हरे एहि, विष्णो इह, श्रियै उद्यतः, गुरौ उत्क इत्यत्र एचां क्रमेण अयवायावादेशेषु कृतेषु यकारवकारयोर्वैकल्पिकं लोपं विधत्ते--लोपः शाकल्यस्य। "भो भगो" इत्यतोऽपूर्वस्येति, अशीति चानुवर्तते। "व्योर्लघुप्रयत्ने"त्यतो व्योरित्यनुवर्तते। वकारयकारयोरित्यर्थः। अपूर्वस्येति च व्योरित्यस्य विशेषणम्। अवर्णः पूर्वो यस्मात्स अपूर्वः। अपूर्वस्य वस्य यस्य चेति प्रत्येकमन्वयाभिप्रायमेकवचनम्। पदस्येत्यधिकृतमवर्णपूर्वकाभ्यां यकारवकाराभ्यां विशेष्यते। विशेषणत्वाच्च व्योरिति तदन्तता लभ्यते। ततश्चाऽवर्णपूर्वो यो वकारो यकारश्च, तदन्तपदस्य लोपः स्यादशि परत इत्यर्थः। अलो।ञन्त्यपरिभाषया तादृशपदान्तस्येति लभ्यते। शाकल्यग्रहणान्मतान्तरे न भवतीति गम्यते। ततश्च फलितमाह--अवर्णपूर्वयोरित्यादिना। "व्यो"रित्यनुवृत्तवपि वर्णसमाम्नाये यकारस्य प्राथम्याद्यवयोरित्युक्तम्। न च शाकल्यवंश्यानामेव पुरुषाणामेतल्लोपानुसरणं नान्येषामिति पुरुषभेदेन व्यवस्थार्थमेव शाकल्यग्रहणं कुतो न स्यादिति वाच्यम्, "न वेति विभाषे"ति सूत्रभाष्ये "आचार्यदेशशीलने च तद्विषयते"ति प्रस्तुत्य "इको ह्यस्वोऽङ्यो गालवस्य " "प्राचामवृद्ध#आ"दित्यादौ गालवाद्याचार्यग्रहणं, प्राचामुदीचामित्यादिदेशविशेषग्रहणं च अविशेषेण विकल्पार्थमेव, नतु तत्तद्वंश्यतत्तद्देशभेदेन प्रयोगव्यवस्थार्थमिति सिद्धान्तितत्वात्। ननु हरे एहीत्यत्र अयादेशे यकारस्य लोपे सति "ओमाङोश्चे"ति पररूपं स्यात्। विष्णो-इह,श्रियै-उद्यतः, गुरौ-उत्क इत्यत्र अवायावादेशेषु वकारयकालोपे आद्गुण #इति गुणः स्यादित्यत आह--पूर्वत्रेति। वकारयकारयोर्लोपस्याऽसिद्धत्वेन ताभ्यां व्यवहिततया।ञच्परकत्वाऽभावादाशङ्कितोऽच्सन्धिर्न भवतीत्यर्थः। तदेवमिक्सन्धिरेच्सन्धिश्च निरूपितः। तदुभयत्रातिप्रसङ्गमाशङ्क्य समाधत्ते--कानीत्यादिना। "यद्यपि, तथापी"त्यध्याहार्यम्। कानि सन्ति, कौ स्त इत्यत्र यद्यपि यणावादेशो प्राप्तौ तथापि न भवत इत्यन्वयः। नन्वत्र इकारौकारयोः सकारपरकत्वादच्()परकत्वाऽभावात् कथं यणावोः प्राप्तिरित्यत आह--अस्तेरल्लोपस्य स्थानिवद्भावेनेति। अस्()धातोरादादिकाल्लटिप्रथमपुरुषबहुवचने "सन्ती"ति रूपम्। प्रथमपुरुषद्विवचने तु "स्त" इति रूपम्। उभयत्रापि "श्नसोरल्लोपः" इति धात्वादेरकारस्य लोप इति स्थितिः। तत्राऽल्लोपस्य स्थानिवत्त्वेनाऽच्त्वादिकारौकारयोरच्परकत्लाद्यणावादेशौ प्राप्नुत इत्यर्थः। न च स्थानिवदादेशोऽनल्विधाविति स्थानिवद्भावोऽत्र न सम्भवति। अल्लोपस्य स्थानिभूतो योऽकारस्तं परं निमित्तत्वेनाश्रित्य प्रवर्तमानयोर्यणावादेशविध्योः स्थान्यलाश्रयत्वादिति वाच्यम्, "अचः परस्मिन् पूर्वविधौ" इति स्थानिवद्भावोपपत्तेः। अल्लोपस्य क्ङिति परे विधीयमानस्य परनिमित्तकाजादेशतया तत्स्थानीभूतादकारात्पूर्वत्वेन दृष्टयोरिकारोकारयोर्यणावादेशविधौ "अचः परस्मि"न्निति प्रवृत्तेरिति भावः।
तन्निषेधादिति। नच स्थानिवत्त्वनिषेधेऽपि "असिद्धं बहिरङ्गमन्तरङ्गे" इत्यल्लोपस्याऽसिद्धत्वाद्यणावादेशौ स्त एवेति वाच्यम्, पदद्वयाश्रयत्वेन तयोरेव बहिरङ्गत्वात्। "नाजानन्तर्ये" इति निषेधाच्च।