सूत्रम्
अवाच्चालम्बनाविदूर्ययोः॥ ८।३।६८
काशिका-वृत्तिः
अवाच् च आलंवनाऽविदूर्ययोः ८।३।६८
अवशब्दातुपसर्गातुत्तरस्य स्तन्भेः सकारस्य मूर्धन्यः आदेशो भवति, आलम्बने ऽर्थे आविदूर्ये च। आलम्बनम् आश्रयणम्। अविदूरस्य भावः आविदूर्यम्। आलम्बने तावत् अवष्टभ्यास्ते। अवष्टभ्य तिष्ठति। आविदूर्ये अवष्टब्धा सेना। अवष्टब्धा शरत्। आलम्बनाविदूर्ययोः इति किम्? अवस्तब्धो वृषलः शीतेन। अनिगर्थः आरम्भः।
न्यासः
अवाच्चालम्बनाविदूर्ययोः। , ८।३।६८
चकारः स्तम्भेरनुकर्षणार्थः। अनिणर्थोऽयभारम्भः। आलम्बनम्()श्रयणम। विदूरम्()=विप्रकृष्टम्(), ततोऽन्यदविदूरम्()। तत्पुनर्यदासन्नं यच्च नाप्यतिदूरं तद्वेदितव्यम्(), नासन्नमात्रम्()। आसन्नमात्रं यद्यभिमतं स्यात्(), तदासन्नग्रहणमेव कुर्यात्()। अविदूरस्य भाव आदिदूर्यम्()। अत एव निपातनान्नञ्पूर्वादपि तत्पुरुषादुत्तरो भावप्रत्ययः। ब्राआह्रणादित्वाद्वा। "अवष्टभ्य" इति। ल्यबन्तमेतत्()। आश्रित्येत्यर्थः। "अवष्टब्धा शरत्()" इति। आसन्नेत्यर्थः। अथ वा नाप्यासन्ना, नातिविप्रकृष्टेत्यर्थः। एष त्वर्थभेदः प्रकरणादिगम्यः। निष्ठातकारस्य "झषस्तथोर्धोऽधः"
८।२।४० इति धकारः, "झलां जशु झशि"
८।४।५२ इति भकारस्य वकारः।
"अवस्तब्धः" इति। अभ्यर्दित इत्यर्थः॥
बाल-मनोरमा
अवाच्चाऽऽलम्बनाऽऽविदूर्ययोः ११७, ८।३।६८
अवाच्च। आलम्बनं च आविदूर्यं चेति द्वन्द्वात्सप्तमीद्विवचनम्। एतोरिति। आलम्बनाविदूर्ययोरर्थयोर्विद्यमानस्य अवात्परस्य स्तम्भेरित्यन्वयः। अपूर्वविधिरयम्, इणः परत्वाऽभावादप्राप्तेः। आलम्बने-- यथा--यष्टिवष्टभ्य तिष्ठतीति। आश्रित्येत्यर्थः। आविदूर्य--सामीप्यम्। अवष्टब्धा गौः। निरुद्धा सति समीपे आस्त उत्यर्थः।
तत्त्व-बोधिनी
अवाञ्चाऽऽलम्बनाऽऽविदूर्ययोः ९२, ८।३।६८
अवाञ्चा। चकारश्चिन्त्यप्रयोजन इत्याहुः। आलम्बनमाश्रयणम्। यथा-- यष्टिमवष्टभ्य आस्ते। तामाश्रित्य तिष्ठतीत्यर्थः। आविदूर्यं-- सामीप्यम्।तच्च प्रयोगोपाधिः। अवष्टब्धा गौः। निरुद्धा सती समीपे आस्त इत्यर्थः। एतयोः किम्?। अवस्तब्धो वृषलः शीतेन। केचिदिह अविदूरशब्दात्स्वार्थे ष्यञ्। आविदूर्यमनतिदूरम्। ईषद्दूरमित्यर्थः। तथा च अविदूरशब्दात् "न नञ्()पूर्वात्तत्पुरुषा"दिति निषेधे प्राप्ते अतएव निपातनाद्भावप्रत्यय इति मनोरमाग्रन्थोक्तिर्नातीवोपयुज्यत इत्याहुः।