रु इत्यस्य रेफस्य सुपि परतो विसर्जनीयादेशो भवति। पयःसु। सर्पिःषु। यशःसु। सुपि इति सप्तमीबहुवचनं गृह्यते। सिद्धे सत्यारम्भो नियमार्थः, रोरेव सुपि विसर्जनीयादेशः, न अन्यस्य। गीर्षु धूर्षु।
"पयःसु, यशःसु" इति।
क्वचित्? सकारद्वयं पठ()ते। तत्र "वा शरि"
८।३।३६ इति विसर्जनीयस्य सकारः। "सर्पिःषु" इति। यत्र विसर्जनीयः पठ()ते तत्र "नुम्विसर्जनीयशव्र्यवायेऽपि"
८।३।५८ इति प्रत्ययसकारस्य षत्वम्()। यत्र सर्पिष्ष्विति षकारद्वयं पठ()ते, तत्र पूर्ववदेव विसर्जनीयस्य सकारे कृते पूर्ववदेव प्रत्ययसकारस्य वत्वम्(),
पूर्वस्य ष्टुत्वम्? ८।४।४०।
सुपीति प्रत्याहारग्रहणशङ्कानिरासायाह--"सुपि" इत्यादि। एतच्च "खरि" इत्यनुवत्र्तनाल्लभ्यते,
न हि सप्तमीबहुवचनदन्यः सुप्? क्षरादिरस्ति। मा भूत्(); खरीत्यनुवृत्तेः।
सप्तम्याः पकारेण प्रत्याहारग्रहणं कस्मान्न भवतीति? सम्भवति ["न सम्भवति--कांउ।पाठ] तत्र खरादिः सुप्()।
यदि स्यात्? किञ्च स्यात्()? अगीःकः, अधःक इत्यत्र नियमाद्विसर्जनीयो न स्यात्()। तस्माद्व्याख्यानमेव शरणम्()। किमर्थं पुनरिदम्(),
यावता ननु सिद्धः पूर्वेणैव विसर्जनीयः? इत्याह--"सिद्धे सति" इत्यादि। विपरीतनियमो नाशङ्कनीयः, "किमः क्षेपे"
५।४।७० इत्यादौ विसर्जनीयनिर्देशात्()। "गीर्णु", धूर्षु" इति। "र्थोरुपधायाः"
८।२।७६ इत्यादिना दीर्घः॥
रोः सुपि। "खरीत्यनुवृत्तेः सप्तमीबहुवचनमेवात्र सुप्। "खरवसानयो"रित्येव सिद्धे नियमार्थ एवैष विधिरित्याह--रोरेवेति। विपरीतनियमस्तु न, "हलोऽनन्तराः संयोगः" इति निर्देशात्। षत्वमिति। "आदेश प्रत्यययो"रित्यनेने"ति शेषः। रेफस्य इण्त्वेन ततः परत्वादिति भावः। षस्य द्वित्व इति। "अचो रहाभ्या"मित्यनेने"ति शेषः।
रोः सुपि। "सुपि"ति न प्रत्याहारः, "खरी"त्यनुवृत्तेः। तेन "पराभ्या"मित्यादौ विध्यर्थमेतन्न भवति। "खरवसानयो"रित्येव सिद्धेऽयमारम्भो नियमार्थ इत्याह--रोरेवेति। "रोः सुप्येव विसर्जनीयः"इति विपरीतनियमस्त्विह न भवति, "हलोऽनन्तराः संयोगः"इत्यादिनिर्देशात्।