।प।९१) इति। तेनेह बहुवचनग्रहणमेकवचननिवृत्त्यर्थं कृतिमित्यभिप्रायः।
बाल-मनोरमा
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ८१०, १।२।६३

तिष्यपुनर्वस्वो। विशाखानुराधा इति। विशाखे च अनुराधाश्चेति विग्रहः। तिष्यपुनर्वसव इति। तिष्यश्च पुनर्वसू चेति विग्रहः। तिष्यशब्दात्पुनर्वसुशब्दाच्च "नक्षत्रेण युक्तः" इत्यण्। "लुबविशेषे" इति लुप्। ततो जातार्थे सन्धिवेलाद्यण्। "श्रविष्ठाफल्गुनी"त्यादिना लुक्। "जात्याख्याया"मित्यादिचतुःसूत्र्या अत्र सङ्गतिश्चिन्त्या।

तत्त्व-बोधिनी
तिष्यपुनर्वस्वौर्वक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ७११, १।२।६३

तिष्यपुनर्वस्वोः। विशाखानुराधा इति। विशाखे चानुराधाश्चेति विग्रहः। तिष्यपुनर्वसव इति। तिष्यपुनर्वसुशब्दाभ्यां पूर्ववत् "नक्षत्रेण युक्तः कालः"इत्यण्, "लुबविशेषे"इति च लुप्। ततो जातार्थे सन्धिवेलादिसूत्रेण अण्, तस्य तु "श्रविष्ठाफल्गुन्यनुराधे"त्यादिना लुक्। नक्षत्र इत्यनुवर्तमाने पुनर्नक्षत्रग्रहणं पर्यायाणामपि यथा स्यादित्येतदर्थमित्याकारः। एवं च "सिध्यपुनर्वसू"इत्यपि सिध्यतीति दिक्। बहुवचनस्य किम्()।, इदं तिष्यपुनर्वसु। "चार्थे द्वन्द्व"इति समाहारद्वन्द्वोयम्।


प्रथमावृत्तिः

सूत्रम्॥

पदच्छेदः॥ सरूपाणाम् ६।३ एकशेषः १।१ ७३ एकविभक्तौ ७।१

काशिका-वृत्तिः
ससूपाणाम् एकशेष एकविभक्तौ १।२।६४

समानं रूपम् एषाम् इति सरूपाः। सरूपाणां शब्दानं एकविभक्तौ परत एकशेषो भवति। एकः शिष्यते तरे निवर्तन्ते। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च व्र्क्षश्च वृक्षाः। प्रत्यर्थं शब्दनिवेशान् न एकेन अनेकस्य अभिधानम्। तत्र अनेकार्थाभिधाने ऽनेकशब्दत्वं प्राप्तं तस्मादेकशेषः। सरुपाणाम् इति किम्? प्लक्षन्यग्रोधाः। रूपग्रहणं किम्? भिन्ने ऽप्यर्थे यथा स्यात्। अक्षाः। पादाः। माषाः। एकग्रहणं किम्? द्विबह्वोः शेषो मा भूत्। शेषग्रहनं किम्? आदेशो मा भूत्। एकविभक्तौ इति किम्? पयः पयो जरयति। ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि।
लघु-सिद्धान्त-कौमुदी
सरूपाणामेकशेष एकविभक्तौ १२५, १।२।६४

एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते॥
न्यासः
सरूपाणामेकशेष एकविभक्तौ। , १।२।६४

"सरूपाणाम्" इति बहुव्रीहौ कृते "ज्योतिर्जनपद" ६।३।८४ इत्यादिना समानस्यसभावः। रूपशब्दोऽत्र स्वभावे वत्र्तते। "सरूपाणां शब्दानाम्" इति निर्धारणे षष्ठी। तेन स्वरूपाणां मध्ये समानजातीयो यः सरूपः, स एक एव शिष्यते, न विरूपः। समानजातीयस्यैव हि निर्धारणं भवति, न विजातीयस्य। अथ वा-- समुदायलक्षणैषा षष्ठी, सरूपसमुदायान्तः पाती च सरूप एव भवति, न विरूपः। तेन सरूप एव शिष्यते। "एक विभक्तौ" इति। एकशब्दः समानार्थः, एकधनाविति यथा। एका चासौ विभक्तिश्चेति "पूर्वकालैक" २।१।४८ इत्यादिना समासः। एकमेकशेष इत्यत्रापि। अत्र त्वेकशब्दः संख्यावचनः, शेषशब्दोऽयं निवृत्त्या विशिष्टवस्थानमाह, नावस्थानमात्रम्। अत एवाह-- "एकः शिष्यते, अपरे निवत्र्तन्ते" इति। "वृक्षश्च वृक्षश्च वृक्षौ" इत्यादि। अविभक्तिकानामयमेकशेषः; अनैमित्तकत्वाद्विभक्तेः। न ह्रयं परां विभक्तिमाश्रित्य विधीयते। एकविभक्तावितीहसारूप्योपलक्षणमेतत्, न निमित्तनिर्देशः। एकस्यां विभक्तौ परतो यानि रूपाणि दृष्टानि, तेषामनुत्पन्नायामेव विभक्तौ प्रातिपदिकानामेकशेषो भवति। ततः कृत एकशेषे विभक्तिरुपपद्यते। अथ वा -- सविभक्तिकानामेवैकशेषः, कथम्? विभक्तिशब्देन हि कारकमभिधीयते, विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। तदेतदुक्तं भवति-- एकस्मिन् समानेऽभिन्ने कारके यानि सरूपाणि तेषामेवैककारकाणामेकशषो भवतीति। यद्येवम्, "परतः" इति वृत्तिग्रन्थो नोपपद्यते, कारकं ह्रर्थसमवायिनी शक्तिः, न च तया शब्दानां पौर्वापर्यं सम्भवति, कथञ्च विभक्तिशब्देन कारकेऽभिधीयमाने सविभक्तिकानामेकशेषो लभ्यते? उच्यते; वृत्तिग्रन्थस्तावदुपपद्यते-- परशब्दो ह्रयमिष्टवाची, एकविभक्तौ परतः = एकस्यां विभक्ताविष्टायामित्यर्थः। विषयसप्तमी चेयम्, सति सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति चेत्यर्थः। किञ्चेष्टं कारकं भवति? यद्विवक्षितम्। अत ए विवक्षितत्वात् कारकं स्वनिमित्तां विभक्तिकानामेकशेषो लभ्यते। सहभावविवक्षायाञ्चायमेकशेषो भवति। यद्येकेन युगपत् सर्वेषामर्थोऽभिधातुमिष्यत एवं सति भवति; नान्यथा। ननु च जातिः पदार्थः, जातिश्चैकैव; तत्रैकत्वाज्जातेर्बहूनां शब्दानां प्रसङ्ग एव नास्ति,तत्किमेकशेषारम्भेण? इति चोद्यावसरे "द्रव्यं पदार्थः" इत्येतद्दर्शनमाश्रित्याह-- "प्रत्यर्थम्" इत्यादि। प्रत्यर्थम् = एकैकस्मिन्नर्थे यस्माच्छब्दानां निवेशप्रवृत्तिस्ततोऽकेन शब्देनानेकार्थ्सयाभिधानम्। तत्रैतद्दर्शनेऽकेषामर्थाभिधाने प्रत्येकेनैव कर्तव्येऽनेकशब्दत्वं प्रसज्यत इति यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, इष्यते चैकशब्दता। तस्मादेकशेष आरभ्यते। "रूपग्रहणं किम्" इति। एवं मन्यते-- रूपग्रहणे क्रियमाणे पदद्वयसमनुगम्योऽर्थेः प्रतिपत्तव्य इति प्रतिपत्तिगौरवं भवति। समानानामित्युच्यमाने सत्येकपदसमनुहम्योऽर्थः प्रतीयत इति प्रतिपत्तिलाघवं भवति; तस्मात् समानग्रहणमेव कत्र्तव्यमिति? भिन्नेऽप्यर्थे यथा स्यादिति रूपग्रहणम्। यदि रूपग्रहणं न क्रियेत तदा विशेषानभिधानाद्यत्र सर्व समानं शब्दोऽर्थश्च तत्रैव स्याद्()वृक्षा इत्यादौ, अक्षा इत्यादौ तु न स्यात्; अर्थभेदात्। तथा ह्रक्षशब्द इन्द्रियाख्ये, शकटाङ्गे, बिभीतकादावर्थे च वर्ततेष पादशब्दोऽपि कार्षापण-- श्लोकपाद-- पाणिपदादावर्थे वर्तते, माषशब्दोऽपि व्रीह्रादौ। "द्विबह्वोः शेषे मा भूत्" इति। ननु च "शेष" इत्येकत्वसंख्याविवक्षायां द्वयोर्बहूनाञ्च शेषो न भविष्यति,नैतदेवम्; इह विधीयमानत्वाच्छेष एव प्रधानम्, न च प्रधाने संख्या विवक्ष्यते। तथा हि-- "कर्त्तुरीप्सिततमं कर्म" १।४।४९ इति कर्मसंज्ञा; ईप्सिततमस्य प्राधान्यात्। असत्यां संख्याविवक्षायां द्वयोर्बहूनाञ्च कर्मसंज्ञा भवति। गुणे तु संख्या विवक्ष्यते, यथा-- "ङयाप्प्रातिपदिकात्" ४।१।१ इति स्वादयो विधीयमानत्वात् प्रधानम्; ङयाप्प्रातिपदिकमप्रधानमिति तत्र संख्या विवक्ष्यते। तेनैकैक्मादेव स्वादय उपपद्यन्ते। लक्षणानुरोधाद्गुणेऽपि क्वचित् संख्या न विवक्ष्यते, यथा इहैव-- सरूपाणामिति। तेन द्वयोरपि सरूपयोरेकः शिष्यते। "आदेशो मा भूत्" इति। असति शेषग्रहणे सरूपाणामिति स्थानषष्ठीयं स्यात्; ततशचादेशः स्यात्। एवञ्च "अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्" (द।उ।८।१२५) इति क्वन्प्रत्ययान्तोऽ()आशब्दो नित्स्वरादाद्युदात्त इति द्वयोर()आशब्दयोराद्युदत्तयोः स्थान आद्युदात्तद्वयवानेवादेशः स्यात्; आन्तरतम्यात्। "पयः" इत्यादि। एकः पयः शब्दः प्रथमान्तः कर्तृपदम्, द्वितीयो द्वितीयान्तः कर्मपदम्, ततो भिन्नविभक्तिकत्वम्;नैकविभक्तिपरत्वमित्येकशेषो न भवति। " ब्राआहृणाभ्याम्" इति। प्रथमो ब्राआहृणशब्दस्तृतीयान्तः,द्वितीयस्तु चतुथ्र्यन्तः। तेनात्रापि समानविभक्तिकत्वं नास्ति॥
बाल-मनोरमा
सरूपाणामेकशेष एकविभक्तौ १८७, १।२।६४

अथ प्रातिपदिकार्थगतद्वित्वादिविक्षायां प्रातिपदिकस्य द्वित्र्यादिप्रयोगप्राप्ताविदमारभ्यते--सरूपाणाम्। "एकविभक्ता"विति "सरूपाणा" मि