सूत्रम्
सदिरप्रतेः॥ ८।३।६६
काशिका-वृत्तिः
सदिरप्रतेः ८।३।६६
सदेः सकारस्य उपसर्गस्थान् निमित्तातप्रतेः उत्तरस्य मूर्धन्य आदेशो भवति। निषीदति। विषीदति। न्यषीदत्। व्यषीदत्। निषसाद। विषसाद। अप्रतेः इति किम्? प्रतिसीदति।
न्यासः
सदिरप्रतेः। , ८।३।६६
"सात्पदाद्योः"
८।३।११३ इति प्रतिषेधे प्राप्ते वचनम्()। सदिरिति सुब्व्यत्ययेन षष्ठ्याः स्थाने थमा। "निषीदति" इत। "षद्लृ विशरणगत्यवसादनेषु" (धा।पा।१४२७)। पाध्रादिसूत्रेण
७।३।७८ सोदादेशः। "निषसाद" इति। "सदिस्वञ्जोः परस्य लिटि" (८।३।
११८) इति प्रतिषेधादभ्यासात्? परस्य न भवति षत्वम्()॥
बाल-मनोरमा
सदिरप्रतेः ११५, ८।३।६६
प्रसङ्गादाह--सदिरप्रतेः। उपसर्गादिति। उपसर्गस्थादिणः परस्येत्यर्थः। सदिरिति षष्ठ()र्थे प्रथमेत्यभिप्रेत्याह-- सदेः सस्येति। निषीदतीत्युदाहरणम्।
बाल-मनोरमा
प्राक्सितादड्?व्यवायेऽपि १२०, ८।३।६६
प्राक्सतादिति। "उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता" इति शेषः। तेषामिति। पञ्चदशानामित्यर्थः। न्यषेधदिति। अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम्। अभ्युषुणोदित्यप्युदाहार्यम्।
तत्त्व-बोधिनी
सदिरप्रतेः ९०, ८।३।६६
सदिरप्रतेः। अप्रतेः किम्()। प्रतिसीदति। षष्ठ()र्थे प्रथमेत्याह-- सदेरिति।