अन्यतरस्याम् इति वर्तते। हल उत्तरेषां यमां यमि परतो लोपो भवति अन्यतरस्याम्। शय्य्या इत्यत्र द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य वा लोपो भवति। शय्या, शय्य्या। अदितेरपत्यमादित्य्यः इत्यत्र तकारात् परः एकः यकारः,यणो मयः इति क्रमजो द्वितीयः, तत्र मध्यमस्य वा लोपो भवति। आदित्यः, आदित्य्यः। आदित्यो देवता अस्य स्थालीपाकस्य इति आदित्य्यः इत्यत्र अपि द्वौ यकारौ क्रमजस्तृतीयः। तत्र मध्यमस्य मध्यमयोर् वा लोपो भवति। हलः इति किम्? आन्नम्। यमाम् इति किम्? अग्निः। अर्ध्यम्। यमि इति किम्? शार्ङ्गम्।
"शय्य्येत्यत्र द्वौ यकारो" इति। एकः "संज्ञायां समज"
३।३।९९ इत्यादिना विहितस्य क्यपोऽवयवः, अपरस्त्वपङः। "क्रमजस्तृतीयः" इति। क्रमः=आनुपूर्वी, ततो जातः क्रमजः। स पुनः "अनचि च"
८।४।४६ इत्यनेन यो विहितः, स हि पूर्वयकाराभ्यां पश्चाज्जात इति क्रमजो भवति।
"तकारत् परो यकार एकः" [एको यकारः--काशिका] इति। "दित्यदित्यादित्य"
४।१।८५ इत्यादिना विहितस्य ण्यस्यावयवः। "द्वौ यकारौ" इति।
एकोऽदितिशब्दात्? "तस्यापत्यम्()"
४।१।९२ इत्यर्थे "दित्यदित्या"दिसूत्रेण
४।१।८५ विहितस्यावयवः। द्वपितीयस्त्वादित्यशब्दादेव "साऽस्य देवता"
४।२।२३ इत्यर्थे तेनैव सूत्रेण विहितस्य ण्यस्यावयवः। "क्रमजस्तृतीयः" इति। "यणो मयः" (वा।९५६) इत्यनेन यो विहितः। "मध्यमस्य मध्यमयोर्वा" इति।
अन्यतरस्याम्? ८।४।६१ इत्यधिकारात्()। यद्येकस्य भवति ततो मध्यमस्य, अथ द्वयोरिति ततो मद्यमयोः। "आश्नम्()" इति। "अन्नाष्णः" (४।४।
८५) इति निपातनात्? "अदो जग्धिर्ल्यप्ति किति"
२।३।३६ इति न भवति जग्ध्यादेशः, "रदाभ्याम्()"
८।२।४२ इत्यादिना निष्ठानत्वम्()। भवत्ययं नकारो यम्(), यमि परतश्च; न च हल उत्तरः,
किं तर्हि? अचः। "अध्र्यम्()" इति। "पादार्धाभ्याञ्च"
५।४।२५ इति तादर्थे यत्()। अत्र घकारो रेफादुत्तरो भवति, यकारे यमि परतः।
न त्वयं यम्? धकारः; तस्य यम्त्वसन्निवेशात्()। "शाङ्गंम्()" इति। शृङ्गस्य विकार इत्यण्(), आदिवृद्धिः, रपरत्वम्()।
अत्र ङकारो यम्? हल उत्तरो भवति,
न तु तस्मात् परो यम्? गकारः; तस्य यम्प्रत्याहारेऽसन्निवेशात्()। नत्वादिवृद्धिस्तद्धिताश्रया बहिरह्गा भवति;
न तु तस्मात्? परो यम्? गकारः; तस्य यम्प्रत्याहारेऽसन्निवेशात्()। नत्वादिवृद्धिस्तद्धिताश्रया बहिरङ्गा भवित; लोपस्त्वन्तरङ्गः, ततश्चान्तरङ्गे लोपे कत्र्तव्ये वृद्धेरसिद्धत्वम्(),
तस्या असिद्धत्वात्? तदाश्रितस्य रेफस्याप्यसिद्धत्वमेव।
एवं च सति ङकारो हल एव परो न भवतीति यत्? केचिच्चोदयन्ति तन्मतमिदं नोपन्यसनीयमेव; मूलोदाहरणेऽपि तथा सम्भवात्()॥
उभयत्रापि प्रथमयकारस्य लोपविधिमाह--हलो यमां यमि लोपः। "झयो होऽन्यतरस्या"मित्यतोऽन्यतरस्यामित्यनुवर्तते। तच्च विभक्तिप्रतिरूपकमव्ययं वार्थे वर्तते। यमामिति बहुत्वं प्रयोगबहुत्वापेक्षम्। एकैकस्मिन् प्रयोगे बहूनां यमामसम्भवात्। "हल" इति दिग्योगे पञ्चमी। "परस्ये"ति शेषः। तदाह-हलः परस्य यम इत्यादिना। अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूपे संपद्यते। लोपाऽभावपक्षे तु द्वियकाररूपं संपद्यते। ननु "हलो यमा"मिति सूत्रमेतदर्थं नारम्भणीयम्, अचो रहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य, द्वित्वाऽभावे एकयकाररूपस्य च सिद्धेरित्याशङ्क्य नास्य सूत्रस्यात्र प्रयोजनमित्याह--इति लोपेति। तर्हि किमस्य सूत्रस्य फलमित्यत आह--लोपारम्भेति। "दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः" इत्यादित्यशब्दाच्छेषार्थण्यान्ताद्देवतार्थेण्यः। आदित्य--य इति स्थिते "यस्येति चे"ति यकारादकारस्य लोपे तकाराद्यकारस्याऽनेन सूत्रेण लोपः। तस्मिन् सत्येव आदित्यमित्येकयकारं रूपं सिध्यति, नान्यथा। अतः सूत्रारम्भो न विफल इति भावः। अत्र "आपत्यस्य च तद्धितेऽनाती"ति लोपस्तु न, जाताद्यर्थकत्वेन आपत्यत्वाऽभावात्। अत्र त्वतत्सूत्रं न्याय्यत्वादुपन्यस्तमिति भावः। नन्वेवमपि महात्मनो भाव इत्यर्थे "गुणवचनब्राआहृणादिभ्यः" इति ष्यञि टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपः स्यात्, तस्य यम्त्वात्, यकाररूपयम्परकत्वाच्चेत्यत आह--यमामिति। यथासंख्यविज्ञानादिति। विज्ञायते अनेनेति विज्ञानं=सूत्रम्। "विज्ञानं शिल्पशास्त्रयोः" इत्यमरः। यथासंख्यसूत्रादित्यर्थः। तथाच मकारस्य मकारे परत एव लोपलाभाद्यकारे परे न लोप इत्यर्थः।