शर्परे खरि परतो विसर्जनीयस्य विसर्जनीयादेशो भवति। शशः क्षुरम्। पुरुषः क्षुरम्। अद्भि प्सातम्। वासः क्षौमम्। पुरुषः त्सरुः। घनाघनः क्षोभणश्चर्षणीनाम्। न इति वक्तव्ये विसर्जनीयस्य विसर्जनीयादेशविधानं विकारनिवृत्त्यर्थम्, तेन जिह्वमूलीयोपध्मनीयौ न भवतः।
शर्? परो यस्मादिति वहुव्रीहिः। अथ परग्रहणं किमर्थम्(), न शरीत्येवोच्येत() अशक्यमेवं वक्तुम्(), एवं ह्रुच्यमाने शर एव केवलं निमित्तभावो विज्ञायेत, न खरीत्यनुवृत्तेः "वा शरि"
८।३।३६ इति विधानाच्च। विपर्ययस्तर्हि विज्ञार्येत--शरीति, तथा च नित्यः स्फोटः, पुरुषः स्थूल इत्यादादेव स्यात्(),
वासः क्षीममित्यादौ तु न स्यात्()? तस्माद्विपर्ययो मा विज्ञायीत्येवमर्थं परग्रहणम्()।
अथ किमर्थं विसर्जनीय इत्युच्यते, नेत्येवोच्येत,
सकारस हि प्रतिषेधे कृते विसर्जनीयः स्वेनैव रूपेणावस्थास्यते? इत्याह--"विमर्जनीयस्य" इत्यादि। तस्य विसर्जनीयसय विकारो जिह्वामूलीयादिः, तन्निवृत्त्यर्थ विसर्जनीयग्रहणम्(); अन्यथा यदि नेत्येवोच्येत, ततः "अनन्तरस्य विधिर्वा भवति प्रतिषेदो वा" (व्या।प।२९) इति सकारस्यैव विज्ञायेत। ततश्च जिह्वामूलीयादिर्विसर्जनीयस्य विकारः स्यादेव। विसर्जनीयग्रहणे तु तत्सामथ्र्यादेव न भवति॥