सूत्रम्
वा निंसनिक्षनिन्दाम्॥ ८।४।३२
काशिका-वृत्तिः
वा निंसनिक्षनिन्दाम् ८।४।३३
उपसर्गातित् वर्तते। निंस निक्ष निनद इत्येतेषां नकारस्य उपसर्गस्थान् निमित्तातुत्तरस्य वा णकारादेशो भवति। प्रणिंसनम्, प्रनिंसनम्। प्रणिक्षणम्, प्रनिक्षणम्। प्रणिन्दनम्, प्रनिन्दनम्। णोपदेशत्वादेतेषां नित्ये प्राप्ते विकल्पः।
न्यासः
वा निंसनिक्षनिन्दाम्?। , ८।४।३२
"णिसि चुम्बन" (धा।पा।१०२५), "णिक्षि रोषे" [नख--प्रांउ।पाठः] (धा।पा।६५९), णिदि कुतसायाम्()" (धा।पा।६६)।
णोपदेशत्वादेषाम्? "उपसर्ग"
८।४।१४ इत्यादिना नित्ये प्राप्ते विकल्पार्थमिदमारभ्यते। यद्येवम्(), न कत्र्तव्यं वाग्रहणम्(),
पृथग्योगकरणादेव विकल्पो भविष्यति? नैतदस्ति; विपर्ययोऽपि विज्ञायेत--अयं विधिर्नित्यः, स विभाषेति। "उपसरगादसमासे" (८।४।
१४) इत्यस्यानन्तरमस्मिन्? कत्र्तव्य इहास्य करणं पूर्वविधेर्नित्यत्वज्ञापनर्थम्()--द्वयोर्विभाषयोर्मध्ये ये वै विधयस्ते नित्या भवन्तीति॥
बाल-मनोरमा
वा निंसनिक्षनिन्दाम् ६६०, ८।४।३२
वा निंस। "कृत्यचः इत्यतः कृतीत्यनुवृत्तम्। अच इति च निवृत्तम्। तदाह-- एषां नस्येति।
तत्त्व-बोधिनी
वा निंसनिक्षनिन्दाम् ५५०, ८।४।३२